गरुडपुराणम्/ब्रह्मकाण्डः (मोक्षकाण्डः)/अध्यायः २८
← ब्रह्मकाण्डः (मोक्षकाण्डः), अध्यायः २७ | गरुडपुराणम् अध्यायः २८ वेदव्यासः |
ब्रह्मकाण्डः (मोक्षकाण्डः), अध्यायः २९ → |
श्रीगरुडमहापुराणम् २८
या पूर्वसर्गे दक्षपुत्री सती तु रुद्रस्य पत्नी दक्षयज्ञे स्वदेहम् ।
विसृज्य सा मेनकायां च जज्ञे धराधराद्धेमवतो वै सकाशात् ॥ ३,२८.१ ॥
सा पार्वता रुद्रपत्नी खगेन्द्र या शेषपत्नी वारुणी नाम पूर्वा ।
सैवागता बलभद्रेण रन्तुं द्विरूपमास्थाय महापतिव्रता ॥ ३,२८.२ ॥
श्रीरित्याख्या इन्दिरावेशयुक्ता तस्या द्वितीया प्रतिमा मेघरूपा ।
शेषण रूपेण यदा हि वीन्द्र तपश्चचार विष्णुना सार्धमेव ॥ ३,२८.३ ॥
तदैव देवी वारुणी शेषपत्नी तपश्च क्रे इन्दिराप्रीतये च ।
तदा प्रीता इन्दिरा सुप्रसन्ना उवाच तां वारुणीं शेषपत्नीम् ॥ ३,२८.४ ॥
यदा रामो वैष्णवांशेन युक्तः संपत्स्यते भूतले रौहिणेयः ।
मय्यावेशात्संयुता त्वं तु भद्रे श्रीरित्याख्या वलभद्रस्य रन्तुम् ॥ ३,२८.५ ॥
संपत्स्यसे नात्र विचार्यमस्तीत्युक्त्वा सा वै प्रययौ विष्णुलोके ।
श्रीलक्ष्म्यंशाच्छ्रीरितीड्यां समाख्यां लब्ध्वा लोके शेषपत्नी बभूव ॥ ३,२८.६ ॥
यदाहीशो विपुलामुद्धरेच्च तदा रामः श्रीभिदासंगमे च ।
करोति तोषत्सर्वदा वै रमायास्तस्याप्यावेशो व्यंस्रितमोनसंगम् ॥ ३,२८.७ ॥
या रेवती रैवतस्यैव पुत्री सा वारुणी बलभद्रस्य पत्नी ।
सौपर्णनाम्नी बलपत्नी खगेन्द्र यास्तास्तिस्रः षड्विष्णोश्च स्त्रीभ्यः ।
द्विगुणाधमा रुद्रशेषादिकेभ्यो दशाधमा त्वं विजानीहि पौत्र ॥ ३,२८.८ ॥
गरुड उवाच ।
रामेण रन्तुं सर्वदा वारुणी तु पुत्रीत्वमापे रेवतस्यैव सुभ्रूः ।
एवं त्रिरूपा वारुणी शेषपत्नी द्विरूपभूता पार्वती रुद्रपत्नी ॥ ३,२८.९ ॥
नीचाया जांबवत्याश्च शेषसाम्यं च कुत्रचित् ।
श्रूयते च मया कृष्ण निमित्तं ब्रूहि मे प्रभो ॥ ३,२८.१० ॥
उमायाश्च तथा रुद्रः सदा बहुगुणाधिकः ।
एवं त्वयोक्तं भगवन्निश्चयार्थं मम प्रभो ॥ ३,२८.११ ॥
रेवती श्रीयुता श्रीश्च शेषरूपा च वारुणी ।
सौपर्णि पार्वती चैव तिस्रः शेषाशंतो वराः ॥ ३,२८.१२ ॥
इत्यपि श्रूयते कृष्ण कुत्रचिन्मधुसूदन ।
निमित्तं ब्रूहि मे कृष्ण तव शिष्याय सुव्रत ॥ ३,२८.१३ ॥
श्रीकृष्ण उवाच ।
विज्ञाय जांबवत्याश्च तदन्येषां खगाधिप ।
उत्तमानां च साम्यं तु उत्तमावेशतो भवेत् ॥ ३,२८.१४ ॥
अवराणां गुणस्यापि ह्युत्तमानामधीनता ।
अस्तीति द्योतनायैव शतांशाधिकमुच्यते ॥ ३,२८.१५ ॥
यथा मयोच्यते वीन्द्र तथा जानीहि नान्यथा ।
तदनन्तरजान्वक्ष्ये शृणु काश्यपजोत्तम ॥ ३,२८.१६ ॥
चतुर्दशसु चेन्द्रेषु सप्तमो यः पुरन्दरः ।
वृत्रादीनां शरीरं तु पुरमित्युच्यते बुधैः ॥ ३,२८.१७ ॥
तं दारयति वज्रेण यस्मात्तस्मात्पुरन्दरः ।
चतुर्दशसु चेन्द्रेषु मन्त्रद्युम्नस्तु षष्ठकः ॥ ३,२८.१८ ॥
मन्त्रानष्ट महावीन्द्र देवो द्योतयते यतः ।
मन्त्रद्युम्नस्ततो लोके उभावप्येक एव तु ॥ ३,२८.१९ ॥
