गरुडपुराणम्/ब्रह्मकाण्डः (मोक्षकाण्डः)/अध्यायः २२
← अध्यायः २१ | गरुडपुराणम् ब्रह्मकाण्डः, अध्यायः २२ वेदव्यासः |
अध्यायः २३ → |
श्रीगरुडमहापुराणम् २२
श्रीकृष्ण उवाच ।
या लक्ष्मणा पूर्वसर्गे खगेन्द्र पुत्री ह्यभूद्वह्निवेदस्य वेत्तुः ।
सुलक्षणैः संयुतत्वाद्यतः सा सुलक्ष्मणेति प्रथिता खगेन्द्र ॥ १ ॥
यथा लक्ष्मीर्लक्षणैः सा सुपूर्णा यथा हरिर्लक्षणैर्वै सुपूर्णः ।
यथा वायुर्लक्षणैः पूर्ण एव यथा गायत्री लक्षणैः सा सुपूर्णा ॥ २ ॥
यथा रुद्राद्या लक्षणैर्वै प्रपूर्णा रुद्रादिल्लक्ष्मणा चैव पूर्णा ।
गुणेनैवं धर्मतः किञ्चिदेव तथानुसंधानाद्व्रियते नाम चापि ॥ ३ ॥
तस्मादाहुर्लक्ष्मणेत्येव सर्वे तल्लक्षणं शृणु चादौ खगेन्द्र ।
नारायणे पूर्णगुणे रमेशे द्वात्रिंशत्संख्यानि सुलक्षणानि ॥ ४ ॥
संत्येव पक्षीन्द्र वदाम्यनुक्रमान्मत्तः श्रुत्वा मोक्षमाप्नोति नित्यम् ।
यः सप्तपादः षण्णवत्यङ्गुलोङ्गश्चतुर्हस्तः पुरुषस्तीक्ष्णदन्तः ॥ ५ ॥
य एतत्सर्वं मिलितं चैकमेव हरेर्विष्णोर्लक्षणं चाहुरार्याः ।
मुखं स्त्रिग्धं वर्तुलं पुष्टिरूपं द्वितीयं तल्लक्षणं चाहुरार्याः ॥ ६ ॥
हनुर्यस्यानुन्नतं चास्ति वीन्द्र तल्लक्षणं प्राहुरार्यास्तृतीयम् ।
यद्दन्ता वै तीक्ष्णसूक्ष्माश्च संति तल्लक्षणं चाहुरार्याश्चतुर्थम् ॥ ७ ॥
यस्याधरे रक्तिमा त्वस्ति वीन्द्र तल्लक्षणं पञ्चमं चाहुरार्याः ।
यस्य हस्ता अतिरक्ताः खगेन्द्र तल्लक्षणं प्राहुरार्याश्च षष्ठम् ॥ ८ ॥
यस्मिन्नखाः संति रक्ताः सुशोभास्तल्लक्षणं सप्तमं चाहुरार्याः ।
यस्मिन्कपोले रक्तिमा त्वस्ति वीन्द्र तल्लक्षणं ह्यष्टमं प्राहुरार्या ॥ ९ ॥
यस्मिन्करे शङ्खचक्रादिरेखा वर्तन्ते तन्नवमं प्राहुरार्याः ।
यस्योदरं तन्तुरूपं सुपुष्टं वलित्रयैरङ्कितं सुंदरं च ॥ १० ॥
तल्लक्षणं दशमं प्राहुरार्या एकादशं निम्ननाभिं तदाहुः ।
ऊरुद्वयं यस्य च मांसलं वै तल्लक्षणं द्वादशं प्राहुरार्याः ॥ ११ ॥
कटिर्हि दीर्घा पृथुलास्ति यस्य त्रयोदशं लक्ष्म तदाहुरार्याः ।
यस्यास्ति मुष्को सुपरिष्ठितो वै चतुर्दशं लक्ष्म तदाहुरार्याः ॥ १२ ॥
समुन्नतं शिश्नमथो हि लक्ष्म यस्यास्ति तत्पञ्चदशं वदन्ति ।
सुताम्रकं पादतलं खगेन्द्र तल्लक्षणं षोडशं प्राहुरार्याः ॥ १३ ॥
निम्नौ च गुल्फौ सप्तदशं तदाहुर्ग्रीवारूपं प्राहुरष्टादशं च ।
