सामग्री पर जाएँ

जैमिनीयं ब्राह्मणम्/काण्डम् २/१३१-१४०

विकिस्रोतः तः
← कण्डिका १२१-१३० जैमिनीयं ब्राह्मणम्/काण्डम् २
कण्डिका १३१-१४०
[[लेखकः :|]]
कण्डिका १४१-१५० →

तस्याष्टशतं स्तोत्रिया भवन्ति। ततो यच् छतं सा विराट्। क्षत्रं विराट्। अथ या अष्टौ सा गायत्री। तेजो ब्रह्मवर्चसं गायत्री। तेज एव तद् ब्रह्मवर्चसं क्षत्रस्य पुरस्ताद् दधाति। तस्माद् ब्राह्मणः क्षत्रियस्य पुरोहितः। स यः पुरोधाकाम स्यात् स एतेन यजेताश्नुते पुरोधाम्। तं हैक एकछन्दसम् एव कुर्वन्ति, गायत्रम् एव सर्वम् - गायत्रो वै बृहस्पतिः. ब्रह्म वै गायत्री। ब्रह्म बृहस्पतिर् - ब्रह्मणा वा ब्रह्मवर्चसम् ऋध्नवामेति। ते ये ह ते तथा कुर्वन्त्य् अग्निं चैव तेन देवतानाम् उपाप्नुवन्ति, गायत्रीं च छन्द, इमं च लोकम्। अन्तरिता हैषाम् इतराश् च देवता भवन्तीतराणि च छन्दांसीतरे च देवा इतरे च लोका इतरे च कामाः। तस्माद् यथाछन्दसम् एव कार्यं सर्वासां देवतानां सर्वेषां छन्दसां सर्वेषां देवानां सर्वेषां लोकानां सर्वेषां कामानाम् उपाप्त्यै। तस्य बृहद् बार्हस्पत्यम् आदिष्टसामार्भवे पवमाने भवति। बृहस्पतिसवो ह्य् एषः। स्तोमम् एव तद्रूपेण समृद्धयन्ति॥2.131॥


अथैष इन्द्राग्न्योः कुलायः। इन्द्राग्नी वा अकामयेतां - सदृशानाम् एव सतां देवानां श्रेष्ठतां गच्छेव, समानेन यज्ञेन समानीम् ऋद्धिम् ऋध्नुयावेति। ताव् एतं यज्ञम् अपश्यताम्। तम् आहरताम्। तेनायजेताम्। ततो वै तौ सदृशानाम् एव सतां देवानां श्रेष्ठताम् अगच्छतां, समानेन यज्ञेन समानीम् ऋद्धिम् आर्ध्नुताम्। तद् ब्रह्म वा अग्निः। क्षत्रम् इन्द्रः। स वा एष त्रिवृत् पञ्चदशो भवति। ब्रह्म वै त्रिवृत्। क्षत्रं पञ्चदशः। त्रिवृतैवाग्नि श्रेष्ठताम् अगच्छत् पञ्चदशेनेन्द्रः। तस्योभे बृहद्रथन्तरे सामनी भवतः। ब्रह्म वै रथन्तरं, क्षत्रं बृहत्। रथन्तरेणैवाग्नि श्रेष्ठताम् अगच्छद्, बृहतेन्द्रः। तौ यौ ब्राह्मणश् च राजन्यश् च कामयेयातां, सदृशानाम् एव सतां स्वानां श्रेष्ठतां गच्छेव, समानेन यज्ञेन समानीम् ऋद्धिम् ऋध्नुयावेति, ताव् एतेन यजेयाताम्। सदृशानाम् एव सतां स्वानां श्रेष्ठतां गच्छतस्, समानेन यज्ञेन समानीम् ऋद्धिम् ऋध्नुतः। त्रिवृतैव ब्राह्मण श्रेष्ठतां गच्छति, पञ्चदशेन राजन्यः। रथन्तरेणैव ब्राह्मण श्रेष्ठतां गच्छति, बृहता राजन्यः। तद् यद् एतानि त्रिवृत् - पञ्चदश स्तोत्राणि व्यतिषक्तानि भवन्ति - ॥2.132॥


