गरुडपुराणम्/ब्रह्मकाण्डः (मोक्षकाण्डः)/अध्यायः २६

विकिस्रोतः तः
Jump to navigation Jump to search
← ब्रह्मकाण्डः (मोक्षकाण्डः), अध्यायः २५ गरुडपुराणम्
अध्यायः २६
वेदव्यासः
ब्रह्मकाण्डः (मोक्षकाण्डः), अध्यायः २७ →

श्रीगरुडमहापुराणम् २६
कन्योवाच ।
श्रीनिवासः किमर्थं वै आगतोत्र वदस्व मे ।
शेषाचलोपि कुत्रा भूत्कदायातश्च पापहा ।
स्वामिपुष्करिणी चात्र किमर्थं ह्यगता वद ॥ ३,२६.१ ॥

जैगीषव्य उवाच शृणु भद्रे महाभागे व्यङ्कटेशस्य चागमम् ।
आवयोर्देवि पापानि विषमं यान्ति भामिनि ॥ ३,२६.२ ॥

आसीत्पुरा हिरण्याक्षः काश्यपो दितिनन्दनः ।
सनकादेश्च वाग्दण्डाद्द्वितीयद्वारपालकः ॥ ३,२६.३ ॥

बभूव दैत्ययोनौ च देवानां कण्टको बली ।
संजीवो विजयः प्रोक्तो हरिभक्तो महाप्रभुः ॥ ३,२६.४ ॥

हरिण्याक्षः स्वयं दैत्यो हरिभक्तविदूषकः ।
एतादृशो हिरण्याक्षस्तपस्तप्तुं समुद्यतः ॥ ३,२६.५ ॥

तदा माता दितिर्देवी हिरण्याक्षमुवाच सा ।
दितिरुवाच ।
वत्सलस्त्वं महाभागमा तपस्वाष्टहायनः ॥ ३,२६.६ ॥

त्वं मा ददस्व दुः खं मे पालयिष्यति कोविदः ।
क्षणमात्रं न जीवामि त्वां विना जीवनं न हि ॥ ३,२६.७ ॥

मा तप त्वं महाभाग मम जीवनहेतवे ।
एवमुक्तस्तु मात्रा स विजयोवशतोब्रवीत् ॥ ३,२६.८ ॥

हिरण्याक्षो मातरं प्राह जालं हित्वा विष्णोर्भजनेऽलं कुरुष्व ।
मयिस्नेहं पुत्रहेतोर्विरूढं सुखदुः खे चेह लोके परत्र ॥ ३,२६.९ ॥

यावत्स्नेहं मयि मातः करोषि तावत्क्लेशं शाश्वतं यास्यसि त्वम् ।
मातश्च ते मयि पुत्रत्वबुद्धिस्त्वय्यप्येषा मातृबुद्धिर्ममापि ॥ ३,२६.१० ॥

ताते पूज्ये पितृबुद्धिर्ममास्ति तस्मिंस्तुते भर्तृबुद्धिर्हि मिथ्या ।
निर्माति यस्माद्धरिरेव सर्वं सम्यक्पाता नियतोऽसौ मुरारिः ॥ ३,२६.११ ॥

अतो हि माता हरिरेव सर्वदा त्वन्यासां वै मातृता चोपचारात् ।
निर्मातृत्वं यदि मुख्यं त्वयि स्याद्द्रोणादीनां जननी का वदस्व ॥ ३,२६.१२ ॥

मातृत्वं वै यदि मुख्यं त्वयि स्याद्धात्रादीनां जननी का वदस्व ।
यतः सदा याति जगत्तत्तो हरिः सदा पिता विष्णुरजः पुराणः ॥ ३,२६.१३ ॥

सदा पिता मुख्यपिता यदि स्याद्गर्भस्थबाले पालकः को वदस्व ।
मातापित्रोः पालकत्वं यदि स्यात्कूर्मादीनां पालकौ कौ वदस्व ॥ ३,२६.१४ ॥

मातापित्रोः पालकत्वं यदि स्यात्कृपादीनां रक्षकौ कौ वदस्व ।
पुन्नामकान्नारकाद्देह भजान्तस्मात्त्रातापुत्रविष्णुः पुराणः ॥ ३,२६.१५ ॥