एकोनविंशं त्वक्षिपद्मं सुरक्तं प्राहुर्बाहुं जानु विंशं तथैव ॥ १४ ॥
विस्तीर्णोरश्चैकविंशं तदाहुः सिंहास्कन्धं द्व्युत्तरं विंशमाहुः ।
त्रयोविंशं सूक्ष्ममास्यं तदाहुश्चतुर्विंशं सुप्रसन्ने च दृष्टी ॥ १५ ॥
ह्रस्वं लिङ्गं मार्दवं चापि वीन्द्र तल्लक्षणं पञ्चविंशं वदन्ति ।
समौ च पादौ कटिजानु चोरू षड्विंशमाहुश्च समे च जङ्घे ॥ १६ ॥
समानहस्तौ समकर्णौ मिलित्वा द्वात्रिंशत्कं लक्षणं प्राहुरार्याः ।
द्वात्रिंशत्कं लक्षणं वै मुकुन्दे द्वात्रिंशत्कं लक्षणं वै रमायाम् ॥ १७ ॥
द्वात्रिंशत्कं लक्षणं ब्रह्मणोपि तद्भारत्याः प्रवदन्त्येव सत्यम् ।
तथा च शङ्का सममेव चक्रिणेत्येवं सदामा कुरु निर्णयं ब्रुवे ॥ १८ ॥
एकस्य वै लक्षणस्यापि विष्णोर्लक्ष्मीरन्तं नैव सम्यक्प्रपेदे ।
अतोनन्तैर्लक्षणैः संयुतं च हरिं चाहुर्लक्षणज्ञाः सदैव ॥ १९ ॥
जानाति लक्ष्मीर्लक्षणं वायुरूपे स्वापेक्षया ह्यतिरिक्तं खगेन्द्र ।
स्वलक्षणापेक्षया भारती तु शतैर्गुणैरधिका वेधसोपि ॥ २० ॥
खगेन्द्र तस्माल्लक्षणे साम्यचित्तं विश्वादीनां सर्वदा मा कुरुष्व ।
अष्टाविंशतिं प्राहू रुद्रादिकानां भ्रूनेत्रयोर्लक्षणेनैव हीनाः ॥ २१ ॥
अलक्षणं मन्यते यद्धि तस्य दुर्लक्षणं नैव तच्चिन्तनीयम् ।
अष्टाविंशतिं लक्षणं वै हरस्य न भारतीवच्चिन्तनीयं खगेन्द्र ॥ २२ ॥
अतो हरः क्रोधरूपी सदैव तयोरभावात्सत्यमुक्तं तथैतत् ।
अतो द्वयं नास्ति रुद्रे खगेन्द्र शिश्नोदरे किञ्चिदाधिक्यमस्ति ॥ २३ ॥
सप्ताधिकैर्विंशतिलक्षणैस्तु समायुताः स्वस्त्रियो लक्ष्मणाद्याः ।
षड्विंशत्या लक्षणैश्चापि युक्ता वारुण्याद्या पञ्चविंशैश्च चन्द्रः ॥ २४ ॥
अर्थश्चतुर्विंशतिभिश्चैव युक्तो नासावायोर्द्व्यधिका विंशतिश्च लक्षणैश्चैकविंशत्या शची युक्ता न संशयः ॥ २५ ॥
प्रवाहा विंशकैर्युक्ता यम एकोनविंशकैः ।
पाश्यष्टादशभिर्युक्तो दशसप्तयुतोऽनलः ॥ २६ ॥
वैवस्वतः षोडशभिमित्रः पञ्चदशैर्युतः ।
चतुर्दशैस्तु(चतुर्विंशैस्तु?) धनपः पावकस्तु त्रयोदशैः ॥ २७ ॥
गङ्गा द्वादशभिर्युक्ता बुध एकादशैर्युतः ।
शनिस्तु दशसंख्याकैः पुष्करो नवभिर्युतः ॥ २८ ॥
अथ षोडशसाहस्रं भार्यास्तु मम वल्लभाः ।
अष्टभिश्चैव संयुक्ताः सप्तभिः पितरस्तथा ॥ २९ ॥
षड्भिश्च देवगन्धर्वाः पञ्चभिस्तदनन्तराः ।
चतुर्भिः क्षितिपाः प्रोक्तास्त्रिभिरन्ये च संयुताः ॥ ३० ॥
उदरे किञ्चिदाधिक्ये ह्रस्वे पादे च कर्णयोः ।
