जैमिनीयं ब्राह्मणम्/काण्डम् १/१९१-२००

विकिस्रोतः तः
Jump to navigation Jump to search

नार्मेधम् एव कार्यम्। तद् ऐळं भवति। पशवो वा इळा। पशुर् वा पतेतान् रात्रेर् निरवाघ्नन्। तस्मान् नार्मेधम् एव कार्यम् इति॥

आष्टादंष्ट्रे ऋद्धिकामः कुर्वीत। अष्टादंष्ट्रो वै वैरूपः पश्चेवान्येभ्य ऋषिभ्य एते सामनी अपश्यत्। सो ऽबिभेद् अस्तोत्रीये मे सामनी भविष्यत इति। सो ऽब्रवीद् ऋध्नवात् स यो मे ध्यामनि सोमस्य तर्पयाद् इति। उष्टिप्राशुभिते वा एते सामनी। ऋध्नुवन्त्य् एवैताभ्यां तुष्टुवानाः॥

अष्टादंष्ट्रो वैरूपः पशुकामस् तपो ऽतप्यत। स एते सामनी अपश्यत्। ताभ्याम् अस्तुत। स एताम् इळाम् उपैत्। पशवो वा इळा। ततो वै स पशून् अवारुन्द्ध। ते एते पशव्ये सामनी। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। यद् व् अष्टादंष्ट्रो वैरूपो ऽपश्यत् तस्माद् आष्टादंष्ट्रे इत्य् आख्यायेते॥

तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठति॥1.191॥


प्रजापतिर् यद् देवेभ्यस् तन्वो व्यभजत् ततो या हरिवत्य् आसीत् ताम् आत्मने ऽशिंषत्। ताम् इन्द्राय प्रायच्छत्। तयेन्द्रो ज्यैष्ठ्यम् अगच्छत्। तद् यद् धरिवतीषु स्तुवन्ति तद् ध्य् एव ज्यैष्ठ्यम्। हरिवतीः परोक्षम् अनुष्टुभस् संपद्यन्ते। तास् संस्तुताश् चतुस्त्रिंशदक्षरा भवन्ति। ततो ये चतुस्त्रिंशे अक्षरे साम्नस् ताभ्यां लोको विधीयत इत्य् आहुः। यत् पञ्चत्रिंशदक्षरासु स्तुयुः परं रूपम् उपपद्येरन् बार्हतम्। यत् त्रयस्त्रिंशदक्षरासु स्तुयुर् अवरं रूपम् उपपद्येरन् आनुष्टुभम्। यत् सप्तदशस्तोमम् स्यात् परमं रूपम् उपपद्येरन्। यत् पञ्चदशस्तोमस् स्याद् अवममं रूपम् उपपद्येरन्। यत् षोडशिना षोडशस्तोमेन चतुस्त्रिंशदक्षरासु स्तुवन्ति स्वेनैवैनं तद् आयतनेन समृद्धयन्ति। तेनैभ्यस् समृद्धेन स्वायां जनतायाम् अर्धुकं भवति॥

षोडश स्तोत्राणि षोडश शस्त्राणि। तद् द्वात्रिंशत्। द्वात्रिशदक्षरानुष्टुप्। आनुष्टुभष् षोडश्य् अनुष्टुभं संपन्नः। देवछन्दसानि वा अन्यान्य् आसन्न् असुरछन्दसान्य् अन्यानि॥1.192॥


एकाक्षरं देवानाम् अवमम् आसीत् सप्ताक्षरं परमम्। नवाक्षरम् असुराणाम् अवमम् आसीत् पञ्चदशाक्षरं परमम्। ते देवा अकामयन्त कनीयसा भूयो ऽसुराणां वृञ्जीमहीति। त एकाक्षरेण पञ्चदशाक्षरम् अवृञ्जत। ते द्व्यक्षरेण चतुर्दशाक्षरं त्र्यक्षरेण त्रयोदशाक्षरं चतुरक्षरेण द्वादशाक्षरं पञ्चाक्षरेणैकादशाक्षरं षडक्षरेण दशाक्षरं सप्ताक्षरेण नवाक्षरम्। अष्टाक्षरे वाष्टौ। तानि यत् षोडशषोडश समपद्यन्त तत् षोडशिनष् षोडशित्वम्। तद् गायत्र्य् एव सप्तदश्य् उपसमपद्यत। तस्माद् आहुस् सप्तदशः प्रजापतिर् इति॥

इन्द्रो वा वृत्रम् अजिघांसत्। स प्रजापतिम् उपाधावद् धनानि वृत्रम् इति। तस्मा एतं षोडशिनं वज्रं प्रायच्छद् यद् अस्य वीर्यम् आसीत् तद् आदाय शक्वर्यः। तं नाशक्नोद् धन्तुम्। तं पुनर् उपाधावद् धनान्य् एव वृत्रम् इति॥1.193॥


तस्मै शक्वर्यः प्रायच्छत्। ततो वा इन्द्रो वृत्रम् अहन्। हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद॥

