गरुडपुराणम्/ब्रह्मकाण्डः (मोक्षकाण्डः)/अध्यायः ५

विकिस्रोतः तः
Jump to navigation Jump to search
← ब्रह्मकाण्डः (मोक्षकाण्डः), अध्यायः ४ गरुडपुराणम्
अध्यायः ५
वेदव्यासः
ब्रह्मकाण्डः (मोक्षकाण्डः), अध्यायः ६ →

श्रीगरुडमहापुराणम् ५
एतादृशे महत्तत्त्वे लक्ष्म्या सह हरिः स्वयम् ।
प्रविवेश महाभाग क्षोभयामास वै हरिः ॥ ३,५.१ ॥

अहन्तत्त्वमभूत्तस्माज्ज्ञानद्रव्यक्रियात्मकम् ।
अहङ्कारसमुत्पत्तावेकांशस्तमसि स्मृतः ॥ ३,५.२ ॥

तद्दशांशाधिकरजस्तद्दशांशाधिकं प्रभो ।
सत्त्वमित्युच्यते सद्भिर्ह्येतदात्मा त्वहं स्मृतम् ॥ ३,५.३ ॥

अहन्तत्त्वाभिमानी तु आदौ शेषो बभूवह ।
सहस्राब्दाच्च पश्चात्तौ जातौ खगहरौ द्विज ॥ ३,५.४ ॥

अहन्तत्त्वे खग ह्येषु प्रविष्टो हरिरव्ययः ।
क्षोभयामास भगवाल्लङ्क्ष्म्या सह हरिः स्वयम् ॥ ३,५.५ ॥

वैकारिकस्तामसश्च तैजसश्चेत्यहं त्रिधा ।
त्रिधा बभूव रुद्रोपि यतस्तेषां नियामकः ॥ ३,५.६ ॥

वैकारिकस्थितो रुद्रो वैकारिक इति स्मृतः ।
तामसे तु स्थितो रुद्रस्तामसो ह्यभिधीयते ॥ ३,५.७ ॥

तैजसे तु स्थितो रुद्रो लोके वै तैजसः स्मृतः ।
तैजसे तु ह्यहन्तत्त्वे लक्ष्म्या सह हरिः स्वयम् ॥ ३,५.८ ॥

विशित्वा क्षोभयामास तदासौ दशधा त्वभूत् ।
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ॥ ३,५.९ ॥

वाक्पाणिपादं पायुश्च उपस्थेति दश स्मृताः ।
वैकारिके ह्यहन्तत्त्वे प्रविश्य क्षोभयद्धरिः ॥ ३,५.१० ॥

महत्तत्त्वादिमा अदाविन्द्रियाणां च देवताः ।
एकादशविधा आसन्क्रमेण तु खगेश्वर ॥ ३,५.११ ॥

मनोभिमानि नी ह्यादौ वारुणी त्वभवत्तदा ।
अनन्तरं च सौपर्णी गौरोजापि तथैव च ॥ ३,५.१२ ॥

शेषादनन्तरास्तासां दशवर्षादनंरम् ।
उत्पत्तिरिति विज्ञेयं क्रमेण तु खगेश्वर ॥ ३,५.१३ ॥

मनोभिमानिनावन्याविन्द्रकामौ प्रजज्ञतुः ।
तार्क्ष्य ह्यनन्तरौ ज्ञेयौ मुक्तौ संसार एव च ॥ ३,५.१४ ॥

ततस्त्वगात्मा ह्यभवत्सोहं कारिक ईरितः ।
ततः पाण्यात्मकाश्चैव जज्ञिरे पक्षिसत्तम ॥ ३,५.१५ ॥

शची रतिश्चानिरुद्धस्तथा स्वायंभुवो मनुः ।
बृहस्पतिस्तथा दक्ष एते पाण्यात्मकाः स्मृताः ॥ ३,५.१६ ॥

दक्षस्यानन्तरं जज्ञे प्रवाहो नाम चाण्डज ।
स एवोक्तश्चातिंवाहो यापयत्यात्मचोदितः ॥ ३,५.१७ ॥

हस्तादनन्तरं ज्ञेयो न तु शच्यादिवत्स्मृतः ।
ततोभवन्महाभाग चक्षुरिद्रियमात्मनः ॥ ३,५.१८ ॥

स्वायंभुवमनोर्भार्या शतरूपा यमस्तथा ।
चन्द्रसूर्यौ तु चत्त्वारश्चक्षुरिन्द्रियमानिनः ॥ ३,५.१९ ॥

