चर्यापादः/अध्यायः १२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ११ चर्यापादः
अध्यायः १२
[[लेखकः :|]]
अध्यायः १३ →
चर्यापादस्य अध्यायाः

पाद्मसंहितायाम्
द्वादशोऽध्यायः.
-----
* अर्चननिवेदनोपयोगि फलपुष्पनिर्देशः.*
ब्रह्मा----
समाराध्यो हरिः पुष्पैः (1) कालपक्वैर्हवींषि च ।
फलमूलानि चान्यानि कानि योग्यानि कथ्यताम् ।। 12.1 ।।
(1. कैःपत्त्रेवान्.)
श्रीभगवान्----
पुष्पाणि नन्दनवनादारामादात्मनोपि वा ।
अरण्याद्वा गृहीत्वा च विक्रीतान्यापणस्थलात् ।। 12.2 ।।
अयाचितानि लब्धानि यद्वा कमलसम्भव ।
पूर्वपूर्वोदितालाभे ग्राह्यमुत्तरमुत्तरम् ।। 12.3 ।।
* वर्ज्यानि कुसुमफलादीनि.*
अन्यायोपार्जिताव्यन्यदेवतार्थानि वा पुनः ।
अग्राह्याणि तथा भिन्नं मुकुलं पतितं तथा ।। 12.4 ।।
जीर्णं पर्युषितं कीटदूषितं पादलङ्घितम् ।
म्लानं स्पृष्टं तथाऽस्पृश्यैर्नीतं च प्रतिलोमजैः ।। 12.5 ।।
* पुष्पादिसङ्ग्रहविधानम् तत्पात्राणि च.*
स्नातश्शुद्धाम्बरो मौनी पाणिं प्रक्षाल्य वारिणा ।
पात्रे पुष्पाणि गृह्णीयाद्वेत्रजे तृणजेऽथवा ।। 12.6 ।।
* उपादेयपुष्पाणि.*
कल्पकद्रुमसञ्जातं पारिजातसमुद्भवम् ।
हरिचन्दन सन्तानमन्दारद्रुमसम्भवम् ।। 12.7 ।।
सौगन्धिकोद्भवं पुष्पं षडेते सुरदारुजाः ।
पालाशं सप्तमं पुष्पमुपयुक्तानि चार्चने ।। 12.8 ।।
(2) अनिर्माल्यानि देयानि पुनःप्रक्षाल्य वारिभिः ।
उत्तरोत्तरमेकैकं सहस्रगुणमिष्यते ।। 12.9 ।।
(2. समारोप्यानि.)
* प्रातरर्चनोपयोगि पुष्पाणि.*
प्रातःपद्मद्वयं शस्तमुत्पलत्रयमर्चने ।
फलं च पूर्ववत् ज्ञेयं तथैव शतपत्रिका ।। 12.10 ।।
चम्पकं केतकीयुग्मं मालती माधवी तथा ।
सन्द्यावर्तं च पुन्नागं सुरपर्ण्येकपर्णिका ।। 12.11 ।।
प्रियङ्गु पाटलद्वन्द्वं मन्दारद्वयमेव च ।
लक्ष्मीश्च कर्णिकारश्च यूधिका कुरवस्तथा ।। 12.12 ।।
पट्टिकै तानि शस्तानि फलं पूर्ववदिष्यते ।
?* मध्याह्मार्चनोपयोगीनि.*
शस्तं मध्यन्दिने श्वेतकरवीरजमर्चने ।। 12.13 ।।
कैङ्किरातं च सौवर्णं पुष्पं सहचरी तथा ।
* प्रदोषार्चनोपयोगीनि.*
पूर्ववच्च फलं (3) विद्यात्प्रदोषे च प्रशस्यते ।। 12.14 ।।
(3. दद्यात्.)
