जैमिनीयं ब्राह्मणम्/काण्डम् १/२०१-२१०

विकिस्रोतः तः
Jump to navigation Jump to search

प्रष्टिर् इव ह खलु वा एतत् स्तोत्राणां यत् षोडशी। यद् वै प्रष्टिर् अनियुक्तो वह्त्य् अप वा वै स छिनत्ति निर् वा मार्ष्टि। अन्त्येन स्तोत्रेण समस्तोमो भवति। स यथा प्रष्टिं प्रष्टियुगाय नियुञ्ज्याद् एवम् एवैतत् पूर्वेषु स्तोत्रेषु षोडशिनम् अनुनियुनक्त्य् अनिर्मार्गाय॥

अक्षीव ह खलु वा एतत् स्तोत्राणां यत् षोडशी। अन्त्येन स्तोत्रेण समस्तोमो भवत्य् अनाक्षितायैव॥

जामीव ह खलु वा एतत् स्तोत्राणां यत् षोडशी। अन्त्येन स्तोत्रेण समस्तोमो भवत्य् अजामितायै॥

पशवो वा उक्थानि वज्रष् षोडशी। यद् उक्थानाम् अन्ततष् षोडशिना स्तुवन्ति वज्रेणैव तत् पशून् परिगृह्णन्त्य् अपरावापाय। नास्य वित्तं परोप्यते य एवं वेद॥1.201॥


तद् आहुर् नोक्थष् षोडशी कार्य इति। पशवो वा उक्थानि वज्रष् षोडशी। वज्रं पशुषु विवर्तयेत्। अतिरात्र एव कार्यः। आपो वै सर्वस्य शान्तिः। अद्भिर् एवैनत् तच् छमयन्ति॥

यद्य् अभिचरणीयस् सोमस् स्याद् धिरण्मयं वज्रं भृष्टिमन्तं कृत्वा योय एव कर्म कुर्यात् तस्मैतस्मा उपप्रवर्तयेत्। सस एवास्मै वज्रं प्रहरति स्तृत्यै। संस्थिते सोमे न्यञ्चं द्रोणकलशं पर्यस्य करम्भमयान् वा पुरुषान् कृत्वा हरितानां वा तृणानां तेषां नामग्राहं ग्रीवा अपिकृन्तेत् इदम् अहम् अमुष्य ग्रीवा अपिकृन्तामीदम् अमुष्येदम् अमुष्य इति। यावताम् एव नामानि गृह्णाति तावतां ग्रीवा अपिकृन्तति। तं ब्रह्मणे ददाति। ब्रह्म वै ब्रह्मा। ब्रह्म वज्रः। ब्रह्मण्य् एवैतद् वज्रं प्रतिष्ठापयति॥1.202॥


इन्द्रश् च वै बृहच् च समभवताम्। इन्द्रं बृहद् . . . .अत्यरिच्यत। तस्या अबिभेद् अनयैव माभिभविष्यतीति। स देवान् अब्रवीत् षोडश्य् अयं यज्ञक्रतुर् अस्त्व् इति। तथेति। स षोडश्य् अभवत्। तत् षोडशिनो जन्म। अति श्रिया द्विषन्तं भ्रातृव्यं रिच्यते य एवं वेद॥

गायत्रीषु द्विपदासु बृहता षोडशिना तुष्टुवानः उप नो हरिभिस् सुतम् इति। एता वै गायत्र्यो द्विपदाः। इन्द्रो वै वृत्रम् अजिघांसत्। स प्रजापतिम् उपाधावद् धनानि वृत्रम् इति। तस्मा एताम् अपहरसम् अनुष्टुभं प्रायच्छत्। तया नास्तृणुत। स यद् अस्तृत्वा व्यनदत् तन् नानदम् अभवत्। तन् नानदस्य नानदत्वम्। तस्माद् आहुर् नानदं षोडशिसाम कार्यं न हि तेनास्तृणुतेति। तं पुनर् उपाधावद् धनान्य् एव वृत्रम् इति। तस्मै सप्तानां होत्राणां हरो निर्माय प्रायच्छत्। तिस्र एव होत्रायै। स एकविंशष् षोडशी समपद्यत। तेनो वृत्रम् अहन्। हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद। एकविंशायतनो ह खलु वै षोडशी। सप्त वै होत्राः प्रातस्सवने वषट्कुर्वन्ति सप्त माध्यंदिने सवने सप्त तृतीयसवने ऽथो यद् एवास्मै हरो निर्माय प्रायच्छत्॥1.203॥


