जैमिनीयं ब्राह्मणम्/काण्डम् ३/०२१-०३०

विकिस्रोतः तः
Jump to navigation Jump to search

ता एता भवन्ति गायत्र्यस् त्रिष्टुब्वर्णा अह्नो रूपेण समृद्धा। यत्र वा अहारूपेण समर्धयन्ति सं तत्रर्ध्यन्ते। सम् अस्मा ऋध्यते य एवं वेद। पवस्वेन्दो वृषा सुत इति वृषण्वान् अनुरूपो भवति। बार्हतं वा एतद् अहः। त्रैष्टुभं क्षत्रस्य् रूपम्। तद् आहुर् अह्न एव रूपं स्तोत्रियेणारभन्ते ऽनुरूपेण साम्न इति। स्तोत्रियानुरूपौ भवतः। प्राणो वै स्तोत्रियो ऽपानो ऽनुरूपः। प्राणापानाभ्याम् एवैतत् समृध्य प्रयन्ति। मनो वै स्तोत्रियो, वाग् अनुरूपः। साम वै स्तोत्रिय, ऋग् अनुरूपः। अहर् वै स्तोत्रियो, रात्रिर् अनुरूपः। इयं वै स्तोत्रियो, ऽसाव् अनुरूपः। आत्मा वै स्तोत्रियः, प्रजानुरूपः। स्तोत्रियानुरूपयोर् ह खलु वै तद् रूपं, यस्माद् यां श्रेष्ठीं वाचं वदति तां पापीयान् अनुवदति, यस्मात् कर्ता च करणश् च सदृशौ सन्तौ विज्ञायेते। स्तोत्रियानुरूपयोर् वै हेतोः प्रजा अनुरूपा आजायन्त। आ हास्यानुरूपः प्रजायां जायते य एवं वेद। तद् आहुर् वीव वा एते प्राणैर् ऋध्यन्ते ये प्रायणीयस्याह्नस् तृचान् विच्छिन्दन्तीति। संततान् अत्र पञ्च तृचान् उपयन्ति प्राणानाम् एव संतत्या अव्यवच्छेदाय। सर्वे वृषण्वन्तो भवन्ति। बार्हतं वा एतद् अहः। त्रैष्टुभं क्षत्रस्य रूपम्। पर्यासो भवति प्रजानां धृत्यै पशूनाम् उपस्थित्यै। पञ्चदशस्तोमो भवति - इन्द्रियं वै वीर्यं पञ्चदश - इन्द्रिय एवैतद् वीर्यं प्रतितिष्ठन्तो यन्ति॥3.21॥

अग्निं दूतं वृणीमह इत्य् आग्नेयम् आज्यम् भवति। प्रेत्य् अन्य ऋषयो ऽपश्यन्न् एत्य् अन्ये। अथैतन् न प्रेति नेति स्थितम् । वाचो बार्हतं रूपं भरद्वाज ऋषिर् अपश्यत्। भरद्वाजस्य वा एतद् आर्षेयं यद् बृहत्। मनो बृहत्। प्रजापतिर् बृहत्। प्रजापतिताम् एवाश्नुते य एवं वेद। होतारं विश्ववेदसम् इति। हो इति भवति बृहतो रूपम्। बार्हतम् एतद् अहः। मित्रं वयं हवामह, इन्द्रम् इद् गाथिनो बृहद्, इन्द्रे अग्ना नमो बृहद् इत्य् एकरूपाण्य् आज्यानि भवन्ति, सर्वाण्य एव बार्हतानि। क्षत्रं वा एतद् अहः। तस्मात् सर्वे राजान एकमन्त्रा एकवचसः। महद्वती द्वे भवतो बृहद्वती द्वे। एतद् वै प्रत्यक्षं बृहतो रूपं यन् महद् यद् बृहत्। बृहद् एवैतत् प्रत्यक्षम् उपयन्ति। पञ्चदशस्तोमो भवति - इन्द्रियं वै वीर्यं पञ्चदश - इन्द्रिय एवैतद् वीर्यं प्रतितिष्ठन्तो यन्ति॥3.22॥