चन्द्रः श्रोत्राभिमानीति तथा ज्ञेयः खगेश्वर ।
जिह्वेन्द्रियात्मा वरुणः सूर्यस्यानन्तरोभवत् ॥ ३,५.२० ॥

वागिन्द्रियाभिमानिन्यो ह्यभवन्वरुणादनु ।
दक्षपत्नी प्रसूतिश्च भृगुरग्निस्तर्थव च ॥ ३,५.२१ ॥

तत्र वैते महात्मानो वागिन्द्रियनियामकाः ।
ये क्रव्यादादयश्चोक्तास्तेनन्तत्त्वनियामकाः ॥ ३,५.२२ ॥

साम्यत्वाच्च तथैवोक्तिर्न तु तत्त्वाभिमानितः ।
उपस्थमानिनो वीन्द्र बभूवुस्तदनन्तरम् ॥ ३,५.२३ ॥

विश्वामित्रो वसिष्टोत्रिर्मरीचिः पुलहः क्रतुः ।
पुलस्त्योङ्गिरसश्चैव तथा वैवस्वतो मनुः ॥ ३,५.२४ ॥

मन्वादयोनन्तसंख्या उपस्थात्मान ईरिताः ।
पायोश्च मानिनो वीन्द्र जज्ञिरे तदनन्तरम् ॥ ३,५.२५ ॥

सूर्येषु द्वादशस्वेको मित्रस्तारा गुरोः प्रिया ।
कोणाधिपो निरृतिश्च प्रवहप्रिया ॥ ३,५.२६ ॥

चत्त्वार एते पक्षीन्द्र वायुतत्त्वाभिमानिनः ।
घ्राणाभिमानिनः सर्वे जज्ञिरे द्विजसत्तम ॥ ३,५.२७ ॥

विष्ववसेनो वायुपुत्रौ ह्यश्विनौ गणपस्तथा ।
वित्तपः सप्त वसव उक्तो ह्याग्निस्तथाष्टमः ॥ ३,५.२८ ॥

सत्यानां शृणु नामानि द्रोणः प्राणो ध्रुवस्तथा ।
अर्के दोषस्तथा वस्कः सप्तमस्तु विभावसुः ॥ ३,५.२९ ॥

दशरुद्रास्तथा ज्ञेया मूलरुद्रो भवः स्मृतः ।
दश रुद्रस्य नामानि शृणुष्व द्विजसत्तम ॥ ३,५.३० ॥

रैवन्तेयस्तथा भीमो वामदेवो वृषाकपिः ।
अजैकपादहिर्वुध्न्यो बहुरूपो महानिति ॥ ३,५.३१ ॥

दश रुद्रा इति प्रोक्ताः षडादित्याञ्छृणु द्विज ।
उरुक्रमस्तथा शक्रो विवस्वान्वरुणस्तथा ॥ ३,५.३२ ॥

पर्जन्योतिबाहुरेत उक्ताः पूर्वं द्विजोत्तम ।
पर्जन्यव्यतिरिक्तास्तु पञ्चैवोक्ता न संशयः ॥ ३,५.३३ ॥

गङ्गासमस्तु पर्जन्य इति चोक्तः खगेश्वर ।
सविता ह्यर्यमा धाता पूषा त्वष्टा तथा भगः ॥ ३,५.३४ ॥

चत्वारिंशत्तथा सप्त महतः परिकीर्तिताः ।
द्वावुक्ताविति विज्ञेयो प्रवहोतिवहस्तथा ॥ ३,५.३५ ॥

तथा दशविधा ज्ञेया विश्वेदेवाः खगेश्वर ।
शृणु नामानि तेषां तु पुरूरवार्द्रवसंज्ञकौ ॥ ३,५.३६ ॥

धूरिलोचनसंज्ञौ द्वौ क्रतुदक्षेतिसंज्ञकौ ।
द्वौ सत्यवसुसंज्ञौ च कामकालकसंज्ञकौ ॥ ३,५.३७ ॥

एवं दशविधा ज्ञेया विश्वेदेवाः प्रकीर्तिताः ।
तथा ऋभुगणश्चोक्तस्तथा च पितरस्त्रयः ॥ ३,५.३८ ॥

द्यावा पृथिव्यौ विज्ञेयौ एते च षडशीतयः ।
देवाः प्रजज्ञिरे सर्वे नासिकद्रियमानिनः ॥ ३,५.३९ ॥

