गरुडपुराणम्/ब्रह्मकाण्डः (मोक्षकाण्डः)/अध्यायः ७

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← ब्रह्मकाण्डः (मोक्षकाण्डः), अध्यायः ६ गरुडपुराणम्
अध्यायः ७
वेदव्यासः
ब्रह्मकाण्डः (मोक्षकाण्डः), अध्यायः ८ →

श्रीगरुडमहापुराणम् ७
श्रीकृष्ण उवाच ।
पार्वत्यानन्तरोत्पन्न इन्द्रो वचनमब्रवीत् ।
इन्द्र उवाच ।
तव स्वरूपं हृदि संविजानन् समुत्सुकः स्यात्स्तवने यस्तु मूढः ।
अजानतः स्तवनं देवदेव तदेवाहुर्हेलनं चक्रपाणे ॥ ३,७.१ ॥

तथापि तद्वै तव नाम पूर्वं भवेत्तदा पुण्यकरं भवेदिति ।
रुद्रादिकानां स्तवने नास्ति शक्तिस्तदा वक्तव्यं मम नास्तीति किं वा ॥ ३,७.२ ॥

गुणांशतो दशभी रुद्रतो वै सदा न्यूनो मत्समः कामदेवः ।
ज्ञाने बले समता सर्वदास्ति तथाः कामः किं च दूतः सदैव ॥ ३,७.३ ॥

एवं स्तुत्वा देवदेवो हरिं च तूष्णीं स्थितः प्राञ्जलिर्नम्रभूर्धां ।
तदनन्तरजो ब्रह्मा अहङ्कारिक ऊचिवान् ॥ ३,७.४ ॥

अहङ्कारिक उवाच ।
नमस्ते गणपूर्णाय नमस्ते ज्ञानमूर्तये ।
नमोऽज्ञानविदूराय ब्रह्मणेनंतमूर्तये ॥ ३,७.५ ॥

इन्द्रादहं दशगुणैः सर्वदा न्यून उक्तो न जनि त्वां सर्वदा ह्यप्रमेय ।
तथापि मां पाहि जगद्गुरो त्वं दत्त्वा दिव्यं ह्यायतनं च विष्णो ॥ ३,७.६ ॥

आहङ्कारिक एवं तु स्तुत्वा तूष्णीं बभूव ह ।
तदनन्तरजा स्तोतुं शची वचनमब्रवीत् ॥ ३,७.७ ॥

शच्युवाच ।
संचिन्तयामि अनिशं तव पादपद्मं वज्राङ्कुशध्वजसरोरुहलाञ्छनाढ्यम् ।
वागीश्वरैरपि सदा मनसापि धर्तुं नो शक्यमीश तव पादरजः स्मरामि ॥ ३,७.८ ॥

आहङ्कारिकप्राणाच्च गुणैश्च दशभिः सदा ।
न्यूनभूतां च मां पाहि कृपालो भक्तवत्सल ॥ ३,७.९ ॥

एवं स्तुत्वा शची देवी तूष्णीं भगवती ह्यभूत् ।
तदनन्तरजा स्तोतुं रतिः समुपचक्रमे ॥ ३,७.१० ॥

रतिरुवाच ।
संचिन्तयामि नृहरेर्वदनारविन्दं भृत्यानुकंपितधिया हि गृहीतमूर्तिम् ।
यच्छ्रीनिकेतमजरुद्ररमादिकैश्च संलालितं कुटिलङ्कुन्तलवृन्दजुष्टम् ॥ ३,७.११ ॥

एतादृशं तव मुखं नुवितुं न शक्तिः शच्या समापि भगवन्परिपाहि नित्यम् ।
कृत्वा स्तुतिं रतिरियं परमादरेण तूष्णीं स्थिता भगवतश्च समीप एव ॥ ३,७.१२ ॥

रत्यनन्तरजो दक्षः स्तोतुं समुपचक्रमे ॥ ३,७.१३ ॥

दक्ष उवाच ।
संचिन्तये भगवतश्चरणोदतीर्थं भक्त्या ह्यजेन परिषिक्तमजादिवन्द्यम् ।
यच्छौचनिःसृतमजप्रवरावतारं गङ्गाख्यतीर्थमभवत्सरितां वरिष्ठम् ॥ ३,७.१४ ॥

