सामग्री पर जाएँ

जैमिनीयं ब्राह्मणम्/काण्डम् ३/२५१-२६०

विकिस्रोतः तः
← कण्डिका २४१-२५० जैमिनीयं ब्राह्मणम्/काण्डम् ३
कण्डिका २५१-२६०
[[लेखकः :|]]
कण्डिका २६१-२७० →

अथ गौषूक्तं बहिर्निधनं बार्हतम्। तस्माद् बार्हते ऽहन् क्रियते। गौषूक्तिश् च वा आश्वसूक्तिश् चैषौ। तौ ह बहु प्रतिगृह्य गरगिराव् इव मेनाते। ताव् अकामयेताम् - अपेमं गरं गीर्णं हनीवहीति। ताव् एते सामनी अपश्यताम्। ताभ्याम् अस्तुवाताम्। तयोर् अन्यतरो ऽग्निर् आहुत इत्य् एवेमं लोकम् अभिनिराजुहोत्। अग्निं ह वा अस्मिन् लोके न किञ्चनातिरिच्यते। शुक्र आहुत इत्य् एवान्यतरो ऽमुं लोकम् अभिनिराजुहोत्। आदित्यम् उ ह वा अमुष्मिन् लोके न किञ्चनातिरिच्यते। ततो वै तौ तं गरं गीर्णम् अपाघ्नाताम्। तत एनयोर् यथा द्विदतः कुमारस्य सातं स्याद्, एवं सातम् आस। यो गरगीर् मन्येताप्रतिगृह्यस्य प्रतिगृह्यानाश्यान्नस्यान्नम् अशित्वा, स एताभ्यां स्तुवीत। अप हैव तं गरं गीर्णं हते। यद् एनेन किं च पापं कृतं भवति, तद् अपहते। ते उ पञ्चाक्षरणिधने भवतः - पञ्चपदा वै पंक्तिः पांक्ताः पशवः। पशवश् छन्दोमाः - पशूनाम् एवावरुद्धयै। यद् उ गौषूक्तिश् चाश्वसूक्तिश् चैषाव् अपश्यतां तस्माद् गौषूक्ताश्वसूक्ते इत्य् आख्यायते॥3.251॥


परीतो षिंचता सुतम् इति परिवतीर् भवन्त्य् अन्तस्य रूपम्। अन्त्यो ह्य् एतद् अहः। सोमो य उत्तमं हविर् इत्य् उत्तमं ह्य् एतद् धविः क्रियते यच् छन्दोमाः।
दधन्वां यो नर्यो अप्स्व् अन्तर् आ सुषाव सोमम् अद्रिभिः॥
नूनं पुनानो ऽविभिः परि स्रवादब्धस् सुरभिन्तरः।
सुते चित् त्वाप्सु मदामो अन्धसा।
इत्य् अन्ध्स्वतीर् भवन्त्य् - अन्नं वा अन्धो - ऽन्नाद्यस्यैवावरुद्ध्यै। श्रीणन्तो गोभिर् उत्तरम् इति गोमतीः पशुमतीर् भवन्ति पशूनाम् एवावरुद्ध्यै। पशवो हि छन्दोमाः। परि स्वानश् चक्षसे देवमादनः क्रतुर् इन्दुर् विचक्षण इति चतुर्ऋचं भवति - चतुष्पदा वै पशवः। पशवश् छन्दोमाः - पशूनाम् एवावरुद्ध्यै। तासु पृष्ठम्। पृष्ठेन वै देवाः पृष्ठं अभवन्। पृष्ठम् असामेति सत्रम् आसते। पृष्ठम् एव भवन्ति। देवा वा अकामयन्त पृष्ठं स्यामेति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै ते पृष्ठम् अभवन्। तत् पृष्ठम् वा अयम् अग्निर् अस्य लोकस्य, पृष्ठम् अयं वायुर् अन्तरिक्षस्य, पृष्ठम् असाव् आदित्यो दिवः। तत् पृष्ठम् इति वै प्रशंसन्त्य् अत्र प्रतिष्ठापयन्ति। तच् छ्रीर् वै पृष्ठं, वर्ष्म वै पृष्ठम्। अश्नुते श्रियं, वर्ष्म भवति य एवं वेद। तद् ऊर्ध्वेळं भवति बृहतो रूपं बार्हते ऽहन्। तेन वै रूप समृद्धम्॥3.252॥