वृषा पवस्व धारयेति माध्यन्दिनस्य पवमानस्य वृषण्वतीर् गायत्र्यो भवन्ति। बार्हतं वा एतद् अहः। त्रैष्टुभं क्षत्रस्य रूपम्। मरुत्वते च मत्सर इति मरुत्वतीर् भवन्ति। मरुत्वद् वै मध्यंदिनस्य रूपम्। मध्यन्दिनस्यैव तद् रूपान् न यन्ति। तं त्वा धर्तारम् ओण्योर् इति प्रद्रुतम् इव वा इत एतद् अहर् यद् बार्हतम्। अदो हि बृहत्। तद् यत् तं त्वा धर्तारम् इत्य् अह्न् एव धृत्यै। अया चित्तो विपानया हरिः पवस्व धारयेति हरिवतीर् भवन्ति। हरिवद् वै त्रिष्टुभो रूपम्। त्रैष्टुभम् एतद् अहः। तासु गायत्रम् उक्तब्राह्मणम्। अथ यौक्ताश्वं परिष्टोभवद् बहिर्निधनं बार्हतम्। तस्माद् बार्हते ऽहन् क्रियते। वसिष्ठो वै सुदासः पैजवनस्यैक्ष्वाकस्य राज्ञः पुरोहित आस। स सुदाः पैजवनो वसिष्ठे वळवान् न्यधत्त यथा पुरोहिते निदधते तथा। वसिष्ठस् सनिं प्रयन्न् अब्रवीद् युक्ताश्वं कनीयांसं भ्रातरम् एतेषां नौ भार्याणाम् अध्यक्षः स्या इति। स युक्ताश्वो राजवळवानां शिशूञ् जातान् विपर्यहरत्। ये कल्याणा आसंस् तान् आत्मने ऽकृत। ये पापीयांसस् तान् राजवळवासु। ते तद् अन्वबुध्यन्त् - शिशून् ह जातान् विपर्यहार्षीद् इति। तम् अबाधन्त - स्तेनो ऽस्य् अनृषिर् इति। सो ऽकामयत - श्रद्धां विन्देयोप मा ह्वयेरन्न् इति। स एतत् सामापश्यत् । तेनास्तुत - - ॥3.23॥

- - स ओ इ ज्वरेत्य् एव निधनम् उपैत्। ततो वै स श्रद्धाम् उपहवम् अविन्दत। श्रद्धां विन्दामहा इति सत्रम् आसते। श्रद्धाम् एव विन्दन्ते । एतद् ध वै वाचस् सत्यं यद् ओ इ ज्वरेति। ज्वरेतीव ह वै वाचस् सत्यम्। सत्येन वै स तद् वाचश् श्रद्धाम् उपहवम् अविन्दत। श्रद्धानीयो भवति, विन्दत उपहवं य एवं वेद। तद् उ प्रजनिष्णु पशव्यं साम। ओ इ ज्वरेति निधनं भवति। अज्यत इति पशुं प्रवीयमाणम् आहुः। अज्वरा हास्य पशवः प्रजनिष्णवो भवन्ति य एवं वेद। यद् उ युक्ताश्वो ऽपश्यत् तस्माद् यौक्ताश्वम् इत्य् आख्यायते। पुनानस् सोम धारयेत्य् उभयरूपा बृहती भवति। एषा ह वा उभे सामनी उद्ययाम। तस्माद् एतां कुर्वन्त्य् एव बृहत्साम्नः कुर्वन्ति रथन्तरसाम्नः। तासु सोमसामनी परिष्टोभवती बार्हते । तस्माद् बार्हते ऽहनि क्रियेते। वृषा वै सोमो, वृषेन्द्र, ऐन्द्रम् एतद् अहः। क्षत्रं वै सोमः, क्षत्रम् इन्द्र, ऐन्द्रम् एतद् अहः। रेतो वै सोमः प्रजननम् एतद् अहः। तद् यद् एते सामनी एतस्मिन्न् अहनि क्रियेते प्रजनन एवैतद् रेतस् सिच्यते। अनुष्ठ्यास्य रेतस् सिक्तं प्रजायते य एवं वेद। ऊर्ध्वेळम् अन्यद् भवति बृहतो रूपं बार्हते ऽहन्। बार्हतम् अन्यत् त्रिणिधनं माध्यन्दिनस्य रूपं पवमानस्य धृत्यै। यद् उ सोमो राजा ऽपश्यत् तस्मात् सोमसामनी इत्य् आख्यायेते। वृषा शोणो अभिकनिक्रदद् गा इति वृषण्वतीर् भवन्ति। बार्हतं वा एतद् अहस् त्रैष्टुभं क्षत्रस्य रूपम्॥3.24॥