रुद्रोपि तेन विधृतेन जटाकलापपूतेन पादरजसा ह्यशिवः शिवोभूत् ।
एतादृशं ते चरणं करुणेश विष्णो स्तोतुं शक्तिर्मम नास्ति कृपावतार ।
रत्या समः श्रुतिगतो न गतोस्मि मोक्षमेतादृशं च परिपाहि निदानमूर्ते ॥ ३,७.१५ ॥

एवं स्तुत्वा स दक्षस्तु तूष्णीमेव बभूव ह ।
तदनन्तरजः स्तोतुं बृहस्पतिरुपाक्रमीत् ॥ ३,७.१६ ॥

बृहस्पतिरुवाच ।
संचिन्तयामि सततं तव चाननाब्जं त्वं देहि दुष्टविषयेषु विरक्तिमीश ॥ ३,७.१७ ॥

एतेषु शक्तिर्यदि वै स जीवो कर्ता च भोक्ता च सदा च दाता ।
योषां च पुत्रसुहृदौ च पशूंश्च सर्वमेवं विनश्यति यतो हि तदाशु छिन्धि ॥ ३,७.१८ ॥

संसारचक्रभ्रमणेनैव देव संसारदुःखमनुभूयेहागतोस्मि ।
शक्तिर्न चास्ति नवने मम देवदेव सत्या समं च सततं परिपाहि नित्यम् ॥ ३,७.१९ ॥

एवं श्रुत्वा च परमं तूष्णीमेव स्थितो मुनिः ।
तदनन्तरजस्तोतुं ह्यनिरुद्धोपचक्रमे ॥ ३,७.२० ॥

अनिरुद्ध उवाच ।
एवं हरेस्तव कथां रसिकां विहाय स्त्रीणां भगे च वदने परिमुह्य नित्यम् ।
विष्ठान्त्रपूरितबिले रसिको हि नित्यं स्थायी च सूकरवदेव विमूढबुद्धिः ॥ ३,७.२१ ॥

मज्जास्थिपित्तकफरक्तमलादिपूर्णे चर्मान्त्रवेष्टितमुखे पतितं ह पीतम् ।
आस्वादने मम च पापगतेर्मुरारे मायाबलं तव विभो परमं निमित्तम् ॥ ३,७.२२ ॥

संसारचक्रे भ्रमतश्च नित्यं सुदुःखरूपे सुखलेशवर्जिते ।
मलं वमन्तं नवभिश्च द्वारैः शरीरमारुह्य सुमूढबुद्धिः ॥ ३,७.२३ ॥

नमामि नित्यं तव तत्कथामृतं विहाय देव श्रुतिमूलनाशनम् ।
कुटुंबपोषं च सदा च कुर्वन्दानाद्यकुर्वन्निवसन् गृहे च ॥ ३,७.२४ ॥

दूरे च संसारमलं त्विदं कुरु देहि ह्यदो दिव्यकथामृतं सदा ।
एतादृशोहं तव सद्गुणौघं स्तोतुं समर्थो नास्मि शचीसमश्च ॥ ३,७.२५ ॥

एवं स्तुत्वानिरुद्धस्तु तूष्णीमास खगेश्वर ।
तदनन्तरजः स्तोत्रं मनः स्वायंभुवोब्रवीत् ॥ ३,७.२६ ॥

स्वायंभुव उवाच ।
स्तोतुं ह्यनुप्रविशतोपि न गर्भदुःखं तस्मादहं परमपूज्यपदं गतस्ते ॥ ३,७.२७ ॥

मनोर्भार्या मानवी च यमः संयमिनीपतिः ।
दिशाभिमानी चन्द्रस्तु सूर्यश्चक्षुर्नियामकः ।
परस्परसमा ह्येते मुक्त्वा संसारमेव च ॥ ३,७.२८ ॥

प्रवाहाद्विगुणोनश्चेत्येवं जानीहि चाण्डज ।
सूर्यानन्तरजः स्तोतुं वरुणः संप्रचक्रमे ॥ ३,७.२९ ॥

