सामग्री पर जाएँ

गरुडपुराणम्/ब्रह्मकाण्डः (मोक्षकाण्डः)/अध्यायः २९

विकिस्रोतः तः
← ब्रह्मकाण्डः (मोक्षकाण्डः), अध्यायः २८ गरुडपुराणम्
अध्यायः २९
वेदव्यासः

श्रीगरुडमहापुराणम् २९

प्रवहानन्तरान्वक्ष्ये शृणु पक्षीन्द्रसत्तम ।
यो धर्मो ब्रह्मणः पुत्रो ह्यादिसृष्टौ त्वगुद्भवः ॥१ ॥
सज्जनान्सौम्यरूपेण धारणाद्धर्मनामकः ।
स एव सूर्यपुत्रोभूद्यमसंज्ञामवाप सः ।
पापिनां शिक्षकत्त्वात्स यम इत्युच्यते बुधैः ॥२ ॥
श्रीकृष्ण उवाच ।
प्रह्लादानन्तरं गङ्गा भार्या वै वरुणस्य च ।
प्रह्लादादधमा ज्ञेया महिम्ना वरुणाधिका ॥३ ॥
स्वरूपादधमा ज्ञेया नात्र कार्या विचारणा ।
ज्ञानस्वरूपदं विष्णुं यमो जानाति सर्वदा ॥४ ॥
अतो गङ्गेति सा ज्ञेया सर्वदा लोकपावनी ।
भक्त्या विष्णुपदीत्येव कीर्तिता नात्र संशयः ॥५ ॥
या पूर्वकाले यज्ञलिङ्गस्य विष्णोः साक्षाद्धरेर्विक्रमतः खगेन्द्र ।
वामस्य पादस्य नखाग्रतश्च निर्भिद्य चोर्ध्वाण्डकटाहखण्डम् ॥६ ॥
तदुदरमतिवेगात्सम्प्रविश्यावहन्तीं जगदघततिहन्तुः पादकिञ्जल्कशुद्धाम् ।
निखिलमलनिहन्त्रीं दर्शनात्स्पर्शनाच्च सकृदवगहनाद्वा भक्तिदां विष्णुपादे ।
शशिकरवरगौरां मीननेत्रां सुपूज्यां स्मरति हरिपदोत्थां मोक्षमेति क्रमेण ॥७ ॥
इन्द्रोपि वायुकरमर्दितवायुकूटबिन्दुं च प्राश्य शिरसि ह्यसहिष्णुमानः ।
भागीरथी हरिपदाङ्कमिति स्म नित्यं जानन्महापरमभागवतप्रधानः ।
भक्त्या च खिन्नहृदयः परमादरेण धृत्वा स्वमूर्ध्नि परमो ह्यशिवः शिवोऽभूत् ॥८ ॥
भागीरथ्याश्च चत्वारि रूपाण्यासन्खगेश्वर ।
महाभिषग्जनेन्द्रस्य भार्या तु ह्यभिषेचनी ॥९ ॥
द्वितीयेनैव रूपेण गङ्गा भार्या च शन्तनोः ।
सुषेणा वै सुषेणस्य भार्या सा वानरी स्मृता ॥१० ॥
मण्डूकभार्या गङ्गा तु सैव मण्डूकिनी स्मृता ।
एवं चत्वारि रूपाणि गङ्गाया इति कीर्तितम् ॥११ ॥
आदित्याच्चैव गङ्गातः पर्जन्यः समुदाहृतः ।
प्रवर्षति सुवैराग्यं ह्यतः पर्जन्यनामकम् ॥१२ ॥
शरंवराय पञ्चजन्याच्च पञ्च हित्वा जग्ध्वा गर्वकं षट्क्रमेण ।
स्वबाणस्य स्वहृदि संस्थितस्य भजेत्सदा नैव भक्तिं विषं च ॥१३ ॥
लिङ्गं पुष्टं नैव कार्यं सदैव लिङ्गं पुष्टं कार्यमेवं सदापि ।
योनौ सक्तिर्नैव कार्या सदापि योनौ मुक्तेऽसंगतो याति मुक्तिम् ॥१४ ॥
वैराग्यमेवं प्रकारोत्येव नित्यमतः पर्जन्यस्त्वन्तकः पक्षिवर्य ।
एतावता शरभाख्यो महात्मा स चान्तरो स तु पर्जन्य एव ॥१५ ॥
शश्वत्केशा यस्य गात्रे खगेन्द्र प्रभास्यन्ते शरभाख्यो पयोतः ।
यमस्य भार्या श्यामला या खगेन्द्र यस्मात्सदा कलिभार्यापिया च ॥१६ ॥
