जैमिनीयं ब्राह्मणम्/काण्डम् २/०३१-०४०

विकिस्रोतः तः
Jump to navigation Jump to search

अयम् एव स्पृष्ट्यो यो ऽयं पवते। एतेन हीदं सर्वं स्पृष्टम्। स्पृष्ट्यो ह वै नामैषः। तं पृष्ठ्य इति परोक्षम् आचक्षते। सर्वान् कामान् स्पृशति य एवं वेद।

असाव् एवाभिप्लवो यो ऽसौ तपति। एष हीदं सर्वम् अभिप्लवते।

तद् आहुर् यत् पृष्ठ्याभिप्लवाव इत्य् आचक्षते ऽभिप्लवम् उ वै पूर्वम् उपयन्ति। कथं पृष्ठ्यः पूर्व उपेतो भवतीति। स ब्रूयाद् यद् एवायम् अवरो वायुः पवते पर आदित्यस् तेनेति। अथो यत् परं सन्तम् अभिप्लवम् अवरम् उपयन्ति व्यतिषंगायानिर्मार्गाय सर्वायुष्टायै।

तद् आहुर् यच् चत्वारो ऽभिप्लवस्य स्तोमाष् षट् पृष्ठ्यस्य कथं तत् सभारम् इति। स ब्रूयाद् यद् एवैते सदृशि देवते वायुश् चादित्यश च तेन सभारम् इति। अथो यद् ब्रह्माभिप्लवः क्षत्रं पृष्ठ्यस् तेनो एवेति॥2.31॥


तद् आहुर् यद् एते पृष्ठ्यस्य विषमा स्तोमास् त्रिवृत् पञ्चद(श)स् सप्तदश एकविंशस् त्रिणवस् त्रयस्त्रिंश इति, कथम् एतत् समात् समम् उपेतं भवतीति। स ब्रूयाद् ब्रह्म वै त्रिवृत्। क्षत्रं पञ्चदशः। ब्रह्म वै क्षत्रा(ज्) ज्यायः। तेन समात् समम् उपेतं भवति। विट् सप्तदशः। क्षत्रम् उ वै विशो ज्यायः। तेन समात् समम् उपेतं भवति। एकविंशं स्तोमम् अनु शूद्रः। वैश्यो वै शूद्राज् ज्यायान्। तेन समात् समम् उपेतं भवति। त्रिणवं स्तोमम् अनु ग्राम्याः पशवः। शूद्रो वै ग्राम्येभ्यः पशुब्य श्रेयान्। अत्ता हि स तेषाम्। तेन समात् समम् उपेतं भवति। त्रयस्त्रिंशं स्तोमम् अन्व आरण्याः पशवः। ग्राम्या वै पशव आरण्येभ्यः पशुभ्य श्रेयांसः। बिभ्यत इतरे चरन्त्य् अधिगन्तेतरेषां हन्ता। तेन समात् समम् उपेतं भवति।

तद् आहुः कस्माद् एकरूपो ऽभिप्लवो द्विरूपः पृष्ठ्यस् समान एव सन् व्यूढश् च समूढश् चेति। स ब्रूयाद् यस्माद् इदं ब्रह्म ब्रह्मैव । अथ यस्माद् उ क्षत्रियस् सन् ब्राह्मणो भवति तस्माद् एकरूपो ऽभिप्लवो द्विरूपः पृष्ठ्य इति।

तद् धैतद् एके ऽभिप्लवस्य षष्ठम् अहर् उक्थ्यं कुर्वन्त्य् एवं सभारम् इति। तद् उ होवाच शाट्यायनिर् मोहयन्ति ते ऽभिप्लवं ये तथा कुर्वन्ति। अब्रह्म तर्हि भवति। तस्मात् तथा न कार्यम् इति।

अथ हैके पृष्ठ्यस्य षष्ठाद् अह्नो द्विपद उद्धरन्त्य् एवं सभारम् इति। तद् उ होवाच शाट्यायनि स्वर्ग एष लोको यत् पृष्ठ्यष् षडहः। यजमान एष निदानेन यद् द्विपदः। तम् आयतनाच् च्यावयन्ति। स य एनांस् तथा चक्रुषो ब्रूयाद् आयतनाद् वा च्योष्यन्ते ऽस्माद् वा लोकाद् इति। तथा हैव स्युः। तस्मात् तथा न कार्यम् इति॥2.32॥