तासु पार्थं द्वियभ्यासं द्वितीयस्याह्नो रूपं परिष्टोभवद् बार्हतम्। तस्माद् बार्हते ऽहन् क्रियते। पृथुर् वै वैन्यो ऽकामयत सर्वेषां पशूनां राज्याय सूयेयेति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स सर्वेषां पशूनां राज्यायासूयत। तद् एतच् छ्रीस्सवस्साम। सर्वेषां पशूनां राज्याय सूयते य एवं वेद। तद् उ स्तोभप्रस्तावं स्व(आ)रं भवति स्वराणां विभक्त्यै। एतद् ध्य् एतस्याह्न स्वारं यत् स्तोभप्रस्तावम् । स्वारम् ऊर्ध्वम् इवैतद् अहर्, ऊर्ध्वम् इवैतत् साम। अहर् एवैतेन रोहति तुष्टुवानः। यद् उ पृथुर् वैन्यो ऽपश्यत् तस्मात् पार्थम् इत्य् आख्यायते॥3.25॥

वासिष्ठं तु कार्यतरम् आहुः। क्षत्रम् एतद् यत् पार्थं, क्षत्रम् एतद् यत् सोमसामनी, क्षत्रम् एतद् अहः, क्षत्रं तेन यद् ऐन्द्रं, क्षत्रं तेन यत् त्रैष्टुभं, क्षत्रं तेन यद् बार्हतं, क्षत्रं तेन यत् पञ्चदशस्तोमः। एकधैव क्षत्र भवति। तद् यत् पुरस्ताद् यौक्ताश्वं भवति वासिष्ठम् उपरिष्टाद् ऋषिसामनी ब्रह्म एव स विवधतायै। ब्रह्म क्षत्रेण समद्याम्य(भ्य?)सद् इति। वसिष्ठो वै जीतो हतपुत्रो ऽकामयत बहुः प्रजया पशुभिः प्रजायेयेति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स बहुः प्रजया पशुभिः प्राजायत। तद् एतत् प्रजननं साम। बहुः प्रजया पशुभिः प्रजायते य एवं वेद। यद् उ वसिष्ठो ऽपश्यत् तस्माद् वासिष्ठम् इत्य् आख्यायते। अथ बृहत्। वर्ष्म वै बृहत्। वर्ष्मण्य् एवैतत् प्रतितिष्ठन्तो यन्ति। अथ वामदेव्यम्। पशवो वै वामदेव्यम्। पशुमन्त एव भवन्त्य् एनेन तुष्टुवानाः। अथ श्यैतं, साम्नोर् विवाहो यज्ञस्य सन्ततिः। एकं वावाहस् तद् यत् त्वाम् इदा ह्यो नर इति भवति। तेनैव द्वितीयम् अहः क्रियते॥3.26॥

तासु माधुच्छन्दसम्। मधुच्छन्दा वै वैश्वामित्रो ऽकामयताग्र्यो मुख्यो ब्रह्मवर्चसी स्याम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै सो ऽग्र्यो मुख्यो ब्रह्मवर्चस्य् अभवत्। अग्र्या मुख्या ब्रह्मवर्चसिनो ऽसामेति सत्रम् आसते। अग्र्या एव मुख्या ब्रह्मवर्चसिनो भवन्ति। यद् उ मधुच्छन्दा वैश्वामित्रो ऽपश्यत् तस्मान् माधुच्छन्दसम् इत्य् आख्यायते। तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व एवैतत् प्रतितिष्ठन्ति॥3.27॥