जातियुग्मं विचकिलं मल्लि काद्वयमेव च ।
वकुलं वनजातिश्च तथा च वनमल्लिका ।। 12.15 ।।
कुमुदं वनमल्ली च पूर्ववच्च फलं स्मृतम् ।
* प्रातरपचितस्य मध्याह्ने विनियोगः.*
प्रातःकालोदितं पुष्पं युक्तं मध्यन्दिनेपिच ।। 12.16 ।।
* प्रदोषोदितपुष्पाणां मध्यरात्रार्चनयोग्यता.*
प्रदोषे कथितं पुष्पं मध्यरात्रे च शस्यते ।
* दिवापुष्पैर्दिवा निशावुष्पौर्निशि विनियोगश्शस्तः.*
दिवापुष्पैर्दिवा पूजा निशापुर्षौस्तथा निशि ।। 12.17 ।।
* देशकालानुसारीणि पुष्पाणि.*
(4) देशे काले यथायोगमर्चयेत्पुरुषोत्तमम् ।
मालत्या पूजयेत्प्रातर्मध्याह्ने करवीरजैः ।। 12.18 ।।
(4. अपत्काले यथायोगं पूजयेत्. प्रातःकाले.)
सायाह्ने जातिपुष्पैस्तु प्रदोषे वकुलैरपि ।
मध्यरात्रे मल्लिकाभिर्यजेत
* जलजपुष्पस्य सर्वदा पुजार्हता.*
जलजैस्सदा ।। 12.19 ।।
प्रत्यूषे नन्दिकावर्तैः काल एष उदाहृतः ।
* पद्मादिजलपुष्पाणां दिनत्रयावधि अपर्युषितता.*
पद्मादि (5) जलपुष्पाणामर्वाग्धर्तुस्त्र्यहाद्भवेत् ।। 12.20 ।।
(5. दलपुष्पाणामर्वाक्कर्तु.)
न च पर्युषितो दोषो (6) नीरजानां भवेत्तथा ।
* अबद्देभ्यः प्रसूनेभ्यः मालाबद्धानि श्रेष्ठानि.*
अबद्धेभ्यः प्रसूनेभ्यो बद्धमाला प्रशस्यते ।। 12.21 ।।
(6. नीवाराणाम्.)
* मालास्रजोस्स्वरूपं प्रशस्तिभेदश्च.*
मालाभ्यस्स्रग्वरा माला सजातीय (7) प्रसूनका ।
स्रक्तु नानाविधैःपुष्पैर्निर्मिता कदलीत्वचा ।। 12.22 ।।
(7. प्रसूनजा.)
* सर्वदा अपर्युषितानि पुष्पाणि.*
ह्रीबेरं च तमालं च तथा दमनकत्रयम् ।
न पर्युषितमेतैश्च सदैवाराधयेद्धरिम् ।। 12.23 ।।
* तुलसी चतुष्टयं दूर्वा भिल्वपत्रं च पूजार्हाणि *
तुलस्यौ सितकृष्णे च केवलाक्षपकास्तथा ।
चत्वारस्तुलसीभेदा दूर्वा भिल्वदलानि च ।। 12.24 ।।
सर्वदारराधनार्हाणि
* गृहार्चने करवीननिषेधः.*
पूजा तु करवीरजै ।
गृहे कुलक्षयकरी
* अक्षतादयोऽप्यर्चनोपयोग्याः.*
पुष्पपत्राद्यसन्निदौ ।। 12.25 ।।
अक्षतैरर्चनं कुर्याद्धरेः कलमजैस्सितैः ।
* हविर्योग्यानि धान्यानि.*
नीवारा वेणवश्शाल्यः कलमाद्या यवा अपि ।। 12.26 ।।
हविर्योग्या व्रीहयश्च तदभावे प्रयङ्गवः ।
अन्ये च याज्ञिका धान्यभेदाःकोद्रववर्जिताः ।। 12.27 ।।
* वर्जनीयानि धान्यानि.*
नीचैर्दत्तास्तथा स्पृष्टाःपतितैः प्रतिलोमजैः ।
अशौचवद्भिरपरै
* पक्वापक्वयोर्गुणतारतम्यम्.*
रपक्वाःकलमादयः ।। 12.28 ।।
शस्यन्ते चरुसाकेषु (8) पक्वाश्च तदसन्निदौ ।
* तण्डुलानां सर्ववर्णेभ्योऽपि ग्राह्यता.*
चातुर्वर्णैरुपहृतास्तण्डुला दोषवर्जिताः ।। 12.29 ।।
(8. पक्वं न्वक्वेत्प्रयत्नतः. इतिकोशान्तरे)
अखण्डिताःखण्डिताश्चा (9) भावे त्रीनिष्फलीकृताः ।?
