सामग्री पर जाएँ

जैमिनीयं ब्राह्मणम्/काण्डम् ३/२३१-२४०

विकिस्रोतः तः
← कण्डिका २२१-२३० जैमिनीयं ब्राह्मणम्/काण्डम् ३
कण्डिका २३१-२४०
[[लेखकः :|]]
कण्डिका २४१-२५० →

तासु धर्म। धर्मणा वै देवा धर्मम् आदायासुराणां विधर्मणैनान् विधर्मणः कृत्वा पराभावयन्। धर्मणैव धर्मम् आदाय द्विषतो भ्रातृव्यस्य विधर्मणैनं विधर्माणं कृत्वा पराभावयति य एवं वेद। तच् छ्रीर् वै धर्मो, राज्यं वै धर्मो, धर्मेण वै राजा धर्मो, धर्म स्वानां भवत्य्, ऐनं स्वा यन्ति, धर्मणो धारयति। तद् आहुर् नवमे ऽहनि कार्यम्। अदो वै क्षत्रं यद् बार्हतम्। अथेदं विड् राथन्तरम् इति। तद् उ वा आहुर् विधर्माणो वै राजानो न वै ते ऽन्यैर् मनुष्यै स्वधर्माणः। इदम् उ वाव क्षत्रं यच् चतुश्चत्वारिंशं त्रैष्टुभम्। तस्मान् नवम एवाहन् विधर्म स्याद् इहैतद् इति।
हिन्वन्ति सूरम् उस्रय स्वसारो जामयस् पतिम्।
महाम् इन्दुं महीयुवः॥
इति महद् ध्य् एतद् अहर् यच् चतुश्चत्वारिंशम्। तासु विशोविशीयम् उक्तब्राह्मणम्। तद् ऐळं भवति - पशवो वा इळा। पशवश् छन्दोमाः - पशूनाम् एवावरुद्ध्यै॥3.231॥


अथ यज्ञायज्ञीयम् उक्तब्राह्मणम्।

अथौशनम्। उशना वै काव्यो देवेष्व् अमर्त्यं गन्धर्वलोकम् ऐच्छत। स एतत् सामापश्यत् । तेनास्तुत। ततो वै स देवेष्व् अमर्त्यं गन्धर्वलोकम् आश्नुतैतं रोमण्वन्तम्। ते हैते काव्याः। रोमण्वत्य् अश्नुते देवेष्व् अमर्त्यं गन्धर्वलोकम् एतेन तुष्टुवानः। अग्निर् वै देवेष्व् अवसत्। तं देवा नाप्रीणन्। सो ऽप्रीयमाण उशनसं काव्यम् आगच्छत्। तम् अब्रवीद् ऋषे प्रीणीहि मा, ऽप्रीतो वा अस्मीति। तम् अकामयत - प्रीणीयाम् एनम् इति। स एतत् सामापश्यत्। तेनैनम् अप्रीणात्।
प्रेष्ठं वो अतिथिं स्तुषे मित्रम् इव प्रियम्।
अग्ने रथं न वेद्यम्॥
इत्य् एवैनं प्रियतमम् अतिथिम् अकुरुत। अप्रीत इव ह वा एष एतर्हि भवति यज्ञम् ऊहिवान्। तम् एतद् अत्र प्रीणन्ति। स प्रीतो यद् अत्र यज्ञस्य परिशिष्टम् भवति तद् वहति। यद् ऊशना[] काव्यो ऽपश्यत् तस्माद् औशनम् इत्य् आख्यायते।
एन्द्र नो गधि प्रिय सत्राजिद् अगोह्य।
गिरिर् न विश्वतः पृथुः पतिर् दिवः॥
अभि हि सत्य सोमपा
इत्य् अभीति भवति रथन्तरस्य रूपम्। राथन्तरम् एतद् अहः। उभे बभूथ रोदसी इतीमे ह वाव रोदसी। एते एवैतद् अभिवदति। इन्द्रासि सुन्वतो वृधस् पतिर् दिव इति वृद्धं ह्य् एतद् अहर् यच् चतुश्चत्वारिंशम्॥3.232॥