तद् आहुर् यद् इदं प्रायणीयम् अहस् त्रिवृद् आचक्षते, प्रायणीयम् इत्य् अदश् चतुर्विंशं, कथम् एतत् त्रिवृता प्रयतं भवतीति। स ब्रूयाद् यद् एवैते चत्वारिंशत् त्रिवृतस् संपद्यन्ते तेन त्रिवृता प्रयतं भवतीति। स ब्रूयाद् यद् एवैते चत्वारिंशत् त्रिवृतस् संपद्यन्ते तेन त्रिवृता प्रयतं भवतीति। अथो यच् चतुर्विंशत्यक्षरा गायत्री तेनो एवेति।

तद् आहुः कथम् एतद् वैषुवतीयम् अहश् छन्दोम्यं भवतीति। स ब्रूयाद् यावन्ति सप्तानां चतुरुत्तराणां छन्दसाम् अक्षराणि तावत्य् एतस्याह्न स्तोत्रियाः। तेन छन्दोम्यं भवतीति।

तद् आहुर् यद् उपरिष्टाद् विषुवतश् छन्दोमान् उपयन्ति कथं पुरस्ताद् विषुवतश् छन्दोमा उपेता भवन्तीति। स ब्रूयाद् य एवैष आरम्भणीयस्याह्नश् चतुर्विंश(श्) छान्दोमिकस्तोमस् तेन पुरस्ताद् विषुवतश् छन्दोमा उपेता भवन्तीति। अथो यद् एव पृष्ठ्यस्य द्वे द्वे अहनी समस्ते छन्दोमास् संपद्यन्ते तेनो एवेति॥2.33॥


तद् आहुर् यत् षट्कृत्वः पुरस्ताद् विषुवतः पृष्ठ्यान्य् उपयन्ति विश्वजिति सप्तमम् उपरिष्टात् कथं तत् सभारम् इति। स ब्रूयाद् यद् वा अर्वाचीनं विषुवतस् तद् अयं लोको, यद् ऊर्ध्वं विषुवतस् तद् असौ लोकः। आसन्न इव वा अयं लोकः। प्ररिक्त इवासाव् अन्यः. द्वितीयो ह्य् अयं लोकः। तद् यद् विश्वजिति सप्तमम् उपरिष्टात् पृष्ठ्यान्य् उपयन्त्य् एवं सभारम् इति। अथो य एवम् उ य एव विश्वजित् पृष्ठमयम् एव। गौर् वै रथन्तरम् अश्वो बृहद् अजा वैरूपम् अविर् वैराजं व्रीहयश् शक्वर्यो यवा रेवतयः। स एष रसस् संसिक्तो यत् पृष्ठानि। तस्यैषो ऽक्षो यद् गायत्रीषु बृहद् अग्निष्टोमसाम भवत्य् एतस्य रसस्यानपवर्दाय। अथ य एतन् निर्हृतपृष्ठम् उपयन्ति विषिक्तरसं ते विश्वजितं शून्यं उपयन्ति। ते न किं चन व्यश्नुवते। तस्मात् पृष्ठमय एव विश्वजित् कार्य इति॥2.34॥


तद् धैतद् एके स्वरसाम्नां स्वराण्य् एव पृष्ठानि कुर्वन्ति। पृष्ठेन वा अहर् आख्यायते, स्वरसामान इत्येत आख्यायन्ते। तस्मात् स्वरसाम्नां स्वराण्य् एव पृष्ठानि कार्याणीति। ते चेत् स्वराणि पृष्ठानि कुर्युर् यानि ष्टं(?) भवन्ति तान्य् एकबृहतीषु कुर्युः। तद् उ होवाच शाट्यायनिर् वयं वाव प्रत्यक्षं स्वराणि पृष्ठानि कुर्मो ये बृहद्रथन्तरे कुर्मः। इदं वै रथनतरम् अदो बृहत्। आभ्याम् उ वै लोकाभ्याम् इदं सर्वं स्पृतम्। तस्माद् बृहद्रथन्तरे एव पृष्ठे कार्यं इति।

अथो हैते विच्छिन्नान् स्वरसाम्न उपयन्ति ये त्रीण्य् उपयन्ति। सर्वाण्य् एव कार्याणि। तथा द्वाभ्यां द्वाभ्याम् अहस् तायते। एवं संगृहीता स्वरसामानो भवन्त्य् अविच्छिन्ना, अथो पापवस्यसस्य व्यावृत्त्या इति।