शिखाधिक्यं विना विप्र भार्यायां च शिवस्य च ॥ ३१ ॥
लक्ष्मणायां पञ्च दोषाः शिरोगुल्फादिकं विना ।
नाभ्याधिक्ये सहैवाष्टौ दोषाः संत्यतिवाहिके ॥ ३२ ॥
जङ्घाधिक्ये सहैवाष्टौ दोषाः शच्याः सदा स्मृताः ।
एवमेव हि दोषाश्चाप्यूहनीयाः खगेश्वर ॥ ३३ ॥
दुर्लक्षणैः सदा वीन्द्र संश्रुतैस्तत्त्वविद्भवेत् ।
महोदरो लंबनाभिरीषामात्रोग्रदंष्ट्रकः ॥ ३४ ॥
अन्धकूपगभीराक्षो लंबकर्णौष्ठनासिकः ।
लंबगुल्फो वक्रपादः कुनखी श्यावदन्तकः ॥ ३५ ॥
दीर्घजङ्घो दीर्घशिश्नस्त्वेकाण्डश्चैकनासिकः ।
रक्तश्मश्रू रक्तरोमा वक्रास्यः संप्रकीर्तितः ॥ ३६ ॥
दग्धपर्वतसंकाशो रक्तपृष्ठः कलिः स्मृतः ।
अलोमांसोऽलोमशिरा रक्तगण्डकपोलकः ॥ ३७ ॥
ललाटे पाण्डुता नित्यं वामस्कन्धे करे खग ।
क्रूरदृष्टिर्दृष्टिपादस्तथा वै घर्घरस्वरः ॥ ३८ ॥
अत्याशी चातिपानश्च स्तनौ शुष्कफलोपमौ ।
ऊरौ नवाञ्जिकारोमः तथा पृष्ठे च मस्तके ॥ ३९ ॥
ललाटे त्रीणि दीर्घे तु समे द्वौ संप्रकीर्तितौ ।
सर्पाकारस्तु यो मत्स्यस्तस्य शिश्ने प्रकीर्तितः ॥ ४० ॥
पादत्राणोपमो मत्स्यो रसनाग्रे प्रकीर्तितः ।
शिश्नाकारश्च यो मत्स्यो गुदे तस्य प्रशस्यते ॥ ४१ ॥
वृश्चिकाकारमत्स्यस्तु पदोस्तस्य प्रशस्यते ।
श्वाकारश्चापि मत्स्यो वै मुखे तस्य प्रकीर्तितः ॥ ४२ ॥
हस्ते तु बहुरेखाः स्युर्लोम नासापुटे स्मृतम् ।
अतिदीर्घं तु चाङ्गुष्ठं कनिष्ठं चातिदीर्घकम् ॥ ४३ ॥
दुर्लक्षणं त्वेवमादि कलावस्ति ह्यनेकशः ।
सुलक्षणान्यनेकानि मयि संति खगेश्वर ॥ ४४ ॥
द्वात्रिंशल्लक्षणं विष्णोर्ब्रह्माद्यापेक्षयैव तत् ।
सहाभिप्राय गर्भेण ब्रह्मणोक्तं तव प्रभो ॥ ४५ ॥
ब्रह्मोक्तस्य मयोक्तस्य विरोधो नास्ति सत्तम ।
मयोक्तस्यैव स व्यासः कंबुग्रीवः प्रदर्श्यते ॥ ४६ ॥
रक्ताधरं रक्त तालु चैकीकृत्य मयोदितम् ।
अतो विरोधो नास्त्येव तथा ज्ञानात्प्रतीयते ॥ ४७ ॥
सप्ताधिकैर्विंशतिलक्षणैस्तु समायुता याः स्त्रियो लक्ष्मणाद्याः ॥ ४८ ॥
भगे नेत्रे च हस्ते च स्तने कुक्षौ तथैव च ।
भारत्यपेक्षया पञ्चभिर्न्यूना त्वस्ति लक्षणैः ॥ ४९ ॥
न रुद्रवन्न चान्यानि लक्षणानि खगेश्वर ।
षड्विंशत्या लक्षणैश्चापि युक्ता वारुण्याः षड्लक्षणैश्चैव हीना ॥ ५० ॥
कर्णे कुक्षौ नासिकाकेशपाशे गुल्फे भगे किञ्चिदाधिक्यमस्ति ।
इन्द्रो युक्तः पञ्चविंशत्या खगेन्द्र सदा हीनो लक्षणैः सप्तसंख्यैः ॥ ५१ ॥
