जैमिनीयं ब्राह्मणम्/काण्डम् २/०२१-०३०
← कण्डिका १०-२० | जैमिनीयं ब्राह्मणम्/काण्डम् २ कण्डिका ०२१-०३० [[लेखकः :|]] |
कण्डिका ३१-४० → |
तद् आहुर् नौधसम् एवैतस्याह्नो ब्रह्मसाम कार्यम् इति। तद् ध तत् पक्षम् अनुवदति। रथन्तरम् एव श्यैतम् एव कार्यम् इति। तद् उ ह तत् पक्षम् एवानुवदति। बृहद् एव पञ्चनिधनम् एव वामदेव्यं कार्यम् इति। आत्मानं हैव तद् अनुवदति। श्रायन्तीयम् एव कार्यम् इति। न ह वै किं चन श्रायन्तीयम् अनुवदति। महावैष्टम्भम् एव कार्यम्। तद् दिङ्निधनं भवति। दिशो वै पृष्ठानि। इयम् एव प्राची दिग् रथन्तरम् इयं बृहद् इयं वैरूपम् इयं वैराजम् अमूर् मह नाम्नीर् इमा रेवतयः। दिग्भ्यो वा एतस्मा अन्नाद्यं हरन्ति। दिग्भ्यो वा अस्मा अन्नाद्यं ह्रियते य एवं वेद। अथो हैषाम् एतेनैव सर्वाणि पृष्ठानि ब्रह्मसामवन्ति भवन्ति। तस्माद् उ हैतत् सामैतस्माद् अह्नो नान्तरित्यम्। तद् उ सतोबृहतीषु भवत्य् उत्क्रान्त्या एवानपभ्रंशाय॥2.21॥
तद् आहुर् इलान्दम् एवैतस्याह्नो अग्निष्टोमसाम कार्यम् इति। तस्यैषा कल्याण्य् एव प्रशंसा। अतिरिच्यते यद् व्यवच्छिन्द्युरा(?)मणीय तद् यद् अदः पक्षम्। इलान्दं तद् आर्भवस्य पवमानस्यानुष्टुभि कार्यं, यद् अभ्युदितं तन् नेद् अन्तरयामेति।
वारवन्तीयम् एव कार्यम् इति। तस्यैषा कल्याण्य् एव प्रशंसा। निषिद्धम् इव तु यावद् धैव कृत्वो यजते तावद् बुभूषति तावत् कामयते -- श्रेयान् स्यां श्रेयान् स्याम् इति। तद् आर्भवस्यैव पवमानस्य गायत्र्यां कार्यं, यद् अभ्युदितं तन् नेद् अन्तरयामेति।
तद् उ वा आहुर् यद् वावान्या वाङ् नातिवदति तद् एतस्याह्नो ऽग्निष्टोमसाम कार्यम्। यज्ञायज्ञीयं वावान्या वाङ् नातिवदति। वाग् वै यज्ञायज्ञीयम्। कुतो हि वाग् वाचम् अतिवदिष्यति। तस्माद् एतस्याह्नो यज्ञायज्ञीयम् एवाग्निष्टोमसाम कार्यम् इति। अथैतच् चतुस्त्रिंश - संमितम् अनुष्टुभि कुर्वन्ति। त्रयस्त्रिंशद् वै देवताः। प्रजापतिश् चतुस्त्रिंशः। सप्रजापतिका एवैतेन देवा ऋध्नुवन्ति। अथ यद् आरम्भणीये ऽहंस् त्रयस्त्रिंशत्संमितम् भवति देवता एव तेनर्ध्नुवन्ति। अथैतेन सप्रजापतिका एवैतेन देवता अन्तत ऋद्ध्वाप्त्वोत्तिष्ठन्ति॥2.22॥
तद् आहुः कां देवतां दीक्षमाणा अनुनिषीदन्ति काम् अनूत्तिष्ठन्तीति। स ब्रूयाद् अग्निं देवतानां दीक्षमाणा अनुनिषीदन्त्य् आदित्यम् अनूत्तिष्ठन्तीति। तस्माद् दीक्षितान् सत आहुर् आसत इति, यद्य् अपि ते शयीरन्न् अथोत्तिष्ठेयुः। अग्निर् हि देवानाम् आसीनानां श्रेष्ठः। अग्निदेवत्या हि तर्हि भवन्ति। तस्माद् उत्थितान् सत आहुर् उदस्थुर् इति, यद्य् अपि त आसीरन्न् अथो शयीरन्। आदित्यो हि देवानाम् उत्थितानां श्रेष्ठः। आदित्यदेवत्या ह तर्हि भवन्ति।