* चरुपात्र निरूपणम्.*
चरुपात्रं ताम्रमयं प्रशस्तं मृण्मयं तु वा ।। 12.30 ।।
(9.भावे च प्रिफली. भावे च्छत्री. इति क्वचित्. भावे त्रिर्निष्कुलीकृताः. इति स्यात्किम्.)
* पात्रशुद्धि मन्त्रः.*
विष्णुगायत्रिया भाण्डे क्षालिते गालितैर्जलैः ।
पुर्णेप्रणवसंस्पृष्टे
* तण्डुलक्षालनमन्त्रः.*
तण्डुलान्मूलविद्यया ।। 12.31 ।।
यद्वा पञ्चोपनिषदा क्षालयेद्वारिभिःपुनः ।
* पूरणपिधानाधिश्रयणाग्नीन्धनमस्त्राः.*
पूरयेत्प्रणवेनैव पिदध्याच्चक्रविद्यया ।। 12.32 ।।
अधिश्रित्य च मूलेन मन्त्रेणाग्निं समेधयेत् ।
पञ्छोपनिषदैर्मन्त्रेःकाष्ठैः
* पाकसाधन काष्ठानि.*
कीटाद्यतूषितैः ।। 12.33 ।।
(10) यज्ञवृक्षोद्भवैःकाष्ठैः पाचयेत्पावकःक्रमः ।?
* चरुपरिष्कारः.*
पक्वे जलमपि स्राव्यसिक्त्वाज्येन चरुं पुनः ।। 12.34 ।।
(10. इदमर्धं क्वचिन्न.)
उदगुद्वासयेद्दर्भैःफलके यज्ञदारुजे ।
* चरुश्रपणे दीक्षितसम्बन्धि स्त्रीणामधिकारः.*
साधयेद्दीक्षितःपाकं विधिनो क्तेन (11) तत् स्त्रियः ।। 12.35 ।।
(11. नस्त्रियः.)
यद्वा तूष्णीं साधयेयुरुपदंशांश्च चोदितान् ।
* निवेदनीय फलशाकवर्गः.*
फलमूलानि तत्रादौ फलानि कदलीफलम् ।। 12.36 ।।
(12) आम्रं पनसमुर्वारुं बृहतीं कर्करीमपि ।
कारवल्लीमलाबुं च कूश्माण्डं तन्त्रिणीमपि ।। 12.37 ।।
(12. वेत्रं पनस.)
करवर्तं च निष्पावं गवाक्षं त्रपुसं तथा ।
(13) मुद्गभेदांश्च निर्देषान्
* वर्जनीय फलशाकादि.*
सदोषान् परिवर्जयेत् ।। 12.38 ।।
(13. इदं पद्यमेकं क्वचिन्नदृश्यते, क्वचित्पूर्वोत्तरार्ध वेपरीत्यमस्ति.)
उच्चिष्टं क्रिमिणा दष्टं शिवद्यैर्लङ्घितं तथा ।
(14) घ्रातं लालाजलस्पृष्टममेध्यप्रभवं तथा ।। 12.39 ।।
(14. घ्रातमित्यर्धं क्वचिन्न.)
पादस्पृष्टं च पतितमकाले चाशुचिस्थले ।
भुक्तशेषं तथा स्पृश्यैस्स्पृष्टं दत्तावशिष्टकम् ।। 12.40 ।।
वर्ज्यं वल्ली त्रयं कन्दं सूरणद्वयमुत्पलम् ।
पिण्डारद्वितयं चापि
* हविर्योग्य फलशाकादि.*
हविर्योग्यं चतुर्मुख ।। 12.41 ।।
जीवन्तीं वस्तुकं शाकं कारवल्लीदलं तथा ।
तुम्बूदलं च भाञ्जीं च (15) शिम्बमुद्गदलानि च ।। 12.42 ।।
(15. चमू)
शाकिनीं शतपर्वाणं तथैवाश्वासमर्दिनीम् ।
आगस्त्यं पाचयेच्छाकं विहितं ब्राह्मणस्य च ।। 12.43 ।।
* एकमूलवेण्वङ्कुरादीनां परिग्रह्यता.*
(16) एकमूलानि चान्यानि गृह्णीयादनिषेधने ।
अङ्कुराण्यपि वेण्वादिवस्तूनां कमलासन ।। 12.44 ।।
(16. शाकमूलानि.)