वरुण उवाच ।
त्वद्विच्छया रचिते देहगेहे पुत्त्रे कलत्रेपि धने द्रव्यजातौ ।
ममाहमित्यल्पधिया च मूढा संसारदुःखे विनिमज्जन्ति सर्वे ॥ ३,७.३० ॥

अतो हरे तादृशीं मे कुबुद्धिं विनाश्य मे देहि ते पाददास्यम् ।
अहं मनोः पादपादार्धभूतगुणेन हीनः सर्वदा वै मुरारे ॥ ३,७.३१ ॥

एवं स्तुत्वा तु वरुणः प्राञ्जलिः समुपस्थितः ।
वरुणानन्तरोत्पन्नो नारदो ह्यस्तुवद्धरिम् ॥ ३,७.३२ ॥

नारद उवाच ।
यन्नामधेयश्रवणानुकीर्तनात्स्वाद्वन्यतत्त्वं मम नास्ति विष्णो ।
पुनीह्यतश्चैव परोवरायान्यज्जिह्वाग्रे वर्तते नाम तस्य ॥ ३,७.३३ ॥

यज्जिह्वाग्रे हरिनामैव नास्ति स ब्राह्मणो नैव स एव गोखरः ।
अहं न जाने च तव स्वरूपं न्यूनो ह्यहं वरुणात्सर्वदैव ॥ ३,७.३४ ॥

एवं स्तुत्वा नारदो वै खगेन्द्रस्तूष्णीमभूद्देवदेवस्य चाग्रे ।
यो नारदानन्तरं संबभूव भृगुर्महात्मा स्तोतुमुपप्रचक्रमे ॥ ३,७.३५ ॥

भृगुरुवाच ।
किमासनं ते गरुडासनाय किं भूषणं कौस्तुभभूषणाय ।
लक्ष्मीकलत्राय किमस्ति देयं वागीश किं ते वचनीयमस्ति ।
अतो न जाने तव सद्गुणांश्च ह्यहं सदा वरुणात्पादहीनः ॥ ३,७.३६ ॥

एवं स्तुत्वा हरिं देवं भृगुस्तूष्णीं बभूव ह ।
तदनन्तरजो ह्यग्निरस्तावीत्पुरुषोत्तमम् ॥ ३,७.३७ ॥

अग्निरुवाच ।
यत्तेजसाहं सुसमिद्धतेजा हव्यं वहाम्यध्वरे आज्यसिक्तम् ॥ ३,७.३८ ॥

यत्तेजसाहं जठरे संप्रविश्य पचन्नन्नं सर्वदा पूर्णशक्तिः ।
अतो न जाने तव सद्गुणांश्च भृगोरहं सर्वदैवं समोस्मि ॥ ३,७.३९ ॥

तदनन्तरजा स्तोतुं प्रसूतिरुपचक्रमे ॥ ३,७.४० ॥

प्रसूतिरुवाच ।
यन्नामार्थविचारणेपि मुनयो मुह्यंति वै सर्वदा त्वद्भीता अपि देवता ह्यविरतं स्त्रीभिः सहैव स्थिताः ।
मान्धातृध्रुवनारदाश्च भृगवो वैवस्वताद्याखिलाः प्रेम्णा वै प्रणमाम्यहं हितकृते तस्मै नमो विष्णवे ॥ ३,७.४१ ॥

अतो न जाने तव सद्गुणान्सदा एवं विधा का मम शक्तिरस्ति ।
स्तुत्वा ह्येवं प्रसूतिस्तु तूष्णीमासीत्खगेश्वर ॥ ३,७.४२ ॥

अग्निर्वागात्मको ब्रह्मपुत्रो भृगु ऋषिस्तथा ।
तद्भार्या वै प्रसूतिस्तु त्रय एते समाः स्मृताः ॥ ३,७.४३ ॥

वरुणात्पादहीनाश्च प्रवहाद्विगुणाधमाः ।
दक्षाच्छतावरा ज्ञेया मित्रात्तु द्विगुणाधिकाः ॥ ३,७.४४ ॥