तद् आहुः के भूत्वोत्तिष्ठन्तीति। स ब्रूयान् मनुष्या भूता दीक्षन्ते देवा भूत्वोत्तिष्ठन्तीति।
त एतद् ऋग्रेतसं यजूरेतसं ब्रह्मणि योनौ रेतो दधतो यन्ति। अग्नाव् एव तद् आहुतीभिर् अभिजुह्वतो यन्ति। तस्माद् दीक्षोपसत्सु वीव ग्लायन्ति। तरुणम् इव तर्हि रेतो भवति। तस्माद् उ स्त्री दुर्हृदिनी वीव ग्लायति। तरुणम् इव हि तर्हि रेतो भवति। तान् स्तुतिशस्त्रैस् त्रिर् वर्धयन्तो ऽभिशृण्वन्तो यन्ति। तस्माद् गर्भा अनश्नतस् संभवन्ति॥2.23॥
त ऋङ्मया यजुर्मयास् साममया ब्रह्ममया हिरण्मया अमृतास् संभवन्ति। ऋङ्मयो ह वै यजुर्मयस् साममयो ब्रह्ममयो हिरण्मयो ऽमृतस् संभवति, ऋङ्मयान्य् अस्यास्थानि भवन्ति य एवं वेद। तान् उद्गाता पुरस्तात् संवत्सरस्य जनयित्वा होत्रे प्रयच्छति। तान् होता सूक्तैस् सूते। तत् सूक्तानां सूक्तत्वम्। ताञ् छस्त्रैः प्रशास्ति। तच् छस्त्राणां शस्त्रत्वम्। तान् उक्थैर् उत्थापयति। तद् उक्थानां उक्थत्वम्। तेभ्य एतद् देव्यं मध्व् अशीतीर् अन्नाद्यं प्रयच्छति। मधु हास्यास्मिंश् च लोके ऽमुष्मिंश् चान्नं भवति य एवं वेद। अक्षरेणाक्षरेणो हास्मै विद्यास् सर्वान् कामान् दुह्रे। तस्मात् संवत्सर एव शस्यं संवत्सरे प्रोच्यम्। तस्माद् ब्राह्मणो हतो न स्तायाद्भवति। तस्माद् रेतस् सिक्तं न स्तायाद्भवति। तस्माद् उ हैवं विद्वान् न स्तायाद्भवति। अशीतिभिर् वै देवा इमान् लोकान् इमान् अध्वन् आश्नुवत। तद् अशीतीनाम् अशीतित्वम्। तिसृभिर् एवेमं लोकम् आश्नुवत, तिसृभिर् अन्तरिक्षं, तिसृभिर् अमुं, चतसृभिर् एव दिश आश्नुवत, चतसृभिर् अवान्तरदेशान्, एकयामूम् ऊर्ध्वा, द्वानवाशीतयो ऽभवन्। नव प्राणाः। अश्नुते प्राणान्। सप्राणस् संभवति। सर्वम् आयुर् एति। नाकामो म्रियते॥2.24॥
अथैषौदुम्बरी राजासन्दी। तस्यै बृहद्रथन्तरे पूर्वौ पादौ, वैरूपवैराजे अपरौ, शाक्वररैवते अनूच्यानि, ऋचः प्राचीनम् आताना, यजूंषि तिरश्चीनं , सामान्य् आस्तरणं, वाकोवाक्यम् अतीरोका, श्रीर् उपबर्हणम्। तस्यै प्रजापतिश् च बृहस्पतिश च पूर्वौ पादाव् अधारयेतां, सोमश् च वरुणश् चापरौ। तस्याम् एतम् आदित्यम् अभ्यषिञ्चन्त। वसवो राज्याय रुद्रा वैराज्यायादित्या स्वाराज्याय विश्वे देवास् साम्राज्याय मरुतस् सार्ववश्याय साध्याश् चाप्त्याश् च पारमेष्ठ्याय। तन् न हैतावत् कयाचन देवतया जितं यावद् आदित्येन। ये हि सुता देवानाम् आसंस् त