गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः ०८

विकिस्रोतः तः
Jump to navigation Jump to search
← गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः ०७ गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः ०८
गर्गमुनि
गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः ०९ →



माधुर्यखण्डः - अष्टमोऽध्यायः

यज्ञसीतास्वारूपगोपीनां पृच्छतः श्रीराधया कृतं एकादशीव्रतानुष्ठानवर्णनम् -


श्रीनारद उवाच -
गोपीनां यज्ञसीतानामाख्यानं शृणु मैथिल ।
 सर्वपापहरं पुण्यं कामदं मङ्गलायनम् ॥१॥
 उशीनरो नाम देशो दक्षिणस्यां दिशि स्थितः ।
 एकदा तत्र पर्जन्यो न ववर्ष समा दश ॥२॥
 धनवन्तस्तत्र गोपा अनावृष्टिभयातुराः ।
 सकुटुम्बा गोधनैश्च व्रजमण्डलमाययुः ॥३॥
 पुण्ये वृन्दावने रम्ये कालिन्दीनिकटे शुभे ।
 नन्दराजसहायेन वासं ते चक्रिरे नृप ॥४॥
 तेषां गृहेषु सञ्जाता यज्ञसीताश्च गोपिकाः ।
 श्रीरामस्य वरा दिव्या दिव्ययौवनभूषिताः ॥५॥
 श्रीकृष्णं सुन्दरं दृष्ट्वा मोहितास्ता नृपेश्वर ।
 व्रतं कृष्णप्रसादार्थं प्रष्टुं राधां समाययुः ॥६॥
 गोप्य ऊचुः –
वृषभानुसुते दिव्ये हे राधे कञ्जलोचने ।
 श्रीकृष्णस्य प्रसादार्थं वद किञ्चिद्व्रतं शुभम् ॥७॥
 तव वश्यो नन्दसूनुर्देवैरपि सुदुर्गमः ।
 त्वं जगन्मोहिनी राधे सर्वशास्त्रार्थपारगा ॥८॥
 श्रीराधोवाच -
श्रीकृष्णस्य प्रसादार्थं कुरुतैकादशीव्रतम् ।
 तेन वश्यो हरिः साक्षाद्भविष्यति न संशयः ॥९॥
 गोप्य ऊचुः –
संवत्सरस्य द्वादश्या नामानि वद राधिके ।
 मासे मासे व्रतं तस्याः कर्तव्यं केन भावतः ॥१०॥
 श्रीरधोवाच –
मार्गशीर्षे कृष्णपक्षे उत्पन्ना विष्णुदेहतः ।
 मुरदैत्यवधार्थाय तिथिरेकादशी वरा ॥११॥
 मासे मासे पृथग्भूता सैव सर्वव्रतोत्तमा ।
 तस्याः षड्विंशतिं नाम्नां वक्ष्यामि हितकाम्यया ॥१२॥
 उत्पत्तिश्च तथा मोक्षा सफला च ततः परम् ।
 पुत्रदा षट्तिला चैव जया च विजया तथा ॥१३॥
 आमलकी तथा पश्चान्नाम्ना वै पापमोचनी ।
 कामदा च ततः पश्चात्कथिता वै वरूथिनी ॥१४॥
 मोहिनी चापरा प्रोक्ता निर्जला कथिता ततः ।
 योगिनी देवशयनी कामिनी च ततः परम् ॥१५॥
 पवित्रा चाप्यजा पद्मा इन्दिरा च ततः परम् ।
 पाशाङ्कुशा रमा चैव ततः पश्चात्प्रबोधिनी ॥१६॥
 सर्वसम्पत्प्रदा चैव द्वे प्रोक्ते मलमासजे ।
 एवं षड्विंशतिं नाम्नामेकादश्याः पठेच्च यः ॥१७॥
 संवत्सरद्वादशीनां फलमाप्नोति सोऽपि हि ।
 एकादश्याश्च नियमं शृणुताथ व्रजाङ्गनाः ॥
 भूमिशायी दशभ्यां तु चैकभुक्तो जितेन्द्रियः ॥ १८॥
 एकवारं जलं पीत्वा धौतवस्त्रोऽतिनिर्मलः ।
 ब्राह्मे मुहूर्त उत्थाय चैकादश्यां हरिं नतः ॥१९॥
 अधमं कूपिकास्नानं वाप्यां स्नानं तु मध्यमम् ।
 तडागे चोत्तमं स्नानं नद्याः स्नानं ततः परम् ॥२०॥
 एवं स्नात्वा नरवरः क्रोधलोभविवर्जितः ।
 नालपेत्तद्दिने नीचांस्तथा पाखण्डिनो नरान् ॥२१॥
 मिथ्यावादरतांश्चैव तथा ब्राह्मणनिन्दकान् ।
 अन्यांश्चैव दुराचारानगम्यागमने रतान् ॥२२॥
 परद्रव्यापहारांश्च परदाराभिगामिनः ।
 दुर्वृत्तान् भिन्नमर्यादान्नालपीत्स व्रती नरः ॥२३॥
 केशवं पूजयित्वा तु नैवेद्यं तत्र कारयेत् ।
 दीपं दद्याद्गृहे तत्र भक्तियुक्तेन चेतसा ॥२४॥
 कथाः श्रुत्वा ब्राह्मणेभ्यो दद्यात्सद्दक्षिणां पुनः ।