प्रसूत्यनन्तरं जातो वसिष्ठो ब्रह्मनन्दनः ।
विनयावनतो भूत्वा स्तोतुं समुपचक्रमे ॥ ३,७.४५ ॥

वसिष्ठ उवाच ।
नमोस्तु तस्मै पुरुषाय वेधसे नमोनमोऽसद्वृजिनच्छिदे नमः ।
नमोनमो स्वाङ्गभवाय नित्यं नतोस्मि हे नाथ तवाङ्घ्रिपङ्कजम् ॥ ३,७.४६ ॥

मां पाहि नित्यं भगवन्वासुदेव ह्यग्नेरहं सर्वदा न्यून एव ।
मित्रादहं सर्वदा किञ्चिदूनः स्तुत्वा देव सोभवत्तत्र तूष्णीम् ॥ ३,७.४७ ॥

यो वसिष्ठानन्तरजो मरीचिर्ब्रह्मनन्दनः ।
हरिन्तुष्टाव परया भक्त्या नारायणं गुरुम् ॥ ३,७.४८ ॥

मरीचिरुवाच ।
देवेन चाहं हतधीर्भवनप्रसङ्गात्सर्वाशुभोपगमनाद्विमुखेंद्रियश्च ।
कुर्वे च नित्यं सुखलेशलवादिना त्वद्दूरं मनस्त्वशुभकर्म समाचरिष्ये ॥ ३,७.४९ ॥

एतादृशोहं भगवाननन्तः सदा वसिष्ठस्य समान एव ॥ ३,७.५० ॥

एवं स्तुत्वा मरीचिस्तु तूष्णीमास तदा खग ।
तदतन्तरजोह्यत्रिरस्तावीत्प्राञ्जलिर्हरिम् ॥ ३,७.५१ ॥

आविर्भवज्जगत्प्रभवायावतीर्णं तद्रक्षणार्थमनवद्यञ्च तथाव्ययाय ।
तत्त्वार्थमूलमविकारि तव स्वरूपं ह्यानन्दसारमत एव विकारशून्यम् ॥ ३,७.५२ ॥

त्रैगुण्यशून्यमखिलेषु च संविभक्तं तत्र प्रविश्य भगवन्न हि पश्यतीव ।
अतो मुरारेस्तव सद्गुणांश्च स्तोतुं न शक्नोमि मरीचितुल्यः ॥ ३,७.५३ ॥

एवं स्तुत्वा ह्यत्रिरपितूष्णीमास तदा खग ।
तदनन्तरजः स्तोतुमङ्गिरा वाक्यमब्रवीत् ॥ ३,७.५४ ॥

अङ्गिरा उवाच ।
द्रष्टुं न शक्नोमि तव स्वरूपं ह्यनन्तबाहूदरमस्तकं च ।
अनन्तसाहस्रकिरीटजुष्टं महार्हनानाभरणैश्च शोभितम् ।
एतादृशं रूपमनन्तपारं स्तोतुं ह्यशक्तस्तु समोस्मि चात्रेः ॥ ३,७.५५ ॥

एवं स्तुत्वा ह्यङ्गिराश्च तूष्णीमास खगेश्वर ।
तदनन्तरजः स्तोतुं पुलस्त्यो वाक्यमब्रवीत् ॥ ३,७.५६ ॥

पुलस्त्य उवाच ।
यो वा हरिस्तु भगवान्स (स्व) उपासकानां संदर्शयेद्भुवनमङ्गलमङ्गलं च ।
(लश्च) यस्मै नमो भगवते पुरुषाय तुभ्यं यो वाविता निरयभागगमप्रसङ्गे ॥ ३,७.५७ ॥

एतादृशांस्तव गुणान्नवितुं न शक्तं मां पाहि भगवन्सदृशो ह्यङ्गिरसा च ॥ ३,७.५८ ॥

एवं स्तुत्वा पुलस्त्योपि स्तूष्णीमेव बभूव ह ।
तदनन्तरजः स्तोतुं पुलहो वाक्यमब्रवीत् ॥ ३,७.५९ ॥