मन्त्रद्युम्नावतारोभूत्कुन्तीपुत्रोर्जुनो भुवि ।
विष्णोर्वायोरनन्तस्य चेन्द्रस्य खगसत्तम ॥ ३,२८.२० ॥
पार्थश्चतुर्भिः संयुक्त इन्द्र एव प्रकीर्तितः ।
चतुर्थेपि च वायोश्च विशेषोस्ति सदार्जुन ॥ ३,२८.२१ ॥
वालिर्नामा वानरस्तु पुरन्दर इति स्मृतः ।
चन्द्रवंशे समुत्पन्नो गाधिराजो विचक्षणः ॥ ३,२८.२२ ॥
मन्त्रद्युम्नावतारः स विश्वामित्रपिता स्मृतः ।
वेदोक्तमन्त्रा गाः प्रोक्ता धिया संधारयेद्यतः ॥ ३,२८.२३ ॥
अतो गाधिरिति प्रोक्तस्तदर्थं भूतले ह्यभूत् ।
इक्ष्वाकुपुत्रो वीन्द्र विकुक्षिरिति विश्रुतः ॥ ३,२८.२४ ॥
स एवेन्द्रावतारोभूद्धरिसेवार्थमेव च ।
विशेषेण हरिं कुक्षौ विज्ञानाच्च हरिः सदा ॥ ३,२८.२५ ॥
अतो विकुक्षिनामासौ भूलोके विश्रुतः सदा ।
रामपुत्रः कुशः प्रोक्त इन्द्र एव प्रकीर्तितः ॥ ३,२८.२६ ॥
वाल्मीकिऋषिणा यस्मात्कुशेनैव विनिर्मितः ।
अतः कुश इति प्रोक्तो जानकीनन्दनः प्रभुः ॥ ३,२८.२७ ॥
इन्द्रद्युम्नः पुरेंद्रस्तु गाधी वाली तथार्जुनः ।
विकुक्षिः कुश एवैते सप्त चेन्द्राः प्रकीर्तिताः ॥ ३,२८.२८ ॥
यः कृष्णपुत्त्रः प्रद्युम्नः काम एव प्रकीर्तितः ।
प्रकृष्टप्रकाशरूपत्वात्प्रद्युम्न इति नामवान् ॥ ३,२८.२९ ॥
यो रामभ्राता भरतः काम एवाभवद्भुवि ।
रामाज्ञां भरते यस्मात्तस्माद्भरतनामकः ॥ ३,२८.३० ॥
चक्राभिमानि कामस्तु सुदर्शन इति स्मृतः ।
ब्रह्मैव कृष्णपुत्रस्तु सांबो जाम्बवतीसुतः ॥ ३,२८.३१ ॥
कामावतारो विज्ञेयः संदेहो नात्र विद्यते ।
यो रुद्रपुत्रः स्कन्दस्तु काम एव प्रकीर्तितः ॥ ३,२८.३२ ॥
रिपूनास्कंदते नित्यमतः स्कन्द इति स्मृतः ।
यो वा सनत्कुमारस्तु ब्रह्मपुत्रः खगाधिप ।
कामावतारो विज्ञेयो नात्र कार्या विचारणा ॥ ३,२८.३३ ॥
सुदर्शनश्च परमः प्रद्युम्नः सांब एव च ।
सनत्कुमारः सांबश्च षडेते कामरूपकाः ॥ ३,२८.३४ ॥
ततश्च इन्द्रकामावप्युमादिभ्यो दशावरौ ।
तयोर्मध्ये तु गरुड काम इन्द्राधमः स्मृतः ॥ ३,२८.३५ ॥
प्राणस्त्वहङ्कार एव अहङ्कारकसंज्ञकः ।
गरुत्मदंशो विज्ञेयः कामेन्द्राभ्यां दशाधमः ॥ ३,२८.३६ ॥
तदनन्तरजान्वक्ष्ये शृणु वीन्द्र समाहितः ।
श्रवणान्मोक्षमाप्नोति महापापाद्विमुच्यते ॥ ३,२८.३७ ॥
कामपुत्रोनिरुद्धोऽपि हरेरन्यः प्रकीर्तितः ।
स एवाभूद्धरेः सेवां कर्तुं रामानुजो भुवि ॥ ३,२८.३८ ॥
शत्रुघ्न इति विख्यातः शत्रून्सूदयते यतः ।
अनिरुद्धः कृष्णपुत्रो प्रद्युम्नाद्योऽजनिष्ट ह ॥ ३,२८.३९ ॥
संकर्षणादिरूपैस्तु त्रिभिराविष्ट एव सः ।
एवं द्विरूपो विज्ञेयो ह्यनिरुद्धो महामतिः ॥ ३,२८.४० ॥
कामभार्या रतिर्या तु द्विरूपा संप्रकीर्तिता ।
रुग्मपुत्री रुग्मवती कामभार्या प्रकीर्तिता ॥ ३,२८.४१ ॥
अतिप्रकाशयुक्तत्वात्तस्माद्रुग्मवती स्मृता ।
दुर्योधनस्य या पुत्री लक्षणा सा रतिः स्मृता ॥ ३,२८.४२ ॥
काष्ठा सांबस्य भार्या सा लक्षणं संयुनक्त्यतः ।
लक्षणाभिधया भूमौ दुष्ट वीर्योद्भवा ह्यपि ॥ ३,२८.४३ ॥
