सामग्री पर जाएँ

गरुडपुराणम्/ब्रह्मकाण्डः (मोक्षकाण्डः)/अध्यायः २३

विकिस्रोतः तः
← ब्रह्मकाण्डः (मोक्षकाण्डः), अध्यायः २२ गरुडपुराणम्
अध्यायः २३
वेदव्यासः
ब्रह्मकाण्डः (मोक्षकाण्डः), अध्यायः २४ →

श्रीगरुडमहापुराणम् २३
श्रीकृष्ण उवाच ।
सोमस्य पुत्री पूर्वसर्गे बभूव भार्या मदीया जाम्बवती मम प्रिया ।
तासां मध्ये ह्यधिका वीन्द्र किञ्चिद्रुद्रादिभ्यः पञ्चगुणैर्विहीना ॥ ३,२३.१ ॥

यदावेशो बलवान्स्याद्रमायां तदानास प्रियते केशवोलम् ।
यदावेशाद्ध्रासमुपैति काले तदा तासां साम्यमाहुर्महान्तः ॥ ३,२३.२ ॥

लक्ष्म्यावेशः किञ्चिदस्त्येव नित्यमतस्ताभ्यः किञ्चिदाधिक्यमस्ति ॥ ३,२३.३ ॥

गरुड उवाच ।
तासां मध्ये जाम्बवन्ती तु कृष्ण आराधनं कीदृशं सा चकार ।
तन्मे ब्रूहि कृपया विश्वमूर्ते आधिक्ये वै कारणं ताभ्य एव ॥ ३,२३.४ ॥

गरुडेनैवमुक्तस्तु भगवान् देवकीसुतः ।
मेघगंभीरया वाचा उवाच विनतासुतम् ॥ ३,२३.५ ॥

श्रीकृष्ण उवाच ।
या पूर्वसर्गे सोमपुत्री बभूव पितुर्गृहे वर्तमानापि साध्वी ।
जन्म स्वकीयं सार्थकं वै चकार पित्रा साकं विष्णुशुश्रूषणे न च ॥ ३,२३.६ ॥

शुश्राव नित्यं सत्पुराणानि चैवं चक्रे सदा विष्णुपादप्रणामम् ।
चक्रे सदा तारकस्यापि विष्णोः प्रदक्षिणं स्मरणं कुर्वती सा ॥ ३,२३.७ ॥

पित्रा साकं सा तु कन्या खगेन्द्र वैराग्ययुक्ता श्रवणात्संबभूव ।
केशं च मित्रं द्विरदादिकं च अनर्घ्यरत्नानि गृहादिकं च ॥ ३,२३.८ ॥

सर्वं ह्येतन्नश्वरं चैव मेने ममाधीनं हरिणा वै कृतं च ।
येनैव दत्तं पुत्रमित्रादिकं च तेना हृतं वेदनां नैव चक्रे ॥ ३,२३.९ ॥

अद्यैव विष्णुः परमो दयालुः दयां मयि कृतवांस्तेन सुष्ठु ।
पित्रा साकं कन्यका सा तु वीन्द्र सदात्मनि ह्यमले वासुदेवे ॥ ३,२३.१० ॥

एकान्तत्वं सुष्ठु भक्त्या गता सा यदृच्छया सोपपन्नेन देवी ।
अकल्पयन्त्यात्मनो वीन्द्र वृत्तिं चकार यत्सावधिराधं प्रथैव ॥ ३,२३.११ ॥

सा वै वित्तं विष्णुपादारविन्दे दुः खार्णवात्तराके संचकार ।
वागीन्द्रिद्रियं खग सम्यक्चकार हरेर्गुणानां वर्णने वा सदैव ॥ ३,२३.१२ ॥

हस्तौ च विष्णोर्गृहसंमार्जनादौ चकार देवी गात्रमलापहारम् ।
श्रोत्रं च चक्रे हरिसत्कथोदये मोक्षादिमार्गे ह्यमृतोपमे च ॥ ३,२३.१३ ॥

नेत्रं च चक्रे प्रतिमादिदर्शने अनादिकालीनमलापहरिणी ।
सद्वैष्णवानां स्पर्शने चैव संगे निर्माल्यगन्धानुविलेपने त्वक् ॥ ३,२३.१४ ॥

घ्रार्णेद्रियं सा हरिपादसारे चकार संसारविमुक्तिदे च ।
जिह्वेन्द्रियं हरिनैवेद्यशेषे श्रीमत्तुलस्यादिविमिश्रिते च ॥ ३,२३.१५ ॥