- तस्माद् इन्द्राग्न्योः कुलायः। तद् आहुस् सत्रे तद् व्यतिषक्तं यत् त्रिवृत् - पञ्चदशम्। त्रिवृत् पञ्चदशम् इत्य् एवैतानि स्तोत्राणि व्यतिषक्तानि भवन्ति। षड् एव त्रिवृन्ति स्तोत्राणि स्युः, षट् पञ्चदशानीति। यान्य् एवार्वाञ्चि माध्यंदिनात् तान्य् एव त्रिवन्ति स्युर्, यान्य् ऊर्ध्वं तानि पञ्चदशानीति। पञ्चदशस् त्व् एव माध्यंदिन स्यात्, त्रिवद् धोतुः पृष्ठम्। तस्मिन् पञ्चदशे माध्यंदिने रथन्तरम् अवकल्पयन्ति। ब्रह्म वै रथन्तरं, क्षत्रं पञ्चदशः। ब्रह्मैव तत् क्षत्रे प्रतिष्ठापयन्ति। अथ यत् त्रिवृद् धोतुः पृष्ठं भवति - ब्रह्म वै त्रिवृत्, क्षत्रं बृहत् - क्षत्रम् एव तद् ब्रह्मन् प्रतिष्ठापयन्ति। ताव् एताव् एवम् अन्यो ऽन्यस्मिन् प्रतिष्ठाय श्रेष्ठताम् अगच्छताम्। तयोर् हैतयोर् अजय्यम् एव। अजय्यां ह वै कीर्तिम् अजय्यां श्रियम् अजय्यं स्वर्गं लोकं जयति य एवं वेद। यद् व् एवैते त्रिवृत्पञ्चदशे स्तोत्रे व्यतिषक्ते भवतो - व्यतिषक्ताद् वै मिथुनात् प्रजाः पशवः प्रजायन्ते - प्रजात्या एव। अथो प्राणा वै स्तोमा, व्यतिषक्ता वा इमे प्राणा अनिर्मार्गाय। तस्मात् त्रिवृत्तपञ्चदशान्य् एवैतानि स्तोत्राणि व्यतिषक्तानि स्युर् इति। तस्यैन्द्राग्नं सामादिष्टसाम माध्यंदिने पवमाने भवति। इन्द्राग्न्योर् ह्य् एष यज्ञः। स्तोमम् एव तद्रूपेण समृद्धयन्ति॥2.133॥


अथैषो ऽग्निष्टुत्। इन्द्रं वै भूतानि पर्यचक्षत त्रिशीर्षाणं त्वाष्ट्रम् अवधीद्, यतीन् सालावृकेभ्यः प्रादाद्, अरुर्मुखान् अवधीद्, बृहस्पतेः प्रत्यवधीत्, संधां संहिताम् अतीत्य नमुचेर् आसुरस्य शिरः प्राच्छैत्सीद् इत्य् एतेभ्यो देवकिल्बिषेभ्यस् स हारण्य एव चचारानभ्यवयन् देवान्। स उ ह देवान् उवाच - याजयत मेति। नेति होचुः। एता वै त्वया संधा अतीता एतानि देवकिल्बिषाणि कृतानि न त्वा याजयिष्याम इति। अथो हास्याग्निर् एव सखितम इवास देवेषु। स उ हाग्निम् उवाच त्वं मा याजयेति। तथेति होवाच। स वै नु तं देवेष्व् इच्छामि येन त्वा सह याजयेयम् इति। स ह तं देवेषु न विवेद येनैनं सहायाजयिष्यत्। स होवाच न वै नु तं देवेषु विन्दामि येन त्वा सह याजयेययम् इति। तं वै मा त्वम् एव याजयेति। तथेति। सो ऽग्रिर् आत्मन एवाध्य् एतम् अग्निष्टुतम् अतनुत। तेनैनम् अयाजयत्। तस्य सद्यस् सर्वं पाप्मानं निरदहत्। यथाहिर् अहिच्छव्यै निर्मुच्येत यथा मुञ्जाद् इषीकां विवृहेद् एवम् एव सर्वस्मात् पाप्मनो निरमु्च्यत। स एषो ऽपहतपाप्मा तपत्य् एष ह वा इन्द्रः। स य उक्तोक्त स्याद् यो अभ्याख्यायेत स एतेन यजेत। सद्यो हैवास्य सर्वं पाप्मानं निर्दहति। स यथाहिर् अहिच्छव्यै निर्मुच्येत यथा मुञ्जाद् इषीकां विवृहेद् एवम् एव सर्वस्मात् पाप्मनो निर्मुच्यते॥2.134॥