अथ संकृति। त्रिरात्रेण वै देवा ऊर्ध्वा स्वर्गं लोकम् आयन्। स एषाम् असंगृहीतो वीवावृह्यत। तं गायत्रपार्श्वेणैवोदत्तभ्नुवन्, सन्तनिना समतन्वन्, संकृतिना समकुर्वंस्, त्रिषन्धिना समदधुः, श्रायन्तीयेन समश्रीणन्न्, अरिष्टेनारिष्टताम् अगमयन्। त्रिरात्रेण यद् देवा स्वर्गं लोकम् आयन्न् एतेन वै तद् आयन्। स एषां संव्यवृह्यत। तस्मिन्न् एतानि भूयिष्ठानि सामानि क्रियन्ते। एतम् एवैतत् त्रिरात्रं भिषज्यन्ति। भेषजम् एवैतेन प्रायश्चित्तिं कुर्वते। संकृतिना वै देवाः प्रजाः पशूञ् छ्रियम् अन्नाद्यं समकुर्वत। तत् संकृतिनस् संकृतित्वम्। प्रजाः पशूञ् छ्रियम् अन्नाद्यं संस्कुरुते य एवं वेद। तस्यो एते वृकणावा भवन्त्य्, उभय्या एव वाच उपाप्त्यै या च ग्राम्या या चारण्या। तच् चतुर्निधनं भवति - चतुष्पदा वै पशवः। पशवश् छन्दोमाः - पशूनाम् एवावरुद्धयै॥3.253॥


अथ कौन्मलबर्हिषम्। एतेन वै कुन्मलबर्हिर् उभयान् पशून् अस्पृणोत् गव्यांश् चाश्व्यांश् च। तान् एवैतेन स्पृणोति। कुन्मलबर्हिर् वा अकामयतोभयान् पशून् अवरुन्धीय गव्यांश चाश्व्यांश् चेति। स एतत् सामापश्यत्। तेनास्तुत।
त्वं ह्य् एहि चेरवे विदा भगं वसुत्तये।
उद् वावृषस्व मघवन् गविष्टय उद् इन्द्रो अश्वमिष्टये॥
इत्य् एव गव्यांश् चाश्व्यांश् च पशून् अवारुन्द्ध। तैर् उ पशुभिर् इष्टवा स्वर्गम् एव लोकम् अगच्छत्। तद् एतत् पशव्यं स्वर्ग्यं साम। अव पशून् रुन्द्धे गच्छति स्वर्गं लोकं य एवं वेद। यद् उ कुन्मलबर्हिर् अपश्यत् तस्मात् कौन्मलबर्हिषम् इत्य् आख्यायते॥3.254॥


अथ देवस्थानम्। एतेन वै तृतीयेन त्र्यहेण देवा ऊर्ध्वा स्वर्गं लोकम् आयन्। स एषाम् असंगृहीतो वीवास्रंसत। त एतत् सामापश्यन्। तेनैनम् ए ऽस्थाद् इदं ए ऽस्थाद् इदम् इत्य् एवास्थापयन्। तम् एतेनैवादृंहन्। तद् यद् एतेनास्थापयंस् तद् देवस्थानस्य देवस्थानत्वम्। तद् यद् अत्र देवस्थानं भवत्य् एतम् एवैतत् त्रिरात्रं प्रतिष्ठापयन्त्य्, एतं दृंहन्ति। तं संस्कृत्य तेन स्वर्गं लोकम् आयन्। तस्मिन् यत् स्वर्गे लोके समतिष्ठन्त तद् व् एव देवस्थानस्य देवस्थानत्वम्। ते यत्र स्वर्गं लोकम् आयंस् तद् धीदं सर्वं संगोपाञ्चक्रे यथास्यैतन्निधनम्। तेन हैतेन साम्ना महद् एवानपजय्यं जयति। तस्यैष श्लोको -
वैरूपं देवा अभिसंवसानास् तदातस्थुस् तद् उ हैषां व्यारते।
हिंकृत्य पुनर् आरुह्य सर्वं एवाधून्वत जरसं तनूनाम्॥
इति। त एतम् एव छन्दोम्यं त्र्यहं संस्कृत्य देवस्थानम् एव साम समारुह्य स्वर्गं लोकम् अगच्छन्। तस्यो एवैष श्लाको -
यद् वैरूप उपहते व्यद्ध्वे हिंकृण्वन्तस् समतिष्ठन्त यामम्।
तद् देवस्थानम् असृजन्त साम तेन देवासो अमृतत्वम् आयन्॥
इत्य् एवामृतत्वम् अगच्छन्॥3.255॥