एवं द्विरूपा विज्ञेया कामभार्या रतिः स्मृता ।
स्वायंभुवो ब्रह्मपुत्रो मनुस्त्वाद्यो गुरौ समः ।
राजधर्मेण विष्णोश्च जातः प्रीणयितुं हरेः ॥ ३,२८.४४ ॥
बृहस्पतिर्देवगुरुर्महात्मा तस्यावतारास्त्रय आसन् खगेन्द्र ।
रामावतारे भरताख्यो बभूव ह्यंभोजजावेशयुतो बृहस्पतिः ॥ ३,२८.४५ ॥
देवावतारान्वानरांस्तारयित्वा श्रीरामदिव्याऽचरितान्यवादीत् ।
अतो ह्यसौ नारनामा बभूव ह्यङ्गत्वमाप्तुं रामदेवस्य भूम्याम् ॥ ३,२८.४६ ॥
कृष्णावतारे द्रोणनामा बभूव अंभोजजावेशयुतो बृहस्पतिः ।
यस्माद्दोणात्संबभूव गुरुश्च तस्मादसौ द्रोणसंज्ञो बभूव ॥ ३,२८.४७ ॥
भूभारभूताद्युद्धृतौ ह्यङ्गभूतो विष्णोः सेवां कर्तुमेवास भूमौ ।
बृहस्पतिः पवनावेशयुक्ता स उद्धवश्चेत्यमिधानमाप ॥ ३,२८.४८ ॥
यस्मादुत्कृष्टो हरिरत्र सम्यगतो ह्यसौ बुधवन्नाम चाप ।
सखा ह्यभूत्कृष्णदेवस्य नित्यं महामतिः सर्वलोकेषु पूज्यः ॥ ३,२८.४९ ॥
दक्षिणाङ्गुष्ठजो दक्षो ब्रह्मपुत्रो महामतिः ।
कन्यां सृष्ट्वा हरेः प्रीणन्नास भूमा प्रजापतिः ।
पुत्रानुदपादयद्दक्षस्त्वतो दक्ष इति स्मृतः ॥ ३,२८.५० ॥
शचीं भार्यां देवराजस्य विद्धि तस्या ह्यवतारं शृणु सम्यक् खगेन्द्र ।
रामावतारे नाम तारा बभूव सा वालिपत्नी शचीसंज्ञका च ॥ ३,२८.५१ ॥
रामान्मृते वालिसंज्ञे पतौ हि सुग्रीवसंगं सा चकाराथ तारा ।
अतो नागात्स्वर्गलोकं च तारा क्व वा यायादन्तरिक्षे च पापा ॥ ३,२८.५२ ॥
कृष्णावतारे सैव तारा च वीन्द्र बभूव भूमौ विजयस्य पत्नी ।
पिशङ्गदेति ह्यभिधा स्याच्च तस्याः सामीप्यमस्यास्त्वर्जुनेनैव चासीत् ॥ ३,२८.५३ ॥
उत्पादयित्वा बभ्रुवाहं च पुत्रं तस्यां त्यक्त्वा ह्यर्जुनो वै महात्मा ।
अतश्चोभे वारचित्राङ्गदे च शचीरूपे नात्र विवार्यमस्ति ॥ ३,२८.५४ ॥
पुलोमजा मन्त्रद्युम्नस्य भार्या या काशिका गाधिराजस्य भार्या ।
विकुक्षिभार्या सुमतिश्चेति संज्ञा कुशस्य पत्नी कान्तिमतीति संज्ञा ॥ ३,२८.५५ ॥
एता हि सप्त ह्यवराश्च शच्या जानीहि वै नास्ति विचारणात्र ।
शची रतिश्चानिरुद्धो मनुर्दक्षो बृहस्पतिः ।
षडन्योन्यसमाः प्रोक्ता अहङ्काराद्दशाधमाः ॥ ३,२८.५६ ॥
अथ यः प्रवहो वायुर्मुख्यवायोः सुतो बली ।
स वायुषु महानद्य स वै कोणाधिपस्तथा ॥ ३,२८.५७ ॥
नासिकासु स एवोक्तो भौतिकस्तुल्य एव च ।
अतिवाहः स एवोक्तः यतो गम्यो मुमुक्षुभिः ॥ ३,२८.५८ ॥
दक्षादिभ्यः पञ्चगुणादधमः संप्रकीर्तितः ।
गरुड उवाच ।
प्रवहश्चेति संज्ञां स किमर्थं प्राप तद्वद ॥ ३,२८.५९ ॥
अर्थः कश्चास्ति तन्नाम्नः प्रतीतस्तं वदस्व मे ।
गरुडेनैवमुक्तस्तु भगवान्देवकीसुतः ।
उवाच परमप्रीतः संस्तूय गरुडं हरिः ॥ ३,२८.६० ॥
कृष्ण उवाच ।
प्रहर्षेण हरेस्तुल्यान्सर्वदा वहते यतः ।
अतः प्रवहनामासौ कीर्तितः पक्षिसत्तम ॥ ३,२८.६१ ॥
सर्वोत्तमो विष्णुरेवास्ति नाम्ना ब्रह्मादयस्तदधीनाः सदापि ।
मयोक्तमेतत्तु सत्यं न मिथ्या गृह्णामि हस्तेनोरगं कोपयुक्तम् ॥ ३,२८.६२ ॥
