सामग्री पर जाएँ

चर्यापादः/अध्यायः २०

विकिस्रोतः तः
← अध्यायः १९ चर्यापादः
अध्यायः २०
[[लेखकः :|]]
अध्यायः २१ →
चर्यापादस्य अध्यायाः

पाद्मसंहितायाम्
विंशोऽध्यायः.
-----
* पापिनां कर्माधिकारार्थप्रायश्चित्तम्.*
ब्रह्मा :---
राजानस्तदमात्या वा ये राज्यधुरि निष्ठिताः ।
भगवन् रक्षणव्यग्राः प्रजानां सततोद्यताः ।। 20.1 ।।
ब्रह्महत्यादिभिः पापैरभिभूता विगर्हितैः ।
कायक्लेशात्मके शास्त्रचोदिते घोरकर्मणि ।। 20.2 ।।
पापनिर्हरणोपाये प्रवर्तितुमनीश्वराः ।
ते कथं तानि पापानि निर्धूय सकलन्यपि ।। 20.3 ।।
कर्माधिकारिणो भूयस्सतां संसदि संमताः ।
कल्पनै भगवद्ध्याने तदर्चनविधावपि ।। 20.4 ।।
योग्याः प्रकारं तं देव ब्रूहि मह्यं यथातथम् ।
श्रीभगवान्---
ब्रह्महत्यादिपापानामपनोदनमुत्तमम् ।। 20.5 ।।
कायक्लेशात्मके कर्मण्यक्षमाणां महीबृताम् ।
विहितं सुकरं तेषां प्रायश्चित्तं चतुर्मुख ।। 20.6 ।।
* हिरण्यगर्भतुलाभार निर्देशः.*
हिरण्यगर्भनामैकं कर्म प्रोक्तं (1) यथापरम् ।
तुलाभारसमा (2) ख्यं तद्द्वाभ्यां निर्धूत कल्मषम् ।। 20.7 ।।
(1. तथापरम्.)
(2. ख्यातम्.)
भगवद्ध्यानपूजादिविदौ भूयोऽधिकारिणिः ।
भवन्तिकर्मद्वितयं तदशेषेण कथ्यते ।। 20.8 ।।
* हिरण्यगर्भविधिः.*
कर्तुं व्यवसितं कर्म वरयेद्गुरुमादितः ।
सर्वशास्त्रार्थतत्वज्ञं मन्त्राणां पारगं परम् ।। 20.9 ।।
दयालुं सर्वभूतानामक्रोधनमलोलुपम् ।
(3) कर्मद्वयविधानज्ञमृजुं भागवतं द्विजम् ।। 20.10 ।।
(3. कर्मत्रय.)
परीक्ष्यैवं विधं यत्नादुपसङ्गम्य पार्थिवः ।
अर्थयित्वा यथान्यायमुपचर्य द्विजोत्तमम् ।। 20.11 ।।
(4) कर्मारभेत पुण्येषु देशकालेषु यन्त्रितः ।
षट्सुतैष्यादि मासेषु श्रवणे त्वाष्ट्रा एव वा ।। 20.12 ।।
(4. कर्मारम्भेषु.)
मैत्रे चाश्वयुजि ब्रह्मन् रोहिण्यां पासवेऽपि वा ।
पुष्ये वा सौम्यनक्षत्रे चोत्तरत्रितयेऽपि वा ।। 20.13 ।।
देशेतीरे च सरितां समुद्रतटभूषु वा ।
यद्वा सर्वगुणोपेते देशे भगवदालये ।। 20.14 ।।
नैमित्तिकं चेत्कर्मैतन्न कालादिपरीक्षणम् ।
मण्डपं प्रथमं कुर्यात्प्रतिष्ठायामिवालये ।। 20.15 ।।
अन्यत्र वा यथोद्दिष्टे देशे शास्त्रोक्तवर्तना ।
सर्वालङ्कारनंयुक्तमन्तः कल्पितवेदिकम् ।। 20.16 ।।
अङ्कुरानर्पयेत्पूर्वमुक्तेष्वन्यतमे दिने ।
सम्भारास्तत्र सम्भार्या यथाविधि यथावसु ।। 20.17 ।।
एकाङ्गुलघने तुल्ये कपाले द्वे हिरण्मये ।
अधरं चोत्तरं (5) चापि कर्ये द्वाभ्यां चतुर्मुख ।। 20.18 ।।
(5. वापि.)