हस्ते पादे उदरे कर्णयोश्च शिश्ने गुल्फे त्वधरोष्ठेधिकं च ।
चतुर्विंशत्या लक्षणैश्चापि युक्तो नास्तिक्यवायुस्तद्वदेवाष्टभिश्च ॥ ५२ ॥
नाभ्यां गुल्फे हनुरर्ङ्घ्योश्च स्कन्धे द्विजे नेत्रे त्वधरोष्ठेधिकं च ।
त्रयोविंशत्या लक्षणैश्चापि युक्ता शची तथा नवदोषैश्च युक्ता ॥ ५३ ॥
भगे केशे ह्यधरोष्ठे च कर्णे जङ्घे गण्डे वक्षसि गुल्फयोश्च ।
तथोत्तरोष्ठे किञ्चिदाधिक्यमस्ति एवं विजानीहि खगेन्द्रसत्तम ॥ ५४ ॥
द्वाविंशत्या लक्षणैः संयुतस्तु दशभिर्देषैः प्रवहो नाम वायुः ।
तथाङ्गुष्ठे किञ्चिदाधिक्यमस्ति विंशत्येकादशभिर्देषतोर्कः ॥ ५५ ॥
तद्विंशत्या लक्षणैः संयुतस्तु तदा दोषेर्द्वादशभिश्च युक्तः ।
एकोनविंशत्या लक्षणैश्चापि युक्तस्त्रयोदशभिस्तदभावैर्युतोग्निः ॥ ५६ ॥
अष्टादशभिर्लक्षणैः संयुतस्तु वैवस्वतस्तदभावैश्चतुर्दशभिः ।
मित्रस्तु सप्तदशभिर्लक्षणैः संयुतः खग ॥ ५७ ॥
सदोषैः पञ्चदशभिः संयुक्तो नात्र संशयः ।
तैश्च षोडशभिर्युक्तो धनपो नात्र संशयः ॥ ५८ ॥
तदभावैः षोडशभिः संयुक्तः संप्रकीर्तितः ।
तैः पञ्चदशभिश्चैव युक्तोग्रेज्येष्ठपुत्रकः ॥ ५९ ॥
तैः सप्तदशभिर्दोषैः संयुक्तो नात्र संशयः ।
तैश्चतुर्दशभिश्चैव गङ्गा संपरिकीर्तिता ॥ ६० ॥
तथाष्टादशभिर्दोषैः संयुता नात्र संशयः ।
तैस्त्रयोदशभिश्चैव संयुतो बुध एव तु ॥ ६१ ॥
दोषैरेकोनविंशत्या संयुतो नात्र संशयः ।
शनिर्विंशतिदोषेण युतो द्वादशलक्षणैः ॥ ६२ ॥
लक्षणैश्चैकादशभिः पुष्करः परिकीर्तितः ।
एकविंशतिसंख्याकैरसद्भावैः प्रकीर्तितः ॥ ६३ ॥
दशभिर्लक्षणैर्युक्ताः पितरो ये चिराः खग ।
त्रयोविंशतिदोषैश्च संयुता नात्र संशयः ॥ ६४ ॥
अष्टभिर्लक्षणैर्युक्ता देवगन्धर्वसत्तमाः ।
दोषैश्चतुर्विंशतिभिः संयुक्ताः परिकीर्तिताः ॥ ६५ ॥
सप्तलक्षणसंयुक्ता गन्धर्वा मानुषात्मकाः ।
यैस्तु पञ्चविंशतिभिर्दोषैः संयुक्ताः प्रकीर्तिताः ॥ ६६ ॥
षद्गुणैः क्षितिपा युक्ता षड्विंशत्या च दोषतः ।
तदन्ये पञ्चभिर्युक्ताश्चतुर्भिः केचिदेव च ॥ ६७ ॥
त्रिभिः केच्चित्ततो हीना न संति खगसत्तम ।
यस्मिन्नरे क्षितिपे वा खगेन्द्र आधिक्यं यद्दृश्यते लक्षणस्य ॥ ६८ ॥
न ते नरा नैव ते वै क्षितीशाः सर्वे नैव ह्युत्तमाः सर्वदैव ।
ये देवा ये च दैत्याश्च सर्वेप्येवं खगाधिप ॥ ६९ ॥
लक्षणालक्षणैश्चैव क्रमेणोक्ता न संशयः ।
लक्षणैः सप्तविंशत्यालक्षणैः संयुताः खग ॥ ७० ॥
अतः सलक्षणा ज्ञेया द्वात्रिंशल्लक्षणैर्न हि ।
