गुरुगीता वृहद ३

विकिस्रोतः तः
Jump to navigation Jump to search

गुरुगीता वृहद रूप

॥अथ तृतीयः अध्यायः॥

अथ काम्यजपस्थानं कथयामि वरानने।
सागरान्ते सरितीरे तीर्थे हरिहरालये॥२३६॥

शक्तिदेवालये गोष्ठे सर्वदेवालये शुभे।
वटस्य धात्र्या मूले वा मठे वृन्दावने तथा॥२३७॥

पवित्रे निर्मले देशे नित्यानुष्ठानतोऽपि वा।
निर्वेदनेन मौनेन जपमेतत् समारभेत्॥२३८॥

जाप्येन जयमाप्नोति जपसिद्धिं फलं तथा।
हीनं कर्म त्यजेत्सर्वं गहिर्तस्थानमेव च॥२३९॥

श्मशाने बिल्वमूले वा वटमूलान्तिके तथा।
सिद्ध्यन्ति कानके मूले चूतवृक्षस्य सन्निधौ॥२४०॥

पीतासनं मोहने तु ह्यसितं चाभिचारिके।
ज्ञेयं शुक्लं च शान्त्यर्थं वश्ये रक्तं प्रकीर्तितम्॥२४१॥

जपं हीनासनं कुर्वत् हीनकर्मफलप्रदम्।
गुरुगीतां प्रयाणे वा संग्रामे रिपुसंकटे॥२४२॥

जपन् जयमवाप्नोति मरणे मुक्तिदायिका।
सर्वकर्माणि सिद्ध्यन्ति गुरुपुत्रे न संशयः॥२४३॥

गुरुमन्त्रो मुखे यस्य तस्य सिद्ध्यन्ति नान्यथा।
दीक्षया सर्वकर्माणि सिद्ध्यन्ति गुरुपुत्रके॥२४४॥

भवमूलविनाशाय चाष्टपाशनिवृत्तये।
गुरुगीताम्भसि स्नानं तत्त्वज्ञः कुरुते सदा॥२४५॥

स एवं सद्गुरुः साक्षात् सदसद्ब्रह्मवित्तमः।
तस्य स्थानानि सर्वाणि पवित्राणि न संशयः॥२४६॥

सर्वशुद्धः पवित्रोऽसौ स्वभावाद्यत्र तिष्ठति।
तत्र देवगणाः सर्वे क्षेत्रपीठे चरन्ति च॥२४७॥

आसनस्थाः शयाना वा गच्छन्तस्तिष्ठन्तोऽपि वा।
अश्वारूढा गजारूढाः सुषुप्ता जाग्रतोऽपि वा॥२४८॥

शुचिभूता ज्ञानवन्तो गुरुगीता जपन्ति ये।
तेषां दर्शनसंस्पर्षात् दिव्यज्ञानं प्रजायते॥२४९॥

समुद्रे वै यथा तोयं क्षीरे क्षीरं जले जलम्।
भिन्ने कुम्भे यथाकाशं तथाऽऽत्मा परमात्मनि॥२५०॥

तथैव ज्ञानवान् जीवः परमात्मनि सर्वदा।
ऐक्येन रमते ज्ञानी यत्र कुत्र दिवानिशम्॥२५१॥

एवंविधो महायुक्तः सर्वत्र वर्तते सदा।
तस्मात्सर्वप्रकारेण गुरुभक्तिं समाचरेत्॥२५२॥

गुरुसन्तोषणादेव मुक्तो भवति पार्वति।
अणिमादिषु भोक्तृत्वं कृपया देवि जायते॥२५३॥

साम्येन रमते ज्ञानी दिवा वा यदि वा निशि।
एवंविधो महामौनी त्रैलोक्यसमतां व्रजेत्॥२५४॥

अथ संसारिणः सर्वे गुरुगीताजपेन तु।
सर्वान् कामांस्तु भुञ्जन्ति त्रिसत्यं मम भाषितम्॥२५५॥