स यो मुखेन पापं कृत्वा मन्येत, त्रिवृताग्निष्टुता यजेत। एष ह वै मुखेन पापं करोति, यो ऽवाद्यं वदति। मुखं वै त्रिवृत् स्तोमानाम्। मुखाद् एव तेन पाप्मानम् अपघ्नते। अथ यो बाहुभ्यां पापं कृत्वा मन्यते, पञ्चदशेनाग्निष्टुता यजेत। एष ह वै बाहुभ्यां पापं करोति, यो ऽनिघात्स्यस्य निहन्ति। बाहू वै पञ्चदश स्तोमानाम् । बाहुभ्याम् एव तेन पाप्मानम् अपघ्नते। अथ उदरेण पापं कृत्वा मन्येत, सप्तदशेनाग्निष्टुता यजेत। एष ह वा उदरेण पापं करोति, यो ऽनाश्यान्नस्यान्नम् अत्ति। उदरं वै सप्तदश स्तोमानाम्. उदराद् एव तेन पाप्मानम् अपघ्नते। अथ यः पद्भ्यां पापं कृत्वा मन्येत, एकविंशेनाग्निष्टुता यजेत। एष ह वै पद्भ्यां पापं करोति, यो जनम् एति। प्रतिष्ठा वा एकविंश स्तोमानाम्। पद्भ्याम् एव तेन पाप्मानम् अपघ्नते। अथो आहुर् य एवायं ज्योतिष्टोमो ऽग्निष्टोमस् तेनैव यजेतेति। तस्य यत् त्रिवृद् बहिष्पवमानं भवति मुखाद् एव तेन पाप्मानम् अपघ्नते। अथ यत् पञ्चदशान्य् आज्यानि भवन्ति पञ्चदशो माध्यंदिनो बाहुभ्याम् एव तेन पाप्मानम् अपघ्नते। अथ यत् सप्दशानि पृष्ठानि भवन्ति, सप्तदश आर्भव, उदराद् एव तेन पाप्मानम् अपघ्नते। अथ यद् एकविंशम् अग्निष्टोमसाम भवति, पद्भ्याम् एव तेन पाप्मानम् अपघ्नते॥2.135॥


त्रिवृता तेजस्कामो ब्रह्मवर्चसकामो ऽग्निष्टुता यजेत, पञ्चदशेन वीर्यकामस्, सप्तदशेन पशुकामः प्रजननकाम, एकविंशेन प्रतिष्ठाकामस्, त्रिणवेनौजस्कामस्, त्रयस्त्रिंशेन श्रीकामः। तद् उ वा आहुर् वदनम् एवैतत् सर्वं य एवायं चतुष्टोमो ऽग्निष्टोमः। तेनैव यजेतेति। अयं वै त्रिवृद् अयं पञ्चदशो ऽयं सप्तदशो ऽयम् एकविंशः। इमान् वै प्राणान् अग्निर् अन्वायत्तः। स यो ऽनूचानस् सन् न विरोचेत, स एतेन यजेतेति। यथा ह वै निष्कश् शमलगृहीत, एवं स यो ऽनूचानस् सन् न विरोचते। अग्ना उ वा एतं प्रास्यन्ति यम् अग्निष्टुता याजयन्ति। तद् यथा निष्कं शमलगृहीतम् अग्नौ प्रास्य तस्यायोघनेन सर्वं शमलं निर्हन्याद्, एवं हैवास्य सर्वं पाप्मानं निर्घ्नन्ति। सो ऽपहतपाप्मा तेजस्वी ब्रह्मवर्चसी भवति।

