गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः १३

विकिस्रोतः तः
← गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः १२ गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः १३
गर्गमुनि
गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः १४ →

माधुर्यखण्डः - त्रयोदशोऽध्यायः

देवनारीरूपा-सखीगणोपाख्यानम् -

श्रीनारद उवाच -
अथ देवांगनानां च गोपीनां वर्णनं शृणु ।
 चतुष्पदार्थदं नॄणां भक्तिवर्धनमुत्तमम् ॥ १ ॥
 बभूव मालवे देशे गोपो नन्दो दिवस्पतिः ।
 भार्यासहस्रसंयुक्तो धनवान् नीतिमान्परः ॥ २ ॥
 तीर्थयात्राप्रसंगेन मथुरायां समागतः ।
 नन्दराजं व्रजाधीशं श्रुत्वा श्रीगोकुलं ययौ ॥ ३ ॥
 मिलित्वा गोपराजं स दृष्ट्वा वृन्दावनश्रियम् ।
 नन्दराजाज्ञया तत्र वासं चक्रे महामनाः ॥ ४ ॥
 योजनद्वयमाश्रित्य घोषं चक्रे गवां पुनः ।
 मुदं प्राप व्रजे राजन् ज्ञातिभिः स दिवस्पतिः ॥ ५ ॥
 तस्य देवलवाक्येन सर्वा देवजनस्त्रियः ।
 जाताः कन्या महादिव्या ज्वलदग्निशिखोपमाः ॥ ६ ॥
 श्रीकृष्णं सुन्दरं दृष्ट्वा मोहिताः कन्यकाश्च ताः ।
 दामोदरस्य प्राप्त्यर्थं चक्रुर्माघव्रतं परम् ॥ ७ ॥
 अर्धोदयेऽर्के यमुनां नित्यं स्नात्वा व्रजांगनाः ।
 उच्चैर्जगुः कृष्णलीलां प्रेमानन्दसमाकुलाः ॥ ८ ॥
 तासां प्रसन्नः श्रीकृष्णो वरं ब्रूहीत्युवाच ह ।
 ता ऊचुस्तं परं नत्वा कृताञ्जलिपुटाः शनैः ॥ ९ ॥
 गोप्य ऊचुः -
योगीश्वराणां किल दुर्लभस्त्वं
     सर्वेश्वरः कारणकारणोऽसि ।
 त्वं नेत्रगामी भवतात्सदा नो
     वंशीधरो मन्मथमन्मथांगः ॥ १० ॥
 तथाऽस्तु चोक्त्वा हरिरादिदेवः
     तासां तु यो दर्शनमाततान ।
 भूयात्सदा ते हृदि नेत्रमार्गे
     तथा स आहूत इवाशु चित्ते ॥ ११ ॥
 परिपूर्णतमः साक्षाच्छ्रीकृष्णो नान्य एव हि ।
 एककार्यार्थमागत्य कोटिकार्यं चकार ह ॥ १२ ॥
 परिकरीकृतपीतपटं हरिं
     शिखिकिरीटनतीकृतकंधरम् ।
 लकुटवेणुकरं चलकुंडलं
     पटुतरं नतवेषधरं भजे ॥ १३ ॥
 भक्त्यैव वश्यो हरिरादिदेवः
     सदा प्रमाणं किल चात्र गोप्यः ।
 सांख्यं च योगं न कृतं कदापि
     प्रेम्णैव यस्य प्रकृतिं गताः स्युः ॥ १४ ॥


इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे
देवजनस्त्री उपाख्यानं नाम त्रयोदशोऽध्यायः ॥ १३ ॥
 हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