गौरीवितिर् वा एतच् छाक्त्यो ऽतिरिक्तं ब्रह्मणो ऽपश्यत्। तद् गौरीवितम् अभवत्। अतिरिक्तं वा एतद् ब्रह्मणो यद् गौरीवितम् अतिरिक्तष् षोडशी स्तोत्राणाम्। यद् गौरीवितेन षोडशिना स्तुवन्त्य् अतिरिक्त एव तद् अतिरिक्तं दधति यज्ञस्य सलोमतायै॥

औपोदितिर् ह स्माह गौपालयो विशालं लिबुजयाभ्यधाद् अनुष्टुभि नानदम् अक्तत् गौरीवितेन षोडशिनम् अतुष्टुवन् न श्रियावपद्य इति। न ह वै श्रियावपद्यते य एवं वेद॥

तद् उ श्वस्तनवद् अपि प्रजाया उपक्लृप्तम्। शक्वरीषु षोडशिसाम कुर्वीत पशुकामः। वज्रो वै षोडशी पशवश् शक्वर्यः। वज्रेणैव पशुं स्पृणोति पशुमान् भवति। शक्वरीषु षोडशिसाम कुर्वीत यः कामयेत वज्री स्याम् इति। वज्रो वै षोडशी वज्रश् शक्वर्यः। वज्रेणैव वज्रं स्पृणोति वज्री भवति। विराट्स्व् अन्नाद्यकामष् षोडशिसाम कुर्वीत। वज्रो वै षोडश्य् अन्नं विराट्। वज्रेणैवान्नाद्यं स्पृणोत्य् अत्त्य् अन्नम् अन्नादो भवति। तास् त्रयस्त्रिंशदक्षरा भवन्ति। ततो यान्य् एकविंशतिः प्रतिष्ठा सा। अथ यानि द्वादश प्रजननं तत्। प्रति प्रतिष्ठायां तिष्ठति प्रजायते नो चान्तस्थायां जीयते य एवं वेद॥1.204॥


प्र वो महे महेवृधे भरध्वम् इत्य् एता वै विराजः। अनुष्टुप्सु षोडशिसाम कुर्वीत यः कामयेत न मान्या वाग् अतिवदेद् इति। वज्रो वै षोडशी वाग् अनुष्टुप्। वज्रेणैव वाचं स्पृणोति नैनम् अन्या वाग् अतिवदति। आ तिष्ठ वृत्रहन् रथम् इत्य् एता वा अनुष्टुभः। अथैतास् त्र्यक्षरा एकपदा भवन्ति। विष्णोश् छन्दो भूरिजश् शक्वर्य इति। एताभिर् वा इन्द्रो वृत्रम् अहन्न् एताभिश् श्रियाम् आश्नुतौषम् एव। द्विषन्तं भ्रातृव्यं हन्त्य् ओषं श्रियम् अश्नुते य एवं वेद॥

<poem>हिरण्यं संप्रदायं षोडशिना स्तुवन्ति। षोडशिनम् एव तज् ज्योतिष्मन्तं कुर्वन्ति॥
अश्व उपतिष्ठते साम्येक्ष्याय। भ्रातृव्यलोकं वावैषां तद् विधमंस् तिष्ठति॥
यस्माज् जातो न परो ऽन्यो अस्ति य आ बभूव भुवनानि विश्वा।
प्रजापतिः प्रजया संरराणस् त्रीणि ज्योतींषि सचते स षोडशी॥

इति षोडशिग्रहम् अवेक्षते॥

इन्द्रश् च सम्राड् वरुणश् च राजा तौ ते भक्षयांचक्रतुर् अग्र एतम्। तयोर् अहं भक्षम् अनुभक्षयामि वाग् जुषाणा सोमस्य तृप्यतु॥ इति॥

एकाक्षरं देवानाम् अवमम् आसीत् सप्ताक्षरं परमम्। नवाक्षरम् असुराणाम् अवमम् आसीत् पञ्चदशाक्षरं परमम्। ते देवा अकामयन्त कनीयसा भूयो ऽसुराणां वृञ्चीमहीति। त एकाक्षरेण पञ्चदशाक्षरम् अवृञ्जत द्वयक्षरेण चतुर्दशाक्षरं त्र्यक्षरेण त्रयोदशाक्षरं चतुरक्षरेण द्वादशाक्षरं पञ्चाक्षरेणैकादशाक्षरं षडक्षरेण दशाक्षरं सप्ताक्षरेण नवाक्षरम्। अष्टाभिर् एवाष्टौ। एवं कनीयसा ज्यायसो द्विषतो भ्रातृव्यस्य वृंक्ते य एवं वेद॥1.205॥


