सामग्री पर जाएँ

जैमिनीयं ब्राह्मणम्/काण्डम् १/०४१-०५०

विकिस्रोतः तः
← कण्डिका ३१-४० जैमिनीयं ब्राह्मणम्/काण्डम् १
कण्डिका ०४१-०५०
[[लेखकः :|]]
कण्डिका ५१-६० →

अथोपमार्ष्टि। स यत् प्रथमम् उपमार्ष्टि तेन गन्धर्वाप्सरसः प्रीणाति। तं गन्धर्वाप्सरस आहुश् श्रद्धा ते मा विगात् सर्वैः कामैस् तृप्य स्वर्गं लोकम् आप्नुहीति॥

अथ यद् द्वितीयम् उपमार्ष्टि तेन ग्रहांश् च पितॄंश् च प्रीणाति। तं ग्रहाश् च पितरश् चाहुश् श्रद्धा ते मा विगात् सर्वैः कामैस् तृप्य स्वर्गं लोकम् आप्नुहीति॥

अथ यद् द्विर् अङ्गुल्या प्राश्नाति स यत् प्रथमं प्राश्नाति तेन प्राणापानौ तृप्यतः। तं प्राणापानाव् आहतुश् श्रद्धा ते मा विगात् सर्वैः कामैस् तृप्य स्वर्गं लोकम् आप्नुहीति॥

अथ यद् द्वितीयं प्राश्नाति तेनोदानापानौ तृप्यतः। तम् उदानापानाव् आहतुश् श्रद्धा ते मा विगात् सर्वैः कामैस् तृप्य स्वर्गं लोकम् आप्नुहीति॥

अथ यत् स्रुचा प्राश्नाति तेन समानव्यानौ च गर्भांश् च प्रीणाति। तं समानव्यानौ गर्भाश् चाहुश् श्रद्धा ते मा विगात् सर्वैः कामैस् तृप्य स्वर्गं लोकम् आप्नुहीति॥

अथ यत् स्रुचं निरश्नाति तेन देवजनान् प्रीणाति। त देवजना आहुश् श्रद्धा ते मा विगात् सर्वैः कामैस् तृप्य स्वर्गं लोकम् आप्नुहीति॥

अथ यत् स्रुचस् संक्षालनं निनयति तेन वयांसि प्रीणाति। तं वयांस्य् आहुश् श्रद्धा ते मा विगात् सर्वैः कामैस् तृप्य स्वर्गं लोकम् आप्नुहीति॥

अथ या एतास् स्रुचो निर्णिज्योदीचीर् अप उत्सिञ्चति तेन ऋषीन् प्रीणाति। तम् ऋषय आहुश् श्रद्धा ते मा विगात् सर्वैः कामैस् तृप्य स्वर्गं लोकम् आप्नुहीति॥

अथ यत् स्थालीसंक्षालनं निनयति तेन सर्पजनान् प्रीणाति। तं सर्पजना आहुश् श्रद्धा ते मा विगात् सर्वैः कामैस् तृप्य स्वर्गं लोकम् आप्नुहीति॥
अथ यत् पश्चाद् वा पुरस्ताद् वा परिक्रम्य दक्षिणतो ऽग्नीनाम् आस्ते प्रजापतिर् एव तद् भूत्वास्ते कम् अहम् अस्मि कं मम इति॥1.41॥


भृगुर् ह वारुणिर् अनूचान आस। स हात्य् एव पितरं मने ऽति देवान् अत्य् अन्यान् ब्राह्मणान् अनूचानान्। स ह वरुण ईक्षांचक्रे न वै मे पुत्रः किं चन प्रजानाति। हन्तैनं प्रज्ञापयानीति। तस्य ह प्राणान् अभिजग्राह। स ह तताम्। स ह तान्तः परं लोक जगाम। स हामुष्मिन् लोक आजगाम। पुरुष एव पुरुषं संवृश्च्याथैनं जघास। स होवाचाभूद् बतेदं किं स्विद् इदम् इति। तं होचुः पितरं वरुणं पृच्छासि स त इदं प्रवक्तेति॥

द्वितीयं हाजगाम। पुरुष एव पुरुषम् आक्रन्दयन्तं जघास। स होवाचाभूद् बतेदं किं स्विद् इदम् इति। तं होचुः पितरं वरुणं पृच्छासि स त इदं प्रवक्तेति॥

तृतीयं हाजगाम। पुरुष एव पुरुषं तूष्णीम् अव्याहरन्तं जघास। स होवाचाभूद् बतेदं किं स्विद् इदम् इति। तं होचुः पितरं वरुणं पृच्छासि स त इदं प्रवक्तेति॥