सर्वं नु सत्यं यदि मिथ्या भवेत्तु तदा त्वसौ मां दशतुह्यहीन्द्रः ।
एवं ब्रुवन्नुरगं कोपयुक्तं समग्रहीन्नादशत्सोप्युरङ्गः ॥ ३,२८.६३ ॥
एतस्य संधारणादेव वीन्द्र स वायुपुत्रः प्रवहेत्याप संज्ञाम् ।
यो वा लोके विष्णुमूर्तिं विहाय दैत्यस्वरूपा रेणुकाद्याः कुदेवाः ॥ ३,२८.६४ ॥
तेषां तथा मत्पितॄणां च पूजा व्यर्था सत्यं सत्यमेतद्ब्रवीमि ।
एतत्सर्वं यदि मिथ्या भवेत्तु तदा त्वसौ मां दशतु ह्यहीन्द्रः ॥ ३,२८.६५ ॥
पित्र्यं नयामि प्रविहायैव ये तु पित्रुद्देशात्केवलं यः करोति ।
स पापात्मा नरकान्वै प्रयातीत्येतद्वाक्यं सत्यमेतद्ब्रवीमि ॥ ३,२८.६६ ॥
न श्रीः स्वतन्त्रा नापि विधिः स्वतन्त्रो न वायुदेवो नापि शिवः स्वतन्त्रः ।
तदन्ये नो गौरिपुलोमजाद्याः किं वक्तव्यं नात्र लोके स्वतन्त्रः ॥ ३,२८.६७ ॥
ब्रवीमि सत्यं पुरुषो विष्णुरेव सत्यं सत्यं भुजमुद्धृत्य सत्यम् ।
एतत्सर्वं यदि मिथ्या भवेत्तु तदा त्वसौ मां दशतु ह्यहीन्द्र ॥ ३,२८.६८ ॥
जीवश्च सत्यः परमात्मा च सत्यस्तयोर्भेदः सत्ये एतत्सदापि ।
जडश्चसत्यो जीवजडयोश्च भेदो भेदः सत्यः किं च जडैशयोर्भिदा ॥ ३,२८.६९ ॥
भेदः सत्यः सर्वजीवेषु नित्यं सत्या जडानां च भेदा सदापि ।
एतत्सर्वं यदि मिथ्या भवेत्तु तदा त्वसौ दशतु मां ह्यहीन्द्रः ॥ ३,२८.७० ॥
एवं ब्रुवन्नुरगं कोपयुक्तं समग्रहीन्नादशत्सोप्युरङ्गः ।
एतस्य संधारणादेववीद्रे सा वायुपुत्रः प्रवहेत्याप संज्ञाम् ॥ ३,२८.७१ ॥
द्वयं स्वरूपं प्रविदित्वैव पूर्वं त्वं स्वीकुरुष्व द्वयमेव नित्यम् ।
स्नानादिकं च प्रकरोति नित्यं पापी स आत्मा नैव मोक्षं प्रयाति ॥ ३,२८.७२ ॥
तस्माद्द्वयं प्रविचार्यैव नित्यं सुखी भवेन्नात्र विचार्यमस्ति ।
एतत्सर्वं यदि मिथ्या भवेत्तु तदा त्वसौ मां दशतु ह्यहीन्द्रः ॥ ३,२८.७३ ॥
गरुड उवाच ।
किं तद्द्वयं देवदेवेश किं वा तत्कारणं कीदृशं मे वदस्व ।
द्वयोस्त्यागं कीदृशं मे वदस्व त्यागात्सुखं कीदृशं मे वदस्व ॥ ३,२८.७४ ॥
श्रीकृष्ण उवाच ।
द्वयं चाहुस्त्विन्द्रिये द्वे बलिष्ठे देहे ह्यस्मिञ्श्रोत्रनेत्रे सुसृष्टे ।
अवान्तरे श्रोत्रनेत्रे खगेन्द्र द्वयं चाहुस्तत्स्वरूपं च वक्ष्ये ॥ ३,२८.७५ ॥
श्रोत्रस्वभावो लोक वार्ताश्रुतौ च ह्यतीव मोदस्त्वादरास्वादनेन ।
हरेर्वार्ताश्रवणे दुःखजालं श्रोत्रस्वभावो जडता दमश्च ॥ ३,२८.७६ ॥
नेत्रस्वभावो दर्शने स्त्रीनराणां ह्यत्यादरान्नास्ति निद्रादिकं च ।
हरेर्भक्तानां दर्शने दुःखरूपो विष्णोः पूजादर्शने दुःखजालम् ॥ ३,२८.७७ ॥
तयोः स्वरूपं प्रविदित्वैव पूर्वं पुनः पुनः स्वीकरोत्येव मूढः ।
शिश्नं मौर्ख्याच्चैव कुत्रापि योनौ प्रवेशयेत्सर्वदा ह्यादरेण ॥ ३,२८.७८ ॥
भयं च लज्जा नैव चास्ते वधूनां तथा नृणां वनितानां यतीनाम् ।
स्वसारं ते ह्यविदित्वा दिनेपि सुवाम यज्ञेन स्वाभावश्च वीन्द्र ॥ ३,२८.७९ ॥
रसास्वभावो भक्षणे सर्वदापि ह्यनर्पितस्यान्नभक्ष्यस्य विष्णोः ।