न तारकोहं नरकाच्च सुभ्रूर्न वै भर्ता नापि पित्रादयश्च ।
न वै माता नानुजादिश्च सर्वः सर्वत्राता विष्णुरतो न चान्यः ॥ ३,२६.१६ ॥

मायां मदीयां ज्ञानशस्त्रेण च्छित्वा भक्त्या हरेः स्मरणं त्वं कुरुष्व ।
यद्भक्तिरूपूर्वं स्मरणं नाम विष्णोस्तत्सर्वथा पापहरं च मातः ॥ ३,२६.१७ ॥

यो वा भक्त्या स्मरणं नाम विष्णोः करोत्यसौ पापहरो भविष्यति ।
अयं देहो दुर्ल्लभः कर्मभूमौ तत्रापि मध्ये भजनं विष्णुमूर्तेः ॥ ३,२६.१८ ॥

आयुर्गतं व्यर्थमेव त्वदीयं शीघ्रं भजेः श्रीनिवासस्य पादम् ।
उपदिश्यैवं मातरं पुत्रवर्यो दैत्यावेशात्सोभवद्वै तपस्वी ॥ ३,२६.१९ ॥

चतुर्मुखं प्रीणयित्वैव भक्त्या ह्यवध्यत्वं प्राप तस्मान्महात्मा ।
ततो भूमिं करवद्वेष्टयित्वा निन्ये तदा दैत्यवर्यो महात्मा ॥ ३,२६.२० ॥

श्रीमुष्टदेशे प्रादुरासीद्धरिस्तु वाराहविष्णुस्त्वजनः पुराणः ।
भित्त्वाचाब्धिं विविशे तं महात्मा रसातले संस्थितं भूतलं च ॥ ३,२६.२१ ॥

स्वदंष्ट्राग्रे स्थापयित्वाऽजगाम तदागमादागतो दैत्यवर्यः ।
तं कर्णमूले ताडयित्वा जघान प्रसादयामास च पूर्ववद्भुवम् ॥ ३,२६.२२ ॥

सुदिग्गजान्स्थापयित्वा च विष्णुः श्रीमुष्टे वै संस्थितः श्रीवराहः ।
तदा हरिश्चिन्तयामास विष्णुर्भक्त्या मदीयं मानुषं देहमद्य ॥ ३,२६.२३ ॥

आराधयिष्यन्ति च मां क्व एते तेषां दयां कुत्र वाहं करिष्ये ।
एवं हरिश्चिन्तयित्वा सुकन्ये वैकुण्ठलोकादचलं शेष संज्ञम् ।
वीन्द्रस्कन्धे स्थापयित्वा स्वयं च समागतोभूद्भूतलं भूतलेशः ॥ ३,२६.२४ ॥

सुवर्णमुखरीतीरमारभ्य गरुडध्वजः ।
श्रीकृष्णवेणीपर्यन्तं स्थापया मास तं गिरिम् ॥ ३,२६.२५ ॥

गिरेः पुच्छे तु श्रीशैलं मध्यमेऽहोबलं स्मृतम् ।
मुखं च श्रीनिवासस्य क्षेत्रं च समुदाहृतम् ॥ ३,२६.२६ ॥

अल्पेन तपसाभीष्टं सिध्यत्यस्मिन्नहोबले ।
गङ्गादिसर्वतीर्थानि पुण्यानि ह्यत्र संति वै ॥ ३,२६.२७ ॥

य एनं सेवते नित्यं श्रद्धाभक्तिसमन्वितः ।
ज्ञानार्थी ज्ञानमाप्नोति द्रव्यार्थी द्रव्यमाप्रुयात् ॥ ३,२६.२८ ॥

पुत्रार्थी पुत्रमाप्नोति नृपो राज्यं च विन्दति ।
यंयं कामयते मर्त्यस्तन्तमाप्नोति सर्वथा ॥ ३,२६.२९ ॥

चिन्तितं साध्यते यस्मात्तस्माच्चिन्तामणिं विदुः ।
पुष्करिण्याश्च बाहुल्याद्गिरावस्मिन्सरः सु च ।
पुष्कराद्रिरिति प्राहुरेवं तत्त्वार्थवेदिनः ॥ ३,२६.३० ॥

शातकुंभस्वरूपत्वात्कनकाद्रिं च तं विदुः ।
वैकुण्ठादागतेनैव वैकुण्ठाद्रिरिति स्मृतः ॥ ३,२६.३१ ॥