चेदयित्वालवित्रेण
* लवणादिव्यञ्जन द्रव्याणि.*
लवणैर्मरिचै स्तथा ।
सर्षपैर्जीरकैर्हिङ्कुश्रीपर्णीदलमिश्रितैः ।। 12.45 ।।
नालिकेरफलैराज्यैर्यथायोगं निवेशितैः ।
(17) संस्कार्यं व्यञ्जनं यूषयुक्तं कहितमेव वा ।। 12.46 ।।
(17. संस्कार्यवर्जनं यूषयुक्तं.)
* आयसभाजने घर्षणम्.*
सर्पिषा वाऽऽयसे पात्रे घृष्टं मृण्मय एव वा ।
कलायमुद्गनिष्पाव (18) शिम्बमाषकुलुकत्थाकाः ।। 12.47 ।।
(18. चम्प.)
* सयूषनिर्यूष पाकविवेकः.*
सयूषा वा वियूषा वा पचनीया गुणान्विताः ।
* कुल्माषादीनां निष्कुलीकरणम्.*
त्वचो व्यपोह्य (19) कुल्माषाःकार्या यद्वा यथोदिताः ।। 12.48 ।।
(19. गुल्मस्य)
* शुष्काणामाम्रादीनां विनियोगः.*
आम्रादीनि च शुष्काणि फलानि गुळतिन्त्रिणी ।
मिश्राणि पचनीयानि तथा लवणपासितम् ।। 12.49 ।।
* कालपक्वानि फलानि.*
आम्रं च श्रृङ्गिबेरं च तथा केवलमिष्यते ।
पसनं कदली चाम्रं कपित्थं बदरीफलम् ।। 12.50 ।।
द्राक्षा राजादनं जम्भूफलं तोटकमप्यथ ।
खर्जूरं वेत्रजं चैव मातुलुङ्गं च दाडिमम् ।। 12.51 ।।
फलान्येतानि पक्वानि कालपक्वानि योजयेत् ।
* परमान्नविधानम्.*
क्षीरं चैरो गुणस्तस्य तोयमर्धं तदर्धकम् ।। 12.52 ।।
तण्डुलास्तावदेव स्याद्भिन्नो मुद्गस्तदर्धकः ।
घृतं समुदितं सर्वं परमान्नं निवेदयेत् ।। 12.53 ।।
* गुळान्नम्.*
(20) समभागं तु पूर्वोक्तैस्तण्डुलैस्सम्मितं समम् ।
गुळं फलेन निक्षिप्य गुळान्नं तद्विदुर्बुधाः ।। 12.54 ।।
(20. समवाये तु.)
तण्डुलैस्सम्मितं निस्त्वङ्मुद्गभिन्नं सुसाधितम् ।
* मुद्गान्नम्.*
मुद्गान्नं कालपक्वैस्तु फलै राज्यपरिप्लुतम् ।। 12.55 ।।
* केवलान्नम्.*
निवेदयेत्केवलान्नं दण्डुलै रेव साधयेत् ।
फलानि कन्दशाकानि मुद्गभेदास्तथाङ्कुराः ।। 12.56 ।।
पयो दधि घृतं चापि कालपक्वं तथा फलम् ।
* उपदंशोपस्कार द्रव्याणि.*
आम्रादिलवणैश्चापि शृङ्गिबेरादिसाधितम् ।। 12.57 ।।
मत्स्यण्डी गुळभेदाश्च यच्चान्यदुपदंशकम् ।
* उक्तद्रव्याणां मात्रा.*
परिमाणममिषां (21) स्यात् यथाश्रद्धं यथावसु ।। 12.58 ।।
(21. च.)