तथोपहारस्य च तत्स्वभावः अभक्ष्याणां भक्षणे तत्स्वभावः ॥ ३,२८.८० ॥
अलेह्यलेहस्य च तत्स्वभावः पातुं त्वपेयस्य च तत्स्वभावः ।
द्वयोः स्वरूपं च विहाय मूढः पुनः पुनः स्वीकरोत्येव नित्यम् ॥ ३,२८.८१ ॥
तस्य स्नानं व्यर्थमाहुश्च यस्मात्तस्मात्त्याज्यं न द्वयोः कार्यमेव ।
अभिप्रायं ह्येतमेवं खगेन्द्र जानीहि त्वं प्रहस्यैव नित्यम् ॥ ३,२८.८२ ॥
भार्याद्वयं ह्यविदित्वा स्वरूपं स्वीकृत्य चैकां प्रविहायैव चैकाम् ।
स्नानादिकं कुरुते मूढबूद्धिः व्यर्थं चाहुर्मोक्षभोगौ च नैव ।
एतत्सर्वं यदि मिथ्या भवेत्तु तदा त्वसौ मां दशतु ह्यहीन्द्रः ॥ ३,२८.८३ ॥
गरुड उवाच ।
भार्याद्वयं किं वद त्वं ममापि तयोः स्वरूपं किं वद त्वं मुरारे ।
तयोर्मध्ये ग्राह्यभार्यां वद त्वमग्राह्यभार्यां चापि सम्यग्वद त्वम् ॥ ३,२८.८४ ॥
श्रीकृष्ण उवाच ।
बुद्धिः पत्नी सा द्विरूपा खगेन्द्र दुष्टा चैका त्वपरा सुष्ठुरूपा ।
तयोर्मध्ये दुष्टरूपा कनिष्ठा ज्येष्ठा तु या सुष्ठुबुद्धिस्वरूपा ॥ ३,२८.८५ ॥
कनिष्ठया नष्टतां याति जीवः सुतिष्ठन्त्या याति योग्यां प्रतिष्ठाम् ।
कनिष्ठायाः शृणु वक्ष्ये स्वरूपं श्रुत्वा तस्यास्त्यागबुद्धिं कुरुष्व ॥ ३,२८.८६ ॥
जीवं यं वै प्रेरयन्ती कनिष्ठा काम्यं धर्मं कुरुते सर्वदापि ।
क्व ब्राह्मणाः क्व च विष्णुर्महात्मा क्व वै कथा क्व च यज्ञाः क्व गावः ॥ ३,२८.८७ ॥
क्व चाश्वत्थः क्व च स्नानं क्व शौचमेतत्सर्वं नाम नाशं करोति ।
मूढं पतिं रेणुकां पूजयस्व मायादेव्या दीपदानं कुरुष्व ॥ ३,२८.८८ ॥
सुभैरवादीन् भज मूढ त्वमन्ध हारिद्रचूर्णन्धारयेः सर्वदापि ।
ज्येष्ठाष्टम्यां ज्येष्ठदेवीं भजस्व भक्त्या सूत्रं गलबन्धं कुरुष्व ॥ ३,२८.८९ ॥
मरिगन्धाष्टम्यां मरिगन्धं भजस्व तथा सूत्रं स्वगले धारयस्व ।
दीपस्तंभं सुदिने पूजयस्व तत्सूत्रमेव स्वगले धारयस्व ॥ ३,२८.९० ॥
महालक्ष्मीं चाद्यलक्ष्मीं च सम्यक्पूजां कुरु त्वं हि भक्त्याथ जीव ।
लक्ष्मीसूत्रं स्वागले धारयस्व महालक्ष्मीवान् भवसीत्युत्तरत्र ॥ ३,२८.९१ ॥
विहाय मौञ्जीदिवसे भाग्यकामः सुगुग्गुलान्धारयस्वातिभक्त्या ।
सुवासिनीः पूजयस्वाशु भक्त्या गन्धैः पुष्पैर्धूपदीपैः प्रतोष्य ॥ ३,२८.९२ ॥
वरार्तिक्यं कांस्यपात्रे निधाय कुर्वार्तिक्यं देवतादेवतानाम् ।
पिचुमन्दपत्राणि वितत्य भूमौ नमस्व त्वं क्षम्यतां चेति चोक्त्वा ॥ ३,२८.९३ ॥
महादेवीं पूजयस्वाद्य भक्त्या सद्वैष्णवानां मा ददस्वाप्यथान्नम् ।
सद्वैष्णवानां यदि वान्नं ददासि भाग्यं च ते पश्यतो नाशमेति ॥ ३,२८.९४ ॥
स्ववामहस्ते वेणुपात्रे निधाय दीपं धृत्वा सव्यहस्ते पते त्वम् ।
उत्तिष्ठ भोः पञ्चगृहेषु भिक्षां कुरुष्व सम्यक्प्रविहायैव लज्जाम् ॥ ३,२८.९५ ॥
आदौ गृहे षड्रसान्नं च कुत्वा जगद्गोप्यं भोजनं त्वं कुरुष्व ।
तच्छेषान्नं भोजयित्वा पते त्वं तासां च रे शरणं त्वं कुरुष्व ॥ ३,२८.९६ ॥
तासां हस्तं पुस्तके स्तापयित्वा त्राहीत्येवं तन्मुखैर्वाचयस्व ।
