गर्गसंहिता/खण्डः ६ (द्वारकाखण्डः)/अध्यायः ०४

विकिस्रोतः तः
← गर्गसंहिता/खण्डः ६ (द्वारकाखण्डः)/अध्यायः ०३ गर्गसंहिता/खण्डः ६ (द्वारकाखण्डः)/अध्यायः ०४
गर्गमुनि
गर्गसंहिता/खण्डः ६ (द्वारकाखण्डः)/अध्यायः ०५ →

श्रीनारद उवाच ।।
अथ श्रीकृष्णदेवस्य विवाहं शृणु मैथिल।।
सर्वपापहरं पुण्यं चतुर्वर्गफलप्रदम् ।।१।।
भीष्मकोनाम राजाभूद्विदर्भेषु प्रतापवान् ।।
कुंडिनाधिपतिः श्रीमान्सर्वधर्मविदांवरः ।। २ ।।
रुक्मिणी तत्सुता जाता श्रियोमात्रातिसुन्दरी ।।
कोटिचन्द्रप्रतीकाशा गुणभूषणभूषिता ।। ३ ।।
श्रुत्वैकदा पुरा सा वै मन्मुखाच्छ्रीहरेर्गुणान् ।।
परिपूर्णतमं तं वै सा मेने सदृशं पतिम् ।। ४ ।।
तद्रूपं सगुणं श्रुत्वा मन्मुखात्प्रीतिवर्द्धनात् ।।
सदृशीं श्रीहरिस्तां वै समुद्वोढुं मनो दधे । ।।५।।
कृष्णभावविदा राज्ञा सर्वधर्मविदा भृशम् ।।
भीष्मकेणैव कृष्णाय दातुं तां निश्चयः कृतः ।। ६ ।।
युवराजस्ततो रुक्मी तं निवार्य्य प्रयत्नतः ।।
कृष्णशत्रुर्महावीरं शिशुपालममन्यत ।। ७ ।।
ततः खिन्नमना भैष्मी श्रीकृष्णाय महात्मने ।।
दूतं स्वं प्रेषयामास ब्राह्मणं मिथिलेश्वर ।।८।।
स द्वारकां गतो दिव्यां श्रीकृष्णेन प्रपूजितः।
भुक्तवांस्तत्र चासीनो विश्रांतो मंदिरं हरेः ।। ९ ।।
पृच्छते कुशलं सर्वं श्रीकृष्णाय महात्मने ।।
ब्राह्मणस्तदनुज्ञातस्तस्मै सर्वमवर्णयत् ।।6.4.१०।।
स्वस्तिश्रीकारपंचाढ्ये नित्यानंदमहोदधौ ।।
श्रीमद्दिव्यगुणैः पूर्णे कोटिशो नतयो मम ।।११।।
शमत्रास्ति च तत्रास्तु ततस्त्वत्पत्रमागतम्।।
नारदोक्तेन वचसा ज्ञातोसि प्रकृतेः परः ।।१२।।
सर्वं जानासि सर्वज्ञस्तथा वक्ष्ये वचो रहः ।।
वीरभागं तु मां विद्धि त्वं गृहाण महामते ।। १३ ।।
मां चैद्यः प्रतिगृह्णीयाद्यथा सिंहबलिं मृगः ।।
कथं त्वामुद्वहे दुर्गे स्थितामिति च तच्छृणु ।। १४ ।।
पूर्वेद्युः कुलदेव्यास्तु यात्रास्ति महती हरे ।।
आगमिष्याम्यहं यत्र तत्र मां त्वं गृहाण भोः ।। १५ ।।
।। श्रीनारद उवाच ।।
रुक्मिण्यास्तमभिप्रायं श्रुत्वा ब्राह्मणभाषितम् ।।
रथः संयुज्यतामाशु दारुकं प्राह मानदः ।।१६।।
पश्चिमायां तदा रात्रौ वैकुण्ठप्रभवं परम् ।।
किंकिणीजालसंयुक्तं हेमरत्नखचित्प्रभम् ।। १७ ।।
सदश्वैः शैब्यसुग्रीवमेघपुष्पबलाहकैः ।।
नियोजितैर्दारुकेण चंचलैश्चारुचामरैः ।। १८ ।।
युक्तं महारथे दिव्यं सहस्रादित्यवर्चसम् ।।
आरुह्य सारथेः पृष्ठे धृत्वा श्रीपादपंकजम् ।। १९।।
स्वहस्तेन द्विजं तस्मिन्समारोप्य रमापतिः ।।
विदर्भान्प्रययौ राजञ्श्रीकृष्णो भगवान्हरिः ।। 6.4.२० ।।
कृष्णं चैकं गतं हर्तुं कन्यां तु नृपमण्डलात् ।।
