जैमिनीयं ब्राह्मणम्/काण्डम् ३/१०१-११०

विकिस्रोतः तः
Jump to navigation Jump to search

तद् व् एवाचक्षते साकमश्वम् इति। कक्षीवान् प्रियमेधम् अपृच्छत् - इद्ध इन् न दिदीपा3 इत् प्रियमेधेति। तद् अस्य नामनुत। सो ऽब्रवीत् - प्रजायान् मे त्वा प्रतिब्रवद् इति। अथ ह कक्षीवतो नाकुलिभस्त्रास प्रियंगुतण्डुलानां वा सिकतानां वा पूर्णा। तासां ह स्म संवत्सरे संवत्सर एकैकां प्रास्यति। तावद् धास्मा आयुर् दत्तम् आस। स उ ह नवमस् साकमश्व आजज्ञे प्रियमेधात्। सो ऽकामयतोद् इत इयां, गातुं प्रतिवचनं विन्देयेति। स एतत् सामापश्यत्। तद् अभ्यगायत। ततः प्रतिवचनम् अपश्यत्। स कक्षीवन्तम् अभ्याद्रवत्। तम् अब्रवीद् आद्रवन्तं दृष्ट्वा - इमां मे भस्त्राम् उदके प्रास्यत, इमम् अहं तं पश्यामि यो मां प्रत्युच्यातिप्रक्ष्यतीति। अथ हैनम् अभ्येव जगाम। स होवाच - य ऋचं करोति न साम, स इद्धो न दिदीपे। अथ य ऋचं च काम च करोति, स इद्धस् स दिदीपे। एतत् त्वाहं प्रतिब्रवीम्य् एतन् मे पितैतत् पितामह एतत् प्रपितामह इत्य् आ ह प्रियमेधाद् गमयांचकार। तद् एतत् तेजो ब्रह्मवर्चसं साम। एतेन वै स पूर्वेषां पितमहानां पाप्मानम् अपाहन्। तेजस्वी ब्रह्मवर्चसी भवत्य्, अप पूर्वेषां पितामहानां पाप्मानं हते य एवं वेद। यद् उ साकमश्वो ऽपश्यत् तस्मात् साकमश्वम् इत्य् आख्यायते। यत् सोम चित्रम् उक्थ्यम् इति चित्रवतीर् भवन्ति - चित्ररूपा वै पशवः। पशव एतद् अहः - पशूनाम् एवावरुद्ध्यै। तद् आहुर् यन्ति वा एते त्रिष्टुभः पवमानान्ताद् ये गायत्रीष्व् अन्त्यं कुर्वन्तीति। वृषण्वतीर् भवन्ति। वृषण्वद् वै त्रिष्टुभो रूपम्। तेन त्रिष्टुभः पवमानान्तान् न यन्ति॥3.101॥

तासु शैशवम्। शान्तिर् वै शैशवम्। यच् छैशवेन स्तुवन्ति शान्त्या एव। अथो आहुश् शैशवेन वा इन्द्रो वृत्रं पर्याकारं शक्वरीभिर् अहन्न् इति। तद् व् एव शैशवस्य शैशवत्वम्। तद् उ भ्रातृव्यहा । हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद। प्रजापतेर् अक्ष्य् अश्वयत्। तत् परापतत्। सो ऽकामयत - पुनर् मा चक्षुर् आविशेद् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै तं चक्षुः पुनर् आविशत्। अश्व एव शुचिर् भूत्वैनं पुनर् आविशत्। तज्ज्योतिर् वै चक्षुः। ज्योतिर् वावैनं तद् आविशत्। तद् एतच् चक्षुष्यं साम। अजरसं हास्य चक्षुर् न व्येति य एवं वेद॥3.102॥

अथ महानाम्नयः। महानाम्नीर् वा अनु प्रजाः प्रजायन्ते।नित्यवत्साः पशवः। ता एता महानाम्नयस् संभार्याः। तस्मान् मनुष्या गर्भिणः कनीयश् शोभन्ते। संभार्यो हि स तेषां गर्भो नित्यः। नित्यवत्साः पशवो ऽनुप्रजायन्ते। तस्मात् पशवो गर्भिणो भूयश् शोभन्ते। मात्यो हि स तेषां गर्भो नित्यः। अथ वामदेव्यम्। पशवो वै वामदेव्यम्। पशुमन्त एव भवन्त्य् एनेन तुष्टुवानाः। अथ बार्हद्गिररायोवाजीये पांक्ते पांक्ते ऽहनि क्रियेते - पांक्ता वै पशवः। पशव एतद् अअहः - पशूनाम् एवावरुद्ध्यै। ते उ अथकारवच् चाध्यर्धेळं च भवतः प्रत्यक्षं शक्वरीणां रूपं शाक्वरे ऽहन्। तेन वै रूपसमृद्धे। तद् आहुस् स वाद्य गोभिः प्रस्नायाद्य आभ्यः पारे प्रतिष्ठां च तीर्थं च विन्देद् इति। गावो वै शक्वर्यः। तासाम् एषा पारे प्रतिष्ठा च तीर्थं च यद् अथकारश् चाध्यर्धा चेळा। निष्टाभिश् शक्वरीभिः पाप्मानं तरति, श्रियम् अश्नुते य एवं वेद। तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठन्ति॥3.103॥