त्वं खड्गदेवं पूजयस्वाद्यभर्तस्तत्सेवकान्पूजयस्वाद्य सम्यक् ॥ ३,२८.९७ ॥
तैः सार्धं त्वं श्वानशब्दं कुरुष्व हरिद्राचूर्णं सर्वदा त्वं दधस्व ।
कुरुष्व त्वं भीमसेनस्य पूजां पञ्चामृतैः षोडशभिश्चोपचारैः ॥ ३,२८.९८ ॥
तत्कौपीनं रौप्यजं कारयित्वा समर्पयित्वा दीपमालां कुरुष्व ।
तद्दासवर्यान् भोजयस्वाद्य भक्त्या गर्जस्व त्वं भीमभीमेति सुष्ठु ॥ ३,२८.९९ ॥
तद्दासवर्यान्मोदयस्व स्ववस्त्रैर्मद्यैर्मांसद्रव्यजालेन नित्यम् ।
महादेवं पूजयस्वाद्य सम्यग्महारुद्रैरतिरुद्रैश्च सम्यक् ॥ ३,२८.१०० ॥
हरेत्युक्त्वा जङ्गमान्पूजयस्व शैवागमे निपुणाञ्छूद्रजातान् ।
शाकंभरीं विवशः सर्वशाकान्सुपाचयित्वा च गृहे गृहे च ॥ ३,२८.१०१ ॥
ददस्व भक्त्या परमादरेण स्वलङ्कृत्य प्रास्तुवंस्तद्गुणांश्च ।
कुलादेवं पूजयस्वाद्य भक्त्या त्वं दृग्भ्यां वै तद्दिने शंभुबुद्ध्या ॥ ३,२८.१०२ ॥
तद्भक्तवर्यान्पूजयस्वाद्य सम्यक्तत्पादमूले वन्दनं त्वं कुरुष्व ।
सुपञ्चम्यां मृन्मयीं शेषमूर्तिं पूजां कुरुष्व क्षीरलाजादिकैश्च ॥ ३,२८.१०३ ॥
सुनागपाशं हि गले च बद्ध्वा तच्छेषान्नं भोजयेर्भोः पुनस्त्वम् ।
दिने चतुर्थे भोजयस्वाद्य भक्त्या नैवेद्यान्नं भोजयस्वाद्य सुष्ठु ॥ ३,२८.१०४ ॥
इत्यादिकं प्रेरयित्वा पतिं सा जीवेन नष्टं प्रकरोत्येव नित्यम् ।
तस्याः संगाज्जीवरूपः पतिस्त्वां सम्यग्दष्टामिहलोके परत्र ॥ ३,२८.१०५ ॥
तस्याः संगं सुविदूरं विसृज्य चेष्ट्वा समग्रं कुरु सर्वदा त्वम् ।
सुबुद्धिरूपा त्वीरयन्ती जगाद भजस्व विष्णुं परमादरेण ॥ ३,२८.१०६ ॥
हरिं विनान्यं न भजस्व नित्यं सा रेणुका त्वां तु न पालयिष्यति ।
अदृष्टनामा हरिरेवं हि नित्यं फलप्रदो यदि न स्यात्खगेन्द्र ॥ ३,२८.१०७ ॥
जुगुप्सितां श्रुत्यनुक्तां च देवीं पतिद्रुहां सर्वदा सेवयित्वा ।
तस्याः प्रसादात्कुष्ठभगन्दराद्यैर्भुक्त्वा दुःखं संयमिनीं प्रयाहि ॥ ३,२८.१०८ ॥
तदा कुदेवी कुत्र गता वदस्व मे ह्यतः पते त्वं न भजस्व देवीम् ।
पते भज त्वं ब्राह्मणान्वैष्णवांश्च संसारदुःखात्तारन्सुष्ठुरूपान् ॥ ३,२८.१०९ ॥
सेवादिकं प्रविहायैव स्वच्छं मायादेव्या भजनात्किं वदस्व ।
ज्येष्ठाष्टम्यां ज्येष्ठदेवीं ह्यलक्ष्मीं लक्ष्मीति बुद्ध्या पूजयित्वा च सम्यक् ॥ ३,२८.११० ॥
तस्याः सूत्रं गलबद्धं च कृत्वा नानादुःखं ह्यनुभूयाः पते त्वम् ।
यदा पते यमदूतैश्च पाशैर्बद्ध्वा च सम्यक् ताड्यमानैः कशाभिः ॥ ३,२८.१११ ॥
तदा ह्यलक्ष्मीः कुत्र पलायतेऽसावतो मूलं विष्णुपादं भजस्व ।
पते भज त्वं सर्वदा वायुतत्त्वं न चाश्रयेस्त्वं सूक्ष्मस्कन्दं च मूढ ॥ ३,२८.११२ ॥
तद्वत्तं त्वं नवनीतं च भक्त्या तदुच्छिष्टं भक्षयित्वा पते हि ।
तस्याश्च सूत्रं गलबद्धं च कृत्वा इहैव दुःखान्यनुभूयाः पते त्वम् ॥ ३,२८.११३ ॥
यदा पते यमदूतैश्च पाशैर्बद्ध्वा च सम्यक् ताड्यमानः कशाभिः ।
तदा स्कन्दः कुत्र पलायतेऽसावतो मूलं विष्णुपादं भजस्व ॥ ३,२८.११४ ॥
