गुरुगीता वृहद २

विकिस्रोतः तः
Jump to navigation Jump to search

गुरुगीता वृहद रूप

॥अथ द्वितीयोऽध्यायः॥

ध्यानं श्रुणु महादेवि सर्वानन्दप्रदायकम्।
सर्वसौख्यकरं चैव भुक्तिमुक्तिप्रदायकम्॥१०९॥

श्रीमत्परं ब्रह्म गुरुं स्मरामि श्रीमत्परं ब्रह्म गुरुं भजामि।
श्रीमत्परं ब्रह्म गुरुं वदामि श्रीमत्परं ब्रह्म गुरुं नमामि॥११०॥

ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिम्
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम्।
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतम्
भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि॥१११॥

हृदम्बुजे कर्णिकमध्यसंस्थे सिंहासने संस्थितदिव्यमूर्तिम्।
ध्यायेद्गुरुं चन्द्रकलाप्रकाशम् सच्चित्सुखाभीष्टवरं दधानम्॥११२॥

श्वेताम्बरं श्वेतविलेपपुष्पम् मुक्ताविभूषं मुदितं द्विनेत्रम्।
वामाङ्कपीठस्थितदिव्यशक्तिम् मन्दस्मितं पूर्णकृपानिधानम्॥११३॥

ज्ञानस्वरूपं निजभावयुक्तम् आनन्दमानन्दकरं प्रसन्नम्।
योगीन्द्रमीड्यं भवरोगवैद्यम् श्रीमद्गुरुं नित्यमहं नमामि॥११४॥

वन्दे गुरूणां चरणारविन्दम् सन्दर्शितस्वात्मसुखाम्बुधीनाम्।
जनस्य येषां गुलिकायमानं संसारहालाहलमोहशान्त्यै॥११५॥

यस्मिन् सृष्टिस्थिस्तिध्वंसनिग्रहानुग्रहात्मकम्।
कृत्यं पञ्चविधं शश्वत् भासते तं गुरुं भजेत्॥११६॥

पादाब्जे सर्वसंसारदावकालानलं स्वके।
ब्रह्मरन्ध्रे स्थिताम्भोजमध्यस्थं चन्द्रमण्डलम्॥११७॥

अकथादित्रिरेखाब्जे सहस्रदलमण्डले।
हंसपार्श्वत्रिकोणे च स्मरेत्तन्मध्यगं गुरुम्॥११८॥

नित्यं शुद्धं निराभासं निराकारं निरञ्जनम्।
नित्यबोधं चिदानन्दं गुरुं ब्रह्म नमाम्यहम्॥११९॥

सकलभुवनसृष्टिः कल्पिताशेषसृष्टिः
निखिलनिगमदृष्टिः सत्पदार्थैकसृष्टिः।
अतद्गणपरमेष्टिः सत्पदार्थैकदृष्टिः
भवगुणपरमेष्टिर्मोक्षमार्गैकदृष्टिः॥१२०॥

सकलभुवनरङ्गस्थापनास्तम्भयष्टिः
सकरुणरसवृष्टिस्तत्त्वमालासमष्टिः।
सकलसमयसृष्टिस्सच्चिदानन्ददृष्टिः
निवसतु मयि नित्यं श्रीगुरोर्दिव्यदृष्टिः॥१२१॥

न गुरोरधिकं न गुरोरधिकं न गुरोरधिकं न गुरोरधिकम्।
शिवशासनतः शिवशासनतः शिवशासनतः शिवशासनतः॥१२२॥

इदमेव शिवमिदमेव शिवम् इदमेव शिवमिदमेव शिवम्।
हरिशासनतो हरिशासनतो हरिशासनतो हरिशासनतः॥१२३॥

विदितं विदितं विदितं विदितम् विजनं विजनं विजनं विजनम्।
विधिशासनतो विधिशासनतो विधिशासनतो विधिशासनतः॥१२४॥

एवंविधं गुरुं ध्यात्वा ज्ञानमुत्पद्यते स्वयम्।
तदा गुरूपदेशेन मुक्तोऽहमिति भावयेत्॥१२५॥

गुरूपदिष्टमार्गेण मनःशुद्धिं तु कारयेत्।
अनित्यं खण्डयेत्सर्वं यत्किञ्चिदात्मगोचरम्॥१२६॥

