सामग्री पर जाएँ

जैमिनीयं ब्राह्मणम्/काण्डम् १/०३१-०४०

विकिस्रोतः तः
← कण्डिका २१-३० जैमिनीयं ब्राह्मणम्/काण्डम् १
कण्डिका ०३१-०४०
[[लेखकः :|]]
कण्डिका ४१-५० →

सप्ताहं जुहोति। अष्टाविंशतिर् आहुतयस् संपद्यन्ते। अष्टाविंशत्यक्षरा वा उष्णिक्। अष्टाविंशतिर् भृग्वङ्गिरसो देवाः। त उष्णिहम् अन्वायत्ताः। तेभ्य उष्णिग् भृग्वाङ्गिरोभ्यो देवेभ्य एकैकेनाक्षरेण कामान् निकामान् दुहे। एवम् अस्मै जुह्वते दुहे। उष्णिहं वै स छन्दसां जयति भृग्वङ्गिरसो देवान् देवानाम्। भृग्वङ्गिरसां देवानां सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वान् अग्निहोत्रं जुहोति॥1.31॥


अष्टाहं जुहोति। द्वात्रिंशद् आहुतयस् संपद्यन्ते। द्वात्रिंशदक्षरा वा अनुष्टुप्। द्वात्रिंशद् विश्वे देवाः। ते ऽनुष्टुभम् अन्वायत्ताः। तेभ्यो ऽनुष्टुब् विश्वेभ्यो देवेभ्य एकैकेनाक्षरेण कामान् निकामान् दुहे। एवम् अस्मै जुह्वते दुहे। अनुष्टुभं वै स छन्दसां जयति विश्वान् देवान् देवानाम्। विश्वेषां देवानां सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वान् अग्निहोत्रं जुहोति॥1.32॥


नवाहं जुहोति। षट्त्रिंशद् आहुतयस् संपद्यन्ते। षट्त्रिंशदक्षरा वै बृहती। षट्त्रिंशत् साध्या देवाः। ते बृहतीम् अन्वायत्ताः। तेभ्यो बृहती साध्येभ्यो देवेभ्य एकैकेनाक्षरेण कामान् निकामान् दुहे। एवम् अस्मै जुह्वते दुहे। बृहतीं वै स छन्दसां जयति साध्यान् देवान् देवानाम्। साध्यानां देवानां सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वान् अग्निहोत्रं जुहोति॥1.33॥


दशाहं जुहोति। चत्वारिंशद् आहुतयस् संपद्यन्ते। चत्वारिंशदक्षरा वै पंक्तिः। चत्वारिंशन् मरुतो देवाः। ते पंक्तिम् अन्वायत्ताः। तेभ्यः पंक्तिर् मरुद्भ्यो देवेभ्य एकैकेनाक्षरेण कामान् निकामान् दुहे। एवम् अस्मै जुह्वते दुहे। पंक्तिं वै स छन्दसां जयति मरुतो देवान् देवानाम्। मरुतां देवानां सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वान् अग्निहोत्रं जुहोति॥1.34॥


एकादशाहं जुहोति। चतुश्चत्वारिंशद् आहुतयस् संपद्यन्ते। चतुश्चत्वारिंशदक्षरा वै त्रिष्टुप्। चतुश्चत्वारिंशद् रुद्रा देवाः। ते त्रिष्टुभम् अन्वायत्ताः। तेभ्यस् त्रिष्टुब् रुद्रेभ्यो देवेभ्य एकैकेनाक्षरेण कामान् निकामान् दुहे। एवम् अस्मै जुह्वते दुहे। त्रिष्टुभं वै छन्दसां जयति रुद्रान् देवान् देवानाम्। रुद्राणां देवानां सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वान् अग्निहोत्रं जुहोति॥1.35॥