सङ्गताभ्यां प्रविश्यान्तरास्ते गर्भाशये यथा ।
कर्तासुखं तं निर्याय द्वयमण्डसमाकृति ।। 20.19 ।।
हिरण्यगर्भ (6) संज्ञं तत् (7) यत्रायं जायते पुनः ।
होमपात्राणि सर्वाणि रैमयान्येव कारयेत् ।। 20.20 ।।
(6.नामैतत् सम्मानं.)
(7. यतोयम्.)
सम्भारेषु समस्तेषु सम्भृतेषु महीपतिः ।
पूर्वेद्यु (8) र्नियतश्चोप्त रोमश्मश्रुनखश्शुचिः ।। 20.21 ।।
(8. र्नियतं कृत्त.)
शुद्धदश्शुद्धवसनश्श्वेतमाल्यानुलेपनः ।
उपोषितो घृतं प्राश्य रात्रिं नियमतत्परः ।। 20.22 ।।
नीत्वा परेद्युः प्रत्यूषेस्नातो नियतमानसः ।
ऋत्विग्भिः कारयेत्कर्म गरुणा चोदितस्स्वयम् ।। 20.23 ।।
वेदिमध्ये शालिभारैर्नवभिः कृतविष्टरे ।
प्रागग्रेषु च दर्भेषु स्तीर्णेष्वारोप्य रैमयम् ।। 20.24 ।।
कपालमधरं द्वारतोरणादिसमर्चने ।
यथापुरं कृते नृत्तगेयवादित्रमङ्गले ।। 20.25 ।।
हिरण्यगर्भमभितश्चतुर्दिक्षु भृतोदकान् ।
संस्थाप्य चतुरः कुम्भान् धान्यपीठेषु तेष्वथ ।। 20.26 ।।
कुम्भेषु न्यस्तरत्नेषु वेष्टितेषु नवाम्बरैः ।
चतस्रो देवतास्स्वीयैर्नामधेयैरनुक्रमात् ।। 20.27 ।।
आवह्यः पुरुषस्सत्यः प्राचीदक्षिणयेस्तथा ।
वारुण्यामथकौबेर्यामच्युतोऽनन्त एव च ।। 20.28 ।।
समुदीर्यार्घ्यपाद्याद्यै (9) र्धूपदीपावसानकैः ।
अन्नं चतुर्विधं चापि (10) कुम्भे कुम्भे निवेदयेत् ।। 20.29 ।।
(9. दीपधूपा.)
(10. कुम्भेषु वि..)
पूर्वादि दिक्षु कुण्डेषु प्रतिष्ठायामिवक्रमात् ।
क्लृप्तेषु (11) हावयेदग्नौ समिधाज्येन चक्रमात् ।। 20.30 ।।
(11. भावये दग्नौ.)
प्रत्येकं मूलमन्त्रेण शतमष्टोत्तरं गुरुः ।
चतुर्विधेन चान्नेन प्रत्येकं षोडशाहुतीः ।। 20.31 ।।
कुर्यात्पुरुषनोक्तेन (12) ध्यात्वा यष्टव्यदेवताः ।
प्राप्ते मुहुर्ते भूदेवाननुज्ञाप्य गुरुस्स्वयम् ।। 20.32 ।।
(12. ज्ञात्वा यष्टव्यदेवताम्.)
पाणिना भूमिपं हस्ते गृहीत्वा प्रलयक्रमात् ।
देहं संहृत्य भूपालं (13) देहमात्रावशेषितम् ।। 20.33 ।।
(13. जावमात्रा - नीचमात्रा.)
ध्यात्वा प्रवेशयेद्गर्भं रैमयं कमलासन ।
अधरे रैमये भागे सुखासीनं च भूमिपम् ।। 20.34 ।।
छादयेदुपरिष्टेन भागेनैतत्प्रवेशनम् ।
घृतमिश्रैस्तिलैस्तत्वसंहाराहुतिमाचरेत् ।। 20.35 ।।
तत्त्वोत्पादनमार्गेण चिन्तयित्वा गुरुः पुनः ।
स्पष्टं शरीरं भूपस्य सृष्टि होमं यथापुरम् ।। 20.36 ।।
कुर्यात्कुण्डेषु सर्वत्र चतुर्घु चतुरासन ।
आनीय मन्त्रवज्जातं (14) अण्डात्तस्माद्बहिर्नृपम् ।। 20.37 ।।
(14. कुण्डात्.)
वैयाघ्रचर्मण्यारोप्य कलशैरभिषेचयेत् ।
उत्तमाधममार्गेण (15) वेदवित्तन्त्रवित्तमः ।। 20.38 ।।
(15. दैववित्.)
