गरुडपुराणम्/ब्रह्मकाण्डः (मोक्षकाण्डः)/अध्यायः २७
← ब्रह्मकाण्डः (मोक्षकाण्डः), अध्यायः २६ | गरुडपुराणम् अध्यायः २७ वेदव्यासः |
ब्रह्मकाण्डः (मोक्षकाण्डः), अध्यायः २८ → |
श्रीगरुडमहापुराणम् २७
श्रीकृष्ण उवाच ।
सा गता स्नातुकामाथ नन्दां पापनिवारिणीम् ।
पप्रच्छ तं गुरुं विप्रं विनयावनता सुधीः ॥ ३,२७.१ ॥
किन्नामेयं नदी विप्र किं कार्यं चात्र मे वद ।
जैगीषव्यस्त्वेवमुक्तो वाक्यमेतदुवाच ह ॥ ३,२७.२ ॥
जैगीषव्य उवाच ।
शृणु भद्रे प्रवक्ष्यामि माहात्म्यं पापनाशनम् ।
इयं नदी महाभागे सदा पापविनाशिनी ॥ ३,२७.३ ॥
ब्रह्महत्यादिपापौघो यत्र स्नानेन नश्यति ।
प्रत्यक्षं दृश्यते ह्यत्र स्नानं कर्तुं समुद्यतैः ॥ ३,२७.४ ॥
जलं चाशुभ्ररूपेण पापैश्च परिदृश्यते ।
यावच्छुभ्रोदकं देवि तावत्सनानं च कारयेत् ॥ ३,२७.५ ॥
यावच्छुभ्रोदकं नैव तावत्पापं न नश्यति ।
शुद्धोदके समायाते पापं नष्टमिति ध्रुवम् ॥ ३,२७.६ ॥
कलावित्थं विशालाक्षि महिमा दृश्यते भुवि ।
अत्र स्नानं प्रकर्तव्यं दातव्यं दान मुत्तमम् ।
ततश्च ज्ञानमासाद्य विविष्णुलोकं स गच्छति ॥ ३,२७.७ ॥
गुरुस्त्रीगमनाच्चन्द्र अहल्यायां गतो हरिः ।
सुरापानाच्च शुक्रस्तु सुवर्णहरणाद्बलिः ॥ ३,२७.८ ॥
ब्रह्महत्यायाश्च रुद्रो नागो दत्तापहारकः ।
सूतस्य हननाद्रामो निर्मुक्तो ह्यत्र भामिनि ॥ ३,२७.९ ॥
नानेन सदृशं तीर्थं न भूतं न भविष्यति ।
स्नानं कुरु महाभागे तेन सिद्धिं ह्यवाप्स्यसि ॥ ३,२७.१० ॥
जैगीषव्येण मुनिना पित्रा सह च कन्यका ।
स्नानं चकार विधिवदुदतिष्ठच्च भामिनि ॥ ३,२७.११ ॥
यावच्च पौरुषं सूक्तं तावत्कालं हि तिष्ठति ।
पश्चाज्जप्त्वा महामन्त्रं वेङ्कटेशाभिधं परम् ॥ ३,२७.१२ ॥
द्विजातीन्प्रीणयित्वा सा वस्त्रद्रव्यादिभूषणैः ।
तस्माच्च प्रययौ देवी कमारीतीर्थमुत्तमम् ॥ ३,२७.१३ ॥
कुमारीमहिमानं च श्रुत्वा स्नानं चकार सा ।
पुनरावृत्य सा देवी ह्यन्तरा विरजानदीम् ॥ ३,२७.१४ ॥
दृष्ट्वा पप्रच्छ सा देवी जैगीषव्यं गुरुं प्रभुम् ।
किं संज्ञिकेयं विप्रेन्द्र किं कार्यं ह्यत्र मे वद ॥ ३,२७.१५ ॥
जैगीषव्यः पृष्ट एव मुवाच करुणानिधिः ।
इयं भागीरथी कन्ये आयाति ह्यन्तरेण तु ॥ ३,२७.१६ ॥
अतः सा प्रोच्यते ह्यन्तर्गङ्गेति परमर्षिभिः ।
कन्ये त्वस्यास्तु सलिलं श्रीनिनिवासप्रियं सदा ॥ ३,२७.१७ ॥
अत्र स्नानं यः करोति स याति परमां गतिम् ।
स्नानं चकार सा कन्या जले परमपावने ॥ ३,२७.१८ ॥
दानादिकं तथा ज्ञात्वा जजाप परमं मनुम् ।
श्रीनिवाससमीपं तु पुनरागत्य भामिनी ॥ ३,२७.१९ ॥
अङ्गप्रदक्षिणं चक्रे भक्त्या वेङ्कटनायकम् ।
ब्राह्मणादीन्प्रीणयित्वा वस्त्रगन्धादिभूषणैः ॥ ३,२७.२० ॥
पुनः परदिने प्रातः स्वामिपुष्करिणीजले ।
