सामग्री पर जाएँ

गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः १२

विकिस्रोतः तः
← गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः ११ गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः १२
गर्गमुनि
गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः १३ →

माधुर्यखण्डः - द्वादशोऽध्यायः

होली-उत्सवम् -

श्रीनारद उवाच -
इदं मया ते कथितं गोपीनां चरितं शुभम् ।
 अन्यसां चैव गोपीनां वर्णनं शृणु मैथिल ॥ १ ॥
 वीतिहोत्रोऽग्निभुक् सांबः श्रीकरो गोपतिः श्रुतः ।
 व्रजेशः पावनः शांत उपनन्दा व्रजेभवाः ॥ २ ॥
 धनवंतो रूपवंतः पुत्रवंतो बहुश्रुताः ।
 शीलादिगुणसंपनाः सर्वे दानपरायणाः ॥ ३ ॥
 तेषां गृहेषु संजाताः कन्यका देववाक्यतः ।
 काश्चिद्दिव्या अदिव्याश्च तथा त्रिगुणवृत्तयः ॥ ४ ॥
 भूमिगोप्यश्च संजाताः पुण्यैर्नानाविधैः कृतैः ।
 राधिकासहचर्यस्ताः सख्योऽभूवन् विदेहराट् ॥ ५ ॥
 एकदा मानिनीं राधां ताः सर्वा व्रजगोपिकाः ।
 ऊचुर्वीक्ष्य हरिं प्राप्तं होलिकाया महोत्सवे ॥ ६ ॥
 गोप्य ऊचुः -
रंभोरु चन्द्रवदने मधुमानिनीशे
     राधे वचः सुललितं ललने शृणु त्वम् ।
 श्रीहोलिकोत्सवविहारमलं विधातु-
     मायाति ते पुरवने व्रजभूषणोऽयम् ॥ ७ ॥
 श्रीयौवनोन्मदविधूर्णितलोचनोऽसौ
     नीलालकालिकलितां सकपोलगोलः ।
 सत्पीतकंचुकघनांतमशेषमाराद्
     आचालयन्ध्वनिमता स्वपदारुणेन ॥ ८ ॥
 बालार्कमौलिविमलांगदहारमुद्य-
     द्विद्युत्क्षिपन् मकरकुण्डलमादधानः ।
 पीतांबरेण जयति द्युतिमण्डलोऽसौ
     भूमण्डले सधनुषेव घनो दिविस्थः ॥ ९ ॥
 आबीरकुंकुमरसैश्च विलिप्तदेहो
     हस्ते गृहीतनवसेचनयंत्र आरात् ।
 प्रेक्ष्यंस्तवाशु सखि वाटमतीव राधे
     त्वद्‌रासरंगरसकेलिरतः स्थितः सः ॥ १० ॥
 निर्गच्छ फाल्गुनमिषेण विहाय मानं
     दातव्यमद्य च यशः किल होलिकायै ।
 कर्तव्यमाशु निजमन्दिररङ्गवारि-
     पाटीरपंकमकरन्दचयं च तूर्णम् ॥ ११ ॥
 उत्तिष्ठ गच्छ सहसा निजमण्डलीभि-
     र्यत्रास्ति सोऽपि किल तत्र महामते त्वम् ।
 एतादृशोऽपि समयो न कदापि लभ्यः
     प्रक्षालितं करतलं विदितं प्रवाहे ॥ १२ ॥
 श्रीनारद उवाच -
अथ मानवती राधा मानं त्यक्त्वा समुत्थिता ।
 सखीसंघैः परिवृता प्रकर्तुं होलिकोत्सवम् ॥ १३ ॥
 श्रीखण्डागुरुकस्तूरीहरिद्राकुंकुमद्रवैः ।
 पूरिताभिर्दृतीभिश्च संयुक्तास्ता व्रजांगनाः ॥ १४ ॥
 रक्तहस्ताः पीतवस्त्राः कूजन् नूपुरमेखलाः ।
 गायंत्यो होलिकागीतीः गालीभिर्हास्यसंधिभिः ॥ १५ ॥
 आबीरारुणचूर्णानां मुष्टिभिस्ता इतस्ततः ।
 कुर्वंत्यश्चारुणं भूमिं दिगन्तं चांबरं तथा ॥ १६ ॥
 कोटिशः कोटिशस्तत्र स्फुरंत्याबीरमुष्टयः ।
 सुगंधारुणचूर्णानां कोटिशः कोटिशस्तथा ॥ १७ ॥
 सर्वतो जगृहुः कृष्णं कराभ्यां व्रजगोपिकाः ।
 यथा मेघं च दामिन्यः संध्यायां श्रावणस्य च ॥ १८ ॥
 तन्मुखं च विलिम्पन्त्योऽथाबीरारुणमुष्टिभिः ।
 कुंकुमाक्तदृतीभिस्तं आर्द्रीचक्रुर्विधानतः ॥ १९ ॥
 भगवनपि तत्रैव यावतीर्व्रजयोषितः ।
 धृत्वा रूपाणि तावंति विजहार नृपेश्वर ॥ २० ॥
 राधया शुशुभे तत्र होलिकाया महोत्सवे ।
 वर्षासंध्याक्षणे कृष्णः सौदामिन्या घनो यथा ॥ २१ ॥
 कृष्णोऽपि तद्धस्तकृताक्तनेत्रो
     दत्वा स्वकीयं नवमुत्तरीयम् ।
 ताभ्यो ययौ नन्दगृहं परेशो
     देवेषु वर्षत्सु च पुष्पवर्षम् ॥ २२ ॥


इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे
होलिकोत्सवे दिव्यत्रिगुणवृत्तिभूमिगोप्युपाख्यानं नाम द्वादशोऽध्यायः ॥ १२ ॥
 हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