अमृतैश्वर्यसंयुक्तो व्यङ्कटाद्रिरिति स्मृतः ।
व्यङ्कटेशस्य शैलस्य माहात्म्यं यावदस्ति हि ॥ ३,२६.३२ ॥

तावद्वक्तुं समग्रेण न समर्थश्चतुर्मुखः ।
व्यङ्कटाद्रौ परां भक्तिं ये कुर्वन्ति दिनेदिने ।
पङ्गर्जङ्घाल एव स्यादचक्षुः पद्मलोचनः ॥ ३,२६.३३ ॥

मूको वाग्मी भवेदेव बधिरः श्रावको भवेत् ।
वन्ध्या स्याद्बहुपुत्रा च निर्धनः सधनो भवेत् ॥ ३,२६.३४ ॥

एतत्सर्वं गिरौ भक्तिमात्रेणैव भवेद्ध्रुवम् ।
तत्त्वतो व्यङ्कटाद्रेस्तु स्वरूपं वेत्ति को भुवि ॥ ३,२६.३५ ॥

यस्मादस्य गिरेः पुण्यं माहात्म्यं वेत्ति यः पुमान् ।
मायावी परमानन्दं त्यक्त्वा वैकुण्ठमुत्तमम् ।
स्वामिपुष्करिणीतीरे रमया सहमोदते ॥ ३,२६.३६ ॥

कल्याणाद्भुतगात्राय कामितार्थप्दायिने ।
श्रीमद्व्यङ्कटनाथाय श्रीनिवासाय ते नमः ॥ ३,२६.३७ ॥

श्रीस्वामिपुष्करिण्याश्च माहात्म्यं शृणु कन्यके ।
स्वामिपुष्करिणीमध्ये श्रीनिवासोस्ति सर्वदा ॥ ३,२६.३८ ॥

स्नानं कुर्वन्ति ये तत्र तेषां मुक्तिः करे स्थिता ।
तिस्रः कोट्योर्धकोटिश्च तीर्थानि भुवनत्रये ।
तानि सर्वाणि तत्रैव संति तीर्थे हरेः सदा ॥ ३,२६.३९ ॥

तत्तीर्थं श्रीनिवासाख्यं सर्वदेवनमस्कृतम् ।
तदेव श्रीनिवासस्य मन्दिरं परिकीर्तितम् ॥ ३,२६.४० ॥

तद्दर्शनादेव कन्ये यान्ति पापानि भस्मसात् ।
एकैकस्नानमात्रेण सत्संगो भवति ध्रुवम् ॥ ३,२६.४१ ॥

सत्संगाज्ज्ञानमासाद्य ज्ञानान्मोक्षं च विन्दति ।
अधिकारिणां भवेदेवं विपरीतमयोगिनाम् ॥ ३,२६.४२ ॥

तीर्थानां स्नानमात्रेण मोक्षं यान्तीति ये विदुः ।
ते सर्वे असुरा ज्ञेयास्ते यान्ति ह्यधमां गतिम् ॥ ३,२६.४३ ॥

श्रीनिवासस्य तीर्थेस्मिन्वायुकोणे च कन्यके ।
आस्ते वायुः सदा विष्णोः पूजां कर्तुमनुत्तमाम् ॥ ३,२६.४४ ॥

वायुतीर्थं च तत्प्रोक्तं हस्तद्वादशकान्तरम् ।
हस्तषट्कप्रमाणं च पश्चिमे समुदाहृतम् ।
उत्तरे हस्तषट्कं तु वायुतीर्थमुदाहृतम् ॥ ३,२६.४५ ॥

ये वेष्णवा वैष्णवदासवर्याः स्नानं सुर्युस्तत्र पूर्वं सुकन्ये ।
मध्वान्तस्थाः श्रीनिवासस्तु नित्यमत्र स्नानात्प्रीयतां मे दयालुः ॥ ३,२६.४६ ॥

ये मध्वतीर्थे स्नातुमिच्छन्ति देवि रुद्रादयो वायुभक्ता महान्तः ।
सदा स्नानं तत्र कुर्वन्ति देवि प्रातः काले चोदयात्पूर्वमेव ॥ ३,२६.४७ ॥

ये वायुतीर्थे विसृजन्ति देहजं मलं मूत्रं वमनं श्लेष्मकं च ।
येऽपानशुद्धिं लिङ्गशुद्धिं च कन्ये कुर्वन्ति ते ह्यसुरा राक्षसाश्च ॥ ३,२६.४८ ॥