देवासुरा अस्पर्धन्त। ते देवाः प्रजापतिम् उपाधावंस् - तन् नश् छन्दः प्रयच्छायातयाम येनासुरान् अभिभवामेति। स तपो ऽतप्यत। स तपस् तप्त्वात्मन् सिंसिमायद् अवापश्यत्। यद् आत्मन् सिंसिमायद् अवापश्यत् तत् सिमानां सिमात्वम्। ता अब्रवीत् - सृज्यध्वम् इति। केनेति। येन कामयध्व इति। तास् सिमानम् एवोर्ध्वा उदीर्यासृज्यन्त। तद् व् एवासां सिमात्वम्। ता अमिमीत। तासु त्रयं वेदम् अध्यादधात्। ता एवायच्छत्। तास्व् इमांस् त्रीन् लोकान् अभ्यादधात्। ता एवायच्छत्। सो ऽब्रवीन् महद् बतासाम् इदं मानम् अभूद् इति। यद् अब्रवीन् महद् बतासाम् इदं मानम् अभूद् इति, तन् महामानीनां महामानित्वम्। महामानयो ह वै नामैताः। ता महानाम्नय इति परोक्षम् आख्यायन्ते। ता देवेभ्यः प्रायच्छत्। ताभिर् अद्य देवा अस्तुवत। श्वो ऽशक्नुवन्। तद्यद् अद्य स्तुत्वा श्वो ऽशक्नुवंस् तच् छक्वरीणां शक्वरीत्वम्। शक्नोति यच् छिक्षते य एवं वेद। ता देवा नोदयच्छन्। ताः प्रजापतय एव पुनः प्रायच्छन्। ताः प्रजापतौ संवत्सरम् उषित्वापाक्रामन्। सो ऽब्रवीत् कथापाक्रमिष्टेति॥3.104॥

ता अब्रुवन्न् ऐन्द्रान् ह नो घोषान् वेत्थ। तान् नः प्रयच्छ, यैर् वयं घोषिणीर् असाम। घोषी स ब्राह्मणो ऽसद् यो ऽस्मान् वेदेति। ताभ्य एतान् ऐन्द्रान् घोषान् प्रायच्छत्। यो ऽग्नेर् घोषो यो रथस्य, तम् अस्यै प्रायच्छत्। यो वायोर् घोषो य वयसां, तम् एतस्यै प्रायच्छत्। यः पर्जन्यस्य घोषो यो दुन्दुभेस् तम् अमुष्यै प्रायच्छत्। एतं ह वा आसाम् ऐन्द्रा घोषाः। तास् संवत्सरम् उषित्वापैवाक्रामन्। सो ऽब्रवीत् कथापाक्रमिष्टेति। ता अब्रुवन्न् ऐन्द्रान् ह नो निक्रिळान् वेत्थ। तान् नः प्रयच्छ, यैर् वयं क्रीळाम। क्रीळात् स ब्राह्मणः प्रजया पशुभिर् यो ऽस्मा वेदेति। ताभ्य एतान् ऐन्द्रान् निक्रीळान् प्रायच्छद् - इन्द्रा इन्द्रा इन्द्रा इति। एत ह वा आसाम् ऐन्द्रा निक्रीळाः। तास् संवत्सरम् उषित्वापैवाक्रामन्। सो ऽब्रवीत् कथापाक्रमिष्टेति॥3.105॥

ता अब्रुवन् रूपाणि ह नो वेत्थ। तानि नः प्रयच्छ, यैर् वयं रूपिणीर् असाम। रूपी स ब्राह्मणो ऽसद् यो ऽस्मा वेदेति। ताभ्यो रूपाणि प्रायच्छत्। यत् प्रावृषि निहतरजस्कायै प्रथमं संजायमानाया अस्यै रूपं भवति, तद् अस्यै प्रायच्छत्। यद् व् एव प्रावृषि निहतरजस्कस्यान्तरिक्षस्य रूपं भवति, तद् एतस्यै प्रायच्छत्। अथ यद् आग्रहायणे ऽपेते मेघे ऽपेते नीहारे ऽमुष्यै रूपं भवति, तद् अमुष्यै प्रायच्छत्। एतानि ह वा आसां रूपाणि। तास् संवत्सरम् उषित्वापैवाक्रामन्। सो ऽब्रवीत् कथापाक्रमिष्टेति। ता अब्रुवन् नामानि ह नो वेत्थ। तानि नः प्रयच्छ, यैर्वयं नामिनीर् असाम्। नामी स ब्राह्मणो ऽसद् यो ऽस्मा वेदेति। ताभ्यो नामानि प्रायच्छत्। भूस् त्वम् असीतीमाम् अब्रवीद्, भुवस् त्वम् इत्य् एतां, स्वस् त्वम् इत्य् अमूम्। एतान ह वा आसां नामानि। तास् संवत्सरम् उषित्वापैवाक्रामन्। सो ऽब्रवीत् कथापाक्रमिष्टेति॥3.106॥