तथैव मन्त्रात्स्नपनं द्रव्यजातं च तादृशम् ।
कर्मणा (16) तेन निर्धूतकल्मषः पुण्यकृत्तमः ।। 20.39 ।।
(16. नेन.)
जातो गुरुप्रसादेन गुरुमग्रे सभाजयेत् ।
सहस्रनिष्टमानेन तपनीयेन भूमिपः ।। 20.40 ।।
ऋत्विजां चापि सर्वेषां तावती दक्षिणा मता ।
कर्मोपकरणं सर्वं कुर्यादाचार्यसान्नृपः ।। 20.41 ।।
हैरण्यमण्डं विद्वद्भ्यो ब्राह्मणेभ्यः प्रदापयेत् ।
एवं कृतवतस्तस्य विष्णोराराधनादिषु ।। 20.42 ।।
संपद्यतेऽधिकारित्वं (17) द्विरेवं कर्म कुर्वतः ।
फलं च विष्णोस्सारूप्यं सायुज्यं त्रिगुणे भवेत् ।। 20.43 ।।
(17. त्रिरेवं.)
* तुलाभारविधिः.*
तुलाभाराह्वयं कर्म द्वितीयं कथ्यतेऽधुना ।
निर्माय मण्टपं प्राग्वत्तस्मध्ये यज्ञदारुजौ ।। 20.44 ।।
स्तम्भा (18) दृढौ सरवन्तौ हस्तैष्षड्भिस्सम्छृतौ ।
द्विहस्तपरिणाहौ द्वौ सवृत्तौ शिल्पिकल्पितौ ।। 20.45 ।।
(18. ऋजू.)
(19) द्विहस्तमानान्तरालौ स्थापितौ भूतले दृढम् ।
कृत्वातयोरुपर्येकं दारु सारव (20) दुत्तरम् ।। 20.46 ।।
(19. सुवृत्त.)
(20. सुवृत्त.)
विस्तीर्णं हस्तमानेन तावन्मानघसं धृढम् ।
त्रिहस्तमायतं चैव तुलादण्डमयोमयम् ।। 20.47 ।।
आयसेनैव पाशेन योजयेदुत्तरेण तु ।
विधायेत्थं तुलामन्यत्सम्भारादि यथापुरम् ।। 20.48 ।।
कल्पयित्वा यथापूर्वं कर्मचोपरि (21) शास्त्रिकम् ।
होमान्तं सकलं कुर्याद्यथा (22) योगमलोपयन् ।। 20.49 ।।
(21. शास्त्रतः.)
(22. लोक.)
स्नातो नरपतिः क्षामवसनाभरणान्वितः ।
शुचिर्ध्यायन् वासुदेवं चर्मखड्गधरस्ततः ।। 20.50 ।।
परिक्रम्य समस्कृत्य देवांस्तान् पुरुषादिकान् ।
तुलामपि तथा कृत्वा भागे तस्याश्च पश्चिमे ।। 20.51 ।।
स्थित्वा प्रागाननो भूत्वा आरोहेत्पश्चिमं धटम् ।
(23) स्वस्तिन इत्यृचं सूक्तमधीयानश्च मङ्गलम् ।। 20.52 ।।
(23. स्वस्तिदा.)
प्राच्ये धटे नृपसमं (24) निक्षिपेद्धाटकोत्तमम् ।
चतुर्दिक्षु प्रवृत्तेषु नृत्तवादित्रगीतिषु ।। 20.53 ।।
(24. निक्षिप्ते क्वा.)
अधीयानेषु विप्रेषु वेदांश्च चतुरस्तदा ।
शान्तिहोमे च कुण्डेषु प्रवृत्ते पार्थिवस्स्वयम् ।। 20.54 ।।
कञ्चित्कालं धटभुवि ध्यायन् रुक्ममयं हरिम् ।
आसित्वा गुर्वनुज्ञातः पूर्वं धटभुव स्ततः ।। 20.55 ।।
अवरोहेत्सुवर्णं च भूषणानि च भूपतिः ।
भूसुरेभ्यो यथायोगं विभज्य वितरेत्ततः ।। 20.56 ।।
आचार्यय शतं निष्कं मूर्तिपेभ्यश्च तत्समम् ।
सर्वेभ्यो ये च तत्कर्मसहकारे नियोजिताः ।। 20.57 ।।
तेभ्योऽपि दद्याद्दीक्षित्वा तेषां कर्म यथायथम् ।
तुलाभाराह्वयं कर्म कुर्वन्नित्थं महीपतिः ।। 20.58 ।।
अन्यो वा धनवान् कश्चित्सर्वपापैः प्रमुच्यते ।
प्रेत्य चाभिमतान् भोगानश्नुते दिवि देववत् ।। 20.59 ।।
असकृत्कर्म कुर्वाणो ब्रह्मलोके महीयते ।
पापापनोदनं कर्म परलोके सुखावहम् ।। 20.60 ।।
आयुर्वृद्धिकरं सर्वरोगशान्तिकरं परम् ।
संपत्करं यशोवृद्धिकारणं सर्वकामदम् ।। 20.61 ।।
चतुरानन कर्मान्यत्स्वर्णगर्भादि (25) संयुतम् ।
* पुष्याभिषेकः.*
पुष्याभिषेचनं नाम शृणु गुह्यं सनातनम् ।। 20.62 ।।
(25. सम्मितम्.)