स ऐक्षत यद्य् अस्मै दिवा प्रदास्यामि रात्रिम् एषां भ्रातृव्यलोको ऽभ्यधिरेक्ष्यते। यद्य् अस्मै नक्तं प्रदास्याम्य् अहर् एषां भ्रातृव्यलोको ऽभ्यधिरेक्ष्यत इति। स एतद् अपश्यत्। यावत्य् एतद् आदित्यो विषितो भवति। तस्मै तावत्य् एव प्रायच्छत्। तेनासुरान् उभाभ्याम् अहोरात्राभ्याम् अन्तरैत्। उभाभ्याम् एवाहोरात्राभ्यां द्विषन्तं भ्रातृव्यम् अन्तरेति य एवं वेद॥

यथा ह वै सूर्मत्याधायैवं षोडशी स्तोत्राणां स्वर्गलोकस्य समष्ट्यै। प्र स्वर्गं लोकम् आप्नोति य एवं वेद॥1.194॥


तद् आहुस् त्रिवृद् एव स्तोमः कार्य इति। स त्रिवृद् वै वज्रः। वज्रष् षोडशी। अथो आहुष् षोडश एव कार्य इति। पञ्चदशो वै वज्रः। इन्द्रो वज्रस्योद्यन्ता षोडशः। सेन्द्रेण वज्रेण वृत्रं पाप्मानं हनानीति। सेन्द्रेण हैव वज्रेण द्विषन्तं पाप्मानं भ्रातृव्यं हन्ति य एवं वेद॥

अथो आहुस् सप्तदश एव कार्य इति। पञ्चदशो वै वज्रः। इन्द्रो वज्रस्योद्यन्ता षोडशः। प्रजापतिर् एव सप्तदशः। सो ऽनुष्ठाता सो ऽभिगोप्ता सो ऽभिवादयिता प्रहर जहि मापक्रमीः इति। सेन्द्रेण वज्रेण सप्रजापतिकेन वृत्रं पाप्मानं हनानीति। सेन्द्रेण हैव वज्रेण सप्रजापतिकेन द्विषन्तं पाप्मानं भ्रातृव्यं हन्ति य एवं वेद॥

अथो आहुर् एकविंश एव कार्य इति। सर्वाभ्यो वा एतं सप्तभ्यो होत्राभ्य इन्द्रो वज्रं निरमिमीत तिस्रस् तिस्र एव होत्रायै। स एकविंशष् षोडशी समपद्यत। तेनेन्द्रो वृत्रम् अहन्। हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद॥

तद् उ होवाच यामनो भ्रातलायनो विराजो वा एष संपदे षोडशी। वैराजो वै षोडशी विराजिविराजि प्रतिष्ठितः। स यत्रैवैतं विराजं संपद्यमानं मन्येत तद् एवैतेन स्तोतव्यम्॥1.195॥


अहोरात्रयोर् वै देवासुरा अधि संयत्ता आसन्। ते देवा अहर् अभ्यजयन्न् अथासुरा रात्रिम् अभ्युपाधावन्। ते देवा अब्रुवन्न् अर्धिनो वा अस्य भुवनस्याभूम कथं सत्रा रात्रिम् अभिजयेमाभिप्रयुनजामहा इति। ते ऽभ्ययुञ्जत। अह्नो जघनार्धे ऽयतन्त। अथासुरा रात्र्या उदासृत्य पूर्वार्धे ऽयतन्त। एष ह वा अह्नो जघनार्धो यत् सायम्। एष उ वै रात्रेः पूर्वार्धो यत् सायम्। स्वायाम् अन्ये मर्यादायाम् अयतन्त स्वायाम् अन्ये। छन्दांसि वाव तेषां स्वम् आसीत्। छन्दस्स्व् अधि संयत्ता आसन्॥1.196॥


एकाक्षरं देवानाम् अवमम् आसीत् सप्ताक्षरं परमम्। नवाक्षरम् असुराणाम् अवमम् आसीत् पञ्चदशाक्षरं परमम्। सप्ताक्षरं च नवाक्षरं च संनिहिते आस्ताम् ईध्र्यञ्च्य् अन्यानि यत्तान्य् आसन्न् ईध्र्यञ्च्य् अन्यानि। तान् प्रजापतिर् आनुष्टुभो ऽन्तरा विक्रम्यातिष्ठत्। ते समीक्षमाणास् संचाकशतो ऽतिष्ठन्न् अन्योन्यस्यारन्ध्रम् इच्छन्तः॥