दीपस्तंभं दापयित्वा पते त्वं सूत्रं च बद्ध्वा स्वगले च भक्त्या ।
तदा बद्ध्वा यमदूतैश्च पाशैर्दीपस्तंभैस्ताड्यमानस्तु सम्यक् ॥ ३,२८.११५ ॥
दीपस्तंभः कुत्र पलायितोभूदतो मूलं विष्णुपादं भजस्व ।
लक्ष्मीदिने पूजयित्वा च लक्ष्मीं सूत्रं तस्याः स्वगले धारय त्वम् ॥ ३,२८.११६ ॥
यदा पते यमदूतैश्च पाशैर्बध्वा सम्यक् ताड्यमानः कशाभिः ।
तदा लक्ष्मीः कुत्र पलायतेऽसावतो मूलं विष्णुपादं भजस्व ॥ ३,२८.११७ ॥
विवाहमौंञ्जीदिवसे मूढबुद्धे जुगुप्सितान्धारयित्वा सुभक्त्या ।
वरारार्तिकं कांस्यपात्रे निधाय कृत्वार्तिक्यं उदउदैति शब्दम् ॥ ३,२८.११८ ॥
तथैव दष्ट्वा पिचुमन्दस्य पत्रं सुनर्तयित्वा परमादरेण ।
यदा तदा यमदूतैश्च पाशैर्बद्ध्वा बद्ध्वा ताड्यमानश्च सम्यक् ॥ ३,२८.११९ ॥
तव स्वामिन्कुलदेवो महात्मन्पलायितः कुत्र मे तद्वदस्व ।
स्वदेहानां पूजयित्वा च सम्यक्कण्ठाभरणैर्विधुराणां च केशैः ॥ ३,२८.१२० ॥
संतिष्ठमाने यमदूता बलिष्ठा संताड्यमाने मुसलैर्भिन्दिपालैः ।
यदा तदा कुत्र पलायिता सा केशैर्विहीना लंबकर्णं च कृत्वा ॥ ३,२८.१२१ ॥
स्ववामहस्ते वेणुपात्रं निधाय दीपं धृत्वा सव्यहस्ते च मूढः ।
गृहेगृहे भैक्षचर्यां च कृत्वा संतिष्ठमाने स्वगृहं चैव देवी ॥ ३,२८.१२२ ॥
यदा तदा यमदूतैश्च मूढ दीपैः सहस्रैर्दह्यमानश्च सम्यक् ।
निर्नासिका रेणुका मूढबुद्धे पलायिता कुत्र सा मे वदस्व ॥ ३,२८.१२३ ॥
सदा मूढं खड्गदेवं च भक्त्या तं भक्तवत्पूजयित्वा च सम्यक् ।
तैः सार्धं त्वं श्वानवद्गर्जयित्वा संतिष्ठमाने स्वगृहे चैव नित्यम् ॥ ३,२८.१२४ ॥
यदा तदा यमदूतैश्च सम्यक्संताड्यमानस्तत्र शब्दं प्रकुर्वन् ।
संतिष्ठमाने भक्तवर्यं विहाय तदा देवः कुत्र पलायितोभूत् ॥ ३,२८.१२५ ॥
स पार्थक्याद्भीमसेनप्रतीकं पञ्चामृतैः पूजयित्वा च सम्यक् ।
सुव्यञ्जने चान्नकौपीनमेव दत्त्वा मूढस्तिष्ठमाने स्वगेहे ॥ ३,२८.१२६ ॥
यदा तदा यमदूतैश्च सम्यक्संताड्यमाने यममार्गे च मूढः ।
भीमः स वै कुत्र पलायितोभूदतो मूलं विष्णुपादं भजस्व ॥ ३,२८.१२७ ॥
महादेवं पूजयित्वा च सम्यक् हरेत्युक्त्वा स्वगृहे विद्यमाने ।
यदा गृहं दह्यते वह्निना तु तदा हरः कुत्र पलायितोभूत् ॥ ३,२८.१२८ ॥
शाकंभरीदिवसे सर्वमेव शाकंभरी सा च देवी महात्मन् ।
पलायिता कुत्र मे त्वं वदस्व कुलालदेवं पूजयित्वा च भक्त्या ॥ ३,२८.१२९ ॥
कार्पासं वै तेन दत्तं गृहीत्वा संतिष्ठमाने यमदूतैश्च सम्यक् ।
संहन्यमानस्तीक्षणधारैः कुठारैः कुलालदेवं च सुदंष्ट्रनेत्रम् ।
विहाय वै कुत्र पलायितोभून्न ज्ञायतेऽन्वेषणाच्चापि केन ॥ ३,२८.११३० ॥
यदा पञ्चम्यां मृन्मयीं शेषमूर्तिं संपूज्य भक्त्या विद्यमाने स्वगेहे ।
तदा बद्ध्वा यमदूताश्च सम्यक्संनह्यमाने नागपाशैश्च बद्ध्वा ॥ ३,२८.१३१ ॥
स्वभक्तवर्यं प्रविहाय नागः पलायितः कुत्र वै संवद त्वम् ।
दूर्वाङ्कुरैर्मोदकैः पूजयित्वा विनायकं पञ्चखाद्यैस्तथैव ॥ ३,२८.१३२ ॥