एनम् असुवत। तस्मिन् दिशो अपित्वम् ऐच्छन्त यथा राजनि विजितिन्य् अपित्वम् इच्छन्त एवम्। ता अब्रवीत् -- प्रदानं मे प्रयच्छतेति। सेयं प्राची दिक् प्रायच्छन् मद् उदयेत्य् अहश् च सत्यं च। माम् अभ्य् उदयेत्य् ऊर्ध्वा दिक् प्रायच्छत् क्षत्रं च राष्ट्रं च। माम् अभ्य् अपक्रामेति दक्षिणा दिक् प्रायच्छद् अन्नं च रथं च। माम् अभ्य् अपक्रामेत्य् उदीची दिक् प्रायच्छद् रूपं च वर्णं च। समया माम् अयेत्य् अन्तरिक्षं प्रायच्छत् प्रकाशं चासंबाधं च। माम् अभ्य् अस्तम् अयेति प्रतीची दिक् प्रायच्छद् ऋतं च रात्रिं च। अनु माम् आ तपेति पृथिवी प्रायच्छत् --॥2.25॥
-- क्षेमं च विमोकं च। अथ हाप श्रेयसीर् मेनिरे। ताः प्रति त्वा वयम् आतपाम इति यात्रां च प्रयां च प्रायच्छन्। अद्भिर ह वा एष एतद् एत्य् अपाम् एवायनेन। तासाम् एतासाम् ऊर्ध्वाश् छायाः, प्रति हैनं तद् आतपन्ति। स एवम् एता दिश उपाप्नोति। अस्यै प्राच्यै दिश उदेति। अभ्य् उदेतीमाम् ऊर्ध्वां दिशम्। षड् इत्थं मास एति, षड् इत्थ(म्)। समयान्तरिक्षम् एति। अभ्य् अस्तम् एतीमाम् अपरां दिशम्। अन्व् इमां पृथिवीम् आतपति। तद् यथा पतिर् जाया अनुसंचरेद् एवम् एवैना एष एतद् अनुसंचरति।
स ऐक्षताहम् एवेदं सर्वं संवृणजा इति। स वशम् एव दिव आदत्त, क्षत्रं नक्षत्राणाम्, आत्मानम् अन्तरिक्षस्य, रूपं वायोर्, आज्ञां मनुष्याणां, चक्षः पशूनाम्, ऊर्जम् अपां, रसम् ओषधीनां, चरथं वनस्पतीनां, शिश्नं वयसाम्, अर्चिषम् अग्नेर्, हृदयं पृथिव्यै, गन्धं हिरण्यस्य, स्तनयित्नुं वाचस्, सङ्गमं पितॄणां, भां चन्द्रमसः। तद् यद् एतेषां भूतानाम् आदत्त, तद् आदित्यस्यादित्यत्वम्। स य एतद् एवं वेदैष एवादित्यो भूत्वैतस्यां राजासन्द्याम् आस्ते॥2.26॥
न ह ब्रूयात् -- सत्त्रम् आसिष्य इति। श्रमिष्यामीत्य् एव वक्तव्यम्। द्वे ह वाव देवते सत्त्रम् आसाते प्राणापानाव् एव। तयोस् सो ऽभ्यारोहः। तद् यत् ताव् इदं सत्त्रायेते तस्मात् तौ सत्त्रसदौ। तस्माद् उ श्रमिष्यामीत्य् एव वक्तव्यम्। तस्यैष श्लोकः --
सप्तर्षयः प्रतिहितास् सुभूते
सप्त पश्यन्ति बहुधा निविष्टौ।
सप्तैतं लोकम् उपयन्त्य् आपो
ऽस्वप्नजौ सत्त्रसदौ यत्र देवा॥
इति। सप्तर्षयः प्रतिहितास् सुभूत इति पुरुषो वै सुभूतम्। त इमे सप्तर्षयः प्रतिहिताः प्राणा एव। सप्त पश्यन्ति बहुधा निविष्टाव् इति बहुधा ह्य् एतौ निविष्टौ पश्यन्ति यत् प्राणापानौ। सप्तैतं लोकम् उपयन्त्य् आप इतीमा द्वयीर् आप इमा द्वयीर् इमा एका इमा द्वयीर् अवाचीः। अस्वप्नजौ सत्त्रसदौ यत्र देवा इत्य् एते एव ते देवते। स य एतद् एवं वेद -- ॥2.27॥