मत्वा सम्यक्मानसं या करोति ह्यतश्च सा श्यामलासंज्ञकाभूत् ।
मलं वक्ष्ये हरिभक्तेर्विरोधी सुलोहपात्रे सन्निधानं च तस्य ॥१७ ॥
तद्वैष्णवैस्त्याज्यमेवं सदैव वस्त्रं दग्धं सन्धिजं चैव जन्यम् ॥१८ ॥
चिकित्सितं परदुःखं खगेन्द्र हरेर्भक्तैस्त्याज्यमेवं सदैव ॥१८ ॥
नोच्चाश्च ते हरिभक्तेर्विहीनास्तेषां संगो नैव कार्यः सदापि ।
पुराणसंपर्कविसर्जिनं च पुराणतालं च पुराणवस्त्रम् ॥१९ ॥
सुजीर्णकन्थाजिनमेखलं च यज्ञोपवीतं च कलिप्रियं च ।
प्रियं गृहं चोर्णवितानकं च समित्कुशैः पूरितं कुत्सितं च ॥२० ॥
सर्वं चेत्कलिभार्याप्रियं च नैव प्रियं शार्ङ्गपाणेः कदाचित् ।
कांस्ये सुपक्वं यावनालस्य चान्नं तुषः पिण्याकं तुम्बबिल्वे पलाण्डुः ॥२१ ॥
दीर्घं तक्रं स्वादुहीनं कटूष्णमेते सर्वे कलिभार्याप्रियाश्च ।
सुदुर्मुखं निन्दनं चार्यजानां सतोवमत्यात्मजानां प्रसह्य ॥२२ ॥
सुपीडनं सर्वदा भर्तृवर्गे गृहस्थितव्रीहिवस्त्रादिचौर्यात् ।
प्रकीर्णभूतान्मूर्धजान्संदधानं करैर्युतं देवकलिप्रियं च ॥२३ ॥
इत्यादि सर्वं कलिभार्याप्रियञ्च सुनिर्मलं प्रकरोत्येव सर्वम् ।
अतश्च सा श्यामलेति स्वसंज्ञामवाप सा देवकी संबभूव ॥२४ ॥
युधिष्ठिरस्यैव बभूव पत्नीसंभाविता तत्र च देवकी सा ।
चन्द्रस्य भार्या रोहिणी वै तदेयमश्विन्यादिभ्योऽह्यधिका सर्वदैव ॥२५ ॥
रोणीं धृत्वा रोहति योग्यस्थानं तस्माच्च सा रोहिणीति प्रसिद्धा ।
आदित्यभार्या नाम संज्ञा खगेन्द्र ज्ञेया सा नारायणस्य स्वरूपा ॥२६ ॥
संजानातीत्येव संज्ञामवाप संज्ञेति लोके सूर्य भार्या खगेन्द्र ।
ब्रह्माण्डस्य ह्यभिमानी तु देवो विराडिति ह्यभिधामाप तेन ॥२७ ॥
गङ्गादिषट्कं सममेव नित्यं परस्परं नोत्तमं नाधमं च ।
प्रधानाग्नेः पाविकान्यैव गङ्गा सदा शुभा नात्र विचार्यमस्ति ॥२८ ॥
आसां ज्ञानत्पुण्यमाप्नोति नित्यं सदा हरिः प्रीयते केशवोलम् ।
गङ्गादिभ्यो ह्यवराह्यग्निजाया स्वाहासंज्ञाधिगुणा नैव हीना ॥२९ ॥
स्वाहाकारो मन्त्ररूपाभिमानी स्वाहेति संज्ञामाप सदैव वीन्द्र ।
अग्नेर्भार्यातो बुद्धिमान् संबभूव ब्रह्माभिमानी चन्द्रपुत्रो बुधश्च ॥३० ॥
बुद्ध्याहरद्वै राष्ट्रजातं च सर्वं धृतं त्वतो बुधसंज्ञामवाप ।
एवं चाभूदभिमन्युर्महात्मा सुभद्राया जठरे ह्यर्जुनाच्च ॥३१ ॥
कृष्णस्य चन्द्रस्य यमस्य चांशैः स संयुतस्त्वश्विनोर्वै हरस्य ।
स्वाहाधमश्चन्द्रपुत्रो बुधस्तु पादारविन्दे विष्णुदेवस्य भक्तः ॥३२ ॥
नामात्मिका त्वश्विभार्या उषा नाम प्रकीर्तिता ।
बुधाधमा सा विज्ञेया स्वाहा दशगुणाधमा ॥३३ ॥