तासु सांवर्तं पदनिधनं राथन्तरम्। तस्माद् राथन्तरे ऽहन् क्रियते। संवर्त आङ्गिरस स्वर्गकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। स पतिर् दिवः पतिर् दिव इत्य् एव स्वर्गं लोकम् आरोहत्। यथाह पतेद् एवम् एतद् यत् पतिर् दिव इति। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं वेद। यद् उ संवर्त आङ्गिरसो ऽपश्यत् तस्मात् सांवर्तम् इत्य् आख्यायते। देवासुरा अस्पर्धन्त। ते ऽसुरा महद् अभिव्यासत। स इन्द्रो ऽकामयत सार्धम् एवासुरान् संवृत्य हन्याम् इति। स एतत् सामापश्यत्। तेनास्तुत।
त्वं हि शश्वतीनाम् इन्द्र धर्ता पुराम् असि।
हन्ता दस्योर् मनोर् वृधः पतिर् दिवः॥
इत्य् एवैनान् सार्धं संवृत्याहन्। तद् व् एव सांवर्तस्य सांवर्तत्वम्। सार्धम् एव संवृत्य द्विषन्तं भ्रातृव्यं हन्ति य एवं वेद॥3.233॥


अथ मैधातिथम्। मेधातिथिगृहपतयो वै विभिन्दुकीयास् सत्रम् आसत। तेषां दृढच्युद् आगस्तिर् उद्गातासीद् गौरीवितिः प्रस्तोताच्युतच्युत् प्रतिहर्ता वसुक्षयो होता सनक-नवकौ काव्याव् अध्वर्यू। पशुकामो मेधातिथिर् जनिकामौ सनक- नवकौ, यत्कामा इतरे तत्कामाः। नानाकामा ह स्म वै पुरा सत्रम् आसते। ते ह स्म नानैव कामान् ऋद्ध्वाप्त्वोत्तिष्ठन्ति। तेषां ह स्मेन्द्रो मेधातिथेर् मेषस्य रूपं कृत्वा सोमं व्रतयति। तं ह स्म बाधन्ते मेधातिथेर् नो मेषस् सोमं व्रतयतीति। स उ ह स्मैषां स्वम् एव रूपं कृत्वा सोमं व्रतयति। ततो ह वा इदम् अर्वाचीनं मेधातिथेर् मेष इत्य् आह्वयन्ति। स एतन् मेधातिथिः पशुकामस् सामापश्यत्। तेनास्तु। पुरां भिन्दुर् युवा कविर् इत्य् एव वलम् अभिनत्। त्वं वलस्य गोमतो ऽपावर् अद्रिवो बिलम् इत्य् एतया बिलम् अपावृणोत्॥3.234॥


ततः पशवो ऽसृज्यन्त। ये प्रथमे ऽसृज्यन्त, त इम एतर्हितनाः पशवः। तद् उ हैव हिरण्यशृङ्गीर् द्व्यूध्नीर् अनूदेयुः। तद् उ हैव हिरण्यचण्डातकौ वसाने ऽप्सरसाव् अनूदेयतुः। ते गृहपतिर् अभिदध्यौ। स होवाच मम वा इमे, ये ऽहं मम गार्हपत्य ऽवारुत्सि। गृहपतेर् वाव सर्वर्द्धिर् इति। नेति होचतुस् सनक - नवकौ, पशुकामस् त्वम् आसिष्ठाः। ते तवैते पशवः। जनिकामाव् आवम्। तयोर् आवयोर् इमे जाये इति। तद् धैव संवदमानेष्व् अन्यतराम् अभिपेदे। सा ह प्रतिजघ्ने। सैषा यस्या एतत् कबलिकम् इव। अथ हान्यतरा विसिष्मिये। सैषा हरिणिका। तस्माद् एते पशून् सेवते पश्वाजानेहि। अथ हेमा हिरण्यशृङ्गीर् द्व्यूध्नीर् यत एवोदेयुस् तत् पुनर् अभ्यवदुद्रुवुर् - अनृतं गृहपतिर् अकृत्। न वै वयं तस्य स्मो यो ऽनृतं करोतीति। ता हैता अप्य् अद्य क्रूरर्षभा विभिन्दुके शारीर् भूता वेदयन्ते। काण्वायनौ ब्रह्मण्य् अस्पर्धेतां मेधातिथिश् च त्रिशोकश् च। ताव् अब्रूताम् - एह्य, अग्निं समिद्धम् अत्ययावेति। ताव् अग्निं समिद्धम् अत्यैताम्। उपर्य उपर्य् एव त्रिशोको ऽत्यैद्, अथेतरस्य पक्ष्माण्य् उदौषत्। तम् अब्रवीद् - अजैषं त्वेति। नेत्य् अब्रवीद्, असुरीपुत्र एव त्वम् असि। देवता एव त्वया संस्पृष्टं नाचीकमन्तेति। तौ वा - एह्य् अपो ऽत्ययावति। तौ ह रथस्यां विष्यण्णाम् अत्यैताम्। उपर्य् उपर्य् एव त्रिशोको ऽत्यैद्, अथेतरस्य पवी अत्रायेताम्। तद् एवार्द्रपवि रथस्पायै। तम् अब्रवीद् - अजैषं त्वेति। नेत्य् अब्रवीद्, असुरीपुत्र एव त्वम् असि। देवता एव त्वया संस्पृ्ष्टं नाचीकमन्तति। तौ वा - एहि पशून् उत्सृजावहा इति॥3.235॥