चतुर्थं हाजगाम। द्वे स्त्रियौ महद् वित्तं जुगुपतुः। स होवाचाभूद् बतेदं किं स्विद् इदम् इति। तं होचुः पितरं वरुणं पृच्छासि स त इदं प्रवक्तेति॥

पञ्चमं हाजगाम। लोहितकुल्यां च घृतकुल्यां च प्रबाहुक् स्यन्दमाने । सा या लोहितकुल्यास् तां कृष्णो नग्नः पुरुषो मुसली जुगोप। अथ या घृतकुल्या तस्यै हिरण्मयाः पुरुषा हिरण्मयैश् चमसैस् सर्वान् कामान् उदचिरे। स होवाचाभूद् बतेदं किं स्विद् इदम् इति। तं होचुः पितरं वरुणं पृच्छासि स त इदं प्रवक्तेति॥

षष्ठं हाजगाम। पञ्च नदीः पुष्करिणीः पुण्डरीकिणीर् मधूदकास् स्यन्दमानाः. तासु नृत्तगीतं वीणाघोषो ऽप्सरसां गणास् सुरभिर् गन्धो महान् घोषो बभूव। स होवाचाभूद् बतेदं किं स्विद् इदम् इति। तं होचुः पितरं वरुणं पृच्छासि स त इदं प्रवक्तेति॥1.42॥

स ह तत एवाववृते। स ह वरुणम् एवाजगाम। तं होवाचागस् ताता इति। आगां ततेति। अदर्शस् ताता इति। अदर्शं ततेति। किं ततेति। पुरुष एव पुरुषं संवृश्च्याथैनम् अघद् इति। ओम् इति होवाच। ये वा अस्मिन् लोके ऽग्निहोत्रम् अजुह्वतो नैवंविदो वनस्पतीन् संवृश्च्याभ्यादधति तान् वा अमुष्मिन् लोके वनस्पतयः पुरुषरूपं कृत्वा प्रत्यदन्ति। तस्य का निष्कृतिर् इति। यद् एवैतत् समिधम् अभ्यादधाति सा तस्य निष्कृतिस् तया तद् अतिमुच्यत इति॥
किं द्वितीयम् इति। पुरुष एव पुरुषम् आक्रन्दयन्तम् अघद् इति। ओम् इति होवाच। ये वा अस्मिन् लोक ऽग्निहोत्रम् अजुहुह्वतो नैवंविदः पशून् आक्रन्दयतः पचन्ते तान् वा अमुष्मिन् लोके पशवः पुरुषरूपं कृत्वा प्रत्यदन्ति। तस्य का निष्कृतिर् इति। यद् एवैतद् वाचा पूर्वाम् आहुतिं जुहोति सा तस्य निष्कृतिस् तया तद् अतिमुच्यत इति॥

किं तृतीयम् इति। पुरुष एव पुरुषं तूष्णीम् अव्याहरन्तम् अघद् इति। ओम् इति होवाच। ये वा अस्मिन् लोके ऽग्निहोत्रम् अजुह्वतो नैवंविदो व्रीहियवांस् तूष्णीम् अव्याहरतः पचन्ते तान् वा अमुष्मिन् लोके व्रीहियवाः पुरुषरूपं कृत्वा प्रत्यदन्ति। तस्य का निष्कृतिर् इति। यद् एवैतन् मनसोत्तराम् आहुतिं जुहोति सा तस्य निष्कृतिस् तया तद् अतिमुच्यत इति॥

किं चतुर्थम् इति। द्वे स्त्रियौ महद् वित्तम् अजुगुपताम् इति। ओम् इति होवाच। श्रद्धा च वै ते अश्रद्धा चाभूताम्। ये वा अस्मिन् लोके ऽग्निहोत्रम् अजुह्वतो नैवंविदो ऽश्रद्दधाना यजन्ते तद् अश्रद्धां गच्छति यच् छ्रद्दधानास् तच् छ्रद्धाम्। तस्य का निषकृतिर् इति। यद् एवैतद् अङ्गुल्या प्राश्नाति सा तस्य निष्कृतिस् तया तद् अतिमुच्यत इति॥1.43॥