शृण्वन्ति ये भागवतं पुराणं किं वर्णये तस्य पुण्यं तु देवि ।
ये कृष्णमन्त्रं तु जपन्ति देवि ह्यष्टा क्षरं मन्त्रवरं सुगोप्यम् ॥ ३,२६.४९ ॥

तेषां हरिः प्रीयते केशवोलं मध्वान्तस्थो नात्र विचार्यमस्ति ।
एवं दानं तत्र कुर्वन्ति ये वै द्विजाग्र्याणां वैष्णवानां विदां च ॥ ३,२६.५० ॥

तेषां पुण्यं नैव जानन्ति देवा जानात्येवं श्रीनिवासो हरिस्तु ।
शालग्रामं वायुतीर्थे ददन्ते तेषां पुण्यं वेत्ति स व्यङ्कटेशः ॥ ३,२६.५१ ॥

सुदुर्लभो वायुतीर्थेऽभिषेको निष्कामबुद्ध्या वैष्णवानां च देवि ।
तत्रापि तीर्थे लभ्यते भाग्ययोगाद्भागवतस्य श्रवणं विष्णुदासैः ॥ ३,२६.५२ ॥

तथैव तीर्थे दुर्लभं तत्र देवि शालग्रामस्य द्विजवर्ये च दानम् ।
जंबूफलाकारसुनीलवर्णं मुखद्वयं चक्रचतुष्टयान्वितम् ॥ ३,२६.५३ ॥

सुकेसरैः संयुतं स्वर्णचिह्नध्वजां कुशैर्वज्रचिह्नैर्यवैश्च ।
जानार्दनीं मूर्तिमाहुर्महान्तो दानं तस्या दुर्लभं तत्र तीर्थे ॥ ३,२६.५४ ॥

अत्युत्तमं मूर्तिदानं तु भद्रे सुदुर्ल्लभं परमं नात्र लोभः ।
सुदुर्लभं बहुदोग्ध्याश्च गृष्टेर्दानं तथा वस्त्ररत्नादिकानाम् ॥ ३,२६.५५ ॥

अत्युत्तमं द्रव्यदानं च देवि स्वापेक्षितं दानमाहुर्महान्तः ।
स्वस्यानपेक्षं फलदानं च वस्त्रादानं तस्य व्यर्थमाहुर्महान्तः ॥ ३,२६.५६ ॥

अत्युत्तमं गृष्टिदानं च पुण्यं नैवाप्यते दुग्धदोहाश्च गावः ।
अत्युत्तमे वस्त्रदाने सुबुद्धिः सुदुर्घटा परमा वै जनानाम् ॥ ३,२६.५७ ॥

अत्युत्तमं भागवतस्य पुस्तकं सुदुर्घटं वायुतीर्थं च कन्ये ।
अत्युत्तमं द्रव्यदानं च देवि सुदुर्घटं वायुतीर्थं नृणां हि ।
सुदुर्लभो वैष्णवैस्तत्त्वविद्भिर्हरेर्विचारो वायुतीर्थे च कन्ये ॥ ३,२६.५८ ॥

श्रीनिवासस्य तीर्थस्य उत्तरस्यां दिशि स्थितम् ।
चन्द्रतीर्थ मिति प्रोक्तं तत्रास्ते चन्द्रमाः सदा ॥ ३,२६.५९ ॥

श्रीनिवासस्य पूजां च तत्र स्थित्वा करोत्ययम् ।
तत्र स्नानं प्रकुर्वन्ति पुण्यदेशे च कन्यके ॥ ३,२६.६० ॥

गुरुतल्पादिपापेभ्यो मुच्यन्ते नात्र संशयः ।
तत्र स्नात्वा पूर्वभागे शालग्रामं ददाति यः ॥ ३,२६.६१ ॥

ज्ञानद्वारा मोक्षमेति नात्र कार्या विचारणा ।
दधिवामनमूर्तेश्च दानं तत्र सुदुर्लभम् ॥ ३,२६.६२ ॥

बदरीफलमात्रं तु वतुलं नीलवर्णकम् ।
प्रसन्नवदनं सूक्ष्मं सुस्निग्धं कन्यके शुभे ॥ ३,२६.६३ ॥

