गरुडपुराणम्/ब्रह्मकाण्डः (मोक्षकाण्डः)/अध्यायः ६

विकिस्रोतः तः
Jump to navigation Jump to search
← ब्रह्मकाण्डः (मोक्षकाण्डः), अध्यायः ५ गरुडपुराणम्
अध्यायः ६
वेदव्यासः
ब्रह्मकाण्डः (मोक्षकाण्डः), अध्यायः ७ →


श्रीगरुडमहापुराणम् ६
श्रीकृष्ण उवाच ।
तत्रतत्र स्थितास्तत्त्वे तत्तत्तत्त्वाभिमानिनः ।
स्वेस्वे ह्यायतने स्वाङ्गे तदर्थं च खगेश्वर ॥ ३,६.१ ॥
हरिं नारायणं सम्यक्स्तोतुं समुपचक्रिरे ।
चिन्त्याचिन्त्यगुणे विष्णौ विरुद्धाः संति सद्गुणाः ॥ ३,६.२ ॥
एकैकशोह्यनन्तास्ते तद्गुणानां स्तुतौ मम ।
क्व शक्तिरिति बुद्ध्या सा व्रीडयावनताब्रवीत् ॥ ३,६.३ ॥

श्रीरुवाच ।

नतास्मि ते नाथ पदारविन्दं न वेद चान्यच्चरणादृते तव ।
त्वयीश्वरे संति गुणाः श्रुतास्तु तथाश्रुताः संति च देवदेव ॥ ३,६.४ ॥
सम्यक्सृष्टं स्वायतनं च दत्वा गोविन्द दामोदर मां च पाहि ।
स्तुत्या मदीयश्च सुखकपूर्णः प्रियो जनो नास्ति तथा त्वदन्यः ॥ ३,६.५ ॥

ब्रह्मोवाच ।

लक्ष्मीपते सर्वजगन्निवास त्वं ज्ञानसिंधुः क्व च विश्वमूर्ते ।
अहं क्व चाज्ञस्तव वै शक्तिरस्ति ह्यज्ञोहं वै ह्यल्पशक्तिर्ममास्ति ॥ ३,६.६ ॥
लक्ष्म्याश्चैव ज्ञानवैराग्यभक्ति ह्यत्यल्पमद्धा मयि सर्वदैव ।
तव प्रसादादस्ति जगन्निवास तत्र स्वामित्वं नास्ति विष्णो सदैव ॥ ३,६.७ ॥
न देहि त्वं सर्वदा मे मुरारे अहंममत्वं प्राप्यमेतावदेव ।
गम्यज्ञानं योग्यगुणे रमेश प्रमादो वा नास्तिनास्त्यद्य नित्य ॥ ३,६.८ ॥
तन्मे हृषीकाणि पतन्त्यसत्पथे पदारविन्दे तु पतन्तु सर्वदा ।
लक्ष्म्या ह्यहं कोटिगुणेन हीनः स्तोतुं सामर्थ्यं नास्ति मे सुप्रसीद ॥ ३,६.९ ॥
इति स्तवं विष्णुगुणान्विधाता तार्क्ष्यस्थितः प्राञ्जलिस्तस्य चाग्रे ।
तदा वायुर्देवदेवो महात्मा दृष्ट्वा विष्णु भक्तिसंवर्धितात्मा ॥ ३,६.१० ॥
स्नहोत्थरावः स्खलिताक्षरस्तं मुञ्चन्कणान्प्राञ्जलिराबभाषे ।