ज्ञेयं सर्वं प्रतीतं च ज्ञानं च मन उच्यते।
ज्ञानं ज्ञेयं समं कुर्यान्नान्यः पन्था द्वितीयकः॥१२७॥

किमत्र बहुनोक्तेन शास्त्रकोटिशतैरपि।
दुर्लभा चित्तविश्रान्तिः विना गुरुकृपां पराम्॥१२८॥

करुणाखड्गपातेन छित्वा पाशाष्टकं शिशोः।
सम्यगानन्दजनकः सद्गुरुः सोऽभिधीयते॥१२९॥

एवं श्रुत्वा महादेवि गुरुनिन्दां करोति यः।
स याति नरकान् घोरान् यावच्चन्द्रदिवाकरौ॥१३०॥

यावत्कल्पान्तको देहस्तावद्देवि गुरुं स्मरेत्।
गुरुलोपा न कर्तव्यः स्वच्छन्दो यदि वा भवेत्॥१३१॥

हुङ्कारेण न वक्तव्यं प्राज्ञशिष्यैः कदाचन।
गुरोरग्र न वक्तव्यमसत्यं तु कदाचन॥१३२॥

गुरुं त्वंकृत्य हुंकृत्य गुरुसान्निध्यभाषणः।
अरण्ये निर्जले देशे सम्भवेद् ब्रह्मराक्षसः॥१३३॥

अद्वैतं भावयेन्नित्यं सर्वावस्थासु सर्वदा।
कदाचिदपि नो कुर्याद्द्वैतं गुरुसन्निधौ॥१३४॥

दृश्यविस्मृतिपर्यन्तं कुर्याद् गुरुपदार्चनम्।
तादृशस्यैव कैवल्यं न च तद्व्यतिरेकिणः॥१३५॥

अपि सम्पूर्णतत्त्वज्ञो गुरुत्यागि भवेद्यदा।
भवत्येव हि तस्यान्तकाले विक्षेपमुत्कटम्॥१३६॥

गुरुकार्यं न लङ्घेत नापृष्ट्वा कार्यमाचरेत्।
न ह्युत्तिष्ठेद्दिशेऽनत्वा गुरुसद्भ्वशोभितः॥१३७॥

गुरौ सति स्वयं देवि परेषां तु कदाचन।
उपदेशं न वै कुर्यात् तथा चेद्राक्षसो भवेत्॥१३८॥

न गुरोराश्रमे कुर्यात् दुष्पानं परिसर्पणम्।
दीक्षा व्याख्या प्रभुत्वादि गुरोराज्ञां न कारयेत्॥१३९॥

नोपाश्रमं च पर्यकं न च पादप्रसारणम्।
नाङ्गभोगादिकं कुर्यान्न लीलामपरामपि॥१४०॥

गुरूणां सदसद्वापि यदुक्तं तन्न लंघयेत्।
कुर्वन्नाज्ञां दिवा रात्रौ दासवन्निवसेद्गुरो॥१४१॥

अदत्तं न गुरोर्द्रव्यमुपभुञ्जीत कर्हिचित्।
दत्ते च रंकवद्ग्राह्यं प्राणोऽप्येतेन लभ्यते॥१४२॥

पादुकासनशय्यादि गुरुणा यदभीष्टितम्।
नमस्कुर्वीत तत्सर्वं पादाभ्यां न स्पृशेत् क्वचित्॥१४३॥

गच्छतः पृष्ठतो गच्छेत् गुरुच्छायां न लंघयेत्।
नोल्बणं धारयेद्वेषं नालंकारांस्ततोल्बणान्॥१४४॥

गुरुनिन्दाकरं दृष्ट्वा धावयेदथ वासयेत्।
स्थानं वा तत्परित्याज्यं जिह्वाछेदाक्षमो यदि॥१४५॥

नोच्छिष्टं कस्यचिद्देयं गुरोराज्ञां न च त्यजेत्।
कृत्स्नमुच्छिष्टमादाय हविर्वद्भक्षयेत्स्वयम्॥१४६॥

नानृतं नाप्रियं चैव न गर्व नापि वा बहु।
न नियोगधरं ब्रूयात् गुरोराज्ञां विभावयेत्॥१४७॥

प्रभो देवकुलेशानां स्वामिन् राजन् कुलेश्वर।
इति सम्बोधनैर्भीतो सच्चरेद्गुरुसन्निधौ॥१४८॥