कलिप्रशंकितो रामः श्रुत्वा भ्रातृसहायकृत् ।।२१।।
नीत्वा यदुबलं सर्वं समर्थबलवाहनम्।।
विपक्षीयान्नृपाञ्जेतुं बलः पश्चाद्ययौ त्वरम् ।। २२ ।।
कुण्डिनोपवनं प्रातः सद्विजः सरथो हरिः ।।
संतस्थौ तिंतिणीवृक्षे आस्तीर्याश्वपरिच्छदम् ।। २३ ।।
दूरात्संदृश्यते तस्मात्कुण्डिनन्तु पुरम्परम् ।।
दीर्घदुर्गसमायुक्तं सप्तयोजनवर्तुलम् ।।२४।।
दुर्लंघ्या दुर्गमा यत्र परिखा जलपूरिता ।।
धनुःशतं विस्तृतास्ति चातुर्मास्यनदीवसा ।।२५।।
पंचाशद्धस्तमानेन दुर्गभित्तिस्तथोर्ध्वगा ।।
यत्र रम्याणि हर्म्याणि स्फुरद्धेमशिखानि च ।। २६ ।।
हेमकुम्भध्वज स्फूर्ज्जत्तोलकानि विरेजिरे ।।
पारावता मयूराश्च यत्र तत्र पतंति च ।। २७ ।।
शिशुपालाय स्वां कन्यां दास्यन्राजा तु भीष्मकः ।।
चक्रे विवाहसंभारसंचयं रत्नमण्डपे ।। २८ ।।
गीतमंगलसंयुक्ते नारीभिर्भवनोत्तमे ।।
रराज रुक्मिणी राजन्सिद्दिभिर्भूर्यथा भुवि ।।२९।।
अथर्वविद्द्विजा भैष्मी सुस्नातां रत्नवाससम् ।।
चक्रुर्मंत्रैस्तथा रक्षां बध्वा शांतिं विधाय च ।। 6.4.३० ।।
हैमानां भारलक्षं च मुक्तानां द्विगुणं तथा।।
सहस्रभारं वस्त्राणां धेनूनामर्बुदानि षट् । ।। ३१ ।।
गदायुतं रथानां च दशलक्षमनोहरम् ।।
दशकोटिहयानां च गुडादितिलपर्वतान् ।।३२।।
सहस्रस्वर्णपात्राणां भूषणानां तथायुतम् ।।
विप्रेभ्यः प्रददौ राजा भीष्मकोति महामनाः ।।३३।।
तथा वै दमघोषस्य शिशुपालाय वै द्विजाः ।।
चक्रुः शांतिं परां पूर्वं रक्षाबंधनरूपिणीम् ।।३४।।
ब्राह्मणैर्मंगलस्नातं पीतकंचुकशोभितम् ।।
मुकुटोपरि विभ्राजत्पुष्पं मौलिधरं शुभम् ।। ३५ ।।
हारकंकणकेयूरशिखामणिविभूषितम् ।।
मंगलैर्गीतवादित्रैर्गन्धाक्षतविचर्चितम्।।३६।।
आचारलाजैः सुवरं शिशुपालं विधाय च।।
आरोप्य करिणं प्रोच्चं दमघोषो विनिर्ययौ ।।३७।।
जरासंधेन शाल्वेन दंतवक्रेण धीमता ।।
विदूरथेन पौंड्रेण पार्ष्णिग्राहेण मैथिल ।। ३८ ।।
विकर्षन्महतीं सेनां दमघोषो महाबलः ।।
दुंदुभीन्नादयन्दीर्घानाययौ कुण्डिनं पुरम् ।।३९।।
संमुखाद्यदुदेवस्य श्रुत्वोद्योगं नृपाः परे।।
सहस्रशः समाजग्मुः शिशुपालसहायिनः ।। 6.4.४० ।।
भीष्मको ह्यग्रतो गत्वा संपूज्य विधिवन्नृपम् ।।
काश्मीरकंबलैर्दिव्यारुणैः सामुद्रसंभवैः ।।४१।।
मंडितेषु च सर्वेषु मुक्तादामविलंबिषु ।।
सौगंधिकैः पुष्परसै राष्ट्रेषु शिबिरेषु च ।। ४२ ।।
वारांगनानृत्यलसन्मृदंगेषु ध्वनत्सु च ।।
निवेशयामास नृपौ विदर्भाधिपतिर्महान् ।।४३।।
इति श्रीमद्गर्गसहितायां श्रीद्वारकाखण्डे नारदबहुलाश्वसंवादे कुण्डिनपुरयानंनाम चतुर्थोऽध्यायः ।। ४ ।।