गर्गसंहिता/खण्डः ६ (द्वारकाखण्डः)/अध्यायः ०५

विकिस्रोतः तः
← गर्गसंहिता/खण्डः ६ (द्वारकाखण्डः)/अध्यायः ०४ गर्गसंहिता/खण्डः ६ (द्वारकाखण्डः)/अध्यायः ०५
गर्गमुनि
गर्गसंहिता/खण्डः ६ (द्वारकाखण्डः)/अध्यायः ०६ →

श्रीनारद उवाच ।।
ध्यायंती कृष्ण पादाब्जं भैष्मी कमललोचना ।।
मोघं वा मनुते वाह मेघश्याममचिंतयत् ।। १ ।।
रुक्मिण्युवाच ।।
अहोत्रियामांतरितो विवाहो ममैव नागच्छति कृष्णचन्द्रः ।।
न वेद्मि किं कारणमत्र धातर्नावर्ततेऽद्यापि च भूमिदेवः।।२।।
यदूत्तमो देववरो ममैष दृष्ट्वा हि किंचित्कलुषं विधातः ।।
कृतोद्यमो नूनमतीव हस्तग्राहेण चागच्छति किं करोमि ।।३।।
हा दुर्भगायाश्चन मे विधाता न सानुकूलः किल चन्द्रमौलिः।।
न चैकदंतो विमुखा च गौरी गावो हि विप्राश्च न सानुकूलाः ।। ४ ।।
श्रीनारद उवाच ।।
एवं विचिंतयंती सा भैष्मी गेहाट्टभूमिषु ।।
परिभ्रंमती श्रीकृष्णं पश्यंती गृहशेखरात् ।। ५ ।।
तदैव तस्या वामांगमस्फुरत्प्रतिभाषणम् ।।
तेन प्रसन्ना श्रीभैष्मी कालज्ञा सर्वमंगला ।।६।।
कृष्णप्रणोदितो विप्रः सद्यश्चागतवांस्तदा।
श्रीकृष्णागमनं तस्यै शनैः सर्वं शशंस ह ।। ७ ।।
ततः प्रसन्ना श्रीभैष्मी तदंघ्र्योः प्रणिपत्य सा ।।
प्राह त्वद्वंशतो विप्र न यास्यामि वचोमम ।।८।।
श्रुत्वागतौ रामकृष्णौ विवाहप्रेक्षणोत्सुकौ ।।
भीष्मको निर्गतो नेतुं ब्राह्मणैस्तत्प्रभावित् ।। ९ ।।
भृशं मंगलपात्रेषु गंधाक्षतयुतेषु च ।।
वासोरत्नचयं धृत्वा गीतवादित्र मंगलैः ।।6.5.१०।।
कोटिशो मधुपर्काणां कुम्भव्यूहान्विधाय च ।।
पूजयित्वाथ विधिवद्रामकृष्णौ परेश्वरौ।।११।।
अहो चास्मै न दत्तेयमिति खिन्नमनाः परम् ।।
आनंदनवने स्थाप्य नत्वा स्वगृहमाययौ ।।१२।।
श्रुत्वागतं श्रीवसुदेवनंदनं त्रैलोक्यलावण्यनिधिं परेश्वरम् ।।
आगत्यनेत्रांजलिभिः पुरौकसः पपुः परंतन्मुखपंकजामृतम् ।।१३।।
अस्यैव भार्या भवितुं हि रुक्मिणी योग्यास्ति नान्येत्य वदन्पुरौकसः ।।
दत्त्वा स्वपुण्यानि विवाहहेतवे श्री- कृष्णलावण्यकलानिबंधकाः ।।१४।।
कदापि साक्षाच्छ्वशुरस्य मंदिरं संप्रागतं चैवमहो वयं जनाः ।।
द्रक्ष्याम आरात्कृतकृत्यतां तदा व्रजेम लोके बहुजीवितेन किम ।। १५ ।।
वदत्सु लोकेषु च भीष्मकन्यकाद्रिकन्यकापूजनहेतवे नृप ।।
अंतःपुरात्सर्वसखीसमन्विता विनिर्ययौ कृष्णगृहीतमानसा ।। १६ ।।
भेरीमृदंगैर्बहुदुंदुभिस्वनैः सुगायकैर्बंदिजनैश्च मागधैः ।
वारांगनानृत्यमनोज्ञभावैर्जयेत्यभून्मंगलशब्दउच्चकैः ।। १७ ।।
कोटींदुबिंबद्युतिमादधानां बालार्कताटंकधरां श्रियं ताम्।।
सीतातपत्रव्यजनैः स्फुरद्भिः सुचामरैः पार्श्वगणः सिषेवे।।१८।।
कोशाद्विनिष्कृष्य सितासिलक्षं पदातयो वीरजना इतस्ततः ।।
तथाश्वगोभी रथिनो गजस्थिताः समुद्यतास्त्रा जुगुपुर्विदूरतः ।। १९ ।
देवीमठं प्राप्य सुचत्वरे स्थिता शांता शुचिर्धौतकरांघ्रिपंकजा।।
गत्वा समीपं यतवाक्कृतांजलिर्भेजे भवानीं भवभीति हारिणीम् ।। 6.5.२० ।।
दुर्गे स्वसंतानयुते शिवे शुभे नमामि तुभ्यं सततं भवानि ते ।।
भूयात्पतिर्मे भगवान्परेश्वरः श्रीकृष्णचन्द्रः प्रकृतेः परः स्वयम् ।।२१।।
एवं शुभे मा वद कृष्णनाम चैद्यं समुद्दिश्य वरं गृहाण ।।
इत्थं वदंतीषु सखीषु भैष्मी भूयो भवानी भवने जगाद ।। २२ ।।
अजानतीयं तव चांबबाला तथा वदंतीषु सखीषु भैष्मी ।।
गंधाक्षतैर्धूपविभूषणाद्यैः स्रङ्माल्य- दीपावलिभोगवस्त्रैः ।। २३ ।।
अपूपतांबूलफलेक्षुभिश्च भेजे भवानीं परया च भक्त्या ।।
नत्वाथ तां वा बहुभूषणाद्यैः संपूज्य सौभाग्यवतीर्ननाम ।। २४ ।।
सर्वाः स्त्रियस्ताः प्रददुर्वराणि सुमंगलाशीर्वचनानि तस्यै ।।
रूपं सदा ते शतरूपयासमं शीलं सदा शैलसुतासमं प्रभो ।। २५ ।।
शुश्रूषणं भर्त्तुररुंधतीसमं क्षमा हि भूयाज्जनकात्मजासमा ।।
सौभाग्यमेवं तव दक्षिणासमं सुवैभवं भीष्मसुते शचीसमम् ।।
सरस्वती ते च सरस्वतीसमा भक्तिः पतौ स्याच्च सतां हरौ यथा ।। २६ ।।
इति श्रीमद्गर्गसंहितायां श्रीद्वारकाखण्डे नारदबहुलाश्वसंवादे रुक्मिणीनिर्गमनंनाम पंचमोऽध्यायः ।। ५ ।।