ते देवाः प्रजापतिम् उपाधावन् जयामासुरा्न् इति। तेभ्य एतं षोडशिनं वज्रं प्रायच्छत्। एतेनैषां छन्दोभिश् छन्दांसि संवृज्य माम् उपसंपादयथेति। त एकाक्षरेण पञ्चदशाक्षरम् अवृञ्जत द्वयक्षरेण चतुर्दशाक्षरम्। सानुष्टुब् अभवत्। तां प्रजापतिम् उपसमपादयन्। त्र्यक्षरेण त्रयोदशाक्षरं चतुरक्षरेण द्वादशाक्षरम्। सानुष्टुब् अभवत्। तां प्रजापतिम् अपसमपादयनन्। पञ्चाक्षरेणैकादशाक्षरं षडक्षरेण दशाक्षरम्। सानुष्टुब् अभवत्। तां प्रजापतिम् उपसमपादयन्। सप्ताक्षरेण नवाक्षरम् अष्टाभिर् एवाष्टौ। सानुष्टुब् अभवत्। तां प्रजापतिम् उपसमपादयन्। सप्ताक्षरेण नवाक्षरम् अष्टाभिर् एवाष्टौ। सानुष्टुब् अभवत्। तां प्रजापतिम् उपसमपादयन्। तेषां छन्दोभिर् एव छन्दांसि संवृज्यासुरान् निरवाघ्नन्। तान् निरवहतान् दारान् यतः प्रजापतिर् अश्वो ऽरुणपिशङ्गो भूत्वा पराप्रोथत्। त एत उदन्तेष्व् अधिगम्यन्त एकैक इव। ततो वै देवा अभवन् परासुराः। भवत्य् आत्मना परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद॥1.197॥


कनीयस्विन इव वै देवा आसन् भूयस्विनो ऽसुराः। कनीयसा वै तेषां त्व् एतद् भूयो ऽवृञ्जत। तस्मात् कनीयान् ग्रामो ज्यायांसं ग्रामं प्रतिसंयतते। तस्माद् उ कनीयांसो भूयसो ऽमित्रान् जयन्ति। कनीयस्वी भूयस्विनं वृञ्जते य एवं वेद॥

एषा ह खलु वै प्रत्यक्षं पंक्तिर् यत् पञ्चाक्षरा पञ्चपदा। पंक्तिषु षोडशिना स्तुवन्ति। पुरुषछन्दसं वै पंक्तिः। यत् पांक्तः पुरुषः पुरुषाद् एवैतद् आप्तां वाचं निर्मिमते। तस्मात् पुरुषस् सर्वा वाचो वदति। आप्त इव वा एतर्हि सर्ववाक्। तद् यद् अनुष्टुप्सु स्तुवन्ति यथा कुम्भ्यासूपदस्तासु महोदधीन् अपधावयेत् तादृक् तत्॥

कनीयांसि छन्दांसि ज्यायस्सु छन्दस्स्व् अध्यूहन्ति। जितदेवत्यानि वा एतानि यत् कनीयांसि। तस्माज् ज्यायस्सु छन्दस्स्व् अध्यूहन्ति। एषां ह खलु वै छन्दसां वीर्यवत्तमा या त्र्यक्षरैकपदा। ताभिर् यच् छन्दांस्य् उपसृजन्ति वीर्यस्यैवावरुद्ध्यै। निधनम् अभ्यतिस्वरति। अह्नो वै देवा रात्रिम् अभ्यत्यक्रामन्। अभि भ्रातृव्यलोकं जयति य एवं वेद। भ्रातृव्यभाजिनम् इव ह्य् एषा यद् रात्रिः॥1.198॥


अधिकर्ण्या सोमं क्रीणन्ति। यथा ह वै कर्णेकर्णे ऽधिरूढम् एवं षोडशी स्तोत्राणाम् । सह वै षोडशिनं क्रीणीम इति वदन्तष् षोडशिनं क्रीणन्ति। यद् अधिकर्णी सोमक्रयणी भवति तेनैवैषां षोडशी क्रीतस् तेनावरुद्धः॥

अधिकर्ण्या सोमं क्रीणन्ति। सवनात्सवनात् सोमम् अतिरेचयन्ति। जनद्वतीषु स्तुवन्ति। सर्वाणि रूपाण्य् अनुशास्यन्ते। यद् अधिकर्ण्या सोमं क्रीणन्ति यजमान एनं तेन प्रजनयति। यत् सवनात्सवनात् सोमम् अतिरेचयन्त्य् अध्वर्युर् एनं तेन प्रजनयति। यज् जनद्वतीषु स्तुवन्त्य् उद्गातैन तेन प्रजयति। यत् सर्वाणि रूपाण्य् अनुशास्यन्ते होतैन तेन प्रजनयति। एतानि वै षोडशिनः प्रजननानि। प्र प्रजया पशुभिर् जायते य एवंवेद॥1.199॥


इन्द्रं वै हरो ऽत्यरिच्यत। स देवान् अब्रवीत् कथं मा हरो नातिरिच्येतेति। तं विश्वे देवा अब्रुवन् वयं त्वा हरिवता मन्त्रेण स्तोष्यामस् तथा त्वा हरो नातिरेक्ष्यत इति। तं विश्वे देवा हरिवता मन्त्रेणास्तुवन्। ततो वा इन्द्रं हरो नात्यरिच्यत। तद् यद् धरिवतीषु स्तुवन्ति इन्द्रम् एवैतद् धरसा समृद्धयन्ति। एषा ह खलु वै यजमानस्य नेदिष्ठं देवता यद् इन्द्रः। तद् यद् धरिवतीषु स्तुवन्ति यजमानम् एव तद् धरसा तेजसा समृद्धयन्ति। सम् अस्मा ऋध्यते य एवं वेद॥1.200॥