मुनिभिः पन्नगैर्वापि सुरैर्वा शापितो यदि।
कालमृत्युभयाद्वापि गुरुः संत्राति पार्वति॥१४९॥

अशक्ता हि सुराद्याश्च ह्यशक्ताः मुनयस्तथा।
गुरुशापोपपन्नस्य रक्षणाय च कुत्रचित्॥१५०॥

मन्त्रराजमिदं देवि गुरुरित्यक्षरद्वयम्।
स्मृतिवेदपुराणानां सारमेव न संशयः॥१५१॥

सत्कारमानपूजार्थं दण्डकाषयधारणः।
स संन्यासी न वक्तव्यः संन्यासी ज्ञानतत्परः॥१५२॥

विजानन्ति महावाक्यं गुरोश्चरण सेवया।
ते वै संन्यासिनः प्रोक्ता इतरे वेषधारिणाः॥१५३॥

नित्यं ब्रह्म निराकारं निर्गुणं सत्यचिद्धनम्।
यः साक्षात्कुरुते लोके गुरुत्वं तस्य शोभते॥१५४॥

गुरुप्रसादतः स्वात्मन्यात्मारामनिरीक्षणात्।
समता मुक्तिमार्गेण स्वात्मज्ञानं प्रवर्तते॥१५५॥

आब्रह्मस्तम्भपर्यन्तं परमात्मस्वरूपकम्।
स्थावरं जंगमं चैव प्रणमामि जगन्मयम्॥१५६॥

वन्देहं सच्चिदानन्दं भावातीतं जगद्गुरुम्।
नित्यं पूर्णं निराकारं निर्गुणं स्वात्मसंस्थितम्॥१५७॥

परात्परतरं ध्यायेन्नित्यमानन्दकारकम्।
हृदयाकाशमध्यस्थं शुद्धस्फटिकसन्निभम्॥१५८॥

स्फाटिके स्फाटिकं रूपं दर्पणे दर्पणो यथा।
तथात्मनि चिदाकारमानन्दं सोऽहमित्युत॥१५९॥

अंगुष्ठमात्रं पुरुषं ध्यायेच्च चिन्मयं हृदि।
तत्र स्फुरति यो भावः श्रुणु तत्कथयामि ते॥१६०॥

अजोऽहममरोऽहं च ह्यनादिनिधनो ह्यहम्।
अविकारश्चिदानन्दो ह्यणीयान्महतो महान्॥१६१॥

अपूर्वमपरं नित्यं स्वयंज्योतिर्निरामयम्।
विरजं परमाकाशं ध्रुवमानन्दमव्ययम्॥१६२॥

अगोचरं तथाऽगम्यं नामरूपविवर्जितम्।
निःशब्दं तु विजानीयात्स्वभावाद्ब्रह्म पार्वति॥१६३॥

यथा गन्धस्वभावावत्वं कर्पूरकुसुमादिषु।
शीतोष्णत्वस्वभावत्वं तथा ब्रह्मणि शाश्वतम्॥१६४॥

यथा निजस्वभावेन कुण्डलकटकादयः।
सुवर्णत्वेन तिष्ठन्ति तथाऽहं ब्रह्म शाश्वतम्॥१६५॥

स्वयं तथाविधो भूत्वा स्थातव्यं यत्रकुत्रचित्।
कीटो भृङ्ग इव ध्यानाद्यथा भवति तादृशः॥१६६॥

गुरुध्यानं तथा कृत्वा स्वयं ब्रह्ममयो भवेत्।
पिण्डे पदे तथा रूपे मुक्तास्ते नात्र संशयः॥१६७॥

श्रीपार्वती उवाच।
पिण्डं किं तु महादेव पदं किं समुदाहृतम्।
रूपातीतं च रूपं किं एतदाख्याहि शंकर॥१६८॥

श्रीमहादेव उवाच।
पिण्डं कुण्डलिनी शक्तिः पदं हंसमुदाहृतम्।
रूपं बिन्दुरिति ज्ञेयं रूपातीतं निरञ्जनम्॥१६९॥

पिण्डे मुक्ताः पदे मुक्ता रूपे मुक्ता वरानने।
रूपातीते तु ये मुक्तास्ते मुक्ता नात्र संशयः॥१७०॥