चक्रद्वयसमायुक्तं गौपूरैः पञ्चभिर्युतम् ।
चापबाणसमायुक्तमनतं कुण्डलाकृतिम् ॥ ३,२६.६४ ॥

वनमाल सुखयुतं मूर्ध्नसाहस्रसंयुतम् ।
रौप्यबिन्दुसमायुक्तं सव्ये भद्रार्धमात्रकम् ॥ ३,२६.६५ ॥

चन्द्रेण सहितं देवि दधिवामनमुच्यते ।
एतादृशं कलौ नॄणां दुर्लभं बहुभाग्यदम् ।
लक्ष्मीनारायणसमां तां मूर्तिं विद्धि भामिनि ॥ ३,२६.६६ ॥

सुदुर्लभं तस्य मूर्तेश्च दानं तच्चन्द्रतीर्थे श्रवणं दुर्घटं च ।
सम्यक्स्वरूपं दधिवामनस्य सुदुर्घटं श्रवणं वैष्णवाच्च ॥ ३,२६.६७ ॥

तत्र स्नात्वा वामनस्य स्वरूपश्रवणाद्विदुर्दानफलं समं च ।
दशहस्तप्रमाणं तु चन्द्रतीर्थमुदाहृतम् ॥ ३,२६.६८ ॥

मध्याह्ने दुर्लभं स्नानं नृणां तत्र सुमङ्गले ।
तत्र स्थित्वा धन्यनरः सदा भजति वै हरिम् ॥ ३,२६.६९ ॥

वराहमूर्तिदानं तु शालग्रामस्य दुर्लभम् ।
जंबूफलप्रमाणं तु एतद्वै कुक्कुटाण्डवत् ॥ ३,२६.७० ॥

वदनं वलयाकारं प्रमाणं चणकादिवत् ।
देवस्य वामभागे च मध्यदेशं विहाय च ॥ ३,२६.७१ ॥

चक्रद्वयसमायुक्तंमूर्धदेशे च भामिनि ।
सुवर्णबिन्दुना युक्तं भूवराहाख्यमुच्यते ॥ ३,२६.७२ ॥

पूजां कृत्वा भूवराहस्य मर्तेर्दानं दत्त्वा श्रवणं चापि कृत्वा ।
तत्र स्थितं भूवराहं च दृष्ट्वा स वै नरः कृतकृत्यो हि लोके ॥ ३,२६.७३ ॥

तत्र स्नात्वा भूवराहस्य मर्तेः शृणोति यो लक्षणं सम्यगेव ।
स तेन पुण्यं समुपैति देवि स मुक्तिभाङ्नात्र विचार्यमस्ति ॥ ३,२६.७४ ॥

ईशानकोणे श्रीनिवासस्य देवि रौद्रं तीर्थं परमं पावनं च ।
तत्र स्थित्वा रुद्रदेवो महात्मा पूजां करोति श्रीनिवासस्य नित्यम् ॥ ३,२६.७५ ॥

हस्ताष्टकं तत्प्रमाणं वदन्ति तत्र स्नानं वैष्णवैः कार्यमेव ।
तत्र स्नात्वा प्रयतो वै मुरारेः कथां दिव्यां शृणुयादादरेण ।
स्नानं पानं तत्र दानं च कुर्याल्लक्ष्मीनृसिंहप्रीयते देवि नित्यम्३,२६.७६ ॥

बदरीफलमात्रं च वर्तुलं बिन्दुसंयुतम् ॥ ३,२६.७७ ॥

देवस्य वामभागे तु चक्रद्वयसमन्वितम् ।
सुवर्णरेखासंयुक्तं किञ्चिद्रक्तसमन्वितम् ॥ ३,२६.७८ ॥

वैश्यवर्णं सवदनं पद्मरेखादिचिह्नितम् ।
लक्ष्मीनृसिंहं तं विद्धि भुक्तिमुक्तिप्रदायकम् ॥ ३,२६.७९ ॥

एता दृशं गण्डिकायाः शिलाया मूर्तेर्दानं दुर्घटं विद्धि वीन्द्र ।
तत्र स्नात्वा श्रीनृसिंहस्वरूपं लक्ष्मीपतेः शृणुयाद्भक्तियुक्तः ॥ ३,२६.८० ॥