संतिष्ठंमाने यमदूतैश्च सम्यक्संताड्यमाने तप्तदण्डैश्च मूढ ।
दन्तं विहायैव च विघ्नराजः पलायितः कुत्र मे तं वदत्वम् ॥ ३,२८.१३३ ॥
विवाहकाले पिष्टदेवीं सुभक्त्या संपूजयित्वा विद्यमानो गृहे स्वे ।
यदा तदा यमदूतैश्च बद्ध्वा संपीड्यमानो यममार्गे स मूढः ॥ ३,२८.१३४ ॥
विष्ठादेवी पीड्यमानं च भक्तं विहाय सा कुत्र पलायिताभूत् ।
विवाहकाले रजकस्य गेहं गत्वा सम्यक्प्रार्थयित्वा च मूढः ॥ ३,२८.१३५ ॥
यस्तंभसूत्रं कलशे परीत्य पूजां कृत्वा विद्यमानो गृहे स्वे ।
यदा तदा यमदूतश्च सम्यक्तं स्तंभसूत्रं तस्य मुखे निधाय ॥ ३,२८.१३६ ॥
संताड्यमाने स्तंभसूत्रस्थदेवी पलायिता कुत्र मे संवदस्व ।
विवाहकाले पूजयित्वा च सम्यक्चण्डालदेवीं भक्तवश्यां च तस्याः ॥ ३,२८.१३७ ॥
तद्भक्तवर्यैः शूर्पमध्ये च तीरे संसेवयित्वा विद्यमानो गृहे स्वे ।
यदा तदा यमदूतैश्च बद्ध्वा संताड्यमानो यममार्गे महद्भिः ॥ ३,२८.१३८ ॥
चऊलदेवी क्व पलायिताभूत्सुमूढबुद्धे विष्णुपादं भजस्व ।
ज्वरादिभिः पीड्यमाने स्वपुत्रे गृहे स्थितं ब्रह्मदेवं च सम्यक् ॥ ३,२८.१३९ ॥
धूर्पैर्दीपैर्भक्ष्यभोज्यैश्च पुष्पैः पूजां कृत्वा विद्यमानश्च गेहे ।
यदा तदा यमदूतैश्च बद्ध्वा संताड्यमाने वेणुपाशादिभिश्च ॥ ३,२८.१४० ॥
स ब्रह्मदेवः क्व पलायितोभूत्सुमूढबुद्धे विष्णुपादं भजस्व ।
सन्तानार्थं बृहतीं पूजयित्वा गलेन बद्ध्वा बृहतीं वै फलं च ॥ ३,२८.१४१ ॥
संतिष्ठमाने यमदूतैश्च बद्ध्वा संताड्यमाने बृहतीकण्टकैश्च ।
तदा देवी बृहती मूढबुद्धे पलायिता कुत्र मे तद्वद त्वम् ॥ ३,२८.१४२ ॥
भजस्व मूढ परदैवतं च नारायणं तारकं सर्वदुःखात् ।
सुक्षुद्रदेवेषु मतिं च मा कुरु न च शृणु त्वं फल्गुवाक्यं तथैव ॥ ३,२८.१४३ ॥
सुक्षुद्रदेवान् भिन्दिपाले निधाय विसर्जयित्वा दूरदेशे महात्मन् ।
संधार्य त्वं स्वकुलाचारधर्मं संपातने नरकं हेतुभूतम् ॥ ३,२८.१४४ ॥
पुनीहि गात्रं सर्वदा मूढबुद्धे मन्त्राष्टकैर्जन्मतीर्थे पवित्रे ।
हृदि स्थितां मौर्ख्यमुद्रां विहाय कृत्वा भूषां विष्णुमुद्राभिरग्र्याम् ॥ ३,२८.१४५ ॥
सदा मूढो हरिवार्तां भजस्व ह्यायुर्गतं व्यर्थमेवं कुबुद्ध्या ।
सद्वैष्णवानां संगमो दुर्लभश्च क्षुब्धं ज्ञानं तारतम्यस्वरूपम् ॥ ३,२८.१४६ ॥
हरिं गुरुं ह्यनुसृत्यैव सत्यं गतिं स्वकीयां तेन जानीहि मूढ ।
दग्ध्वा दुष्टां बुद्धिमेवं च मूढ सुबुद्धिरूपं मा भजस्वैव नित्यम् ॥ ३,२८.१४७ ॥
मया सार्धं सद्गुरुं प्राप्य सम्यग्वैराग्यपूर्वं तत्त्वमात्रं विदित्वा ।
तेनैव मोक्षं प्राप्नुमो नार्जवैर्यत्तार्या विष्णोः संप्रसादाच्च लक्ष्म्याः ॥ ३,२८.१४८ ॥
इत्याशयं मनसा सन्निधाय तथा चोक्तं भक्तवर्यो मदीयः ।
अतो भक्तः प्रवहेत्येव संज्ञामवाप वीन्द्र प्रकृतं तं शृणु त्वम् ॥ ३,२८.१४९ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे तारतम्यनिरूपणद्वारा विष्णोरेवोपास्यत्वमित्यर्थनिरूपणं नामाष्टाविंशतमोध्यायः