किं पञ्चमम् इति। लोहितकुल्यां च घृतकुल्यां च प्रबाहुक् स्यन्दमाने। सा या लोहितकुल्याभूत् तां कृष्णो नग्नः पुरुषो मुसली जुगोप। अथ या घृतकुल्या तस्यै हिरण्मयाः पुरुषा हिरण्मयैश् चमसैस् सर्वान् कामान् उदचन्त इति। ओम् इति होवाच। ये वा अस्मिन् लोके ऽग्निहोत्रम् अजुह्वतो नैवंविदो ब्राह्मणस्य लोहितम् उत्पीडयन्ति सासा लोहितकुल्या। अथ य एनां कृष्णो नग्नः पुरुषो मुसल्य् अजुगुपत् क्रोधस् स तस्यो तद् एवान्नम् इति। तस्य का निष्कृतिर् इति। यद् एवैतत् स्रुचा प्राश्नाति सा तस्य निष्कृतिस् तया तद् अतिमुच्यत इति। अथ या एतास् स्रुचो निर्णिज्योदीचीर् अप उत्सिञ्चति सासा घृतकुल्या। तस्यै हिरण्मयाः पुरुषा हिरण्मयैश् चमसैस् सर्वान् कामान् उदचन्त इति॥

किं षष्ठम् इति। पञ्च नदीः पुष्करिणीः पुण्डरीकिणीर् मधूदकास् स्यन्दमानाः। तासु नृत्तगीतं वीणाघोषो ऽप्सरसां गणास् सुरभिर् गन्धो महान् घोषो ऽभूद् इति। ओम् इति होवाच। ममैवैते लोका अभूवन्न् इति। ते केनाभिजय्या इति एतेनैव पञ्चगृहीतेन पञ्चोन्नीतेनेति। स होवाच न वै किलान्यत्राग्निहोत्राल् लोकजित्या अवकाशोऽस्ति। अद्यैव मे अग्न्याधेयस्योपवसथ इति। तस्य ह तथा चक्रुः। स य एवं विद्वान् अग्निहोत्रं जुहोति नैनम् अमुष्मिन् लोके वनस्पतयः पुरुषरूपं कृ्त्वा प्रत्यदन्ति न पशवो न व्रीहियवा नास्येष्टापूर्ते श्रद्धां चाश्रद्धां च गच्छतो ऽपहते लोहितकुल्याम् अवरुन्द्धे घृतकुल्याम्॥1.44॥


एष वा अग्निर वैश्वानरो य एष तपति। तस्य रात्रिस् समिद् अहर् ज्योती रश्मयो धूमो नक्षत्राणि विष्फुलिङ्गाश् चन्द्रमा अङ्गाराः। तस्मिन्न् एतस्मिन् अग्नौ वैश्वानरे ऽहरहर् देवा अमृतम् अपो जुह्वति। तस्या आहुतेर् हुतायै सोमो राजा संभवति॥

स्तनयित्नुर् एवाग्निर् वैश्वानरः। तस्य द्यौस् समिद् विद्युज् ज्योतिर् अभ्राणि धूमो ह्लादनयो विष्फुलिङ्गा अशनिर् अङ्गाराः। तस्मिन्न् एतस्मिन्न् अग्नौ वैश्वानरे ऽहरहर् देवास् सोमं राजानं जुह्वति। तस्या आहुतेर् हुतायै वृष्टिस् संभवति॥

पृथिव्य् एवाग्निर् वैश्वानरः। तस्यान्तरिक्षं समिद् अग्निर् ज्योतिर् वायुर् धूमो मरीचयो विष्फुलिङ्गा दिशो ऽङ्गाराः। तस्मिन्न् एतस्मिन्न् अग्नौ वैश्वानरे ऽहरहर् देवा वृष्टिं जुह्वति। तस्या आहुतेर् हुताया अन्नं संभवति॥

पुरुष एवाग्निर् वैश्वानरः। तस्य वाक् समिच् चक्षुर् ज्योतिः प्राणो धूमो मनो विष्फुलिङ्गाश् श्रोत्रम् अङ्गाराः। तस्मिन्न् एतस्मिन्न् अग्नौ वैश्वानरे ऽहरहर् देवा अन्नं जुह्वति। तस्या आहुतेर् हुतायै रेतस् संभवति॥

स्त्रियो वा अग्निर् वैश्वानरः। तस्योपस्थं समिद् योनिर् ज्योतिर् इष्या धूमो ऽभिनन्दो विष्फुलिङ्गास् संस्पर्शो ऽङ्गाराः। तस्मिन्न् एतस्मिन्न् अग्नौ वैश्वानरे ऽहरहर् देवा रेतो जुह्वति। तस्या आहुतेर् हुतायै पुरुषस् संभवति॥