प्रजापतिर् अन्नाद्यम् असृजत। तत् क्षयाद् बिभ्यद् दिशो व्युदक्रामत्। सो ऽकामयतावान्नाद्यं रुन्धीयेति। स एतत् सामापश्यत्। तेनैनद् ए ऽस्थाद् इदम् ए ऽस्थाद् इदम् इत्य् एव सर्वाभ्यो दिग्भ्यो ऽन्नाद्यम् अवारुन्द्ध। स यो ऽन्नाद्यकाम स्याच् चतुर् ब्रूयात्। तचस्रो दिशः। दिग्भ्य एवान्नाद्यम् अवरुन्द्धे। अथ य स्वर्गकाम स्यात् त्रिर् ब्रूयात् - त्रयो वा इमे लोका - एषां लोकानां समष्टयै। अथार्कपुष्पम् - अन्नं वा अर्कः। तस्यैतत् पुष्पं यद् आरण्यम्। तद् ध्य् अरण्ये जायत् - आरण्यस्यैवान्नाद्यस्यावरुद्ध्यै। देवा वै स्वर्गकामास् तपो ऽतप्यन्त। त एते सामनी अपश्यन्। ताभ्याम् अस्तुवत। ततो वै ते स्वर्गं लोकम् आश्नुवत। ते एते स्वर्ग्ये सामनी। अश्नुते स्वर्गं लोकं य एवं वेद। तद् यथा वा अदो वृष्टे नियाने ऽनुददृशाते एवम् एवैताभ्यां स्वर्गो लोको ऽनुददृशे। ते उ स्वर्ग्ये। अश्नुते स्वर्गं लोकं य एवं वेद॥3.256॥


अथ दैर्घश्रवसम् - अन्नं वै दैर्घश्रवसम् - अन्नाद्यस्यैवावरुद्ध्यै। दीर्घतमा वै मामतेयस् सनिं प्रयन्न् अब्रवीद् दीर्घश्रवसं कनीयांसं भ्रातरम् - एतेषां नो भार्याणाम् अध्यक्ष स्या इति। सो ऽकामयत दीर्घश्रवा - अवान्नाद्यं रुन्धीय, नेमे भार्या अशनायेयुर् इति। स एतत् सामापश्यत्। तेनाग्निम् अस्तौद् -
यो विश्वा दयते वसु होता मन्द्रो जनानाम्।
मधोर् न पात्रा प्रथम न्य् अस्मै प्र स्तोमा यन्त्व् अग्नये॥
इति। सो ऽस्मा अग्नि स्तुतस् सर्वम् एवेदं मधुमयम् अन्नाद्यम् अकरोत्। ते हास्य भार्या आसुर् यथा मध्व् अश्नन्त एवम्। स हैष महान् एव रसो, महद् एवैतद् अन्नाद्यम्। तेन हैतेन साम्ना महद् एवान्नाद्यम् अवरुन्द्धे। यद् उ दीर्घश्रवा अपश्यत् तस्माद् दैर्घश्रवसम् इत्य् आख्यायते॥3.257॥