वायुरुवाच ।

एते हि देवास्तव भृत्यभूताः पदारविन्दं परमं सुदुर्लभम् ॥ ३,६.११ ॥
चतुर्विधान्पुरुषार्थान्रमेश संप्रार्थये तच्च सदापि देव ।
दृष्ट्वा हरेः सैव मायैव तावत्सुकारणं किञ्चिदन्यन्न चास्ति ॥ ३,६.१२ ॥
अतो नाहं प्रदयोपि भूमन् भवत्पदांभोजनिषवणोत्सुकः ।
लोकस्य कृष्णाद्विमुखस्य कर्मणा अपुण्यशीलस्य सुदुः खितस्य ॥ ३,६.१३ ॥
अनुग्रहार्थं च तवावतारो नान्यश्च किञ्चित्पुरुषार्थस्तवेश ।
गोभूसुराणां च महीरुहाणां तथा सुराणां प्रवरावतारैः ॥ ३,६.१४ ॥
क्षेमोपकाराणि च वासुदेव क्रीडन्विधत्ते न च किञ्चिदन्यत् ।
मनो न तृप्यत्यपि शंसतां नः सुकर्ममौलेश्चरितामृतानि ॥ ३,६.१५ ॥
अच्छिन्नभक्तस्य हि मे मुकुन्द सदा भक्तिं देहि पादारविन्दे ।
सदा तदेवास्तु न किञ्चिदन्यद्यत्र त्वमासीः पुरुषे देवदेव ॥ ३,६.१६ ॥
अहं च तत्रास्मि तव प्रसादाद्यत्रास्म्यहं तत्र भवान्महाप्रभो ।
व्यंसिर्ममेयं च शरीरमध्ये चतुर्मुखश्चैव न चैततदन्यैः ॥ ३,६.१७ ॥
मदीयनिद्रा तव वन्दनं प्रभो मदीययामाचरणं प्रदक्षिणम् ।
मदीयव्याख्याहरणं स्तुतिः स्यादेवं विदित्वा च समर्पयामि ॥ ३,६.१८ ॥
मद्वृद्धियोग्यं च पदार्थजातं दृष्ट्वा हरेः प्रतिमा एव तच्च ।
इत्थं मत्वाहं सर्वदा देवदेव तत्रस्थितान्हरिरूपान् भजिष्ये ॥ ३,६.१९ ॥
यच्चन्दनं यत्तु पुष्पं च धूपं वस्त्रं च यद्भक्ष्यभोज्यादिकं च ।
एतत्सर्वं विष्णुप्रीत्यर्थमेवेत्येतद्व्रतं सर्वदा वै करिष्ये ॥ ३,६.२० ॥
अवैष्णवान्दूषयिष्ये सदाहं सद्वैष्णवान्पा(ल्लां)लयिष्ये मुरारे ।
विष्णुद्रुहां छेदयिष्ये च जिह्वां तच्छृण्वतां पूरयिष्ये त्रपूल्काः ॥ ३,६.२१ ॥
एतादृशी शक्तिर्ममास्ति देव तव प्रसादाद्बलिनोपि विष्णो ।
अथापि नाहं स्तवने समर्थः लक्ष्म्या ह्यहं कोटिगुणैर्विहीनः ॥ ३,६.२२ ॥
एतत्स्तोत्रं ह्यर्थयेच्चैव या नः तत्र प्रीतिर्ह्यक्षया मे सदा स्यात् ।
स्तोत्रं ह्येतत्पाठयन्तीह लोके ते वैष्णवास्ते च हरिप्रियाश्च ॥ ३,६.२३ ॥
कुर्वन्ति ये पठनं नित्यमेव समर्पयिष्यति सदा हरौ च ।
तेषां हरिः प्रीयते केशवोलं हरौ प्रसन्ने किमलभ्यमस्ति ॥ ३,६.२४ ॥
एवं स्तुत्वा वलदेवो महात्मा तूष्णीं स्थितः प्राञ्जलिरग्रतो हरेः ।

सरस्वत्युवाच ।

को वा रसज्ञो भगवन्मुरारे हरे गुणस्तवनात्कीर्तनाद्वा ॥ ३,६.२५ ॥
अलंबुद्धिं प्राप्नुयाद्देवदेव ब्रह्मादिभिः सर्वदा स्तूयमान ।
यः कर्णनाडीं पुरुषस्य यातो भवप्रदां देहरतिं छिनत्ति ॥ ३,६.२६ ॥
न केवलं देहरतिं छिनत्त्यसद्गृहक्षेत्रभार्यासुतेषु नित्यम् ।
पश्वादिरूपेषु धनादिकेषु अनर्घ्यरत्नेषु प्रियं छिनत्ति ॥ ३,६.२७ ॥
अनंतवेदप्रतिपादितोपि लक्ष्मीर्न वै वेद तव स्वरूपम् ।
चतुर्मुखो नैव वेद न वायुरसौ न वेत्तीति किमत्र चित्रम् ॥ ३,६.२८ ॥
एतादृशस्य स्तवने क्वास्ति शक्तिर्मम प्रभो ब्रह्मवाय्वोः सकाशात् ।
शतैर्गुणैः सर्वदा न्यूनतास्ति अतो हरे दयया मां च पाहि ॥ ३,६.२९ ॥
एवं स्तुत्वा हरिं सा तु तूष्णीमास खगेश्वर ।
भारती तु तदा स्तोतुं हरिं समुपचक्रमे ॥ ३,६.३० ॥