मूर्तेर्दानात्फलमाप्नोति देवि सत्यंसत्यं नात्र विचार्यमस्ति ॥ ३,२६.८१ ॥

ईशानशक्रयोर्मध्ये ब्रह्मतीर्थमुदाहृतम् ।
दुर्लभं मानुषाणां तु स्नानं सर्वार्थसाधकम् ॥ ३,२६.८२ ॥

शालग्रामस्य दानं तु दुर्लभं तत्र वै नृणाम् ।
लक्ष्मीनारायणस्यैव मूर्तेर्दानं सुदुर्लभम् ॥ ३,२६.८३ ॥

स्थलमौदुंबरसमं तत्प्रमाणमुदाहृतम् ।
छत्त्राकारं वर्तुलं च प्रसन्नवदनं शुभम् ॥ ३,२६.८४ ॥

चणकप्रदेशमात्रं च वदनं समुदाहृतम् ।
सव्ये दक्षिणपार्श्वे च समयोः पुष्कलान्वितम् ॥ ३,२६.८५ ॥

गोयूथवत्सवर्णं च चतुश्चक्रसमन्वितम् ।
गोखुरैश्च समायुक्तं सुवर्णकिणसंयुतम् ॥ ३,२६.८६ ॥

वनमालाभिसंयुक्तं वज्रपुङ्खैश्च संयुतम् ।
एतादृशीं दरेर्मूर्ति लक्ष्मीनारायणं विदुः ॥ ३,२६.८७ ॥

कलौ नृणां तस्य लाभो दुर्लभः संस्मृतो भुवि ।
दानं च सुतरां देवि दर्लभं किं वदामि ते ॥ ३,२६.८८ ॥

ब्रह्मतीर्थे च संस्नाय श्रोतव्या वै हरेः कथा ।
गण्डिकायाः शिलायाश्च लक्ष्मीनारायणस्य तु ॥ ३,२६.८९ ॥

लक्षणं यो विजानाति तदा तत्सदृशं फलम् ।
प्राप्नोत्येव न संदेहो नात्र कार्या विचारणा ॥ ३,२६.९० ॥

श्रीनिवासस्य तीर्थस्य पूर्वे स्यादिन्द्रतीर्थकम् ।
श्रीनिवासस्य पूजां तु कर्तुमास्ते शचीपतिः ॥ ३,२६.९१ ॥

शालग्रामशिलादानं कर्तव्यं श्रोत्रियायवै ।
शालग्रामशिलादानं हत्याकोटिविनाशनम् ॥ ३,२६.९२ ॥

तस्मिंस्तीर्थे तु यो देवि सीतारामशिलाभिधाम् ।
ददाति भूतले भद्रे भूपतेः सदृशो भवेत् ॥ ३,२६.९३ ॥

सीतारामशिला देवि द्विविधा संप्रकीर्तिता ।
पञ्चचक्रयुता काचित्षट्रचक्रेण च संयुता ॥ ३,२६.९४ ॥

तत्रापि षट्रचक्रयुता ह्युत्तमा संप्रकीर्तिता ।
पञ्चचक्रयुतायाश्च फलं द्विगुणमीरितम् ॥ ३,२६.९५ ॥

कुक्कुटाण्डप्रमाणं च सुसिग्धं नीलवर्णकम् ।
वदनत्रयसंयुक्तं सट्चक्रैः केसरैर्युतम् ॥ ३,२६.९६ ॥

स्वर्णरेखासमायुक्तं ध्वजवज्राङ्कुशैर्युतम् ।
एतादृशं तु वै भद्रे सीतारामाभिधं स्मृतम् ॥ ३,२६.९७ ॥

वदनेवन्दने देवि सीतारामस्य कोशकम् ।
दुर्लभं तु कलौ नॄणां स्वसाम्राज्यप्रदं शुभम् ॥ ३,२६.९८ ॥

इन्द्रतीर्थे महादेवि सीताराम भिधाशिला ।
या तद्दानं दुर्लभं तन्नाल्पस्य तपसः फलम् ॥ ३,२६.९९ ॥

दानस्य शक्त्यभावे तु श्रोतव्यं लक्षणं हरेः ।
शालग्राम शिलादानाद्यत्फलं तत्फलं लभेत् ॥ ३,२६.१०० ॥

आग्नेयकोणे श्रीनिवासस्य देवि तीर्थं त्वास्ते वह्निसंज्ञं सुशस्तम् ।
स वह्निदेवः श्रीनिवासस्य पूजां कर्तुं ह्यास्ते सर्वदा तीर्थमध्ये ॥ ३,२६.१०१ ॥