यस् ते मदो वरेण्य इत्य् आर्भवस्य पवमानस्य मद्वतीर् गायत्र्यो भवन्ति। रसो वै मदः। धीतम् इवैतद् यत् तृतीयं सवनम्। तद् यद् एता मद्वतीर् भवन्ति रसम् एवास्मिन्न् एतद् दध्त्य् ऐवैनद् एतेन प्याययन्ति। तेना पवस्वान्धसेत्य् अन्धस्वतीर् भवन्त्य् - अन्नं वा अन्धो - ऽन्नाद्यस्यैवावरुद्ध्यै। जघ्निर् वृत्रम् अमित्रियम् इति त्रैष्टुभं रूपम्। यद् वै घ्नद्वत् तत् त्रिष्टुभो रूपम्। क्षत्रं हि त्रिष्टुप्। संमिश्लो अरुषो भुवस् सूपस्थाभिर् न धेनुभिर् इति प्रद्रुतम् इव वा इत एतद् अहर् यद् बार्हतम्। अदो हि बृहत्। तद् यत् सूपस्थाभिर् इत्य् अह्न एवोपस्थित्यै। तासु गायत्रम् उक्तब्राह्मणम्। अथ हाविष्मतं परिष्टोभवद् बहिर्निधनं बार्हतम्। तस्माद् बार्हते ऽहन् क्रियते। हविष्मांश् च वै हविष्कृच् चाङ्गिरसाव्, अंगिरसां स्वर्गं लोकं यताम्, अहीयेताम्। ताव् अकामयेताम् अनूत्पतेव स्वर्गं लोकम् इति। तौ तपो ऽतप्येताम् । ताव् एते सामनी अपश्यताम्। ताभ्याम् अस्तुवताम्। तौ स्तुत्वेव हविष्मते हविष्कृत इत्य् एव स्वर्गं लोकम् अनूदपतताम्। पशवो ह खलु वै हविष्मन्तः, पशवो हविष्कृतः। पशून् वाव तौ तद् एताभ्याम् अवारुन्धेताम्। तैर् उ पशुभिर् इष्ट्वा स्वर्गम् एव लोकम् अगच्छताम्। ते एते पशव्ये स्वर्ग्ये सामनी। अव पशून् रुन्द्धे गच्छति स्वर्गं लोकं य एवं वेद॥3.28॥

प्रोक्तिश् च ह खलु वा एते सामनी हविषो निरुक्तिश् च। तद् यद् धाविष्मतं द्वितीये ऽहनि भवति, हविष्मन्त स्म इत्य् एवैतद् देवेभ्यः प्राहुः। हविष्मन्त इव ह्य् एतर्हि भवन्ति। अथ यद् धाविष्कृतं नवमे ऽहनि भवति, हविष्कृत स्म इत्य् एवैतद् देवेभ्यो निराहुः। हविष्कृत इव हि तर्हि भवन्ति। ते ह वा एते सामनी प्रोक्तिश् चैव हविषो निरुक्तिश् च। यद् उ हविष्मांश्च हविष्कृच् चाङ्गिरसाव् अपश्यतां तस्माद् धाविष्मत - हाविष्कृते इत्य् आख्यायेते। पवस्व मधुमत्तम इति मधुमतीः ककुभो भवन्ति। रसो वै मदः। धीतम् इवैतद् यत् तृतीयसवनम्। तद् यद् एता मधुमतीर् भवन्ति रसम् एवास्मिन्न् एतद् दधत्य् ऐवैनद् एतेन प्याययन्ति।
इन्द्राय सोम ऋतुवित्तमो महः।
महि द्युक्षतमो मदः
इत्य् अभिपूर्वम् एवास्मिंस् तद् रसं मदं दधति॥3.29॥

तासु सीदन्तीयम्। देवा वा अकामयन्त स्वर्गे लोके सीदेमेति। त एतत्सामापश्यन्। तेनास्तुवत। ततो वै ते स्वर्गे लोके ऽसीदन्। स्वर्गे लोके सीदामेति सत्रम् आसते। स्वर्ग एव लोके सीदन्ति। यद् उ देवा एतेन साम्ना स्वर्गे लोके ऽसीदंस् तस्मात् सीदन्तीयम् इत्य् आख्यायते। तद् व् एवाचक्षते शंक्व् इति। शंकुना वै तद् दृंहन्ति यद् दधिषेण्यं भवति। दधिषेण्यम् इवैतद् अहर् यद् द्वितीयम्। तस्माद् द्वितीये ऽहन् क्रियते।
इन्द्रम् अच्छ सुता इमे वृषणं यन्तु हरयः।
श्रुष्टे जातास इन्दव स्वर्विदः॥
इत्य् ऋचा वै पूर्वम् अह स्वर्वत् क्रियते, साम्नैतत्। राथन्तरं हि पूर्वम् अहर्, बार्हतम् एतत्॥3.30॥