विहितं पृथिवीशानामिन्त्राद्यैरप्यनुष्ठितम् ।
मासितैष्ये प्रोष्टपदे मासे चाश्व युजे शुभे ।। 20.63 ।।
श्रवणे चैव नक्षत्रे जन्मर्क्षे कर्तुरेव वा ।
महाभिषेचनं कर्म प्रारभेत गुरु (26) स्ततः ।। 20.64 ।।
(26. स्वयम्.)
पूर्वोकैष्वेव देषेषु कस्मिंश्चिदभिपूजिते ।
पञ्चदण्डायतां भूमिं कृत्वा वै वर्तुलाकृतिम् ।। 20.65 ।।
तस्यामन्तस्थ्सलं सम्यक्कृत्वा (27) निष्कसमुच्छृतम् ।
तोरणादि चतुर्दिक्षु स्थापयित्वा चतुर्मुख ।। 20.66 ।।
(27. वारि.)
अलङ्कृत्य यथापूर्वं वितानध्वजमालया ।
तन्मध्ये कल्पयेन्मेरुं मृदङ्गसदृशाकृतिम् ।। 20.67 ।।
श्लक्ष्णादि च मृदा कार्यं (28) तस्योच्छ्रायं त्रिहस्तकम् ।
मूले चाग्रे च विष्कम्भो हस्तमानस्तथा भवेत् ।। 20.68 ।।
(28. तस्योर्द्वेच.)
चतुर्दिक्षु (29) च चद्वारो भागास्तस्य यथाक्रमम् ।
श्वेतोऽरुणस्तथापीतः कृष्णः कल्प्यश्च सर्वतः ।। 20.69 ।।
(29. चतुर्द्वारो.)
कत्नैः स्वर्णैः (30) पूरणीया ष्षट्तथा कुलपर्वताः ।
पूर्वापरायताः कल्प्या हिमवां स्तदनन्तरम् ।। 20.70 ।।
(30. भूषणीयौः.)
हेमकूटश्च विषधो नीलश्श्वेतश्च पर्वतः ।
शतशृङ्गश्च विष्कम्भस्तेषां ग्यात्षोडशाङ्गुलः ।। 20.71 ।।
श्वेतश्च पिङ्गलो रक्तो नीलश्चन्द्रसमप्रभः ।
हेमवर्णः क्रमाद्वर्णैश्चित्रयेद्धातुपांसुभिः ।। 20.72 ।।
जम्बाद्वीपं लिभइत्वैवं लवणोदधिवेध्टितम् ।
प्लक्षद्वीपं लिखेद्दिक्षु समुद्रपरि (31) वेष्टितम् ।। 20.73 ।।
(31. वारितम्.)
शाल्मल्या लक्षितं द्वीपं परीतं मदिराम्बुभिः ।
कुशं परीतमाघारैः क्रौञ्चं दधिसमुद्रितम् ।। 20.74 ।।
शाकं दुग्धोदधिक्षिप्तं पुष्करं स्वच्छतोयधिम् ।
क्रमाल्लिखित्वा सर्वेषां लोकालोकमहाचरम् ।। 20.75 ।।
वप्रवत्कल्पयेत्प्राच्यां तस्यान्तरमरावतीम् ।
पुरीमिन्द्रस्य याम्यायां (32) नाम्ना संयमनीमपि ।। 20.76 ।।
(32. पुरीम्.)