पादौ हरेः क्षेत्रपथानुसर्पणे शिरो हृषीकेशपदाभिवन्दने ।
कामं हृदास्ये तु हरिदास्यकाम्या तथोत्तमश्लोकजनाश्चरन्ति ॥ ३,२३.१६ ॥

निष्कामरूपे च मतिं चकार वागिन्द्रियं स्तवनं स्वीचकार ।
एवं सदा कार्यसमूहमात्मना समर्पयित्वा परमेशपादयोः ॥ ३,२३.१७ ॥

तीर्थाटनार्थं तु जगाम पित्रा साकं हरेः प्रीणनाद्यर्थमेव ।
आराधयित्वा ब्राह्मणान्विष्णुभक्तानादौ गृहे वस्त्रसंभूषणाद्यैः ॥ ३,२३.१८ ॥

पश्चात्कल्पं कारयामास देवी विष्णोरग्रे तीर्थयात्रार्थमेव ।
यावत्कालं तीर्थयात्रा मुकुन्द तावत्कालं तूर्ध्वरेता भवामि ॥ ३,२३.१९ ॥

यावत्कालं तीर्थयात्रां करिष्ये तावद्दत्ताद्वैष्णवानां च संगम् ।
हरेः कथाश्रवणं स्यान्मुकुन्द नावैष्णवानां संगिनामङ्गसंगम् ॥ ३,२३.२० ॥

सुहृज्जनैः पुत्रमित्रादिकैश्च दीर्थाटनं नैव कुर्यां मुकुन्द ।
कुर्वन्ति ये काम्यया तीर्थयात्रां तेषां संगं कुरु दूरे मुकुन्द ॥ ३,२३.२१ ॥

शालग्रामं ये विहायैव यात्रां कुर्वन्ति तेषां किं फलं प्राहुरार्याः ।
यदा तीर्थानां दर्शनं स्यात्तदैव शालग्रामं पुरतः स्थापयित्वा ॥ ३,२३.२२ ॥

तीर्थाटनं पादचैरैः कृतं चेत्पूर्णं फलं प्राहुरार्याः खगेन्द्र ।
पादत्राणं पादरक्षां च कृत्वा तीर्थाटनं पादहीनं तदाहुः ॥ ३,२३.२३ ॥

यो वाहने तुरगे चोपविष्टस्तीर्थाटनं कुरुते चार्धहीनम् ।
वृषादीनां वाहने पादमाहुः परान्नानां भोजने व्यर्थमाहुः ॥ ३,२३.२४ ॥

महात्मनां वेदविदां यतीनां परान्नानां भोजने नैव दोषः ।
संकल्पयित्वा परमादरेण जगाम सा तीर्थयात्रार्थमेव ॥ ३,२३.२५ ॥

आदौ स्नात्वा हरिनिर्मात्यगन्धं विसर्जयित्वा श्रवणं वै चकार ।
पित्रा साकं भोजनं चापि कृत्वा अग्रे दिने क्रोशमेकं जगाम ॥ ३,२३.२६ ॥

तत्र द्विजान्पूजयित्वान्नपान रात्रौ तत्त्वं श्रावयामास देवी ।
एवं यात्रां ये प्रकुर्वन्ति नित्यं तेषां यात्रां सफलां प्राहुरार्याः ॥ ३,२३.२७ ॥

विना दयां तीर्थयात्रा खगेन्द्रव्यर्थेत्येवं वीन्द्र चाहुर्महान्तः ।
दिवा रात्रौ ये न शृण्वन्ति दिव्यां हरेः कथां तीर्थमार्गे खगेन्द्र ॥ ३,२३.२८ ॥

व्यर्थंव्यर्थं तस्य चाहुर्गतं वै अश्वादीनां वाहनानां च विद्धि ।
अश्वादीनामपराधं वदस्व गङ्गादीनां दर्शनात्पापनाशः ॥ ३,२३.२९ ॥

क्षेत्रस्थविष्णोर्दर्शनात्पापनाशो मार्जारस्याप्यपराधं वदस्व ।
क्षेत्रस्थविष्णोः पूजनात्पापनाशः पूजावतामपराधं वदस्व ॥ ३,२३.३० ॥

जपादीनां कुर्वतां पापनाशो विष्णोर्ध्यानात्सद्य एवाघनाशः ।
अनुसंधानाद्रहितं सर्वमेव कृतं व्यर्थमेवेति चाहुः ॥ ३,२३.३१ ॥

अतो हरेः पापविनाशिनीं कथां श्रुत्वा विष्णोर्भक्तिमान्स्यात्खगेन्द्र ।
दृष्ट्वादृष्ट्वा हरिपादाङ्कितं च स्मृत्वास्मृत्वा भक्तिमान्स्यात्खगेन्द्र ॥ ३,२३.३२ ॥