सत्यं सत्यं पुनः सत्यं धर्मसारं मयोदितम्।
गुरुगीतासमं स्तोत्रं नास्ति तत्त्वं गुरोः परम्॥२५६॥

गुरुर्देवो गुरुर्धमोर् गुरौ निष्ठा परं तपः।
गुरोः परतरं नास्ति त्रिवारं कथयामि ते॥२५७॥

धन्या माता पिता धन्यो गोत्रं धन्यं कुलोद्भवः।
धन्या च वसुधा देवि यत्र स्याद्गुरुभक्तता॥२५८॥

आकल्पजन्म कोटीनां यज्ञव्रततपःक्रियाः।
ताः सर्वाः सफला देवि गुरूसन्तोषमात्रतः॥२५९॥

शरीरमिन्द्रियं प्राणश्चार्थः स्वजनबन्धुता।
मातृकुलं पितृकुलं गुरुरेव न संशयः॥२६०॥

मन्दभाग्या ह्यशक्ताश्च ये जना नानुमन्वते।
गुरुसेवासु विमुखाः पच्यन्ते नरकेशुचौ॥२६१॥

विद्या धनं बलं चैव तेषां भाग्यं निरर्थकम्।
येषां गुरूकृपा नास्ति अधो गच्छन्ति पार्वती॥२६२॥

ब्रह्मा विष्णुश्च रुद्रश्च देवताः पितृकिन्नराः।
सिद्धचारणयक्षाश्च अन्ये च मुनयो जनाः॥२६३॥

गुरुभावः परं तीर्थमन्यर्थं निरर्थकम्।
सर्वतीर्थमयं देवि श्रीगुरोश्चरणाम्बुजम्॥२६४॥

कन्याभोगरता मन्दाः स्वकान्तायाः पराङ्मुखाः।
अतः परं मया देवि कथितन्न मम प्रिये॥२६५॥

इदं रहस्यमस्पष्टं वक्तव्यं च वरानने।
सुगोप्यं च तवाग्रे तु ममात्मप्रीतये सति॥२६६॥

स्वामिमुख्यगणेशाद्यान् वैष्णवादींश्च पार्वति।
न वक्तव्यं महामाये पादस्पर्शं कुरुष्व मे॥२६७॥

अभक्ते वञ्चके धूर्ते पाषण्डे नास्तिकादिषु।
मनसाऽपि न वक्तव्या गुरुगीता कदाचन॥२६८॥

गुरवो बहवः सन्ति शिष्यवित्तापहारकाः।
तमेकं दुर्लभं मन्ये शिष्यहृत्तापहारकम्॥२६९॥

चातुर्यवान् विवेकी च अध्यात्मज्ञानवान् शुचिः।
मानसं निर्मलं यस्य गुरुत्वं तस्य शोभते॥२७०॥

गुरवो निर्मलाः शान्ताः साधवो मितभाषिणः।
कामक्रोधविनिर्मुक्ताः सदाचाराः जितेन्द्रियाः॥२७१॥

सूचकादिप्रभेदेन गुरवो बहुधा स्मृताः।
स्वयं सम्यक् परीक्ष्याथ तत्त्वनिष्ठं भजेत्सुधीः॥२७२॥

वर्णजालमिदं तद्वद्बाह्यशास्त्रं तु लौकिकम्।
यस्मिन् देवि समभ्यस्तं स गुरुः सुचकः स्मृतः॥२७३॥

वर्णाश्रमोचितां विद्यां धर्माधर्मविधायिनीम्।
प्रवक्तारं गुरुं विद्धि वाचकं त्विति पार्वति॥२७४॥

पञ्चाक्षर्यादिमन्त्राणामुपदेष्टा तु पार्वति।
स गुरुर्बोधको भूयादुभयोरयमुत्तमः॥२७५॥