गुरुर्ध्यानेनैव नित्यं देही ब्रह्ममयो भवेत्।
स्थितश्च यत्र कुत्रापि मुक्तोऽसौ नात्र संशयः॥१७१॥

ज्ञानं स्वानुभवः शान्तिर्वैराग्यं वक्तृता धृतिः।
षड्गुणैश्वर्ययुक्तो हि भगवान् श्रीगुरुः प्रिये॥१७२॥

गुरुः शिवो गुरुर्देवो गुरुर्बन्धुः शरीरिणाम्।
गुरुरात्मा गुरुर्जीवो गुरोरन्यन्न विद्यते॥१७३॥

एकाकी निस्पृहः शान्तश्चिन्तासूयादिवर्जितः।
बाल्यभावेन यो भाति ब्रह्मज्ञानी स उच्यते॥१७४॥

न सुखं वेदशास्त्रेषु न सुखं मन्त्रयन्त्रके।
गुरोः प्रसादादन्यत्र सुखं नास्ति महीतले॥१७५॥

चार्वाकवैष्णवमते सुखं प्राभाकरे न हि।
गुरोः पादान्तिके यद्वत्सुखं वेदान्तसम्मतम्॥१७६॥

न तत्सुखं सुरेन्द्रस्य न सुखं चक्रवर्तिनाम्।
यत्सुखं वीतरागस्य मुनेरेकान्तवासिनः॥१७७॥

नित्यं ब्रह्मरसं पीत्वा तृप्तो यः परमात्मनि।
इन्द्रं च मन्यते तुच्छं नृपाणां तत्र का कथा॥१७८॥

यतः परमकैवल्यं गुरुमार्गेण वै भवेत्।
गुरुभक्तिरतः कार्या सर्वदा मोक्षकांक्षिभिः॥१७९॥

एक एवाद्वितीयोऽहं गुरुवाक्येन निश्चितः।
एवमभ्यस्यता नित्यं न सेव्यं वै वनान्तरम्॥१८०॥

अभ्यासान्निमिषेणैवं समाधिमधिगच्छति।
आजन्मजनितं पापं तत्क्षणादेव नश्यति॥१८१॥

किमावाहनमव्यक्तै व्यापकं किं विसर्जनम्।
अमूर्तो च कथं पूजा कथं ध्यानं निरामये॥१८२॥

गुरुर्विष्णुः सत्त्वमयो राजसश्चतुराननः।
तामसो रुद्ररूपेण सृजत्यवति हन्ति च॥१८३॥

स्वयं ब्रह्ममयो भूत्वा तत्परं नावलोकयेत्।
परात्परतरं नान्यत् सर्वगं च निरामयम्॥१८४॥

तस्यावलोकनं प्राप्य सर्वसंगविवर्जितः।
एकाकी निस्पृहः शान्तः स्थातव्यं तत्प्रसादतः॥१८५॥

लब्धं वाऽथ न लब्धं वा स्वल्पं वा बहुलं तथा।
निष्कामेनैव भोक्तव्यं सदा संतुष्टमानसः॥१८६॥

सर्वज्ञपदमित्याहुर्देही सर्वमयो भुवि।
सदाऽनन्दः सदा शान्तो रमते यत्रकुत्रचित्॥१८७॥

यत्रैव तिष्ठते सोऽपि स देशः पुण्यभाजनः।
मुक्तस्य लक्षणं देवि तवाग्रे कथितं मया॥१८८॥

उपदेशस्त्वयं देवि गुरुमार्गेण मुक्तिदः।
गुरुभक्तिस्तथात्यान्ता कर्तव्या वै मनीषिभिः॥१८९॥

नित्ययुक्ताश्रयः सर्वो वेदकृत्सर्ववेदकृत्।
स्वपरज्ञानदाता च तं वन्दे गुरुमीश्वरम्॥१९०॥

यद्यप्यधीता निगमाः षडंगा आगमाः प्रिये।
अध्यात्मादीनि शास्त्राणि ज्ञानं नास्ति गुरुं विना॥१९१॥

शिवपूजारतो वापि विष्णुपूजारतोऽथवा।
गुरुतत्त्वविहीनश्चेत्तत्सर्वं व्यर्थमेव हि॥१९२॥

शिवस्वरूपमज्ञात्वा शिवपूजा कृता यदि।
सा पूजा नाममात्रं स्याच्चित्रदीप इव प्रिये॥१९३॥