अथो आहुर् - यस्मिन्न् एव पशव्ये सति पशवो न रमेरन्, स एनेन यजेतेति। यथा ह वै जरत्कक्ष, एवं स यस्मिन् पशव्ये सति पशवो न रमन्ते। तस्य रेवतीष्व् अग्निष्टोमसाम भवति। आपो वै रेवतयः। अग्ना उ वा एतं प्रास्यन्ति, यम् अग्निष्टुता याजयन्ति॥2.136॥


तद् यथा जरत्कक्षम् अग्निनोपदीप्य तम् अद्भिर् उपसिञ्चेत्, तस्मिन् कल्याण्य ओषधयो जायेरंस्, तासु पशवो रमेरन्न्, एवं हैवास्मिन् सर्वे पशवो रमन्ते। तस्याग्न आयूंषि पवस इत्य् एषाग्निपावमानी प्रतिपद् भवति। तद् आहुर् वीव वा एतैः प्राणैर् ऋध्यन्ते ये पावमानीभिः प्रतिपद्यन्त इति। तद् यद् एषाग्निपावमानी प्रतिपद् भवतीति प्राणो वै वायुः - प्राणैर् एव तत् समृद्ध्यन्ते। अग्ने पावक रोचिषेत्य - अन्नं वै पावकम् - अन्नाद्येनैवैनं तत् समृद्धयन्ति। अथो वायुर् वै पावकः, प्राणो वै वायुर्, अभिपूर्वम् एवैनं तत् प्राणैस् समृद्धयन्ति। अग्निश् शुचिव्रततम इत्य् अशुचिर् इव वा एष भवति यो ऽभ्याख्यायते। शुचिम् एवैनम् एतेन पूतं मेध्यं कुर्वन्ति। तस्य यज्ञयज्ञा वो ऽग्नय इत्य् एता माध्यंदिनस्य पवमानस्य बृहत्यो भवन्ति। अग्ना उ वा एतं प्रास्यन्ति यम् अग्निष्टुता याजयन्ति। उत त्राता तनूनाम् इत्य् अग्नय एव तद् वैश्वानराय यजमानस् तन्वं परिदत्ते। तस्य पाहि नो अग्न एकये त्य् एतासु नार्मेधस्यर्क्षु रथन्तरं पृष्ठं भवति। एताभिर् वै नृमेधा औशिजो ऽग्नेर् हरांस्य् अपैरयत। अग्नेर् एवैताभिर् हरांस्य् अपेरयते। तस्य शं नो देवीर् अभिष्टय इत्य् एतास्व् अपोनप्त्रियास्व् अग्निष्टोमसाम भवति। आपो वा अपोनप्त्रियः। अग्ना उ वा एतं प्रास्यन्ति यम् अग्निष्टुता याजयन्ति॥2.137॥


तद् यथाग्निदग्धम् अद्भिर् अभिषिंचेत् तादृग् एव तच् छान्त्यै। तद् आहुर् - योम् वा अग्निदग्धम् अद्भिर् अभिषिञ्चति भूयो वैतत् प्रमृच्यति किलासं वा भवति। []आ नो यज्ञं दिविस्पृशं वायो याहि सुमन्मभिर् इत्य् एतास्व् एव वायुमतीषु कार्यं - वायुर् वै शान्तिश् - शान्त्या एवानिर्दाहायेति। तद् आहुर् यो वा अग्नीन् उपदीप्य वातेनोपवाजयति भूयो वै तद् दीप्यते। दीप्तिर् वावैषेति। तद् उ वा आहुस् - तद् वाव यजमान इच्छेद् यत् स दीप्येत। यद् उ दीप्त्यै, वायुर् एव दीप्त्यै। यद् उ शान्त्यै, वायुर् एव शान्त्यै। तस्माद् एतास्व् एव वायुमतीषु कार्यम् इति। तस्याजा च हिरण्यं दक्षिणा। आग्नेयी वा अजाग्नेयं हिरण्यम्। अथो आहुर् - अनड्वान् दक्षिणेति। वहति वा अनड्वान्, वहत्य् अग्निर् देवेभ्यो हविः। स्तोमम् एव तद्रूपेण समृद्धयन्ति॥2.138॥