मोहमारणवश्यादितुच्छमन्त्रोपदर्शिनम्।
निषिद्धगुरुरित्याहुः पण्डितास्तत्त्वदर्शिनः॥२७६॥

अनित्यमिति निर्दिश्य संसारं संकटालयम्।
वैराग्यपथदर्शी यः स गुरुर्विहितः प्रिये॥२७७॥

तत्त्वमस्यादिवाक्यानामुपदेष्टा तु पार्वति।
कारणाख्यो गुरुः प्रोक्तो भवरोगनिवारकः॥२७८॥

सर्वसन्देहसन्दोहनिर्मूलनविचक्षणः।
जन्ममृत्युभयघ्नो यः स गुरुः परमो मतः॥२७९॥

बहुजन्मकृतात् पुण्याल्लभ्यतेऽसौ महागुरुः।
लब्ध्वाऽमुं न पुनर्याति शिष्यः संसारबन्धनम्॥२८०॥

एवं बहुविधा लोके गुरवः सन्ति पार्वति।
तेषु सर्वप्रयत्नेन सेव्यो हि परमो गुरुः॥२८१॥

निषिद्धगुरुशिष्यस्तु दुष्टसंकल्पदूषितः।
ब्रह्मप्रलयपर्यन्तं न पुनर्याति मर्त्यताम्॥२८२॥

एवं श्रुत्वा महादेवी महादेववचस्तथा।
अत्यन्तविह्वलमना शंकरं परिपृच्छति॥२८३॥

पार्वत्युवाच।
नमस्ते देवदेवात्र श्रोतव्यं किंचिदस्ति मे।
श्रुत्वा त्वद्वाक्यमधुना भृशं स्याद्विह्वलं मनः॥२८४॥

स्वयं मूढा मृत्युभीताः सुकृताद्विरतिं गताः।
दैवान्निषिद्धगुरुगा यदि तेषां तु का गतिः॥२८५॥

श्री महादेव उवाच।
श्रुणु तत्त्वमिदं देवि यदा स्याद्विरतो नरः।
तदाऽसावधिकारीति प्रोच्यते श्रुतिमस्तकैः॥२८६॥

अखण्डैकरसं ब्रह्म नित्यमुक्तं निरामयम्।
स्वस्मिन् सन्दर्शितं येन स भवेदस्यं देशिकः॥२८७॥

जलानां सागरो राजा यथा भवति पार्वति।
गुरूणां तत्र सर्वेषां राजायं परमो गुरुः॥२८८॥

मोहादिरहितः शान्तो नित्यतृप्तो निराश्रयः।
तृणीकृतब्रह्मविष्णुवैभवः परमो गुरुः॥२८९॥

सर्वकालविदेशेषु स्वतन्त्रो निश्चलस्सुखी।
अखण्डैकरसास्वादतृप्तो हि परमो गुरुः॥२९०॥

द्वैताद्वैतविनिर्मुक्तः स्वानुभूतिप्रकाशवान्।
अज्ञानान्धतमश्छेत्ता सर्वज्ञः परमो गुरुः॥२९१॥

यस्य दर्शनमात्रेण मनसः स्यात् प्रसन्नता।
स्वयं भूयात् धृतिश्शान्तिः स भवेत् परमो गुरुः॥२९२॥

सिद्धिजालं समालोक्य योगिनां मन्त्रवादिनाम्।
तुच्छाकारमनोवृत्तिर्यस्यासौ परमो गुरुः॥२९३॥

स्वशरीरं शवं पश्यन् तथा स्वात्मानमद्वयम्।
यः स्त्रीकनकमोहघ्नः स भवेत् परमो गुरुः॥२९४॥

मौनी वाग्मीति तत्त्वज्ञो द्विधाभूच्छृणु पार्वति।
न कश्चिन्मौनिना लाभो लोकेऽस्मिन्भवति प्रिये॥२९५॥