स त्रिशोकस् सद्य एवालोम्नो कर्णकान् पशून् उदसृजत। ते ऽत्राभ्यातप्ता न्यमृच्य न्यमहन्। सैषो प्राभवत्। तस्माद् आहुर् - गावो प्रेति। तस्माद् व् अमांसाशी प्रायु नाश्नीयात्। अथ हैके ऽभितप्यमानानाः प्रत्यञ्चः प्राद्रवन्। ते सिन्धुं प्राविशन्। तल् लवणम् अभवत्। तस्माद् आहुर् - गावो लवणम् इति। तस्माद् उ यो लवणेन पणञ् चरति, गाव एव भवन्ति। अथ मेधातिथिस् संवत्सरम् उपप्रास्तृणीत पशुकामः। स एतस्माद् एव वलाद् अश्माभिधानात् पशून् उदसृजत - त्वं वलस्य गोमत इति। तद् एतत् पशूनाम् उत्सृष्टिस् साम। अव पशून् रुन्द्धे, बहुपशुर् भवति य पवं वेद। यद् उ मेधातिथिर् अपश्यत्, तस्मान् मैधातिथम् इत्य् आख्यायते॥3.236॥


तद् व् एवाचक्षते ऽङ्गिरस्यानां सामेति। अङ्गिरस्या ह वै नामर्षीणां पुत्रा आसुः। ते ऽकामयन्त स्वर्गं लोकम् अश्नुवीमहीति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै ते स्वर्गं लोकम् आश्नुवत। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं वेद। यद् व् अङ्गिरस्या अपश्यंस् तस्माद् अङ्गिरस्यानां सामेत्य् आख्यायते। तद् व् एवाचक्षते मारुतम् इति। मरुतो वा अकामयन्तौजिष्ठा बलिष्ठा भूयिष्ठा वीर्यवत्तमा देवानां स्याम, जयेम स्वर्गं लोकम् इति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै त ओजिष्ठा बलिष्ठा भूयिष्ठा वीर्यवत्तमा देवानाम् आसन्न्, अजयन् स्वर्गं लोकम्। ओजिष्ठो बलिष्ठो भूयिष्ठो वीर्यवत्तम स्वानां भवति जयति स्वर्गं लोकं य एवं वेद। यद् उ मरुतो ऽपश्यन् तस्मान् मारुतम् इत्य् आख्यायते॥3.237॥