आकाशस्याभिमानी तु गणपः सुदाहृतः ।
उभयत्राभि मानीति ज्ञेयं तत्त्वार्थवेदिभिः ॥ ३,५.४० ॥

विष्वक्सेनं विना सर्वे जयाद्या विष्णुपार्षदाः ।
अभवन्समहीनाश्च विष्वक्सेनादनन्तरम् ॥ ३,५.४१ ॥

एतेपि नासिकायाश्च अवान्तरनियामकाः ।
अतस्ते तत्त्वमानिभ्यो ह्यवरास्ते प्रकीर्तिताः ॥ ३,५.४२ ॥

स्पर्शतत्त्वाभिमानी तु अपानश्चेत्युदाहृतः ।
रूपाभिमानी संजज्ञे व्यानो नाम महान्प्रभो ॥ ३,५.४३ ॥

रसात्मक उदानश्च समानो गन्धनामकः ।
अपां नाथाश्च चत्वारो मरुतः परिकीर्तिताः ॥ ३,५.४४ ॥

जयाद्यनन्तरान्वक्ष्ये समुत्पन्नान्खगेश्वर ।
प्रधानाग्रे प्रथमजः पावकः समुदाहृतः ॥ ३,५.४५ ॥

भृगोर्महर्षेः पुत्रश्च च्यवनः समुदाहृतः ।
बृहस्पतेश्च पुत्रस्तु उतथ्यः परिकीर्तितः ॥ ३,५.४६ ॥

रैवतश्चाक्षुषश्चैव तथा स्वारोचिषः स्मृतः ।
उत्तमो ब्रह्मसावर्णी रुद्रसावर्णिरेव च ॥ ३,५.४७ ॥

देवसावर्णिसावर्णिरिन्द्रसावर्णिरेवच ।
तथैव दक्षसावर्णिर्धर्मभावर्णिरेव च ॥ ३,५.४८ ॥

एकादशविधा ह्येवं मनवः परिकीर्तिताः ।
पितॄणां सप्तकं चैवेत्याद्याः संजज्ञिरे खग ॥ ३,५.४९ ॥

तदनन्तरमुत्पन्नास्तेभ्यो नीचाः शृणु द्विज ।
वरुणस्य पत्नी गङ्गा पर्जन्याख्यो विभावसुः ॥ ३,५.५० ॥

यमभार्या श्यामला तु ह्यनिरुद्धप्रिया विराट् ।
ब्रह्माण्डमानिनी सैव ह्युषानाम्ना सुशब्दिता ॥ ३,५.५१ ॥

रोहिणी चन्द्रभार्योक्ता सूर्यभार्या तु संज्ञका ।
एता गङ्गादिषटूसंख्या जज्ञिरे विनतासुत ॥ ३,५.५२ ॥

गङ्गाद्यनन्तरं जज्ञे स्वाहा वै मन्त्रदेवता ।
स्वाहानामाग्निभार्योक्ता गङ्गादिभ्योधमा श्रुता ॥ ३,५.५३ ॥

स्वाहानन्तरजो ज्ञेयो ज्ञानात्मा बुधनामकः ।
बुधस्तु चन्द्रपुत्रो यः स्वाहाया अधमः स्मृतः ॥ ३,५.५४ ॥

उषा नाम तथा जज्ञे बुधस्यानन्तरं खग ।
उषानामा भिमानी तु ह्यश्विभार्या प्रकीर्तिता ॥ ३,५.५५ ॥

बुधाधमा सा विज्ञेया नात्र कार्या विचारणा ।
ततः शनैश्चरो जज्ञे पृथिव्यात्मेति विश्रुतः ॥ ३,५.५६ ॥

उषाधमस्तु विज्ञेयस्ततो जज्ञेथ पुष्करः ।
कर्माभिमानी विज्ञेयः शनैश्चर इतीरितः ॥ ३,५.५७ ॥

तत्त्वाभिमानिनो देवानेवं सृष्ट्वा हरिः स्वयम् ।
प्रविवेश स देवेशस्तत्त्वेषु रमया सहा ॥ ३,५.५८ ॥

इति श्रीगारुडे महापुराणे तृतीयांशे ब्रह्मकाण्डे तत्त्वाभिमानि देवतोत्पत्तितत्तारतम्यनिरूपणं नाम पञ्चमोऽध्यायः