वाग्मी तूत्कटसंसारसागरोत्तारणक्षमः।
यतोसौ संशयच्छेत्ता शास्त्रयुक्त्यनुभूतिभिः॥२९६॥

गुरुनामजपाद्देवि बहुजन्मर्जितान्यपि।
पापानि विलयं यान्ति नास्ति सन्देहमण्वपि॥२९७॥

श्रीगुरोस्सदृशं दैवं श्रीगुरोसदृशः पिता।
गुरुध्यानसमं कर्म नास्ति नास्ति महीतले॥२९८॥

कुलं धनं बलं शास्त्रं बान्धवास्सोदरा इमे।
मरणे नोपयुज्यन्ते गुरुरेको हि तारकः॥२९९॥

कुलमेव पवित्रं स्यात् सत्यं स्वगुरुसेवया।
तृप्ताः स्युस्सकला देवा ब्रह्माद्या गुरुतर्पणात्॥३००॥

गुरुरेको हि जानाति स्वरूपं देवमव्ययम्।
तज्ज्ञानं यत्प्रसादेन नान्यथा शास्त्रकोटिभिः॥३०१॥

स्वरूपज्ञानशून्येन कृतमप्यकृतं भवेत्।
तपोजपादिअक्ं देवि सकलं बालजल्पवत्॥३०२॥

शिवं केचिद्धरिं केचिद्विधिं केचित्तु केचन।
शक्तिं देवमिति ज्ञात्वा विवदन्ति वृथा नराः॥३०३॥

न जानन्ति परं तत्त्वं गुरूदीक्षापराङ्मुखाः।
भ्रान्ताः पशुसमा ह्येते स्वपरिज्ञानवर्जिताः॥३०४॥

तस्मात्कैवल्यसिद्ध्यर्थं गुरूमेव भजेत्प्रिये।
गुरूं विना न जानन्ति मूढास्तत्परमं पदम्॥३०५॥

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः।
क्षीयन्ते सर्वकर्माणि गुरोः करूणया शिवे॥३०६॥

कृताया गुरुभक्तेस्तु वेदशास्त्रानुसारतः।
मुच्यते पातकाद्घोराद्गुरूभक्तो विशेषतः॥३०७॥

दुःसंगं च परित्यज्य पापकर्म परित्यजेत्।
चित्तचिह्नमिदं यस्य दीक्षा विधीयते॥३०८॥

चित्तत्यागनियुक्तश्च क्रोधगर्वविवर्जितः।
द्वैतभावपरित्यागी तस्य दीक्षा विधीयते॥३०९॥

एतल्लक्षण संयुक्तं सर्वभूतहिते रतम्।
निर्मलं जीवितं यस्य तस्य दीक्षा विधीयते॥३१०॥

क्रियया चान्वितं पूर्वं दीक्षाजालं निरूपितम्।
मन्त्रदीक्षाभिर्र्ध सांगोपांग शिवोदितम्॥३११॥

क्रियया स्याद्विरहितां गुरूसायुज्यदायिनीम्।
गुरुदीक्षां विना को वा गुरुत्वाचारपालकः॥३१२॥

शक्तो न चापि शक्तो वा दैशिकांघ्रिसमाश्रयात्।
तस्य जन्मास्ति सफलं भोगमोक्षफलप्रदम्॥३१३॥

अत्यन्तचित्तपक्वस्य श्रद्धाभक्तियुतस्य च।
प्रवक्तव्यमिदं देवि ममात्मप्रीतये सदा॥३१४॥

रहस्यं सर्वशास्त्रेषु गीताशास्त्रदं शिवे।
सम्यक्परीक्ष्य वक्तव्यं साधकस्य मद्यात्मनः॥३१५॥

सत्कर्मपरिपाकाच्च चित्तशुद्धस्य धीमतः।
साधकस्यैव वक्तव्या गुरुगीता प्रयत्नतः॥३१६॥