यमस्य वरुणस्यापि प्रतीच्यां नगरीं तथा ।
विभावरीमुदीच्यां तु पुरीं सोमस्य कल्पयेत् ।। 20.77 ।।
इन्द्रादिलोकपालानां स्थाने स्थाने प्रकल्पयेत् ।
सैकते स्थण्डिले तत्र तानावाह्य समर्चयेत् ।। 20.78 ।।
महामोरुं च तन्मूर्ध्नि वाराहिं मूर्तिमर्चयेत् ।
मेरोरुत्तरपार्श्वे तु श्वभ्रं कृत्वा प्रमाणतः ।। 20.79 ।।
अधः कपालं सौवर्णं न्यस्य तत्र समर्चयेत् ।
पूनरुर्ध्वकपालं च न्यस्य तस्योपरि क्रमात् ।। 20.80 ।।
पूर्वोक्तेन विधानेन पुरोधा नियतस्स्वयम् ।
कुंभान् षोडश (33) संपूर्णान् षोडश प्रस्थपूरणान् ।। 20.81 ।।
(33. सौवर्णान्.)
परितोऽण्‍डकपालस्य सूत्रवस्त्रादिवेष्टितान् ।
स्थापयित्वा धान्यराशौ सापिधानानलङ्कृतान् ।। 20.82 ।।
दिशमैन्द्रीं समारभ्य प्रादक्षिण्येन पूरयेत् ।
पञ्चगव्यादिभिर्द्रव्यैः प्रणवेन प्रपूरयेत् ।। 20.83 ।।
पञ्चगव्यं च पीयूषं दधि सर्पि स्तथा मधु ।
हरिचन्दनतोयं च वारि चाक्षतसंयुतम् ।। 20.84 ।।
(34) कुङ्कुमं च तथा तोयं कर्पूरागुरुवारि च ।
कुशोदकं च रत्नाम्भस्सर्व (35) पुष्पोदकं तथा ।। 20.85 ।।
(34. कौसुमं.)
(35. मुष्णो.)
फलोदकं च धान्याम्भस्सर्वतीर्थोदकं तथा ।
सर्वगन्धोदकं चापि द्रव्याणां (36) क्रम ईरितः ।। 20.86 ।।
(36. कल्प ईदृशः.)
मोरोश्च (37) दक्षिणे भागे कुण्डमग्नेः प्रकल्पयेत् ।
आज्येन जुहुयादग्नौ शतमष्टोत्तरं पृथक् ।। 20.87 ।।
(37. पश्चिमे भागे कुण्डे चाग्निं.)
वराहमूर्ति प्रभृतीरुपक्षिप्त्वा च देवताः ।
अन्याश्च देवताश्शैलान् समुद्रान्विष्टसानि च ।। 20.88 ।।
भूरादीनि तथा द्वीपभेदांश्चोद्दिश्य नामभिः ।
तेषा (38) माहूय तत्कार्यं गुरुणा सपुरोधसा ।। 20.89 ।।
(38. माह्वोय.)
भूर्भुवस्स्वरिति ब्रह्मन्ननै च जुहुयाद्घृतैः ।
अग्निं विसृज्य वितरेद्दक्षिणाश्च यथावसु ।। 20.90 ।।
तदनै यजमानस्तु सर्वालङ्कारसंयुतः ।
शुचिस्समाहितो भूत्वाकृतकौतुकबन्धनः ।। 20.91 ।।
प्रविश्य तत्र तद्धैममण्डं च प्राङ्मुख स्स्वयम् ।
प्रविश्यासीत देवेशं ध्यायन्नेव (39) सुधाकरम् ।। 20.92 ।।
(39. सुखाकरम्. सुराकरम्.)
यज्ञमूर्तिं धरां देवीं बिभ्राणं (40) निजदंष्ट्रया ।
एवं ध्यायन्तमासीनं नृपं सोपस्क्रियं स्वयम् ।। 20.93 ।।
(40. दंष्ट्रया स्वया.)
आचार्यानुमतः कुम्भैः स्थापि तैरभिषेचयेत् ।
पञ्चगव्यादिभिर्द्रव्यैर्मन्त्रानुच्चार्यमन्त्रवित् ।। 20.94 ।।
वसोः पवित्रमन्त्रेण पञ्चगव्याभिषेचनम् ।
शं नोदेवीरिति पयस्स्नानं दध्नाऽभिषेचनम् ।। 20.95 ।।
इषेत्वेति घृतेनाग्न आयाहीति तथा पुनः ।
मधुना चाग्निमीडेति मानस्तोक इति ब्रुवन् ।। 20.96 ।।
हरिचन्धनतोयेन तथैवाक्षतवारिणा ।
इदं विष्णुरिति प्रोच्य कुङ्कुमक्षोद वारिणा ।। 20.97 ।।
आहार्षं चेति मन्त्रेण तथा कर्पूरवारिणा ।

"https://sa.wikisource.org/w/index.php?title=चर्यापादः/अध्यायः_२०&oldid=206985" इत्यस्माद् प्रतिप्राप्तम्