अथ यशः। यशसा वै देवा यशो ऽभवन्। यशो ऽसामेति सत्रम् आसते। यश एव भवन्ति। तच् छ्रीर् वै यशः। अश्नुते श्रियं य एवं वेद। तद् उ सप्तत्रिंशदक्षरणिधनं भवति। षट्त्रिंशदक्षरा वै बृहती। बृहती स्वर्गो लोकः। असाव् आदित्यस् सप्तत्रिंशः। एतस्मिन्न् एव तत् स्वर्गे लोके ऽन्ततः प्रतितिष्ठन्ति। तस्यो एतां कल्याणीम् आशिषम् अन्तत आशासत आयुर् विश्वायुर् विश्वं विश्वम् आयुर् अशीमहीति। तयैवैतत् समृध्योदृचम् अश्नुवते। अथ शुल्कः। शुल्केन वै देवाश् शुल्को ऽभवन्। शुल्को ऽसामेति सत्रम् आसते। शुल्क एव भवन्ति। तच् छ्रीर् वै शुल्कः। अश्नुते श्रियं य एवं वेद। तद् व् एवाचक्षत आश्वम् इति। देवा वै स्वर्गकामास् तपो ऽतप्यन्त। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै ते स्वर्गं लोकम् आश्नुवत। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं वेद। अथ भर्गः। भर्गेण वै देवा भर्गो ऽभवन्। भर्गो ऽसामेति सत्रम् आसते। भर्ग एव भवन्ति। तच् छ्रीर् वै भर्गः। अश्नुते श्रियं य एवं वेद। अथाभिशवम् उभयाभीशुतायै। यथा हैकाभीशुना यायाद् एवं तद् यद् अन्यतरद्, अथ यथोभयाभीशुना यायाद् एवं तद् यद् उभे। एताभ्यां वै द्वादशरात्रो ऽरिष्टस् संगृहीत एति। अरिष्टेन संगृहीतेन द्वादशरात्रेण पाप्मानं तरति श्रियम् अश्नुते य एवं वेद॥3.258॥


अथ दीर्घतमसो ऽर्को - ऽन्नं वा अर्को - ऽन्नाद्यस्यैवावरुद्धयै। दीर्घतमा वै मामतेयो ऽन्नाद्यकामस् ततो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। ततो वै सो ऽन्नाद्यम् अवारुन्द्ध। तद् एतद् अन्नाद्यस्यैवावरुद्धिस् साम। अवान्नाद्यं रुन्द्धे ऽन्नाद श्रेष्ठ स्वानां भवति य एवं वेद। यद् उ दीर्घतमा मामतेयो ऽपश्यत् तस्माद् दीर्घतमसो ऽर्क इत्य् आख्यायते। असावि सोमो अरुषो वृषा हरिर् इति वृषण्वतीर् भवन्ति बृहतो रूपम्। बार्हतम् एतद् अहः।
राजेव दस्मो अभि गा अचिक्रदत्।
पुनानो वारम् अत्य् एष्य् अव्ययं श्येनो न योनिं घृतवन्तम् आसदत्॥
पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षयं दधे।
स्वसार आपो अभि गा उद् आसरन् सं ग्रावभिर् वसते वीते अध्वरे॥
इति गोमतीः पशुमतीर् भवन्ति पशूनाम् एवावरुद्धयै। पशवो हि छन्दोमाः।
कविर् वेधस्या पर्य् एषि माहिनम् अत्यो न निक्तो अभि वाजम् अर्षसि।
अपसेधं दुरिता सोम नो मृड घृता वसानः परि यासि निर्णिजम्॥
इति परिवतीर् भवन्त्य् अन्तस्य रूपम्। अन्तो ह्य् एतद् अहः॥3.259॥


तासु सामराजम्। श्रीर् वै राज्यम्। अश्नुते श्रियं गच्छति राज्यं य एवं वेद। तद् व् एवाचक्षते संवद् इति। प्रवता वै देवा स्वर्गं लोकम् आयन्न् उद्वतोदपतन्। संवता समाश्नुवत। तद् यद् एतानि सामानि भवन्ति प्रवतैव स्वर्गं लोकं प्रयन्त्य्, उद्वतोत्पतन्ति। संवता समश्नुवते। तान्य् उ वाङ्निधनानि भवन्ति। वाचश् छन्दोमैस् समिच्छन्ति। आप्तेव वा एतर्हि वाग् भवति। छन्दोमेषु तद् यद् एतानि वाङ्गनिधनानि भवन्ति, ताम् एवैतद् वाचं प्रत्यक्षम् उपयन्ति॥3.260॥