द्वादशाहं जुहोति। अष्टाचत्वारिंशद् आहुतयस् संपद्यन्ते। अष्टाचत्वारिंशदक्षरा वै जगती। अष्टाचत्वारिंशद् आदित्या देवाः। ते जगतीम् अन्वायत्ताः। तेभ्यो जगत्य् आदित्येभ्यो देवेभ्य एकैकेनाक्षरेण कामान् निकामान् दुहे। एवम् अस्मै जुह्वते दुहे। जगतीं वै स छन्दसां जयत्य् आदित्यान् देवान् देवानाम्। आदित्यानां देवानां सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वान् अग्निहोत्रं जुहोति॥1.36॥


अत्र वै ब्रह्म न विराजत्य् अनाथम् अपरायणम् अनुत्तरम्। तद् वै तद् अग्निहोत्रं द्वादशाहं ब्रह्म जुहुवांचकार। तद् द्वादशाहं हुत्वा कीर्तिं यशः प्रजापतिम् अमृतं तद् उदाजहार। तद् वै तद् अग्निहोत्रं द्वादशाहं ब्रह्म हुत्वा प्रजापतय प्रत्यूह्य स्वर्गं लोकम् अभ्युच्चक्राम॥

तद् वै तद् अग्निहोत्रं द्वादशाहं प्रजापतिर् जुहुवांचकार। तद् द्वादशाहं हुत्वा प्रज्ञां मेधां मीमांसां तपस् तद् उदाजहार। तद् वै तद् अग्निहोत्रं द्वादशाहं प्रजापतिर् हुत्वा देवेभ्यश् चर्षिभ्यश् च प्रत्यूह्य स्वर्गम् एव लोकम् अभ्युच्चक्राम॥

तद् वै तद् अग्निहोत्रं द्वादशाहं देवाश् चर्षयश् च जुहुवांचक्रुः। तद् द्वादशाहं हुत्वा पूर्वेभ्यो मनुष्येभ्यः प्रत्यूह्य स्वर्गम् उ एव लोकम् अभ्युच्चक्रमुः॥

तद् वै तद् अग्निहोत्रं द्वादशाहं ब्रह्म जुहुवांचकार। द्वादशाहं प्रजापतिर् द्वादशाहं देवाश् चर्षयश् च। तद् द्वादशाहं द्वादशाहं हुत्वा कामान् निकामान् आपुः। किम् उ य एनं यावज्जीवं जुहुयात्॥1.37॥


तद् वै तद् अग्निहोत्रं त्र्यहम् एव पयसा जुहुयात्। तद् वा अग्निष्टोमस्य रूपम्। अग्निष्टोमेनैवास्येष्टं भवति य एवं विद्वान् अग्निहोत्रं जुहोति॥
तद् वै तद् अग्निहोत्रं त्र्यहम् एव दध्ना जुहुयात्। तद् वै वाजपेयस्य रूपम्। वाजपेयेनैवास्येष्टं भवति य एवं विद्वान् अग्निहोत्रं जुहोति॥

तद् वै तद् अग्निहोत्रं त्र्यहम् एवाज्येन जुहुयात्। तद् वा अश्वमेधस्य रूपम्। अश्वमेधेनैवास्येष्टं भवति य एवं विद्वान् अग्निहोत्रं जुहोति॥

तद् वै तद् अग्निहोत्रं त्र्यहम् एवाद्भिर् जुहुयात्। तद् वै पुरुषमेधस्य रूपम्। पुरुषमेधेनैवास्येष्टं भवति य एवं विद्वान् अग्निहोत्रं जुहोति॥

स्वयम् अहतवासा यजमानो ऽग्निहोत्रं जुहुयाद् अजस्रेष्व् अग्निष्व् अप्रवसन्। त्रयोदशीं रात्रिं सोमेन वा पशुना वेष्ट्वोत्सृजेत। यथा सावसान् कृत्वा प्रार्जयेत् तादृक् तत्॥

तद् वै तद् अग्निहोत्रं द्वादशाहम् एव पूर्वे मनुष्या जुहुवांचक्रुः। तस्मात् तेषां दुहे धेनुर् वहत्य् अनड्वान् आदधानः प्रहितो ऽश्वो ऽश्वतर उपतिष्ठत्य अधि? क्ष्यो हस्ती वहति॥1.38॥


