गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः १०

विकिस्रोतः तः
Jump to navigation Jump to search
← गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः ०९ गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः १०
गर्गमुनि
गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः ११ →


माधुर्यखण्डः - दशमोऽध्यायः

पौलिन्द-गोपी-कथा -


श्रीनारद उवाच -
पुलिंदकानां गोपीनां करिष्ये वर्णनं ह्यतः ।
 सर्वपापहरं पुण्यमद्‌भुतं भक्तिवर्द्धनम् ॥ १ ॥
 पुलिन्दा ऊद्‌भटाः केचिद्‌विंध्याद्रि वनवासिनः ।
 विलुंपंतो राजवसु दीनानां न कदाचन ॥ २ ॥
 कुपितस्तेषु बलवान् विन्ध्यदेशाधिपो बली ।
 अक्षौहिणीभ्यां तान्सर्वान् पुलिंदान्स रुरोध ह ॥ ३ ॥
 युयुधुस्तेऽपि खड्गैश्च कुन्तैः शूलैः परश्वधैः ।
 शक्त्यर्ष्टिभिर्भृशुण्डीभिः शरैः कति दिनानि च ॥ ४ ॥
 पत्रं ते प्रेषयामासुः कंसाय यदुभूभृते ।
 कंसप्रणोदितो दैत्यः प्रलंबो बलवांस्तदा ॥ ५ ॥
 योजनद्वयमुच्चांगं कालमेघसमद्युतिम् ।
 किरीटकुंडलधरं सर्पहारविभूषितम् ॥ ६ ॥
 पादयोः शृङ्खलायुक्तं गदापाणिं कृतांतवत् ।
 ललज्जिह्वं घोररूपं पातयन्तं गिरीन्द्रुमान् ॥ ७ ॥
 कंपयंतं भुवं वेगात्प्रलम्बं युद्धदुर्मदम् ।
 दृष्ट्वा प्रधर्षितो राजा ससैन्यो रणमंडलम् ॥ ८ ॥
 त्यक्त्वा दुद्राव सहसा सिंहं वीक्ष्य गजो यथा ।
 प्रलंबस्तान् समानीय मथुरामाययौ पुनः ॥ ९ ॥
 पुलिन्दास्तेऽपि कंसस्य भृत्यत्वं समुपागताः ।
 सकुटुंबाः कामगिरौ वासं चक्रुर्नृपेश्वर ॥ १० ॥
 तेषां गृहेषु संजाताः श्रीरामस्य वरात्परात् ।
 पुलिंद्यः कन्यका दिव्या रूपिण्यः श्रीरिवार्चिताः ॥ ११ ॥
 तद्दर्शनस्मररुजः पुलिंद्यः प्रेमविह्वलाः ।
 श्रीमत्पादरजो धृत्वा ध्यायंत्यस्तमहर्निशम् ॥ १२ ॥
 ताश्चापि रासे संप्राप्ताः श्रीकृष्णं परमेश्वरम् ।
 परिपूर्णतमं साक्षाद्‌‌गोलोकाधिपतिं प्रभुम् ॥ १३ ॥
 श्रीकृष्णचरणाम्भोजरजो देवैः सुदुर्लभम् ।
 अहो भाग्यं पुलिंदीनां तासां प्राप्तं विशेषतः ॥ १४ ॥
 यः पारमेष्ठ्यमखिलं न महेन्द्रधिष्ण्यं
     नो सार्वभौममनिशं न रसाधिपत्यम् ।
 नो योगसिद्धिमभितो न पुनर्भवं वा
     वाञ्छत्यलं परमपादरजः स भक्तः ॥ १५ ॥
 निष्किंचनाः स्वकृतकर्मफलैर्विरागा
     यत्तत्पदं हरिजना मुनयो महांतः ।
 भक्ता जुषन्ति हरिपादरजःप्रसक्ता
     अन्ये वदन्ति न सुखं किल नैरपेक्ष्यम् ॥ १६ ॥


इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे
पुलिन्दकोपाख्यानं नाम दशमोऽध्यायः ॥ १० ॥
 हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