--यदि च स ह सत्त्रम् आस्ते यदि च नाथ हास्यासितम् एव सत्त्रं भवति। य उ एवं विद्वाञ् छ्रमम् उपपरैत्य् एते एवास्य देवते भागास् सत्त्रम् आसाते सो ऽनार्तस् संवत्सरस्योदृचं गच्छति।
असाव् एव संवत्सरो यो ऽसौ तपति। तस्य यद् भाति तत् संवद्, यन् मध्ये कृष्णं मण्डलं तत् सर इत्य् अधिदेवतम्। अथाध्यात्मम्। अयम् एव संवत्सरो यो ऽयं चक्षुषि पुरुषः। तस्य यच् छुक्लं तत् संवद्, यन् मध्ये कृष्णं मण्डलं तत् सरः। तस्यैष श्लोकः --
मद् एवोदेति सूर्यो ऽस्तं मद् उ च गच्छति।
मां सर्वे देवा अन्वायत्ता माम् उ नात्येति किं चन॥
इति. मद् एवोदेति सूर्य इत्य् एवंविदो ह वाव सूर्य उदेति। अस्तं मद् उ च गच्छतीत्य् एवंविदो ह वावास्तम् एति। मां सर्वे देवा अन्वायत्ता इत्य् एवंविदं ह वाव सर्वे देवा अन्वायत्ता। माम् उ नात्येति किं चनेत्य् एवंविदं ह वाव न किं चनात्येति॥2.28॥
तद् आहुः किं संवत् किं सरं किम् अयनम् इति। स ब्रूयात् त्रय्य् एव विद्या संवत्। तां हि सर्वे देवास् संवान्ताः। अहोरात्रे एव सरः। ते हीदं सर्वं सरतः। आदित्य एवायनम्। स ह्य् एषु लोकेष्व् एति। इत्य् अधिदेवतम्। अथाध्यात्मम्। अन्नम् एव संवत्। तद् धीदं सर्वं संवान्तम्। वाग् एव सरः। वाचा हि पुरुषस् सरति। प्राण एवायनम्. स ह्य् अस्मि्न् सर्वस्मिन्न् एति। स य एवम् एतद् अधिदेवतं चाध्यात्मं च संवत्सरायणं वेदानार्त एव संवत्सरस्योदृचं गच्छति।
तद् आहुः कथं संवत्सर एकच्छन्दा बार्हतो भवतीति--॥2.29॥
--अहोभिर् इति ब्रूयात्। कथम् अहोभिर् इति। अतिरात्राव्, आरम्भणीय महाव्रतीये अहनी, पृष्ठ्याभिप्लावाव्, अभिजि(त्), त्रय स्वरसामानः, प्रत्यञ्चस् त्रय स्वरसामानो, विश्वजिद्, गोआयुषी, दशरात्रो, वैषुवतम् एव सप्तत्रिंशम् एतस्मिन् स्वर्गे लोके ऽध्यूढम्। तस्यैष श्लोकः --
तां विंशति(स्) सप्तशतानि चाहु(ष्)
षट्त्रिंशिनीं बृहतीं कल्पमानाम्।
सानुष्टुब् भूत्वा पशुभिस् सयोनिर्
देवान् पितॄन् ददते मनुष्यांश् च॥
इति। तां विंशतिस् सप्तशतानि चाहुर् इत्य् अहोरात्रा एव ते। षट्त्रिंशिनीं बृहतीं कल्पमानाम् इत्य् एवं ह तद् अहोभि(ष्) षट्त्रिंशिनी बृहती कल्पते। सानुष्टुब् भूत्वा पशुभिस् सयोनिर् इतीयम् एव दिग् गाम् आहरद् इयम् अश्वम् इयम् अजाम् इयम् अविम्। अनुष्टुभे वा एतस्यै सत्यै दिशश् शुल्कम् आहरन्न् इत्य् एवं ह तत्। देवान् पितॄन् ददते मनुष्यांश् चेति। वाग वा अनुष्टुप्। वाचो वा इदं सर्वं यतम्। एवं वै संवत्सर एकच्छन्दा बार्हतो भवतीति॥2.30॥