भारत्युवाच ।

ब्रह्मेश लक्ष्मीश हरे मुरारे गुणांस्तव श्रद्दधानस्य नित्यम् ।
तथा स्तुवन्तोस्य विवर्धमानां मतिं च नित्यं विषयेष्वसत्सु ॥ ३,६.३१ ॥
कुर्वन्ति वैराग्यममुत्र लोके ततः परं भक्तिदृढां तथैव ।
ततः परं चैव हरेः प्रसन्नतां कुर्वन्ति नित्यं तव देवदेव ॥ ३,६.३२ ॥
तेनापरोक्षं च भवेच्च तस्य अतो गुणानां स्तवने च मे रतिः ।
सा तु प्रजाता पुरुषस्य नित्यं संसारदुःखं तु तदाच्छिनत्ति ॥ ३,६.३३ ॥
विच्छिन्नदुःखस्य तदाधिकारिण आनन्दरूपाख्यफलं ददाति ।
हरेर्गुणानस्तुवतां च पापं तेषां हि पुण्यं च तथा क्षिणोति ॥ ३,६.३४ ॥
एवं विदित्वा परमो गुरुर्मम वायुर्दयालुर्मम वल्लभश्च ।
हरेर्गुणान्सर्वगुणप्रसारान्ममैव योग्यान्सुखमुख्यभूतान् ॥ ३,६.३५ ॥
उद्धृत्य पुण्येभ्य इवार्तबन्धुः शिवश्च नो द्रुह्यति पुण्यकीर्तिम् ।
तव प्रसादाच्च श्रियः प्रसादाद्वायोः प्रसादाच्च ममास्ति नित्यम् ॥ ३,६.३६ ॥
यद्यत्करोत्येव सदैव वायुस्तत्तत्करोत्येव सदैव नित्यम् ।
वायोर्विरोधं न करोति देवः स तद्विरोधं च करोति नित्यम् ॥ ३,६.३७ ॥
हरेर्विरोधं न करोति वायुर्वायोर्विरोधं न करोति विष्णुः ।
वायोः प्रसादान्मम नास्ति किञ्चिदतानभावश्च तव प्रसादात् ॥ ३,६.३८ ॥
यथैव मूलं च तथावतारे दुःखादिकं नास्ति समीरणस्य ।
वायुस्तथान्ये च उभौ मुकुन्दस्तथावतारेषु न दुःखरूपौ ॥ ३,६.३९ ॥
अशक्तवद्दृश्यते वायुदेवः युगानुसारांल्लोकधर्मांस्तु रक्षन् ।
नरावतारे तत्र देवे मुरारे ह्यशक्तता नेति विचिंतनीयम् ॥ ३,६.४० ॥
अवताररूपे यमदुःखादिकं च न चिन्तनीयं ज्ञानिभिर्देवदेव ।
अहं कदाचित्सुखनाशप्रदेशे दैत्यांस्तथा मारयितुं गतोस्मि ॥ ३,६.४१ ॥
नैतावता मम वायोश्च नित्यं दुः खातनं नैव संचितनीयम् ।
एतादृशोहं स्तवनेनु कास्ति शक्तिर्गुणानां मधुसूदन प्रभो ।
वायोः सकाशाच्च गुणेन हीना संसाररूपे मुक्तरूपे च देव ॥ ३,६.४२ ॥
एवं स्तुत्वा भारती तु तूष्णीमास खगेश्वर ।
तदनन्तरजः शेषः प्राञ्जलिः प्राह केशवम् ॥ ३,६.४३ ॥

शेष उवाच ।

नाहं च जाने तव पादमूलं रुद्रो न वेत्ति गरुडो न वेद ।
अहं वाण्याः शतगुणांशहीनो दत्त्वा ह्यायतनं पाहि मां वासुदेव ॥ ३,६.४४ ॥
एवं स्तुत्वा सशेषस्तु तूष्णीमास खगेश्वर ।
तदनन्तरजो वीशः स्तोतुं समुपचक्रमे ॥ ३,६.४५ ॥