नास्तिकाय कृतघ्नाय दाम्भिकाय शठाय च।
अभक्ताय विभक्ताय न वाच्येयं कदाचन॥३१७॥

स्त्रीलोलुपाय मूर्खाय कामोपहतचेतसे।
निन्दकाय न वक्तव्या गुरुगीता स्वभावतः॥३१८॥

सर्व पापप्रशमनं सर्वोपद्रववारकम्।
जन्ममृत्युहरं देवि गीताशास्त्रमिदं शिवे॥३१९॥

श्रुतिसारमिदं देवि सर्वमुक्तं समासतः।
नान्यथा सद्गतिः पुंसां विना गुरुपदं शिवे॥३२०॥

बहुजन्मकृतात्पादयमर्थो न रोचते।
जन्मबन्धनिवृत्यर्थं गुरुमेव भजेत्सदा॥३२१॥

अहमेव जगत्सर्वमहमेव परं पदम्।
एतज्ज्ञानं यतो भूयात्तं गुरुं प्रणमाम्यहम्॥३२२॥

अलं विकल्पैरहमेव केवलो मयि स्थितं विश्वमिदं चराचरम्।
इदं रहस्यं मम येन दर्शितम् स वन्दनीयो गुरुरेव केवलम्॥३२३॥

यस्यान्तं नादिमध्यं न हि करचरणं नामगोत्रं न सूत्रम्।
नो जातिर्नैव वर्णो न भवति पुरुषो नो नपुंसं न च स्त्री॥३२४॥

नाकारं नो विकारं न हि जनिमरणं नास्ति पुण्यं न पापम्।
नोऽतत्त्वं तत्त्वमेकं सहजसमरसं सद्गुरुं तं नमामि॥३२५॥

नित्याय सत्याय चिदात्मकाय नव्याय भव्याय परात्पराय।
शुद्धाय बुद्धाय निरञ्जनाय नमोऽस्य नित्यं गुरुशेखराय॥३२६॥

सच्चिदानन्दरूपाय व्यापिने परमात्मने।
नमः श्रीगुरुनाथाय प्रकाशानन्दमूर्तये॥३२७॥

सत्यानन्दस्वरूपाय बोधैकसुखकारिणे।
नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे॥३२८॥

नमस्ते नाथ भगवन् शिवाय गुरुरूपिणे।
विद्यावतारसंसिद्ध्यै स्वीकृतानेकविग्रह॥३२९॥

नवाय नवरूपाय परमार्थैकरूपिणे।
सर्वाज्ञानतमोभेदभानवे चिद्घनाय ते॥३३०॥

स्वतन्त्राय दयाक्लृप्तविग्रहाय शिवात्मने।
परतन्त्राय भक्तानां भव्यानां भव्यरूपिणे॥३३१॥

विवेकिनां विवेकाय विमर्शाय विमर्शिनाम्।
प्रकाशिनां प्रकाशाय ज्ञानिनां ज्ञानरूपिणे॥३३२॥

पुरस्तत्पार्श्वयोः पृष्ठे नमस्कुर्यादुपर्यधः।
सदा मच्चित्तरूपेण विधेहि भवदासनम्॥३३३॥

श्रीगुरुं परमानन्दं वन्दे ह्यानन्दविग्रहम्।
यस्य सन्निधिमात्रेण चिदानन्दाय ते मनः॥३३४॥

नमोऽस्तु गुरवे तुभ्यं सहजानन्दरूपिणे।
यस्य वागमृतं हन्ति विषं संसारसंज्ञकम्॥३३५॥

नानायुक्तोपदेशेन तारिता शिष्यमन्ततिः।
तत्कृतासारवेदेन गुरुचित्पदमच्युतम्॥३३६॥

अच्युताय मनस्तुभ्यं गुरवे परमात्मने।
सर्वतन्त्रस्वतन्त्राय चिद्घनानन्दमूर्तये॥३३७॥