मरीच्यादि यथायोग्यं द्रव्यसंस्कारकं भवेत् ।
* ताम्बोलोपयोगिनागवल्ली क्रमुकादीनां मात्रा.*
नागमल्लीदलानि स्युरशीतिरवरास्तथा ।। 12.59 ।।
विंशतिःक्रमुकस्यापि फलान्यवरसङ्ख्यया ।
अङ्गानि तैलं तक्कोलं लवङ्गं जाति रेव च ।। 12.60 ।।
मातुलङ्गत्वगन्यच्च चूर्णकं कर्पूरमिश्रितम् ।
पाषाणजं नालिकेरफलं पक्वं च निर्जलम् ।। 12.61 ।।
कर्पूरं केवलं वापि आमं वा शुष्कमेव वा ।
एतैर्वस्तुभिरन्यैश्च न्यूनभाविवर्जितैः ।। 12.62 ।।
ताम्बूलवीटिकास्तैलमृदुपूगफलान्विताः ।
निवेद्य याजमानस्य श्रद्धावित्तानुसारतः ।। 12.63 ।।
* अपूपविचारः.*
गोधूमशालिपिष्टात्था अपूपाश्चापि संस्कृताः ।
(22) गुळभेदाज्यमरिच जीवकाद्यैर्यथायथम् ।। 12.64 ।।
(22. गुळभेदाश्चमरि च.)
वस्तुभिर्विविधाकारा गुळपाकपरिप्लुताः ।
* पुटदग्धानि निवेदनीयानि.*
पुटदग्धां स्तिलानिक्षुरसपाकपरिप्लुतान् ।। 12.65 ।।
मरिचैर्जीरकै र्युक्तान् पललांश्च निवेदयेत् ।
पृथुकान् पुटदग्धान्वा केवलान्वा गुळप्लुतान् ।। 12.66 ।।
मरिचैर्जीरकै र्युक्तान् नालिकेरफलैस्सह ।
सक्तून् गुळद्रवैर्मिश्रान् मरिचैरपि जीरकैः ।। 12.67 ।।
करम्भानपि पूर्वोक्तैस्संस्कारैरपि स्स्कृतान् ।
* भाण्डानां शुद्धिः पुण्ड्रविधानं च.*
पाकस्थानाच्च भाण्डान्वा वारिभिःक्षालितान् बहिः ।। 12.68 ।।
भस्मना च चतुर्दिक्षु कृतोर्ध्वाकारपुण्ड्रकान् ।
अस्त्रमन्त्रेण वासोभिश्चन्नान्वा वेत्रपञ्जरे ।। 12.69 ।।
यद्वा प्रतिष्ठितान् भूमौ
* जलधारापुरस्सरं हविर्भाण्डप्रापणम्.*
जलधारापुरस्सरम् । वहेयु
* हविःपात्रवाहिनामुष्णिषबन्धः.*
र्विधृतोष्णीषास्सितकञ्चुकसंवृताः ।। 12.70 ।।
परिचर्या परा विप्रा
* देवस्यदक्षिणभागे हविःपात्रनिक्षेपः.*
मण्टपे मन्दिरेऽपि वा ।
देवस्य दक्षिणेपार्श्वे नीत्वा फलकभूमिषु ।। 12.71 ।।
* सौवर्णादिपात्राणां शुद्धिमन्त्रः.*
सौवर्णादी (23) निपात्राणि विष्णुगायत्रिया ततः ।
क्षालितानि (24) परामृश्य
* हविःपरिवेषणक्रमः.*
प्रणवेनाज्यधारया ।। 12.72 ।।
(23. न्यमत्राणि.)
(24. परामृज्य.)
पात्राणिसिक्त्वामन्त्रेण तथा दर्व्या हवींषि च ।
आदायादाय निक्षेप्य (25) ममत्रेष्वन्नमर्चितम् ।। 12.73 ।।
(25. निक्षिप्य मन्त्रेणान्न.)
* स्थालीषु बक्तपरिमाणम्.*
खारी तदर्धं पादं वा तदर्धं वाऽवरं मतम् ।
प्रतिस्थालीं पायसादिभक्तमानं चतुर्मुख ।। 12.74 ।।
यथायथं व्यञ्जनानि निक्षेप्याणि घृतैस्सह ।
(26) दध्ना च सर्वाण्य (27) न्नानि प्रकल्प्य व्यञ्जनैस्सह ।। 12.75 ।।
(26. इदमर्धं क्वचिन्न.)
(27. न्यानि.)