तद् व् एवाचक्षते वैश्वामित्रम् इति। भरता ह वै सिन्धोर् अपरतार आसुर् इक्ष्वाकुभिर् उद्बाढाः। तेषु ह विश्वामित्रजमदग्नी उषतुः। स हेन्द्रो भयदम् आसमात्यं हरी ययाच। तौ हास्मै न ददौ। तयोर् हादत्तयोर् जुहावेन्द्रक्रोश इति। अम्मकस् तस्मिंस् तिष्ठन् - विश्वामित्रजमदग्नी, इमा इक्ष्वाकूणां गा विन्दध्वम् इति। तद् धेमाव् अपरतारे सन्तो शुश्रुवतुः। तौ होचतुर् भरतान् - इन्द्रो वै नाव् अयं ह्वयतीमा इक्ष्वाकूणां गा विन्दध्वम् इति। एत्, गा विन्दामहा इति। तौ वै न इमं गाधं कुरुतम् इति। ते वै युङ्ध्वम् इति। ते ह युयुजिरे। ते हाभ्यवेयुः। तौ होचतुर् - या वः पल्पूलन्यस् ता अपास्यतेति। ता हापासुः। अथ ह राजन्यबन्धुर् यस्मै पल्पूलन्य् आस, तां हाधो ऽक्षं बबन्ध। ताव् अकामयेतां - गाधो नाव् अयं स्याद् इति। स एतद् विश्वामित्रस् सामापश्यत्। तेनास्तुत।
पुरां भिन्दुर् युवा कविर् अमितौजा अजायत।
इन्द्रो विश्वस्य कर्मणो धर्ता वज्री पुरुष्टुतः॥
त्वं वलस्य गोमतो ऽपावर् अद्रिवो बिलम्।
त्वां देवा अबिभ्युषस् तुज्यमानास आविषुः॥
तवाहं शूर रातिभिः प्रत्य् आयं सिन्धुम् आवदन्।
इत्य् एता आवदन्तौ प्रत्यैताम्। उपातिष्ठन्त गिर्वणो विदुष् टे तस्य कारव इति हैवाप उपतस्थिरे। ताभ्यां ह गाध आस। ते ह गाधेनातिययुः। तद् यस्मिन्न् इयं पल्पूलन्य् आस, तद् धैवापो ऽवचिच्छिदुः। अनशद् वा इयम् इति त एव नंशवः। योगो नोद्यत इति त एवायोगव इति। इदम् एवाद्य वसामेति त एव नंशवः। योगो नोद्यत इति त एवायोगव इति। इदम् एवाद्य वसामेति त एव वसातयः॥3.238॥


तद् उ हैव कुमारिकाः क्रीळन्तीर् जहुः। स एव यौषितो गिरिर् अभवत्। अथ हवा इमानि वनानीमाश् च नद्यौ ऽपरतार आस पुरा सिन्धोर् आसुः। तौ ह पश्चात् परीत्य प्राचीः प्ररुरुधतुः। ततो यान्य् उक्षशर्धतान्य् आसंस्, तानीमानि लवणानि। अथ ये तस्थुस्, त एते क्षुद्रा वनस्पतयो ऽभवन्। अथ ह वा इमानि पीरुस्तच्छमैतद्, अथ या नदीस् तारयांचक्रुस्, ता इमा नद्यो विवसतिहोत्तमास् तारयांचक्रुः। तासु ह तार्यमाणासु सिन्धोर् अप्रियम् आस। स होवाच -
ननु ब्रह्मेति शुश्रुम गाथिनं पितरं तव।
कुतस् त्वा सहस्रम् आगमद् विश्वामित्र बलं तव॥
इति। स होवाच
उत पुत्रो ममतायै गर्भे दीर्घतमा वदन्।
विपश्चित् तद् अभ्यजायत यज्ञस्यांगानि कल्पयन्॥
कथोदन्वः पणायसि
इति। ततो वै ते तान् पशून् अविन्दन्त। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। यद् उ विश्वामित्रो ऽपश्यत् तस्माद् वैश्वामित्रम् इत्य् आख्यायते। तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रति - तिष्ठन्ति॥3.239॥


अक्रान् समुद्रः परमे विधर्मन्न् इति परमो वा अश्वः पशूनां, परमस् समुद्रः, परमं नवमम् अहस्, तस्माद् एता नवमे ऽहन् क्रियन्ते। जनयन् प्रजा भुवनस्य गोपा इति जनद्वतीर् भवन्ति। जनद्वद् वै जगत्यै रूपम्। जागतम् एतद् अहः। वृषा पवित्रे अधि सानो अव्ये बृहत् सोमो वावृधे स्वानो अद्रिर् इति वृषण्वतीर् बृहद्वतीर् भवन्ति बृहतो रूपम्। बार्हतम् एतद् अहः। महत् तत् सोमो महिषश् चकारेति महद् ध्य् एतद् अहर् यद् अष्टाचत्वारिंशम्॥
अपां यद् गर्भो ऽवृणीत देवान्।
अदधाद् इन्द्रे पवमान ओजो ऽजनयत् सूर्ये ज्योतिर् इन्दुः॥
इति जनद्वतीर् भवन्ति। प्रातस्सवनाद् एवैतन् नवमम् अहः प्रजनयन्ति।
मत्सि वायुम् इष्टये राधसे च मत्सि मित्रावरुणा पूयमानः।
मत्सि शर्धो मारुतं मत्सि देवान् मत्सि द्यावापृथिवी देव सोम॥
इति सर्वदेवत्यं भवति। वैश्वदेवं ह्य् एतद् अहर् जागतम्॥3.240॥


  1. उ+उशना