सो ऽत्र पञ्चम्यां विसृ्ष्ट्यां पुरुषो देवेभ्यो जायते। पञ्चम्यां विसृष्ट्यां दिव्या आपः पुरुषवाचो वदन्ति।

अथ यथामुं लोकम् अप्येति -- ॥1.45॥


--तस्याग्निर् एवाग्निर् वैश्वानरः। तस्यौषधयश्च वनस्पतयश् च समित्। ज्योतिर् एव ज्योतिः। धूम एव धूमःः। विष्फुलिङ्गा एव विष्फुलिङ्गाः। अङ्गारा एवाङ्गाराः। तस्मिन्न् एतस्मिन्न् अग्नौ वैश्वानरे ऽहरहर् देवाः पुरुषं जुह्वति। तस्या आहुतेर् हुतायै पुरुषो ऽमुं लोकं संभवति। सो ऽस्य लोकः पुनरुत्थायै भवति॥

तस्य हैतस्य देवस्याहोरात्रे अर्धमासा मासा ऋतवस् संवत्सरो गोप्ता य एष तपति। अहोरात्रे प्रचरे। तं हर्तूनाम् एको यः कूटहस्तो रश्मिना प्रत्यवेत्य पृच्छति को ऽसि पुरुषेति। स किं विद्वान् प्रवृञ्ज्यात्। तस्य ह प्रहरति। कस्य ह प्रतिराद्धस्य त्रेधा साधु कृत्या विनश्यति। स तृतीयम् आदत्ते। दिशो ऽनु तृतीय व्येति। तृतीयेन सहेमं लोकम् अभ्यवैति। स यो हास्य दानजितो लोको भवति तस्मिन् निरमते। तम् उ ह वै ततो मृत्युर् एवान्तत आप्नोति। अनवजितो हास्य पुनर्मृत्यु्र् भवति स य एवंवित् स्यात्॥

स यदोपतापी स्याद् यत्रास्य समं सुभूमिस्पष्टं स्यात् तद् ब्रूयाद् इह मे ऽग्निं मन्थतेति। ईश्वरो हागदो भवितोः॥

यद्य् उ तन् न यद् अस्माल् लोकात् प्रेयाद् अथैनम् आददीरन्। नानास्थाल्योर् अग्नी ओप्य हरेयुः। अन्वाहार्यपचनाद् उल्मुकम् आददीरन् यज्ञपात्राणि सर्पिर् अपो दारुण्य् अनुस्तरणीं क्षुरं नखनिकृन्तनम्। ते यन्ति यत्रास्य समं सुभूमिस्पष्टं भवति। तद् अस्याग्नीन् विहरन्ति॥1.46॥


अथास्यां दिशि कूपं खात्वा वपन्ति केशश्मश्रूणि। उप्त्वा केशश्मश्रूणि नखान् निकृन्तन्ति। नखान् निकृत्य निरान्त्रं कुर्वन्ति। निरान्त्रं कृत्वा निष्पुरीषं कुर्वन्ति। निष्पुरीषं कृत्वा पांसुभिः कूपे पुरीषम् अभिसंवपन्ति। पाप्मानम् एवास्य तत् प्रच्छादयन्ति। प्रक्षाल्यान्त्राणि प्रत्यवधायैनम् आहरन्ति। तम् अन्तरेणाग्नीन् निधाय गार्हपत्य आज्यं विलाप्योत्पूय चतुर्गृहीतं गृहीत्वा मत्वाहवनीये समिद्वत्य् अन्वारब्धे जुहोति अयं वै त्वद् अस्माद् अंसि त्वम्। एतद् अयं ते योनिर् अस्य योनिस् त्वम्॥

पिता पुत्राय लोककृज् जातवेदो नया ह्य् एनं सुकृतां यत्र लोकः। अस्माद् वै त्वम् अजायथा एष त्वज् जायतां स्वाहा इति। सो ऽत आहुतिमयो मनोमयः प्राणमयश् चक्षुर्मयश् श्रोत्रमयो वाङ्मय ऋङ्मयो यजुर्मयस् साममयो ब्रह्ममयो हिरण्मयो ऽमृतस् संभवति॥1.47॥