यो वा तीर्थे वह्निसंज्ञे च देवि भक्त्या स्नानं कुरुतेऽजं स्मरन्हि ।
ज्ञानद्वारा मोक्षमाप्नोति देवि तत्र स्नानं दुर्ल्लभं वै नृणां च ॥ ३,२६.१०२ ॥

ज्ञात्वा स्नानं दुष्करं तीर्थराजे भक्तिस्तस्मिन्दुर्ल्लभा चैव देवि ।
शालग्रामे तच्छिलायाश्च दानं सुदुर्लभं वासुदेवाभिधायाः ॥ ३,२६.१०३ ॥

ह्रस्वं तथा वर्तुलं नीलवर्णं सूक्ष्मं मुखं मुखचक्रं सुशुद्धम् ।
सुवेणुयुक्तं वासुदेवाभिधेयं दानं कलौ दुर्लभं तस्य भद्रे ॥ ३,२६.१०४ ॥

दाने तस्याः शक्त्य भावे च देवि स्नात्वा तीर्थे वासुदेवाभिधस्य ।
सम्यक्श्राव्यं लक्षणं वै शिलायास्तयोस्तुल्यं फलमाहुर्महान्तः ॥ ३,२६.१०५ ॥

दक्षिणे श्रीनिवासस्य यमतीर्थं च संस्मृतम् ।
तत्रास्ते यमराजस्तु पूजां कर्तुं हरेः सदा ॥ ३,२६.१०६ ॥

तत्र स्नानं च दानं चाप्यक्षयं परमं स्मृतम् ।
शालग्रामशिलादानं कार्यं तत्र महामुने ॥ ३,२६.१०७ ॥

पट्टाभिरामसंज्ञायाः शिलाया दानमिष्यते ।
तच्चूतफलवत्स्थूलं वदनत्रयसंयुतम् ॥ ३,२६.१०८ ॥

शिरश्चक्रेण रहितं सप्तचक्रैः समन्वितम् ।
नीलवर्णं स्वर्णरेखं गोशुराद्यैः समन्वितम् ॥ ३,२६.१०९ ॥

पट्टवर्धनरामं तु दुर्लभं बहुभाग्यदम् ।
पट्टवर्धनरामं तु यो ददाति च तत्र वै ।
पट्टाभिषिक्तो भवति नात्र कार्या विचारणा ॥ ३,२६.११० ॥

श्रीनिवासस्य नैरृत्ये नैरृतं तीर्थमुत्तमम् ।
आस्ते हि निरृतिस्तत्र पूजां कुर्तुं च सर्वदा ॥ ३,२६.१११ ॥

तत्र स्नानं प्रकर्तव्यं पुनर्जन्म न विद्यते ।
शालग्रामशिलायाश्चः पुरुषोत्तमसंज्ञिकाम् ॥ ३,२६.११२ ॥

मूर्तिं ददाति यो मर्त्यः स याति परमां गतिम् ।
औदुंबरफलाकारं प्रसन्नवदनं शुभम् ॥ ३,२६.११३ ॥

चक्रद्व्यसमायुक्तं शिरश्चक्रसमन्वितम् ।
सुवर्णबिन्दुसंयुक्तं वज्राङ्कुशसमान्वतम् ॥ ३,२६.११४ ॥

तन्मूर्तिदानं दुर्लभं तत्र देवः प्रीणाति यस्माच्छ्रीनिवासो महात्मा ।
यदा दानं दुर्घटं स्याच्च देवि तदा श्रोतव्यं लक्षणं तस्य मूर्तेः ॥ ३,२६.११५ ॥

पाशिनैरृतयोर्मध्ये शेषतीर्थं परं स्मृतम् ।
तत्र स्नात्वा शेषमूर्तिं प्रददाति द्विजातये ॥ ३,२६.११६ ॥

स याति परमं लोकं पुनरावृत्तिवर्जितम् ।
औदुंबरफलाकारं कुण्डलाकृतिमेव च ॥ ३,२६.११७ ॥

शेषवद्वदनं तस्य तस्मिंश्चक्रद्वयं स्मृतम् ।
फलं तमेकचक्रेण संयुतं वल्मिकान्वितम् ॥ ३,२६.११८ ॥