उपसृज्याग्निहोत्रीम् इत्य आह उपसृष्टे द्यावापृथिवी॥ रुद्रा उपगृह्णन्ति वसूनां दुग्धम्॥ भूतकृत स्थ निरूढ जन्यं भयम् इत्य् अङ्गारान् निरूहति। अथाधिश्रयति वैश्वानरस्याधिश्रितम् असि॥ अग्निस् ते तेजो मा प्रतिधाक्षात्(?)॥ सत्या त्वा इति॥ अथावद्योतयति सं ज्योतिषा ज्योतिः इति। अथापः प्रत्यानयति यस् ते अप्सु रसः प्रविष्टस् तेन संपृच्यस्व इति। स यद् एवास्य तत्र दिशो ग्रसन्ते तद् एवास्य तत् समन्वानयन्तं अन्तरितं रक्षो ऽन्तरिता अरातयः इति। त्रिः पर्यग्निं करोति। अथोद्वासयति दिवं दृंहान्तरिक्षं दृंह पृथिवीं दृंह प्रजां पशून् जुह्वतो मे दृंह इति।

भूतकृत स्थ प्रत्यूढं जन्यं भयम् इत्य् अङ्गारान् प्रत्यूहति। अथ स्रुवं च स्रुचं चादाय निष्टपति प्रत्युष्टं रक्षः प्रत्युष्टः अरातयः इति। अथ स्रुवं संमार्ष्टि सजूर् देवेभ्यस् सायंयावभ्यः इति सायम्। सजूर् देवेभ्यः प्रातर्यावभ्यः इति प्रातः। सुवर्णां त्वां सुवर्णमयीम्॥ हिरण्ययष्टिर् अस्य अमृतपलाशा स्रोतो यज्ञानाम् इति। स्रोतो हैव स यज्ञानां भवति। अथाह उन्नेष्यामि इति। ओं ममहं स्वर्गं लोकम् अभि इति ब्रूयात्॥1.39॥


स यं प्रथमं स्रुवम् उन्नयति तद् वै दर्शपूर्णमासयो रूपम्। दर्शपूर्णमासाभ्याम् एवास्येष्टं भवति य एवं विद्वान् प्रथमं स्रुवम् उन्नयति॥

अथ यं द्वितीयं स्रुवम् उन्नयति तद् वै चातुर्मास्यानां रूपम्। चातुर्मास्यैर् एवास्येष्टं भवति य एवं विद्वान् द्वितीयं स्रुवम् उन्नयति॥

अथ यं तृतीयं स्रुवम् उन्नयति तद् वा इष्टिपशुबन्धानां रूपम्। इष्टिपशुबन्धैर् एवास्येष्टं भवति य एवं विद्वांस् तृतीयं स्रुवम् उन्नति॥

अथ यं चतुर्थं स्रुवम् उन्नयति तद् वै त्र्यम्बकवाजपेयाश्वमेधानां रूपम्। त्र्यम्बकवाजपेयाश्वमेधैर् एवास्येष्टं भवति य एवं विद्वांश् चतुर्थं स्रुवम् उन्नयति॥

अथ समिधम् आदाय प्राङ् प्रति। पुरुष इत् समित्। तम् अन्नम् इन्द्धे अन्नस्य मा तेजसा स्वर्गं लोकं गमय॥ यत्र देवानाम् ऋषीणां प्रियं धाम तत्र म इदम् अग्निहोत्रं गमय इति। तूष्णीम् उपसादयति। अथ समिधम् अभ्यादधाति स्वर्गस्य त्वा लोकस्य संक्रमणं हिरण्मयं वंशं दधामि स्वाहा इति। अथ जुहोति। स यां प्रथमां जुहोति देवांस् तयाप्नोति। अथ यां द्वितीयां जुहोत्य् ऋषींस तयाप्नोति॥1.40॥