तद् धैतद् एके विषुवतो बृहतीष्व् एव बृहत् पृष्ठं कुर्वन्ति --॥2.35॥


--बार्हतो विषुवान्, बार्हतो वासाव् आदित्यः। बृहत्याम् एष एतद् अध्यूढस् तपति। तस्माद् बृहतीष्व् एव बृहत् पृष्ठं कार्यम् इति।

अथ हैके बृहतीष्व् एव दिवाकीर्त्यं पृष्ठं कुर्वन्ति। बृहत्यायतनानि पृष्ठानि। इदं वा अन्तरिक्षं बृहती। तस्याम् अयं वायुर् अन्तः पवते। तत् पृष्ठं, तस्या उ एव यद् द्वादशाक्षरं पदं तेन, जगतीषु कृतं भवति। एवं तृतीयसवनम् अयातयाम क्रियत इति। तद् उ होवाच शाट्यायनिर् जागतो विषुवान्। जागतम् एतत् साम। जागतो ऽसाव् आदित्यः। यदा ह्य् एव उदेत्य् अथ जगद् एतस्यैव प्रयाणम् अनु प्रैति। तस्माज् जगतीष्व् एव दिवाकीर्त्यं पृष्ठं कार्यम् इति। ततो यास् तिस्रो जगत्यश् चतस्रस् ता बृहत्यः। तेन बृहतीषु कृतं भवति। तास् संस्तुता अष्टाविंशतिर् बृहत्यस् संपद्यन्ते। तेनो एव बृहत्य् अन्तरिता भवति। अथो हैतत् प्राणस्यैव रेतो निर्मितं यद् दिवाकीर्त्यम्। प्रजननं जगती। सो ऽसाव् आदित्यः। तद् यज् जगतीषु दिवाकीर्त्यं पृष्ठं कुर्वन्ति स्वेनैवैनं तद् आयतनेन समृद्धयन्ति। तेनैभ्यस् समृद्धेन स्वायां जनतायाम् ऋधुकं भवति॥2.36॥


तद् एतत् पृच्छन्ति किं तद् दिवाकीर्त्ये ऽहन् क्रियते येन प्रजाः प्रजनयति येन च प्रजा दाधारयति। स ब्रूयात् प्राणस्यैव रेतो निर्मितं यद् दिवाकीर्त्यम्। प्रजननं जगती। तेन प्रजाः प्रजनयति। अथ यत् प्राणो भूत्वा पराणि चावराणि चाहानि दाधर्ति तेनो एव प्रजा दाधारयति। प्राण एव दिवाकीर्त्यम्। चक्षुषी भ्राजाभ्राजे। श्रोत्रं विकर्णम्। वाग् दशस्तोभम्। त इमे प्राणा मध्यतो हिताः। तद् धै(त)द् एक उदित एवाज्यग्रहान् गृह्णन्ति। उदिते प्रातरनुवाकम् उपाकुर्वन्ति। दिवाकीर्त्यं वै नामैतद् अहः। तन् न रात्र्या संस्मजेयुर् इति। तद् उ होवाच शाट्यायनिस् सामभिर् वा अहान्य् अभिष्टुतान्य् ऋग्भी रात्रयः। सैषां रात्रिर् अनभिष्टुता शून्या भवति। अथो प्रजापतिर् एष यत् प्रातरनुवाकः। तम् आयतनाच् च्यावयन्ति। स य एनांस् तथा चक्रुषो ब्रूयाद् आयतनाद् वा च्योष्यन्ते ऽस्माद् वा लोकाद् इति, तथा हैव स्युः। तस्माद् यथैवेतरेषाम् अह्नां तथा कार्यम्।

प्राणापानाव् उपांश्वन्तर्यामौ। उदिते ऽन्यं जुह्वत्य् अनुदिते ऽन्यम्। बहिर् वै सन्तं प्राणम् उपजीवन्त्य् अन्तस् सन्तम् अपानम्। तद् यद् उदिते ऽन्यं जुह्वत्य् अनुदिते ऽन्यं, बहिस् सन्तं प्राणम् उपजीवामान्तस् सन्तम् अपानम् इति। अथ य एताव् उदिते जुह्वति, प्राणापानाव् उत्खिदन्ति। स य एनांस् तथा चक्रुषो ब्रूयात् प्राणापानाव् उदखात्सुर् मरिष्यन्तीति, तथा हैव स्युः। तस्माद् यथैवेतरेषाम् अह्नां तथा कार्यम्॥2.37॥