पुलह उवाच ।
निष्कामरूपरिहितस्य समर्पितं च स्नानावरोत्तमपयः फलपुष्पभोज्यम् ।
आराधनं भगवतस्तव सत्क्रियाश्च व्यर्थं भवेदिति वदन्ति महानुभावाः ॥ ३,७.६० ॥

तस्मै सदा भगवते प्रणमामि नित्यं निष्कामया तव समर्पणमात्रबुद्ध्या ।
वैकुण्ठनाथ भगवन्स्तवने न शक्तिः सोहं पुलस्त्यसदृशोस्मि न संशयोत्र ॥ ३,७.६१ ॥

एवं स्तुत्वा तु पुलहस्तूष्णीमास तदा खग ।
तदनन्तरजः स्तोतुं क्रतुः समुपचक्रमे ॥ ३,७.६२ ॥

क्रतुरुवाच ।
प्राणप्रयाणसमये भगवंस्तवैव नामानि संसृतिजदुःखविनाशकानि ।
येनैकजन्मशमलं सहसैव हित्वा संयाति मुक्तिममलां तमहं प्रपद्ये ॥ ३,७.६३ ॥

ये भक्त्या विवशा विष्णो नाममात्रैकजल्पकाः ।
तेपि मुक्तिं प्रयान्त्याशु किमुत ध्यायिनः सदा ॥ ३,७.६४ ॥

एवं स्तुत्वा क्रतुरपि तूष्णीमास खगेश्वर ।
तदनन्तरजः स्तोतुं मनुर्वैवस्वतोब्रवीत् ॥ ३,७.६५ ॥

वैवस्वत उवाच ।
सोहं हि कर्मकरणे निरतः सदैव स्त्रीणां भोगे च निरतश्च गुदे प्रमत्तः ।
जिह्वेन्द्रिये च निरतस्तव दर्शने च सम्यग्विरागसहितः परमोदरेण ॥ ३,७.६६ ॥

मांसास्थिमज्जरुधिरैः सहिते च देहे भक्तिं सदैव भगवन्नपि तस्करे च ।
गुर्वग्निबाडबगवादिषु सत्सु दुःखात्सम्यग्विरक्तिमुपयामि सहस्व नित्यम् ॥ ३,७.६७ ॥

लोकानुवादश्रवणे परमा च शक्तिर्नारायणस्य नमने न च मेस्ति शक्तिः ।
लोकानुयानकरणे परमा च शक्तिः क्षेत्रादिमार्गगमने परमा ह्यशक्तिः ॥ ३,७.६८ ॥

वैश्यादिकेषु धनिकेषु परा च शक्तिः सद्ब्राह्मणेष्वपि न शक्तिरहो मुरारे ॥ ३,७.६९ ॥

वैवस्वतमनुर्देवं स्तुत्वा तूष्णीं बभूव ह ।
तदनन्तरजः स्तोतुं विश्वामित्रोपचक्रमे ॥ ३,७.७० ॥

विश्वामित्र उवाच ।
न ध्याते चरणांबुजे भगवतो संध्यापि नानुष्ठिता ज्ञानद्वारकपाटपाटनपटुर्धर्मोपि नोपार्जितः ।
अन्तर्व्याप्तमलाभिघातकरणे पट्वी श्रुता ते कथा नो देव श्रवणेन पाहि भगवन्मामत्रितुल्यं सदा ॥ ३,७.७१ ॥

विश्वामित्रऋषिस्त्वेवं स्तुत्वा तूष्णीं बभूव ह ।
भृगुनारदक्षांश्च विहाय ब्रह्मपुत्रकाः ॥ ३,७.७२ ॥

सप्तसंख्या वसिष्ठाद्या विश्वामित्रस्तथैव च ।
वैवस्वतमनुस्त्वेते परस्परसमाः स्मृताः ॥ ३,७.७३ ॥

वह्नेरप्यवरा नित्यं किञ्चिन्मित्राद्गुणाधिकाः ।
तदनन्तजस्तोत्रं वक्ष्ये शृणु खगेश्वर ॥ ३,७.७४ ॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे कृष्णगरुडसंवादे देवादिस्तुतितत्तत्तारतम्यनिरूपणं नाम सप्तमोऽध्यायः