नमोच्युताय गुरवे विद्याविद्यास्वरूपिणे।
शिष्यसन्मार्गपटवे कृपापीयूषसिन्धवे॥३३८॥

ओमच्युताय गुरवे शिष्यसंसारसेतवे।
भक्तकार्यैकसिंहाय नमस्ते चित्सुखात्मने॥३३९॥

गुरुनामसमं दैवं न पिता न च बान्धवाः।
गुरुनामसमः स्वामी नेदृशं परमं पदम्॥३४०॥

एकाक्षरप्रदातारं यो गुरुं नैव मन्यते।
श्वानयोनिशतं गत्वा चाण्डालेष्वपि जायते॥३४१॥

गुरुत्यागाद्भवेन्मृत्युर्मन्त्रत्यागाद्दरिद्रता।
गुरुमन्त्रपरित्यागी रौरवं नरकं व्रजेत्॥३४२॥

शिवक्रोधाद्गुरुस्त्राता गुरुक्रोधाच्छिवो न हि।
तस्मात्सर्वप्रयत्नेन गुरोराज्ञा न लंघयेत्॥३४३॥

संसारसागरसमुद्धरणैकमन्त्रम् ब्रह्मादिदेवमुनिपूजितसिद्धमन्त्रम्।
दारिद्र्यदुःखभवरोगविनाशमन्त्रम् वन्दे महाभयहरं गुरुराजमन्त्रम्॥३४४॥

सप्तकोटीमहामन्त्राश्चित्तविभ्रंशकारकाः।
एक एव महामन्त्रो गुरुरित्यक्षरद्वयम्॥३४५॥

एवमुक्त्वा महादेवः पार्वतीं पुनरब्रवीत्।
इदमेव परं तत्त्वं श्रुणु देवि सुखावहम्॥३४६॥

गुरुतत्त्वमिदं देवि सर्वमुक्तं समासतः।
रहस्यमिदमव्यक्तन्न वदेद्यस्य कस्यचित्॥३४७॥

न मृषा स्यादियं देवि मदुक्तिः सत्यरूपिणी।
गुरुगीतासमं स्तोत्रं नास्ति नास्ति महीतले॥३४८॥

गुरुगीतामिमां देवि भवदुःखविनाशिनीम्।
गुरुदीक्षाविहीनस्य पुरतो न पठेत् क्वचित्॥३४९॥

रहस्यमत्यन्तरहस्यमेतन्न पापिना लभ्यमिदं महेश्वरि।
अनेकजन्मार्जितपुण्यपाकाद्गुरोस्तु तत्त्वं लभते मनुष्यः॥३५०॥

यस्य प्रसादादहमेव सर्वम् मय्येव सर्वं परिकल्पितं च।
इत्थं विजानामि सदात्मरूपम् ग्तस्यांघ्रिपद्मं प्रणतोऽस्मि नित्यम्॥३५१॥

अज्ञानतिमिरान्धस्य विषयाक्रान्तचेतसः।
ज्ञानप्रभाप्रदानेन प्रसादं कुरु मे प्रभो॥३५२॥

॥इति श्रीगुरुगीतायां तृतीयोऽध्यायः॥

॥इति श्रीस्कंदपुराणे उत्तरखंडे ईश्वरपार्वती संवादे गुरुगीता समाप्त॥

॥श्रीगुरुदत्तात्रेयार्पणमस्तु॥

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. गीता
    1. गुरुगीता वृहद रूप
      1. प्रथमोऽध्यायः (००१-१०८)
      2. द्वितीयोऽध्यायः (१०९-२३५)
      3. तृतीयोऽध्यायः (२३६-३५२)
    2. गुरुगीता लघु (००१-१७६)

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=गुरुगीता_वृहद_३&oldid=47005" इत्यस्माद् प्रतिप्राप्तम्