अह्नो ऽसुरा नुत्ता रात्रिं प्राविशन्। ते देवा एतम् अनुष्टुप्शीर्षाणं वज्रं समभरन्। तेनैनान् अभ्यवायन्। वाग् वा एषा। वाचा ज्योतिषान्वभ्यवायन्। विराड् वा एषा। विराजा ज्योतिषान्वभ्यवायन्। न वै सुयज्ञ इवातिरात्रः। तद् यत् पान्तं भवति तेनैव यज्ञः क्रियते। अह्नश् च सुलम्बो रात्रेश् च संतत्या अप्यवच्छेदाय। यानि छन्दांस्य् अहर् वहन्ति तानि रात्रिं वहन्ति। एषा गायत्र्य् एषा विराड् एषा ककुब् एषानुष्टुप्॥

बृहतीषु स्तुवन्ति। तेन बृहतीभ्यो नयन्ति। तासां यद् द्वादशाक्षराणि पदानि तेन जगतीभ्यो नयन्ति। त्रिष्टुभा वषट्करोति। तेन त्रिष्टुभो नयन्ति। तान् संधिनाभिपलायन्त आश्विने नासंहेयम् अगमयन्। असंहेयं ह वै द्विषन्तं भ्रातृव्यं गमयति य एवं वेद॥

एषा वा अग्निष्टोमस्य संमा यद् रात्रिः। द्वादश वा अग्निष्टोमस्य स्तोत्राणि द्वादश रात्रेः। एषा वा उक्थस्य संमा यद् रात्रिः। त्रीण्य् उक्थानि त्रिदेवत्यस् संधिः। एषा वा अग्निष्टोमस्य च संवत्सरस्य च संमा यद् रात्रिः। द्वादश वा अग्निष्टोमस्य स्तोत्राणि द्वादश मासास् संवत्सरः। रात्र्या त्वाव त्रयोदशो मास आप्यते। एषा वै व्रध्नस्य विष्टपं यद् रात्रिः। गच्छति व्रध्नस्य विष्टपं य एवं वेद॥1.206॥

एष वाव सर्वगायत्रो यद् अतिरात्रः । न वै रात्र्या ऋते ऽहर् न रात्रिर् ऋते ऽह्नः। नैषा लोकानाम् एक एकः। अहोरात्रे वा इदं सर्वम् इमे लोकाः। भूतं भव्यं प्रजनयतः। तद् आहुर् न प्रथमं यजमानो ऽतिरात्रेण यजेतेति। स्वं च ह्य् अतिमन्यते। द्वौ यज्ञक्रतू। ब्रह्म वा अग्निष्टोमः। ब्रह्म वै ब्राह्मणस्य स्वम्। अग्निष्टोमं च ह्य् अतिमन्यत उक्थं च षोडशिनम्। तद् उ वा आहुर् अग्निष्टोममात्रं वावाग्निष्टोमेनाभिजयत्य् उक्थमात्रम् उक्थेन षोडशिमात्रं षोडशिना रात्र्या त्वाव सर्वम् अवरुन्द्ध इति। स यो हैवं विद्वान् एकेन यज्ञक्रतुना चतुरो यज्ञक्रतून् संतनोत्य् आस्य चत्वारो विराजयन्ते सर्वेषु पशुषु प्रतितिष्ठति॥1.207॥

अह्नो ऽसुरा नुत्ता रात्रिं प्राविशन्। ते देवा एतानि सामान्य् अपश्यन्न् एतान् पर्यायान्। तैर् एनान् अन्वभ्यवायन्। तान् पर्यायम् अघ्नन्। यत् पर्यायम् अघ्नंस् तत् पर्यायाणां पर्यायत्वम्। पर्यायम् एव द्विषन्तं भ्रातृव्यं हन्ति य एवं वेद॥