पित्रा साकं कन्यका सापि वीन्द्र शेषाचलस्थं श्रीनिवासं च द्रष्टुम् ।
जगाम सा मार्गमध्ये हरिं च सा चिन्तयामास रमापतिं च ॥ ३,२३.३३ ॥

कदा द्रक्ष्ये श्रीनिवासस्य वक्षः श्रीवत्सरत्नैर्भूषितं विस्तृतं च ।
कदा द्रक्ष्ये श्रीनिवासस्य तुन्दं वलित्रयेणाङ्कितं सुंदरं च ॥ ३,२३.३४ ॥

कदा द्रक्ष्ये श्रीनिवासस्य कण्ठं महर्लोकस्याश्रयं कंबुतुल्यम् ।
कदा द्रक्ष्ये श्रीनिवासस्य नाभिं सदान्तरिक्षस्याश्रयं वै सुपूर्णम् ॥ ३,२३.३५ ॥

कदा द्रक्ष्ये वदनं वै मुरारेर्जनलोकस्याश्रयं सर्वदैव ॥ ३,२३.३६ ॥

शिरः कदा श्रीनिवासस्य द्रक्ष्ये सत्यस्य लोकस्याश्रयं सर्वदैव ।
कटिं कदा श्रीनिवासस्य द्रक्ष्ये भूर्लोकस्याश्रयं सर्वदैव ॥ ३,२३.३७ ॥

कदा द्रक्ष्ये श्रीनिवासस्य चोरु तलातलस्याश्रयं सर्वदैव ।
कदा द्रक्ष्ये श्रीनिवासस्य जानु सुकोमलं सुतलस्याश्रयं च ॥ ३,२३.३८ ॥

कदा द्रक्ष्ये श्रीनिवासस्य जङ्घे रसातलस्याश्रयेः सर्वदैव ।
कदा द्रक्ष्ये पादतलं हरेश्च पाताललोकस्याश्रयं सर्वदैव ॥ ३,२३.३९ ॥

इत्थं मार्गे चिन्तयन्ती च देवी शेषाचले शेषदेवं ददर्श ।
फणैः सहस्रैः सुविराजमानं नानाद्रुमैर्वानरैर्वानरीभिः ॥ ३,२३.४० ॥

अनन्त जन्मार्जितपुण्यसंचयान्मयाद्य दृष्टः परमाचलो हि ।
तद्दर्शनाद्वाष्पकलाकुलेक्षणा सद्यः समुत्थाय ननाम मूर्ध्ना ॥ ३,२३.४१ ॥

मुखं च दृष्ट्वा नमनं च कार्यं पृष्ठादिभागे नमनं न कार्यम् ।
सापि द्विषट्कं नमनं च चक्रे शालग्रामं स्थापयित्वा पुरोऽस्य ॥ ३,२३.४२ ॥

इत्थं कार्यं वैष्णवैः पर्वतस्य त्वं वैष्णवैर्विपरीतं च कार्यम् ।
मध्वान्तःस्थः पर्वताग्रेस्ति नित्यं रमाब्रह्माद्यैः पूजितः श्रीनिवासः ॥ ३,२३.४३ ॥

सुसत्तमं परमं श्रीनिवासं द्रक्ष्येऽथाहं ह्यारुरुक्षेऽचलञ्च ।
इत्येवमुक्त्वा कपिलाख्यतीर्थे स्थानं चक्रे सा स्वपित्रा सहैव ॥ ३,२३.४४ ॥

अत्रैवास्ते श्रीनिवासो हरिस्तु द्रव्येण रूपेण न चान्यथेति ।
आदौ स्नात्वा मुण्डनं तत्र कृत्वा तीर्थश्राद्धं कारयित्वा सुतीर्थे ॥ ३,२३.४५ ॥

गोभूहिरण्यादिसमस्तदानं दत्त्वा शैलं चारुरोहाथ साध्वी ।
शालग्रामं स्थापयित्वा स चाग्रे पुनः प्रणामं सापि चक्रे सुभक्त्या ॥ ३,२३.४६ ॥

सोपानानां शतपर्यन्तमेवमारुह्य सा ह्युपविष्टा तु तत्र ।
शुश्राव सा भागवतं पुराणं शुश्राव वै वेङ्कटाद्रेः प्रशंसाम् ॥ ३,२३.४७ ॥

जैगीषव्याद्गुरुपादात्सुभक्त्या सुश्राव तत्त्वं वेङ्कटाद्रेश्च सर्वम् ॥ ३,२३.४८ ॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे वेङ्कटेशगिरियात्राक्रमनिरूपणं नाम त्रयोविंशोध्यायः