सर्वं स्यात्सफलं कर्म गुरुदीक्षाप्रभावतः।
गुरुलाभात्सर्वलाभो गुरुहीनस्तु बालिशः॥१९४॥

गुरुहीनः पशुः कीटः पतंगो वक्तुमर्हति।
शिवरूपं स्वरूपं च न जानाति यतस्स्वयम्॥१९५॥

तस्मात्सर्वप्रयत्नेन सर्वसंगविवर्जितः।
विहाय शास्त्रजालानि गुरुमेव समाश्रयेत्॥१९६॥

निरस्तसर्वसन्देहो एकीकृत्य सुदर्शनम्।
रहस्यं यो दर्शयति भजामि गुरुमीश्वरम्॥१९७॥

ज्ञानहीनो गुरुस्त्याज्यो मिथ्यावादि विडम्बकः।
स्वविश्रान्तिं न जानाति परशान्तिं करोति किम्॥१९८॥

शिलायाः किं परं ज्ञानं शिलासंघप्रतारणे।
स्वयं तर्तुं न जानाति परं निस्तारयेत् कथम्॥१९९॥

न वन्दनीयास्ते कष्टं दर्शनाद्भ्रान्तिकारकाः।
वर्जयेतान् गुरुन् दूरे धीरानेव समाश्रयेत्॥२००॥

पाषण्डिनः पापरताः नास्तिका भेदबुद्धयः।
स्त्रीलम्पटा दुराचाराः कृतघ्ना बकवृत्तयः॥२०१॥

कर्मभ्रष्टाः क्षमानष्टा निन्द्यतर्केश्च वादिनः।
कामिनः क्रोधिनश्चैव हिंस्राश्चण्डाः शठास्तथा॥२०२॥

ज्ञानलुप्ता न कर्तव्या महापापास्तथा प्रिये।
एभ्यो भिन्नो गुरुः सेव्यः एकभक्त्या विचार्य च॥२०३॥

शिष्यादन्यत्र देवेशि न वदेद्यस्य कस्यचित्।
नराणां च फलप्राप्तौ भक्तिरेव हि कारणम्॥२०४॥

गूढो दृढश्च प्रीतश्च मौनेन सुसमाहितः।
सकृत्कामगतौ वापि पञ्चधा गुरुरीरितः॥२०५॥

सर्वं गुरुमुखाल्लब्धं सफलं पापनाशनम्।
यद्यदात्महितं वस्तु तत्तद्द्रव्यं न वञ्चयेत्॥२०६॥

गुरुदेवार्पणं वस्तु तेन तुष्टोऽस्मि सुव्रते।
श्रीगुरोः पादुकां मुद्रां मूलमन्त्रं च गोपयेत्॥२०७॥

नतास्मि ते नाथ पदारविन्दं बुद्धीन्द्रियाप्राणमनोवचोभिः।
यच्चिन्त्यते भावित आत्मयुक्तौ मुमुक्षिभिः कर्ममयोपशान्तये॥२०८॥

अनेन यद्भवेत्कार्यं तद्वदामि तव प्रिये।
लोकोपकारकं देवि लौकिकं तु विवर्जयेत्॥२०९॥

लौकिकाद्धर्मतो याति ज्ञानहीनो भवार्णवे।
ज्ञानभावे च यत्सर्वं कर्म निष्कर्म शाम्यति॥२१०॥

इमां तु भक्तिभावेन पठेद्वै श्रुणुयादपि।
लिखित्वा यत्प्रदानेन तत्सर्वं फलमश्नुते॥२११॥

गुरुगीतामिमां देवि हृदि नित्यं विभावय।
महाव्याधिगतैर्दुःखैः सर्वदा प्रजपेन्मुदा॥२१२॥

गुरुगीताक्षरैकैकं मन्त्रराजमिदं प्रिये।
अन्ये च विविधा मन्त्राः कलां नाहर्न्ति षोडशीम्॥२१३॥

अनन्त फलमाप्नोति गुरुगीता जपेन तु।
सर्वपापहरा देवि सर्वदारिद्र्यनाशिनी॥२१४॥

अकालमृत्युहर्त्री च सर्वसंकटनाशिनी।
यक्षराक्षसभूतादिचोरव्याघ्रविघातिनी॥२१५॥

सर्वोपद्रवकुष्ठादिदुष्टदोषनिवारिणी।
यत्फलं गुरुसान्निध्यात्तत्फलं पठनाद्भवेत्॥२१६॥