किञ्चिद्वर्णसमायुक्तं शेषमूर्ति मतिस्फुटम् ।
सुप्ता प्रबुद्धा द्विविधा शेषमूर्तिरुदाहृता ॥ ३,२६.११९ ॥

फणोन्नता प्रबुद्धा स्यात्सप्तलक्षफणान्विता ।
तत्रापि दुर्लभा सुप्ता महाभाग्यकरीस्मृता ॥ ३,२६.१२० ॥

इह लोके परत्रापि मोक्षदा नात्र संशयः ।
नवचक्रादुपक्रम्य विंशत्यन्तं च यत्र सः ॥ ३,२६.१२१ ॥

अनन्त इति विज्ञेयो ह्यनन्तफलदायकः ।
विश्वंभरः स विज्ञेयो विंशत्यूर्ध्वं वरानने ॥ ३,२६.१२२ ॥

तत्रापि केसरैश्चैक्रर्लक्षणैश्च समन्वितम् ।
कलौ तु दुर्लभं नणां तद्दानं चातिदुर्लभम् ॥ ३,२६.१२३ ॥

स्नानं कृत्वा शेषतीर्थे विशुद्धेनैव चेतसा ।
एतेषां लक्षणं श्रुत्वा प्रयाति परमां गतिम् ॥ ३,२६.१२४ ॥

ततः परं महाभागे वारुणं तीर्थमुत्तमम् ।
तत्रास्ते वरुणो देवः पूजां कर्तुं हरेः सदा ॥ ३,२६.१२५ ॥

तत्र स्नानं प्रकर्तव्यं दातव्यं दानमुत्तमम् ।
शिशुमारं च मत्स्यं च त्रिविक्रममथापि वा ।
दातव्यं भूतिकामेन तीर्थेस्मिन्विरवर्णिनि ॥ ३,२६.१२६ ॥

जंबूफलसमाकारा पुच्छे सूक्ष्मा सबिन्दुका ।
चक्रत्रया च वदने पुच्छोपरि सचक्रका ॥ ३,२६.१२७ ॥

श्रीवत्सबिन्दुमालाढ्या मत्स्यमूर्तिरुदाहृता ।
पुच्छादधश्चक्रयुतं शिशुमारमुदाहृतम् ॥ ३,२६.१२८ ॥

वक्रचक्रयुतश्चेत्स्यात्त्रिविक्रम उदाहृतः ।
एतेषां लक्षणं श्रुत्वा वारुणे तीर्थ उत्तमे ॥ ३,२६.१२९ ॥

एतद्दानफलं प्राप्य मोदते विष्णुमन्दिरे ।
पूर्वौक्ता मूर्तयो यस्मिन् गृहे तिष्ठन्ति भामिनि ।
भागीरथी तीर्थवरा संनिधत्ते न संशयः ॥ ३,२६.१३० ॥

स्वामि पुष्करिणीस्नानं दुर्घटं तु कलौ नृणाम् ।
तत्र स्थितानां तीर्थानां स्नानं चाप्यतिदुर्घटम् ॥ ३,२६.१३१ ॥

शालग्रामशिलादानं दुर्घटं च तथा स्मृताम् ।
स्वामिपुष्करिणीतीरे कन्यादानं सुदुर्घटम् ॥ ३,२६.१३२ ॥

दुर्घटं कपिलादानं भक्ष्यदानं सुदुर्घटम् ।
स्वामिपुष्करिणीतीर्थे तीर्थेष्वन्येषु भामिनि ॥ ३,२६.१३३ ॥

स्नानं कुरु यथान्या यं शय्यादानं तथा कुरु ।
जैगीषव्येन मुनिना त्वेवमुक्ता च कन्यका ॥ ३,२६.१३४ ॥

स्वामिपुष्करिणीस्नानं सा चकार धृतव्रता ।
तीर्थेष्वेतेषु सुस्नाता दानं चक्रे सुभामिनी ॥ ३,२६.१३५ ॥

उवास तत्र सा दवी त्रिः सप्तकन्दिनानि च ।
स्वामिपुष्करणीतीरमहिमानं शृणोति यः ।
स याति परमां भक्तिं श्रीनिवासे जगन्मये ॥ ३,२६.१३६ ॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे व्यङ्कटगिरिमाहात्म्ये स्वामिपुष्करिण्यादितीर्थतत्रत्यदेवतदीयशालग्रामलक्षण तद्दानादिवर्णनं नाम षड्विंशोध्यायः