 रात्रौ जागरणं कुर्याद्गायन् कृष्णपदानि च ॥२५॥
 कांस्यं मांसं मसूरांश्च कोद्रवं चणकं तथा ।
 शाकं मधु परान्नं च पुनर्भोजनमैथुनम् ॥२६॥
 विष्णुव्रते च कर्तव्ये दशाभ्यां दश वर्जयेत् ।
 द्यूतं क्रीडां च निद्रां च ताम्बूलं दन्तधावनम् ॥२७॥
 परापवादं पैशुन्यं स्तेयं हिंसां तथा रतिम् ।
 क्रोधाढ्यं ह्यनृतं वाक्यमेकादश्यां विवर्जयेत् ॥२८॥
 कांस्यं मांसं सुरां क्षौद्रं तैलं वितथभाषणम् ।
 पुष्टिषष्टिमसूरांश्च द्वादश्यां परिवर्जयेत् ॥२९॥
 अनीन विधिना कुर्याद्द्वादशीव्रतमुत्तमम् ॥३०॥
 गोप्य ऊचुः -
एकादशीव्रतस्यास्य कालं वद महामते ।
 किं फलं वद तस्यास्तु माहात्म्यं वद तत्त्वतः ॥३१॥
 श्रीराधोवाच –
दशमी पञ्चपञ्चाशद्घटिका चेत्प्रदृश्यते ।
 तर्हि चैकादशी त्याज्या द्वादशीं समुपोषयेत् ॥३२॥
 दशमी पलमात्रेण त्याज्या चैकादशी तिथिः ।
 मदिराबिन्दुपातेन त्याज्यो गङ्गाघटो यथा ॥३३॥
 एकादशी यदा वृद्धिं द्वादशी च यदा गता ।
 तदा परा ह्युपोष्या स्यात्पूर्वा वै द्वादशीव्रते ॥३४॥
 एकादशीव्रतस्यास्य फलं वक्ष्ये व्रजाङ्गनाः ।
 यस्य श्रवणमात्रेण वाजपेयफलं लभेत् ॥३५॥
 अष्टाशीतिसहस्राणि द्विजान्भोजयते तु यः ।
 तत्कृतं फलमाप्नोति द्वादशीव्रतकृन्नरः ॥३६॥
 ससागरवनोपेतां यो ददाति वसुन्धराम् ।
 तत्सहस्रगुणं पुण्यमेकादश्या महाव्रते ॥३७॥
 ये संसारार्णवे मग्नाः पापपङ्कसमाकुले ।
 तेषामुद्धरणार्थाय द्वादशीव्रतमुत्तमम् ॥३८॥
 रात्रौ जागरणं कृत्वैकादशीव्रतकृन्नरः ।
 न पश्यति यमं रौद्रं युक्तः पापशतैरपि ॥३९॥
 पूजयेद्यो हरिं भक्त्या द्वादश्यां तुलसीदलैः ।
 लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥४०॥
 अश्वमेधसहस्राणि राजसूयशतानि च ।
 एकादश्युपवासस्य कलां नार्हन्ति षोडशीम् ॥४१॥
 दश वै मातृके पक्षे तथा वै दश पैतृके ।
 प्रियाया दश पक्षे तु पुरुषानुद्धरेन्नरः ॥४२॥
 यथा शुक्ला तथा कृष्णा द्वयोश्च सदृशं फलम् ।
 धेनुः श्वेता तथा कृष्णा उभयोः सदृशं पयः ॥४३॥
 मेरुमन्दरमात्राणि पापानि शतजन्मसु ।
 एका चैकादशी गोप्यो दहते तूलराशिवत् ॥४४॥
 विधिवद्विधिहीनं वा द्वादश्यां दानमेव च ।
 स्वल्पं वा सुकृतं गोप्यो मेरुतुल्यं भवेच्च तत् ॥४५॥
 एकादशीदिने विष्णोः शृणुते यो हरेः कथाम् ।
 सप्तद्वीपवतीदाने लत्फलं लभते च सः ॥४६॥
 शङ्खोद्धारे नरः स्नात्वा दृष्ट्वा देवं गदाधरम् ।
 एकादश्युपवासस्य कलां नार्हति षोडशीम् ॥४७॥
 प्रभासे च कुरुक्षेत्रे केदारे बदरिकाश्रमे ।
 काश्यां च सूकरक्षेत्रे ग्रहणे चन्द्रसूर्ययोः ॥४८॥
 सङ्क्रान्तीनां चतुर्लक्षं दानं दत्तं च यन्नरैः ।
 एकादश्युपवासस्य कलां नार्हति षोडशीम् ॥४९॥
 नागानां च यथा शेषः पक्षिणां गरुडो यथा ।
 देवानां च यथा विष्णुर्वर्णानां ब्राह्मणो यथा ॥५०॥
 वृक्षाणां च यथाश्वत्थः पत्राणां तुलसी यथा ।
 व्रतानां च तथा गोप्यो वरा चैकादशी तिथिः ॥५१॥
 दशवर्षसहस्राणि तपस्तप्यति यो नरः ।
 तत्तुल्यं फलमाप्नोति द्वादशीव्रतकृन्नरः ॥५२॥
 इत्थमेकादशीनां च फलमुक्तं व्रजाङ्गनाः ।
 कुरुताशु व्रतं यूयं किं भूयः श्रोतुमिच्छथ ॥५३॥



इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारद बहुलाश्व संवादे
यज्ञसीतोपाख्याने एकादशीमाहात्म्यं नामाष्टमोऽध्यायः ॥८॥
 हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