प्राशित्रहरणम्
जुहू, उपभृत, स्रुवादि यज्ञपात्राणि
दृषद-उपल
कृष्णाजिनम्
स्फ्य


अथैतां चितां चिन्वन्ति। तस्याम् एनम् आदधति। तस्य नासिकयोस् स्रुवौ निदध्याद् दक्षिणहस्ते जुहूं सव्य उपभृतम् उरसि ध्रुवां मुख ऽग्निहोत्रहवणीं शीर्षतश् चमसम् इळोपवहनं कर्णयोः प्राशित्रहरणे उदरे पात्रीं संवर्तधानीम् आण्डयोर् दृषदुपले शिश्ने शम्याम् उपस्थे कृष्णाजिनम् अनुपृष्ठं स्फ्यं पार्श्वयोर् मुसल च शूर्पे च पत्त उलूखलम्। परिशिष्टानि यज्ञपात्राण्य उपनिदधति। अपो मृण्मयान्य् अभ्यवहरन्ति दद्त्य एवायस्मयानि। अथैनं सर्पिषाभ्युत्पूरयन्ति। यज्ञपात्रेषु सर्पिर् आसिञ्चन्ति॥1.48॥


अथैताम् अनुस्तरणीम् आनयन्ति। तां प्रोक्ष्य त्रिर् अपसलीं पर्याणाय्य कूटेन हन्यात्। प्रदक्षिणं हैके पर्याणयन्ति। तद् उ तथा न कुर्यात्। तस्यै वपाम् उत्खिद्य शीर्ष्णि परिवयन्ति हस्तयोर् मतस्नी हृदये हृदयं बाह्वोर् बाहू। यथाङ्गम् एवेतराण्य् अङ्गानि विचिन्वन्ति। अथैनं चर्मणा प्रोर्ण्वन्ति स्वया तन्वा समृध्यस्व इति॥

संस्तीर्योपादीपयन्ति। स तथैव चिकीर्षेद् यथैनम् आहवनीयः प्रथमो गच्छेत्। तद् एनं देवलोकः प्रत्यागच्छति। अथ यथान्वाहार्यपचनस् तद् एनं पितृलोकः प्रत्यागच्छति। अथ यथा गार्हपत्यस् तथास्मिन् लोके प्रजया च पशुभिश् च प्रतितिष्ठति॥

तस्योपादीप्तस्य धूम एव शरीरं धुनोति। स यद् धुनोति तस्माद् धुनः। धुनो ह वै नामैषः। तं धूम इति परोक्षम् आचक्षते परोक्षेणैव। परोक्षप्रिया इव हि देवाः। धूमाद् व रात्रिम् अप्येति रात्रिया अहर् अह्नो ऽपोछन्तापक्षम् अपोछन्तीपक्षाद् आपूर्यमाणपक्षम् आपूर्यमाणपक्षान् मासम्। ते अत्र मासे शरीरं चासुश् च संगच्छाते। तं हर्तूनाम एको यः कूटहस्तो रश्मिना प्रत्यवेत्य पृच्छति को ऽसि पुरुषेति॥1.49॥


तं प्रतिब्रूयात् --

विचक्षणाद् ऋतवो रेत आभृतम्
अर्धमास्यं प्रसुतात् पित्र्यावतः।

इति। यद् अदो विचक्षणं सोमं राजानं जुह्वति तत् तत्।

तं मा पुंसि कर्तर्य् एरयध्वम्
इति। पुंसि ह्य् एनम् एतत् कर्तर्य् एरयन्ते।

पुसः कर्तुर् मातर्य् आसिषिक्त
इति। मातरि ह्य् एनम् आसिञ्चति।

स उपजायोपजायमानस् त्रयोदशेन द्वादशोपमासः
इति। एष त्रयोदशो य एष तपति॥
सं तद् विदे प्रति तद् विदे ऽहम्।
तं मर्तवो ऽमृत आनयध्वं द्वादशत्रयोदशेन पित्रा।
तया मात्रा तया श्रद्धया तेनान्नाद्येन तेन सत्येन॥
अहर् मे पिता रात्रिर् माता॥ सत्यम् अस्मि॥
ते मर्तवो ऽमृत आनयध्वम्॥
इति। तं हर्तव आनयन्ते। यथा विद्वान् विद्वांसं यथा जानन् जानन्तम् एवं हैनम् ऋतव आनयन्ते। तं हात्यर्जयन्ते। स हैष न मनुष्यो य एवं वेद। देवानां ह वै स एको य एवंवित्। तं ह वै मनोजवसः पितरश् च पितामहाश् च प्रत्यागच्छन्ति ततः किं न आहार्षीर् इति। तान् प्रतिब्रूयाद् यत् किं च पुण्यम् अकरे तद् युष्माकम् इति। तस्य पुत्रा दायम् उपयन्ति पितरस् साधुकृत्यां द्विषन्तः पापकृत्याम्। स एवम् एतत् त्रेधा विभज्यैतस्य सलोकताम् अप्येति य एष तपति॥1.50॥