नकुलस्य भार्या मागधस्यैव पुत्री शल्यात्मजा सहदेवस्य भार्या ।
उभे ह्येते अश्विभार्या ह्युषापि उपासते षड्गुणं विष्णुमाद्यम् ।
अतोऽप्युषासंज्ञका सा खगेन्द्र अनन्तराञ्छृणु वक्ष्ये महात्मन् ॥३४ ॥
ततः शक्तिः पृथिव्यात्मा शनैश्चरति सर्वदा ।
अतः शनैश्चरो नाम उषायाश्च दशाधमाः ॥३५ ॥
कर्मात्मा पुष्करो ज्ञेयः शनेरथ यमो मतः ।
नयाभिमानी पुरुषः किञ्चिन्नम्रो दशावरः ॥३६ ॥
हरिप्रीतिकरो नित्यं पुष्करे क्रीडते यतः ।
अतस्तु पुष्कलो नाम लोके स परिकीर्तितः ॥३७ ॥
हरि प्रीतिकरान्धर्मान्वक्ष्ये शृणु खगाधिप ।
प्रातः काले समुत्थाय स्मरेन्नारायणं हरिम् ॥३८ ॥
तुलसीवन्दनं कुर्याच्छ्रीविष्णुं संस्मरेत्खग ।
विण्मूत्रोत्सर्गकाले च ह्यपानात्मककेशवम् ॥३९ ॥
त्रिविक्रमं शौचकाले गङ्गापानकरं हरिम् ।
दन्तधावनकाले तु चन्द्रान्तर्यामिणं हरिम् ॥४० ॥
मुखप्रक्षालने काले माधवं संस्मरेत्खग ।
गवां कण्डूयने चैव स्मरेद्गोवर्धनं हरिम् ॥४१ ॥
सदा गोदोहने काले स्मरेद्गोपालवल्लभम् ।
अनन्तपुण्यार्जितजन्मकर्मणां सुपक्वकाले च खगेन्द्रसत्तम ॥४२ ॥
स्पर्शे गवां चैव सदा नृणां वै भवत्यतो नात्र विचार्यमस्ति ।
यस्मिन् गृहे नास्ति सदोत्तमा च गौर्यङ्गणे श्रीतुलसी च नास्ति ॥४३ ॥
यस्मिन् गृहे देवमहोत्सवश्च यस्मिन् गृहे श्रवणं नास्ति विष्णोः ।
तत्संसर्गाद्याति दुःखादिकं च तस्य स्पर्शो नैव कार्यः कदापि ॥४४ ॥
गोस्पर्शनविहीनस्य गोदोहनमजानतः ।
गोपोषणविहीनस्य प्राहुर्जन्म निरर्थकम् ॥४५ ॥
गोग्रासमप्रदातुश्च गोपुष्टिं चाप्यकुर्वतः ।
गतिर्नास्त्येव नास्त्येव ग्रामचाण्डालवत्स्मृतः ॥४६ ॥
वत्स्यस्य स्तनपाने च बालकृष्णं तु संस्मरेत् ।
दधिनिर्मन्थने चैव मन्थाधारं स्मरेद्धरिम् ॥४७ ॥
मृत्तिकास्नान काले तु वराहं संस्मरेद्धरिम् ।
पुण्ड्राणां धारणे चैव केशवादींश्च द्वादश ॥४८ ॥
मुद्राणां धारणे चैव शङ्खचक्रगदाधरम् ।
पद्मं नारायणीं मुद्रां क्रुद्धोल्कादींश्च संस्मरेत् ॥४९ ॥
श्रीरामसंस्मृतिं चैव संध्याकाले खगोत्तम ।
अच्युतानन्तगोविन्दाञ्छ्राद्धकाले च संस्मरेत् ॥५० ॥
प्राणादिकपञ्चहोमेचानिरूद्धादींश्च संस्मरेत् ।
अन्नाद्यर्पणकाले तु वासुदेवं च संस्मरेत् ॥५१ ॥
अपोशनस्य काले तु वायोरन्तर्गतं हरिम् ।
वस्त्रधारणकाले तु उपेन्द्रं संस्मरेद्धरिम् ॥५२ ॥
यज्ञोपवीतस्य च धारणे तु नारायणं वामनाख्यं स्मरेत्तु ।
आर्तिक्यकाले च तथैव विष्णोः सम्यक्स्मरेत्पर्शुरामाख्यविष्णुम् ॥५३ ॥
अपोशनेवैश्वदेवस्य काले तदन्यहोमादिषु भस्मधारणे ।
