गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः ०९

विकिस्रोतः तः
← गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः ०८ गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः ०९
गर्गमुनि
गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः १० →

माधुर्यखण्डः - नवमोऽध्यायः

एकादशीमाहात्म्यम् -

गोप्य ऊचुः -
वृषभानुसुते सुभ्रु सर्वशास्त्रार्थपारगे ।
 विडंबयंती त्वं वाचा वाचं वाचस्पतेर्मुने ॥ १ ॥
 एकादशीव्रतं राधे केन केन पुरा कृतम् ।
 तद्‌ब्रूहि नो विशेषेण त्वं साक्षात् ज्ञानशेवधिः ॥ २ ॥
 श्रीराधोवाच -
आदौ देवैः कृतं गोप्यो वरमेकादशीव्रतम् ।
 भ्रष्टराज्यस्य लाभार्थं दैत्यानां नाशनाय च ॥ ३ ॥
 वैशंतेन पुरा राज्ञा कृतमेकादशीव्रतम् ।
 स्वपितुस्तारणार्थाय यमलोकगतस्य च ॥ ४ ॥
 अक्स्माल्लुंपकेनापि ज्ञातित्यक्तेन पापिना ।
 एकादशी कृता येन राज्यं लेभे स लुंपकः ॥ ५ ॥
 भद्रावत्यां केतुमता कृतमेकादशीव्रतम् ।
 पुत्रहीनेन सद्वाक्यात्पुत्रं लेभे स मानवः ॥ ६ ॥
 ब्राह्मण्यै देवपत्‍नीभिर्दत्तमेकादशीव्रतम् ।
 तेन लेभे स्वर्गसौख्यं धनधान्यं च मानुषी ॥ ७ ॥
 पुष्पदंतीमाल्यवंतौ शक्रशापात्पिशाचताम् ।
 प्राप्तौ कृतं व्रतं ताभ्यां पुनर्गन्धर्वतां गतौ ॥ ८ ॥
 पुरा श्रीरामचन्द्रेण कृतमेकादशीव्रतम् ।
 समुद्रे सेतुबंधार्थं रावणस्य वधाय च ॥ ९ ॥
 लयांते च समुत्पन्ना धातृवृक्षतले सुराः ।
 एकादशीव्रतं चक्रुः सर्वकल्याणहेतवे ॥ १० ॥
 व्रतं चकार मेधावी द्वादश्याः पितृवाक्यतः ।
 अप्सरःस्पर्शदोषेण मुक्तोऽभून्निर्मलद्युतिः ॥ ११ ॥
 गंधर्वो ललितः पत्‍न्या गतः शापात्स रक्षताम् ।
 एकादशीव्रतेनापि पुनर्गंधर्वतां गतः ॥ १२ ॥
 एकादशीव्रतेनापि मांधाता स्वर्गतिं गतः ।
 सगरस्य ककुत्स्थश्च मुचकुन्दो महामतिः ॥ १३ ॥
 धुंधुमारादयश्चान्ये राजानो बहवस्तथा ।
 ब्रह्मकपालनिर्मुक्तो बभूव भगवान्भवः ॥ १४ ॥
 धृष्टबुद्धिर्वैश्यपुत्रो ज्ञातित्यक्तो महाखलः ।
 एकादशीव्रतं कृत्वा वैकुण्ठं स जगाम ह ॥ १५ ॥
 राज्ञा रुक्मांगदेनापि कृतमेकादशीव्रतम् ।
 तेन भूमण्डलं भुक्त्वा वैकुण्ठं सपुरो ययौ ॥ १६ ॥
 अंबरीषेण राज्ञाऽपि कृतमेकादशीव्रतम् ।
 नास्पृशद्‌‌ब्रह्मशापोऽपि यो न प्रतिहतः क्वचित् ॥ १७ ॥
 हेममाली नाम यक्षः कुष्ठी धनदशापतः ।
 एकादशीव्रतं कृत्वा चन्द्रतुल्यो बभूव ह ॥ १८ ॥
 महीजिता नृपेणापि कृतमेकादशीव्रतम् ।
 तेन पुत्रं शुभं लब्ध्वा वैकुण्ठं स जगाम ह ॥ १९ ॥
 हरिश्चन्द्रेण राज्ञाऽपि कृतमेकादशीव्रतम् ।
 तेन लब्ध्वा महीराज्यं वैकुण्ठं सपुरो ययौ ॥ २० ॥
 श्रीशोभनो नाम पुरा कृते युगे
     जामातृकोऽभून्मुचुकुन्दभूभृतः ।
 एकादशीं यः समुपोष्य भारते
     प्राप्तः स दैवैः किल मंदराचले ॥ २१ ॥
 अद्यापि राज्यं कुरुते कुबेरव-
     द्‌राज्ञा युतोऽसौ किल चन्द्रभागया ।
 एकादशी सर्वतिथीश्वरीं परां
     जानीथ गोप्यो न हि तत्समाऽन्या ॥ २२ ॥
 श्रीनारद उवाच -
इति राधामुखाच्छ्रुत्वा यज्ञसीताश्च गोपिकाः ।
 एकादशीव्रतं चक्रुर्विधिवत्कृष्णलालसाः ॥ २३ ॥
 एकादशीव्रतेनापि प्रसन्नः श्रीहरिः स्वयम् ।
 मार्गशीर्षे पूर्णिमायां रासं ताभिश्चकार ह ॥ २४ ॥


इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे
एकादशीमाहात्म्यं नाम नवमोऽध्यायः ॥ ९ ॥
 हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