स्नानं कृत्वा महाभागा ययौ तुंबुरुसंज्ञिकाम् ॥ ३,२७.२१ ॥
पप्रच्छ तं गुरुं देवी नाथं किन्नामिका त्वयम् ।
जैगीषव्य उवाच ।
इयं तुंबरुकाभिज्ञा नारी वै वरवर्णिनी ॥ ३,२७.२२ ॥
पुरा तुं बुरुणा साकं नारदस्तपसि स्थितः ।
अत्र प्रादुरभूद्विष्णुर्नारदस्य हिताय च ॥ ३,२७.२३ ॥
स्नानं यः कुरुते ह्यत्र स याति परमां गतिम् ।
अत्र स्नानं मनुष्याणां सर्वेषां दुर्लभं कलौ ॥ ३,२७.२४ ॥
अत्र स्नानं मनुष्याणां नाल्पस्य तपसः फलम् ।
तत्र स्नात्वा च पीत्वा च दत्त्वा दानान्यकेशः ॥ ३,२७.२५ ॥
पुनरागत्य सा देवी श्रीनिवासं ननाम ह ।
तस्मिमन्दिने ब्राह्मणांश्च तर्पयामास भमिनि ॥ ३,२७.२६ ॥
स्वामिपुष्करिणीं प्राप्य दीपान्प्राज्वालयत्सती ।
सोपानेषु महाभागा दीपावलिभिरञ्जसा ।
प्रीणयामास देवेशं श्रीनिवासं जगद्गुरुम् ॥ ३,२७.२७ ॥
पुनः परदिने प्राप्ते शक्रतीर्थमनुत्तमम् ।
कपिलाख्योर्ध्वदेशे तु तत्तीर्थं पावनं स्मृतम् ॥ ३,२७.२८ ॥
तत्र स्नात्वा महाभागा तदूर्ध्वं स्नापयेत्स्वयम् ।
विष्वसेनसरस्तत्र सर्वपापविनाशनम् ॥ ३,२७.२९ ॥
तत ऊर्ध्वं महाभागा ययौ तत्र ददर्श सा ।
पञ्चायुधानां तीर्थानि तेषु स्नानं चकार सा ॥ ३,२७.३० ॥
तदूर्ध्वं चाग्निकुण्डं स्याद्दुरारोहं ततोग्रतः ।
तस्योपरि ब्रह्मतीर्थं ब्रह्महत्याविमोचनम् ॥ ३,२७.३१ ॥
सप्तर्षीणां तदूर्ध्वं तु पुण्यतीर्थं च सत्फलम् ।
दशाधिकफलं तेषा तीर्थानामुत्तरोत्तरम् ॥ ३,२७.३२ ॥
एतेषां चैव माहात्म्यं को वा वक्तुमिहार्हति ।
ऋषितीर्थेषु सा कन्या चचार तप उत्तमम् ॥ ३,२७.३३ ॥
ममावतारपर्यन्तं चरित्वा तप उत्तमम् ।
योगधारण या देहं त्यक्त्वा जांबवतो गृहे ॥ ३,२७.३४ ॥
जाता जांबवती नाम ववृधे तस्य वेश्मनि ।
तस्याः पिता जांबवान्स समादात्कन्यकां तदा ।
रुक्म्या अनं तरा सैषा मम भार्या खगेश्वर ॥ ३,२७.३५ ॥
इदं हि परमाख्यानं वेङ्कटाद्रेर्महागिरेः ।
को वा वर्णयितुं शक्तो मदन्यः पुरुषो भुवि ॥ ३,२७.३६ ॥
वेङ्कटेशस्य नैवेद्यं सदा लक्ष्मीः करोति वै ।
ब्रह्मा पूजयते नित्यमेवं शास्त्रस्य निर्णयः ॥ ३,२७.३७ ॥
नैवेद्यभक्षिणां पुंसामुपहासं न कारयेत् ।
स्वस्य प्राशस्त्यभावे तु नैवेद्यादि गुडादिकम् ।
ग्राह्यमेव न संदेहो अन्यथा नारकी भवेत् ॥ ३,२७.३८ ॥
श्रीनिवासात्परो देवो न भूतो न भविष्यति ।
स्वयं च पाचयित्वात्वं घृतपक्वादिकं तथा ।
श्रीनिवासस्य नैवेद्यं दत्त्वा भोजनमाचरेत् ॥ ३,२७.३९ ॥
इदं तु परमं गोप्यं तवोक्तं च खगेश्वर ।
न कस्यापि च वक्तव्यं गोप्यत्वात्खगसत्तम ।
इतः परं प्रवक्ष्यामि तारतम्यं शृणु प्रभो ॥ ३,२७.४० ॥
इति श्रीगारुडे महापुराणे उत्त दृ तृ दृ ब्रह्म दृ कन्याकृतनानातीर्थयात्रादिनिरूपणं नाम सप्तविंशोऽध्यायः