स्मरेत्तु भक्त्या परमादरेण नारायणं जामदग्न्याख्यरामम् ॥५४ ॥
त्रिवारतीर्थग्रहणस्य काले कृष्णं रामं व्यासदेवं क्रमेण ।
शङ्खोदकस्योद्धरणे चैव काले मुकुन्दरूपं संस्मरेत्सर्वदैव ॥५५ ॥
ग्रासेग्रासे स्मरणं चैव कार्यं गोविन्दसंज्ञस्य विशुद्धमन्नम् ।
एकैकभक्ष्यग्रहणस्य काले सम्यक्स्मरेदच्युतं वै खगेन्द्र ॥५६ ॥
शाकादीनां भक्षणे चैव काले धन्वन्तरिं स्मरेच्चैव नित्यम् ।
तथा परान्नस्य च भोगकाले स्मरेच्च सम्यक्पाण्डुरङ्गं च विष्णुम् ॥५७ ॥
हैयङ्गवीनस्य च भक्षणे वै सम्यक्स्मरेत्ताण्डवाख्यं च कृष्णम् ।
दध्यन्नभक्षे परमं पुराणं गोपालकृष्णं संस्मरेच्चैव नित्यम् ॥५८ ॥
दुग्धान्नभोगे च तथैव काले सम्यक्स्मरेच्छ्रीनिवासं हरिं च ।
सुतैलसर्पिःषु विपक्वभक्षसंभोजने संस्मरेद्व्यङ्कटेशम् ॥५९ ॥
द्राक्षासुजम्बूकदलीरसालनारिङ्गदाडिम्बफलानि चारु ।
स्मरेत्तु रम्भोत्तमनारिकेलधात्रीसुभोगे खलु बालकृष्णम् ॥६० ॥
सुपानकस्यैव च पानकाले सम्यक्स्मरेन्नारसिंहाख्यविष्णुम् ।
गङ्गामृतस्यैव च पानकाले गङ्गातातं संस्मरेद्विष्णुमेव ॥६१ ॥
प्रयाणकाले संस्मरेत्तार्क्ष्यवाहं नारायणं निर्गुणं विश्वमूर्तिम् ।
पुत्रादीनां चुंबने चैव काले सुवेणुहस्तं संस्मरेत्कृष्णमेव ॥६२ ॥
सुखङ्गकाले स्वस्त्रियश्चैव नित्यं गोपि कुचद्वन्द्वविलासिनं हरिम् ।
तांबूलकाले संस्मरैच्चैव नित्यं प्रद्युम्नाख्यं वासुदेवं हरिं च ॥६३ ॥
शय्याकाले संस्मरेच्चैव नित्यं संकर्षणाख्यं विष्णुरूपं हरिं च ।
निद्राकाले संस्मरेत्पद्मनामं कथाकाले व्यासरूपं हरिं च ॥६४ ॥
सुगानकाले संस्मरेद्वेणुगीतं हरिं हरिं प्रवदेत्सर्वदैव ।
श्रीमत्तुलस्याश्छेदने चैव काले श्रीरामरामेति च संस्मरेत्तु ॥६५ ॥
पुष्पादीनां छेदने चैव काले सम्यक् स्मरेदेत्कपिलाख्यं हरिं च ।
प्रदक्षिणे गारुडान्तर्गतं च हरिं स्मरेत्सर्वदा वै खगेन्द्र ॥६६ ॥
प्रणामकाले देवदेवस्य विष्णोः शेषान्तस्थं संस्मरेच्चैव विष्णुम् ।
सुनीतिकाले संस्मरेन्नारसिंहं नारायणं संस्मरेत्सर्वदापि ॥६७ ॥
पूर्तिर्यदा क्रियते कर्मणां च सम्यक्स्मरेद्वासुदेवं हरिं च ।
एवं कृतानि कर्माणि हरिप्रीतिकराणि च ॥६८ ॥
सम्यक्प्रकुर्वन्नेतानि पुष्करो हरिवल्लभः ॥६९ ॥
एतस्मादेव पक्षीश कर्म यत्समुदाहृतं पुष्कराख्यानमतुलं शृणोति श्रद्धयान्वितः ।
हरिप्रीतिकरे धर्मे प्रीतियुक्तो भवेत्सदा ॥७० ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे कृष्णगरुडसंवादे तत्त्वरहस्यं नामैकोनत्रिंशोध्यायः
समाप्तमिदं गरुडमहापुराणम् ।
इति श्रीगरुडमहापुराणं समाप्तम् ।