तानि वा एतानि दीक्षमाणाद् उत्क्रामन्त्य् अग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पशुबन्धः पितृयज्ञो गृहमेधो ब्रह्मौदनो मिथुनम्। तद् यद् दीक्षोपसत्सु स्वाहेति व्रतयति, तेनास्य दीक्षोपसत्स्व् अनन्तरितम् अग्निहोत्रं भवति। यद् उपांश्वन्तर्यामाव् उदिते ऽन्यं जुह्वत्य अनुदिते ऽन्यं, तेन सुत्यायाम्। यत् पुरोडाशस् तेन पौर्णमासम्। य(द्) दधि तेनामावास्यम्। यत् पयस्या तेन चातुर्मास्यानि। यत् पशुम् आलभन्ते तेन पशुबन्धः। यद् उषासनान्य् उपास्यन्ति तेन पितृयज्ञः। यद् धानाः करम्भो भवति तेन गृहमेधः। यत् सौम्यम् आहन्ति तेन ब्रह्मौदनः। यत् पत्नीस् संख्यापयन्ति तेन मिथुनम्।

तद् धैक आहुः प्राणेन त्वा संभवामनीत्य् एव प्रतिष्णाम् अभिप्राण्यानीति। तद् उ होवाच शाट्यायनिर् अवकीर्णरूपम् इवैतत्। एको वाव पुमान् प्राणावे विद्ययैवैतद् अनन्तरितम् अथो यद् एव यज्ञायज्ञीयस्य स्तोत्रे संख्यापयन्ति॥2.38॥


तद् आहुर् यद् अन्यैर् अन्यैः सामभि स्तुवते ऽन्या अन्या अनुशंसन्त्य्
अथ कस्मात् समाना गृहा इति। स ब्रूयाद् अन्नं वै साम। अन्नम् ऋक्। प्राणा गृहाः। अन्यद् अन्यद् वै प्राणेभ्यो ऽन्नम् आहरन्ति। तस्माद् अन्यैर् अन्यैः सामभि स्तुवते ऽन्या अन्या अनुशंसन्ति समाना एव गृहा इति।

प्राणा एव साम। तन् मूलम्। अथ यथा वृक्षस्य स्कन्धांसि वा शाखा वा पलाशानि वैवम् अन्यानि सामानि। स य एतद् एवं वेद सर्वाण्य् एवास्य सामानि विदितानि भवन्ति।

वाग् एवर्क्। तन् मूलम्। अथ यथा वृक्षस्य स्कन्धांसि वा शाखा वा पलाशानि वैवम् अन्या ऋचः। स य एतद् एवं वेद सर्वा एवास्यर्चो विदिता भवन्ति।

मन एव यजुः। तन् मूलम्। अथ यथा वृक्षस्य स्कन्धांसि वा शाखा वा पलाशानि वैवम् अन्यानि यजूंषि। स य एतद् एवं वेद सर्वाण्य् एवास्य यजूंषि विदितानि भवन्ति॥2.39॥


तद् आहुः किं नातिष्टुवन्ति, किं नातिशंसन्ति, किं नातिगृह्णन्तीति। स ब्रूयात् प्राणम् एव नातिष्टुवन्ति। स्तुते वै प्राण एव परिशिष्यते। वाचम् एव नातिशंसन्ति। शस्ते वै वाग् एव परिशिष्यते। मन एव नातिगृह्णन्ति। गृहीते वै मन एव परिशिष्यते। नातिष्टुतं नातिशस्तं नातिगृहीतम् एवंविदम् संपन्नम् एव भवति।

अथ ह वै समृद्ध एव यज्ञ उपासितव्यः। यद् अधीयन्न् अनुपहन्यमानः करोति तत् स्वर्ग्यम्। स्वर्ग्यं म एतत्, स्वर्गलोक एतेन भविष्यामीत्य् एव तद् विद्यात्। अथ यद् दुरधीयन्न् उपहन्यमानो विषिञ्चन् करोति, पुष्टिस् सा प्रजननम्। पुष्टिर् म एषा प्रजननं, बहुर् भविष्यामि प्रजनिष्य इत्य् एव तद् विद्यात्॥2.40॥