अथैष इन्द्रस्तोमः। इन्द्रो वा अकामयत - सर्वेषां देवानां श्रेष्ठतां गच्छेयम् इति। स एतं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। ततो वै स सर्वेषां देवानां श्रेष्ठताम् अगच्छत्। गच्छति स्वानां श्रेष्ठतां य एवं वेद। इन्द्रे ह वा अग्रे यज्ञ आस। श्रीर् ह वा अस्मिंस् तद् आस। यज्ञम् उ ह वाव देवानां श्रीः। तम् उ ह वृत्रो ऽभिववृधे। स देवान् उपाधावद् - युष्माभिर् बलेनेमं वृत्रं हनानीति। तम् अब्रुवन् - स वै नो यस् ते ऽयं निष्केवल्यो यज्ञस्, तं प्रयच्छेति। तस्माद् राजनि विजिगीषमाणे विशः प्रदानम् इच्छन्ते। तस्माद् उ राजा विजिगीषमाणो विश एव प्रदानं प्रयच्छति। स वसुभ्य एव प्रातस्सवनं प्रायच्छद्, रुद्रेभ्यो माध्यंदिनं सवनम्, आदित्येभ्यस् तृतीयसवनं विश्वेभ्यश् च देवेभ्यः। तैर् बलेनेन्द्रो वृत्रम् अहन्। अजयन् देवा असुरान्। स वृत्रं हत्वा विजित्य पृथग् एवैषाम् इमा श्रियो दीप्यमाना अपश्यत्। तम् अभिशस्तिर् अविन्दन्। स ऐक्षत - कथं न्व् अहम् एषाम् इमा श्रियस् संवृञ्जीयेति। स एतेनैव यज्ञेनायजत। तेनैषां सर्वा श्रियस् समवृंक्त। वृंक्ते द्विषतो भ्रातृव्यस्य श्रियं य एवं वेद॥2.139॥


स ऐन्द्रीष्व् एव सर्वो भवति। ऐन्द्रीष्व् एव प्रातस्सवनं भवत्य्, ऐन्द्रीषु माध्यंदिनं सवनम्, ऐन्द्रीषु तृतीयसवनम्। तद् यद् गायत्रं सत् प्रातस्सवनम् ऐन्द्रीषु क्रियते वसूनाम् एव तेन यज्ञं समवृंक्त। अथ यत् त्रैष्टुभं सन् माध्यंदिनं सवनम् ऐन्द्रीषु क्रियते, रुद्राणाम् एव तेन यज्ञं समवृंक्त। अथ यज् जागतं सत् तृतीयसवनम् ऐन्द्रीषु क्रियत, आदित्यानाम् एव तेन यज्ञं समवृंक्त, विश्वेषां च देवानाम्। त एनम् आत्तयज्ञा उपासीदन् विशस्, ते सामयज्ञेनो ऽन्वाभजेति, य़था भर्तारं भार्या उपसीदन्ति तथा। स वसून् एव प्रातस्सवने ऽन्वाभजद्, रुद्रान् माध्यंदिने सवने, आदित्यांस् तृतीयसवने विश्वांश् च देवान्। यथा राजा विजित्य स्वे वित्ते भार्यान् अन्वाभजेद् एवम् एवैनांस् तद् अन्वाभजत्। तस्माद् इन्द्राय वसुमते रुद्रवत आदित्यवते विश्वदेव्यावत इत्य् अन्वाहुस्। स पञ्चदशो भवति। वज्रो वै पञ्चदशः। वज्र इन्द्रः। ऐन्द्र एष यज्ञस् तत् तत्सलक्ष्म क्रियते। स उक्थ्यो भवति। विड् वा उक्थानि। क्षत्रम् एव तद् विश्य् अध्यूहन्ति। तस्मा(त्) क्षत्रियो विश्य् अध्यूढः। स य श्रीकाम स्यात् स एतेन यजेत। क्षत्रं श्रीः, क्षत्रयज्ञ एषो, ऽश्नुते श्रियम्॥2.140॥


  1. ऋ. ८.१०१.९