महाव्याधिहरा सर्वविभूतेः सिद्धिदा भवेत्।
अथवा मोहने वश्ये स्वयमेव जपेत्सदा॥२१७॥

कुशदूर्वासने देवि ह्यासने शुभ्रकम्बले।
उपविश्य ततो देवि जपेदेकाग्रमानसः॥२१८॥

शुक्लं सर्वत्र वै प्रोक्तं वश्ये रक्तासनं प्रिये।
पद्मासने जपेन्नित्यं शान्तिवश्यकरं परम्॥२१९॥

वस्त्रासने च दारिद्र्यं पाषाणे रोगसम्भवः।
मेदिन्यां दुःखमाप्नोति काष्ठे भवति निष्फलम्॥२२०॥

कृष्णाजिने ज्ञानसिद्धिर्मोक्षश्रीव्यार्घ्रचर्मणि।
कुशासने ज्ञानसिद्धिः सर्वसिद्धिस्तु कम्बले॥२२१॥

आग्नेय्यां कर्षणं चैव वायव्यां शत्रुनाशनम्।
नैऋर्त्यां दर्शनं चैव ईशान्यां ज्ञानमेव च॥२२२॥

उदङ्मुखः शान्तिजप्ये वश्ये पूर्वमुखस्तथा।
याम्ये तु मारणं प्रोक्तं पश्चिमे च धनागमः॥२२३॥

मोहनं सर्वभूतानां बन्धमोक्षकरं परम्।
देवराज्ञां प्रियकरं राजानं वशमानयेत्॥२२४॥

मुखस्तम्भकरं चैव गुणानां च विवर्धनम्।
दुष्कर्मनाशनं चैव तथा सत्कर्मसिद्धिदम्॥२२५॥

प्रसिद्धं साधयेत्कार्यं नवग्रहभयापहम्।
दुःस्वप्ननाशनं चैव सुस्वप्नफलदायकम्॥२२६॥

मोहशान्तिकरं चैव बन्धमोक्षकरं परम्।
स्वरूपज्ञाननिलयं गीताशास्त्रमिदं शिवे॥२२७॥

यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चयम्।
नित्यं सौभाग्यदं पुण्यं तापत्रयकुलापहम्॥२२८॥

सर्वशान्तिकरं नित्यं तथा वन्ध्या सुपुत्रदम्।
अवैधव्यकरं स्त्रीणां सौभाग्यस्य विवर्धनम्॥२२९॥

आयुरारोग्यमैश्वर्यं पुत्रपौत्रप्रवर्धनम्।
निष्कामजापी विधवा पठेन्मोक्षमवाप्नुयात्॥२३०॥

अवैधव्यं सकामा तु लभते चान्यजन्मनि।
सर्वदुःखमयं विघ्नं नाशयेत्तापहारकम्॥२३१॥

सर्वपापप्रशमनं धर्मकामार्थमोक्षदम्।
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम्॥२३२॥

काम्यानां कामधेनुर्वै कल्पिते कल्पपादपः।
चिन्तामणिश्चिन्तितस्य सर्वमंगलकारकम्॥२३३॥

लिखित्वा पूजयेद्यस्तु मोक्षश्रियमवाप्नुयात्।
गुरूभक्तिर्विशेषेण जायते हृदि सर्वदा॥२३४॥

जपन्ति शाक्ताः सौराश्च गाणपत्याश्च वैष्णवाः।
शैवाः पाशुपताः सर्वे सत्यं सत्यं न संशयः॥२३५॥

॥इति श्रीस्कंदपुराणे उत्तरखंडे उमामहेश्वर संवादे
श्री गुरुगीतायां द्वितीयोऽध्यायः॥

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. गीता
    1. गुरुगीता वृहद रूप
      1. प्रथमोऽध्यायः (००१-१०८)
      2. द्वितीयोऽध्यायः (१०९-२३५)
      3. तृतीयोऽध्यायः (२३६-३५२)
    2. गुरुगीता लघु (००१-१७६)

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=गुरुगीता_वृहद_२&oldid=47003" इत्यस्माद् प्रतिप्राप्तम्