ये प्रथमरात्रेण छन्ना आसंस् तान् प्रथमेन पर्यायेणाघ्नन्। यत् प्रथमस्य पर्यायस्य प्रथमानि पदानि पुनरादीनि भवन्ति ये प्रथमरात्रेण छन्ना भवन्ति तान् एव तेन घ्नन्ति। ये मध्यरात्रेण छन्ना आसंस् तान् मध्यमेन प्रयायेणाघ्नन्। यन् मध्यमस्य पर्यायस्य मध्यमानि पदानि पुनरादीनि भवन्ति ये मध्यरात्रेण छन्ना भवन्ति तान् एव तेन घ्नन्ति। ये ऽपररात्रेण छन्ना आसंस् तान् उत्तमेन पर्यायेणाघ्नन्। यद् उत्तमस्य पर्यायस्योत्तमानि पदानि पुनरादीनि भवन्ति ये ऽपररात्रेण छन्ना भवन्ति तान् एव तेन घ्नन्ति। पुनरभिघातं वावैनांस् तद् अघ्नन्। यथा वै हत्वा पुनर् हन्यात् तादृक् तत्। पुनरभिघातम् एव द्विषन्तं भ्रातृव्यं हन्ति य एवं वेद॥1.208॥


शर्वरी वै नाम रात्रिः। ते देवा अब्रुवन्न् अपि वै नश् शर्वर्याम् अभूद् इति। तद् एवापिशर्वराणाम् अपिशर्वरत्वम्। अपि ह वा अस्य शर्वर्यां भवति य एवं वेद॥

असुरेषु वा इदम् अग्र आसीत्। तद् देवा अभिजित्याब्रुवन् केन न्व् अहोरात्रे उपरिष्टात् संदध्यामेति। त एतद् राथन्तरं संधिम् अपश्यन्। तेनाहोरात्रे उपरिष्टात् समदधुः। यत् समदधुस् तत् संधेस् संधित्वम्। आश्विनं ह खलु वै संधेर् उक्थम्। महति रात्रे सन्धिना स्तुवन्ति। आ सूर्यस्योदेतोर् आश्विनम् अनुशस्यते ऽहोरात्रयोर् एव संतत्या अहोरात्रयोस् समारम्भाय॥

अहोरात्रे देवा अभिजित्य ते वज्रम् एव परिधिम् अकुर्वत पशूनां गुप्त्या असुराणाम् अनभ्यवचाराय। तद् यद् एता उष्णिहो ऽन्ततः क्रियन्ते -- वज्रो वा उष्णिहः - वज्रेणैव तत् पशून् परिगृह्णात्य् अपरा(वा)पाय। नास्य वित्तं परोप्यते य एवं वेद॥1.209॥


असुरेषु वा इदम् अग्र आसीत्। तद् देवा अभिजित्याब्रुवन् वीदं भजामहा इति। तस्य विभागे न समपादयन्। ते ऽब्रुवन्न् आजिम् अस्यायामेति। त आजिम् आयन्। अग्नेः प्रथमो रथ आसीद् अथोषसो ऽथाश्विनोः। ताव् अश्विनाव् अश्वी अश्व्याम् अत्यकुरुताम्। तौ द्रवन्ताव् अग्निः पर्युदतिष्ठत्। ताव् अब्रूताम् अति नौ सृजस्वेति। नेत्य् अब्रवीद् अनु नु मा भजतम् इति। तृतीयं त इत्य् अब्रूताम् आवाभ्यां त्व् एवाख्यायताद् इति। तथेति ताव् अत्यार्जत। तौ द्रवन्ताव् उषाः पर्युदतिष्ठत्। ताव् अब्रूताम् अति नौ सृजस्वेति। नेत्य् अब्रवीद् अनु नु मा भजतम् इति। तृतीयं त इत्य् अब्रूताम् आवाभ्यां त्व् एवाख्यायताद् इति। तथेति ताव् अत्यार्जत। ताव् उदजयेताम्। स य एवम् एताम् अश्विनोर् उज्जितिं वेद यत्र कामयत उद् इह जयेयम् इत्य् उत् तत्र जयति। य उ एवैताम् अग्नेश् चोषसश् चान्वाभक्तिं वेद यत्र कामयते ऽन्वाभक्त इह स्याम् इत्य् अन्वाभक्तस् तत्र भवति। तस्मान् नानादेवत्यास् संस्तुवन्ति। अथाश्विनम् इत्य् एवाख्यायते। वारेवृतं हि तत् तयोः॥1.210॥


</poem>