पितुर्गृहे वर्धमाना सदापि स्वकुटुंबं श्रेष्ठयितुं खगेन्द्र ॥ ७१ ॥
उवाच सा पितरं दीयमानमन्नादिकं त्रमित्रादिकेषु ।
सदापि ये त्वनुसंधानेन युक्ता अन्तर्गते तत्रतत्र स्थिते च ॥ ७२ ॥
अज्ञातत्वे चान्नपानादिकं च दत्तं संतो व्यर्थमेवं वदन्ति ।
हरिं वक्ष्ये तत्रतत्र स्थितं चं तं वै शृणु त्वादरेणाद्य नित्यम् ॥ ७३ ॥
बालो हरिर्बालरूपेण कृष्णः क्षीरादिकं नवनीतं घृतं च ।
गृह्णाति नित्यं भूषणं वस्त्रजातमेवं दद्यात्सर्वदा विष्णुतुष्ट्यै ॥ ७४ ॥
मित्रैर्हरिः केशवाख्यो मुकुन्दो भुङ्क्ते दत्तं त्वन्नप्रानादिकं च ।
पूर्वं दद्यात्सर्वदा वै गृहस्थो धन्यो भवेदन्यथा व्यर्थमेव ॥ ७५ ॥
गृह्णाति नित्यं माधवाख्यो हरिश्चेत्येवं ज्ञात्वा देयमन्नादिकं च ।
एवं ज्ञात्वा दीयमानेन नित्यं प्रीणाति विष्णुर्नान्यथा व्यर्थमेव ॥ ७६ ॥
गृहे नित्यं वासुदेवो हरिस्तु प्रीणाति नित्यं तत्र तिष्ठन्सुपर्ण ।
एवं ज्ञात्वा स्वगृहं सर्वदैव अलङ्कुर्याद्धातुरूपैः सदैव ॥ ७७ ॥
गोविन्दाख्यस्तिष्ठति वैष्णवानां पुत्रैर्युतस्तिष्ठति वासुदेवः ।
मित्रे मुकुन्दः शालके चानिरूद्धो नारायणो द्विजवर्ये सदास्ति ॥ ७८ ॥
गोष्ठे च नित्यं विष्णुरूपी हरिस्तु अश्वे सदा तिष्ठति वामनाख्यः ।
संकर्षणः शूद्रवर्णे सदास्ति वैश्ये प्रद्युम्नस्तिष्ठति सर्वदैव ॥ ७९ ॥
जनार्दनः क्षत्त्रजातौ सदास्ति दाशेषु नित्यं महिदासो हरिस्तु ।
मह्यां नित्यं तिष्ठति सर्वदैव ह्युपेन्द्राख्यो हरिरेकः सुपर्ण ॥ ८० ॥
गजे सदा तिष्ठति चक्रपाणिः सदान्तरे तिष्ठति विश्वरूपः ।
नित्यं शुनि तिष्ठति भूतभावनः पिपीलकायामपि सर्वदैव ॥ ८१ ॥
त्रिविक्रमो हरिरूप्यन्तरिक्षे सर्वजातावनन्तरूपी हरिश्च ।
हरेर्न वर्णोस्ति न गोत्रमस्ति न जातिरीशे सर्वरूपे विचित्रे ॥ ८२ ॥
एवं ज्ञात्वा सर्वदा लक्ष्मणा तु हरिं सदा प्रीणयामास देवी ।
सपर्यया वै क्रियमाणया हरिः पतिर्मम स्यादिति चिन्तयाना ॥ ८३ ॥
तत्याज देहं विष्णुपतित्वकामा मद्रेषु वै वीन्द्र पुत्री प्रजाता ।
स्वयंवरे लक्ष्मणाया अहं च भित्त्वा लक्ष्यं भूपतीन्द्रावयित्वा ॥ ८४ ॥
पाणिग्रहं लक्ष्मणायाश्च कृत्वा गत्वा पुरीं रमयामास देवी ।
तथैवाहं जांबवत्या विवाहं मत्पत्नीत्वे कारणं त्वां ब्रवीमि ॥ ८५ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे लक्ष्मणाविवाहहेतुनिरूपणं नाम द्वाविंशोध्यायः