गरुड उवाच ।

तव पदोः स्तुतिं किं करोम्यहं मम पदांबुजे ह्यर्पितं मनः ।
कथमहं मुखे पक्षियोनिजः कथमेवङ्गुणानीडितुं क्षमः ॥ ३,६.४६ ॥
एवं स्तुत्वा तु गरुडस्तूष्णीमास नयान्वितः ।
तदनन्तरजो रुद्रस्तोतुं समुपचक्रमे ॥ ३,६.४७ ॥

रुद्र उवाच ।

या वै तवेश भगवन्न विदाम भूमन् भक्तिर्ममास्तु शिवपादसरोजमूले ।
छन्नापि सा ननु सदा न ममास्ति देव तेनाद्रुहं तव विरुद्धमतः करोमि ॥ ३,६.४८ ॥
सर्वान्न बुद्धिसहितस्य हरे मुरारे का शक्तिरस्ति वचने मम मूढबुद्धेः ।
वाण्या सदा शतगुणेन विहीनमेनं मां पाहि चेश मम चायतनं च दत्त्वा ॥ ३,६.४९ ॥
एवं स्तुत्वा स रुद्रस्तु तूष्णीमास द्विजोत्तमः ।
शेषानन्तरजा देवी वारुणी वाक्यमब्रवीत् ॥ ३,६.५० ॥

वारुण्युवाच ।

लक्ष्मीपते ब्रह्मपते मनोः पते गिरःपते रुद्रपते नृणां पते ।
गुणांस्तव स्तोतुमहं समर्था न पार्वती नापि सुपर्णपत्नी ॥ ३,६.५१ ॥
शेषादहं दशगुणैर्विहीना मां पाहि नित्यं जगतामधीश ॥ ३,६.५२ ॥
एवं स्तुत्वा वारुणी तु तूष्णीमास खगेश्वर ।
तदनन्तरजा ब्राह्मी सौपर्णी ह्युपचक्रमे ॥ ३,६.५३ ॥

सौपर्ण्युवाच ।

स्तोतुं गुणांस्तव हरे जगदीशवाचा श्रोतुं हरे तव कथां श्रवणे न शक्तिः ।
यस्तत्त्वनुं स्मरति देव तव स्वरूपं को वै नु वेद भुवि तं भगवत्पदार्थम् ॥ ३,६.५४ ॥
अतो गुणस्तवने नास्ति शक्तिर्वीन्द्रादहं दशगुणैरवरा च नित्यम् ॥ ३,६.५५ ॥
एवं स्तुत्वा तु सौपर्णी तूष्णीमास खगेश्वर ।
रुद्रानन्तरजा स्तोतुं गिरिजा तूपचक्रमे ॥ ३,६.५६ ॥

पार्वत्युवाच

गोविन्द नारायण वासुदेव त्वया हि मे किञ्चिदपि प्रयोजनम् ।
नास्त्येव स्वामिन्न च नाम वाचा सौभाग्यरूपः सर्वदा एक एव ॥ ३,६.५७ ॥
नारायणेति तव नाम च एकमेव वैराग्यभक्तिविभवे परमं समर्थाम् ।
असंख्यब्रह्मादिकहत्यनाशाने गुर्वङ्गनाकोटिविनाशने च ॥ ३,६.५८ ॥
नामाधिकारिणी चाहं गुणानां च महाप्रभो ।
स्तवने नास्ति मे शक्ती रुद्राद्दशगुणैरहम् ॥ ३,६.५९ ॥
अवरा च सदास्म्येव नात्र कार्या विचारणा ।
एवं स्तुत्वा सा गिरिजास्तूष्णीमास खगेश्वर ॥ ३,६.६० ॥
इति श्रीगारुडे महापुराणे श्रीकृष्णगरुडसंवादे उत्तर तृतीयांशे ब्रह्मकाण्डे तत्त्वाभिमानितत्तद्देवताकृतविष्णुस्तुतितत्तद्देवतातारतम्यनिरूपणं नाम षष्ठोऽध्यायः