निवेदयेयुर्देपाय पानकानि च पूजकाः ।
चोष्याणि लेह्यखाद्यानि यथाविभवविस्तरम् ।। 12.76 ।।
* भगवन्नि वेदितस्य विष्वक्सेननिवेदने मात्रा.*
निवेदितानां तुर्यांशं विष्वक्सेनाय कल्पयेत् ।
तच्चागाधजले क्षेप्यं तद्भक्तान्यापि भोजयेत् ।। 12.77 ।।
* विष्वक्सेननिवेदनेनैव इतरपार्षदादीनां पृत्पिः.*
तेनैवपार्षदास्तृप्ताभवेयुर्भूत तृप्तये ।
दास्यो वा गणिका भोज्या देवस्य परिचारिकाः ।। 12.78 ।।
* ब्रह्मेशानादिनिवेदितस्य अभोज्यत्वम्.*
ब्रह्मेशानादि देवानां नैव भोज्यं निवेदितम् ।
* चण्डादिनिवेदितस्य अस्पृश्यत्वादि.*
(28) न स्पृश्यं लङ्गनीयं च चण्डादीनां नि (29) वेदितम् ।। 12.79 ।।
(28. अस्पृश्यं)
(29. तधैव च.)
* लक्ष्मी प्रभृतीनां निवेदितस्य अवश्यभोज्यत्वम्.*
देवीनां च श्रियादीनां विनता नन्दनस्य च ।
चक्रादीना मायुधानां वस्तु यद्यन्निवेदितम् ।। 12.80 ।।
भोक्तव्यमेव सर्वेषां विप्रादीनाम शङ्कितम् ।
* विष्णुनिवेदितस्य अत्यर्थपावनत्वम्.*
विष्णोर्निवेदितं शुद्धं पावनानां च पावनम् ।। 12.81 ।।
प्रापणं दुर्लभं भोज्यं न त्याज्यं स्यात्कदाचन ।
भुञ्जानानामेधते श्रीस्त्यजतां परिहीयते ।। 12.82 ।।
* तत्प्राशने व्रतोपवासतुलितत्वम्.*
व्रतोपवासतुलितमशनं तस्य पावनम् ।
शुनामिव पुरोडाशो न नीचेषु तदिष्यते ।। 12.83 ।।
* विष्णुनि वेदितशेषेण देवतान्तरपित्रादियजनेऽनन्तफलत्वम् *
विष्णोर्निवेदितान्नेन यष्टव्यं देवतान्तरम् ।
पितृभ्यश्चापि तद्देयं तदानन्त्या कल्पते ।। 12.84 ।।
* विष्णुनिर्मूल्य धारणस्य अतिपावनत्वम्.*
धारितं विष्णुनिर्माल्यं चन्दनाद्यनुलेपनम् ।
अहर्निशं धारयतां न पुनर्जननं भवेत् ।। 12.85 ।।
* विष्णुपादोदकसेवनस्य सर्वपुरुषार्थकारिता.*
तथा हि चरणस्पर्शि विष्णोस्त्स्रिपथगाजलम् ।
पुनाति सिद्धदेवर्षिसङ्खानं हो विघातकम् ।। 12.86 ।।
पादोदकं च देवस्य पवित्रं परमं मदम् ।
पाद्यं दत्वा जलं विष्णो र्मूलमन्त्रेण देशिकः ।। 12.87 ।।
गृहीत्वा शतधारेण मूर्द्निधार्यं विशुद्धये ।
शोधनं सर्वपापानां सर्वदुष्कृतनाशनम् ।। 12.88 ।।
लक्ष्मीविवर्धनं नित्यमायुर्वृद्धिकरं परम् ।
म्रियमाणस्स्वयं विष्णोश्चरणस्पर्शितं जलम् ।। 12.89 ।।
पीत्वा सद्गतिमाप्नोति न चेहाजायते पुनः ।
पितृणां तर्पणं शस्तं पारिणा तेन तर्पिताः ।। 12.90 ।।
ऋणेभ्यःपितरो मुक्तावसन्तिदिवि देववत् ।
भक्ताय देयं पादोत्थं शान्ताय शुभकर्मिणे ।। 12.91 ।।
पञ्चकालविधिज्ञाय तदनुष्ठानशीलिने ।
* विष्णुपादोदकस्य अनधिकारिणः.*
न नास्तिकाय दातव्यं दातव्यं नाभ्यसूयवे ।। 12.92 ।।
पाषण्डिने न दातव्यं तेभ्यो रक्षेत्प्रयत्नतः ।।
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां चर्यापादे पुष्पहविर्विधानं नाम द्वादशोऽध्यायः.
------ ****** -----