ता अब्रुवन् वत्सान् ह नो वेत्थ। तान् नः प्रयच्छ, यैर् वयं वत्सिनीर् असाम। वत्सी स ब्राह्मणो ऽसद् यो ऽस्मा वेदेति। ताभ्यो वत्सान् प्रायच्छत्। अग्निम् एवास्यै प्रायच्छद्, वायुम् अन्तरिक्षायादित्यम् अमुष्यै। एते ह वा आसां वत्साः। तास् संवत्सरम् उषित्वापैवाक्रामन्। सो ऽब्रवीत् कथापाक्रमिष्टेति। ता अब्रुवन्न् ऋषभान् ह नो वेत्थ। तान् नः प्रयच्छ, यैर् वयम् ऋषभिणीर् असाम। ऋषभी स ब्राह्मणो ऽसद् यो ऽस्मान् वेदेति। ताभ्य ऋषभान् प्रायच्छद् एतान् अथकारान्। एते ह वा आसाम् ऋषभाः। तास् संवत्सरम् उषित्वापैवाक्रामन्। सो ऽब्रवीत् कथापाक्रमिष्टेति॥3.107॥

ता अब्रुवन्न् एकं ह नो रूपं वेत्थ। तन्नः प्रयच्छ, येन वयं रूपिणीर् असाम। रूपी स ब्राह्मणो ऽसद् यो ऽस्मा वेदेति। ताभ्य एतद् एकं रूपं प्रायच्छद् आप इति। एतद् ध वा आसाम् एकं रूपं यद् आपः। तास् संवत्सरम् उषित्वापैवाक्रामन्। सो ऽब्रवीत् कथापाक्रमिष्टेति। ता अब्रुवन्न् एकं ह नो नाम वेत्थ। तन् नः प्रयच्छ, येन वयं नामिनीर् असाम। नामी स ब्राह्मणो ऽसद् यो ऽस्मा वेदेति। ताभ्य एतद् एकं नाम प्रायच्छद् इन्द्रा इति। एतद् ध वा आसाम् एकं नाम यद् इन्द्राः। तास् संवत्सरम् उषित्वापैवाक्रामन्। सो ऽब्रवीत् कथापाक्रमिष्टेति॥3.108॥

ता अब्रुवंस् तृप्तीर् ह नो वेत्थ। ता नः प्रयच्छ, याभिर् वयं तृप्याम। तृप्यात् स ब्राह्मणः प्रजया पशुभिर् यो ऽस्मा वेदेति। ताभ्य एतास् तृप्तीः प्रायच्छद् एतान् एकारान्। एते ह वा आसां तृप्तयः। तास् संवत्सरम् उषित्वापैवाक्रामन्। सो ऽब्रवीत् कथापाक्रमिष्टेति। ता अब्रुवन् आवपनान् ह नो वेत्थ, पल्यान् ह नो वेत्थ, गोष्ठान् ह नो वेत्थ। तान् नः प्रयच्छ, यैर् वयम् आवपनवतीः पल्यवतीर् गोष्ठिनीर् असाम। आवपनवान् पल्यवान् गोष्ठी स ब्राह्मणो ऽसद् यो ऽस्मा वेदेति। ताभ्यो वाचं प्रायच्छत्। वाचं वावेदं सर्वं नातिरिच्यते। एवा ह्य् एवा इत्य् एषां वाग्, एवा ह्य् अग्ना इति गव्याः पशव, एवा हीन्द्रा इत्य् अश्व्याः पशवः। एवा हि पूषन्न् इत्य् अजाविकम् एवैतत्। एवा हि देवा इति परिग्राह एवैषः॥3.109॥

अथ महानाम्नयः। प्राणा वा अग्रे सप्त। तेभ्य एतां सप्तपदां शक्वरीं निरमिमीत। प्राणान् एव सर्वम् आयुर् एति य एवं वेद। सप्तपदायै षट्पदाम् ऋतून् संवतस्रम्। ऋतुभ्य आत्मानं परिदत्ते य एवं वेद। षट्पदायै पञ्चपदां पशून् पंक्तिम्। पशुमान् भवति य एवं वेद। पञ्चपदायै चतुष्पदां वाचम् अनुष्टुभं प्रतिष्ठितिम्। वाचा वदति य एवं वेद। चतुष्पदायै त्रिपदां तेजो ब्रह्मवर्चसं गायत्रीम्। तेजस्वी ब्रह्मवर्चसी भवति य एवं वेद। त्रिपदायै द्विपदां पुरुषम्। नैनं पौरुषो वधो हन्ति य एवं वेद। द्विपदाया एकपदां पुरुषम् एव। अन्वञ्चाव् इव वै पुरुषौ। तस्मात् पुरुषः पुरुषं परिवेवेष्टि, पुरुषः पुरुषस्यानुचरो भवति, विन्दते ऽनुचरितॄन्। बहवो ऽस्यानुचरा भवन्ति, नैनं पौरुष्येवावृत्तिर् विन्दति य एवं वेद॥3.110॥