गरुडपुराणम्/ब्रह्मकाण्डः (मोक्षकाण्डः)/अध्यायः २४

विकिस्रोतः तः
Jump to navigation Jump to search
← ब्रह्मकाण्डः (मोक्षकाण्डः), अध्यायः २३ गरुडपुराणम्
अध्यायः २४
वेदव्यासः
ब्रह्मकाण्डः (मोक्षकाण्डः), अध्यायः २५ →


श्रीगरुडमहापुराणम् २४
जैगीषव्य उवाच ।
कन्ये शृणु त्वं वेङ्कटाख्याचलस्य स्मेराननां पुण्यमांरोहणेऽस्य ।
श्रीगीतायाः पठनं चैव कुर्वन्नारोहणं कुरुते सर्वलोकः ॥ ३,२४.१ ॥
पदेपदे श्रीनिवासश्च देवस्त्वलं ह्यलं प्रीयते भक्तवर्गः ।
तं प्रीणयन्मोक्षमायान्ति सर्वे हरौ तुष्टे किमलभ्यं च कन्ये ॥ ३,२४.२ ॥
सोपानदेशे यः पुराणं शृणोति तदा कृता सर्वतीर्थादियात्रा ।
तदा दिवा प्रस्तुवन्तीह मार्गे सदा हरिं श्रीनिवासं गुरुं च ॥ ३,२४.३ ॥
सोपानानां महिमानं च श्रुत्वा शालग्रामं स्थापयित्वा च तत्र ।
नमस्कृत्वा पुनरेवापि सा तु सोपानानि त्वारुरोहाथ साध्वी ॥ ३,२४.४ ॥
सोपानानां वीन्द्र चारोहणेन त्ववैष्णवानां हरितोषो न चैव ।
तेनैव तेषां साधनं भूय एव तमस्यन्धे पातयितुं खगेन्द्र ॥ ३,२४.५ ॥
स्थलेस्थले एवमेवापि कार्यं जैगीषव्यं पुनरेवाह देवी ।
कन्योवाच ।
जैगीषव्यः श्रीनिवासो हरिस्तु ब्रह्मादीनां दृश्यते श्रीनिवासः ॥ ३,२४.६ ॥
जैगीषव्य कृपया त्वं वदस्व जैगीषव्यो ह्येवमुक्तो हरिं तु ।
उवाच कन्यां सोमपुत्रीं सतीं च ब्रह्मादीनां दृश्यते श्रीनिवासः ॥ ३,२४.७ ॥
अनन्तरूपोधिककान्तकान्तिमान्रूद्रादीनां दृश्यते वेङ्कटेशः ।
ससूर्यलक्षाधिककान्तकान्तितो रुद्रादीनां दृश्यते श्रीनिवासः ॥ ३,२४.८ ॥
सहस्रसूर्याधिककान्तिकान्तः सविद्युत्त्वान्मानुषाणां रमेशः ।
ऋष्यादीनां दृश्यते चन्द्रवच्च सन्मानुषाणामपरोक्षो हरिस्तु ॥ ३,२४.९ ॥
नक्षत्रवद्दृश्यते श्रीनिवासः सदा ऋषीणामपरोक्षो हरिस्तु ।
स सूर्यवद्दृश्यते श्रीनिवासः संसारिणां वेङ्कटेशः खगेन्द्र ॥ ३,२४.१० ॥
संदोहवद्दृश्यते वै प्रकाशो मिथ्यावतां दृश्यते श्रीनिवासः ।
पाषाणवन्नैल्यरूपप्रकाशः शिलामात्रे दृष्यते वै कलौ च ॥ ३,२४.११ ॥
नृणां सर्वेषां श्रीनिवासो हरिस्तु कलौ स्वरूपं श्रीनिवासस्य देवी ।
न मानुषाः प्रविजानन्ति सर्वे यतः कलौ तामसा राजसास्तु ॥ ३,२४.१२ ॥
तत्संगिनः सात्त्विकाः केचिदेव ह्यतो भक्ता दुर्लभा वै कलौ च ।
ये दृश्यन्ते भक्तवत्ते न भक्ताः शिश्रोदरयोर्भरणे चैव सक्ताः ॥ ३,२४.१३ ॥
कुर्वन्ति यात्रां च तदर्थमेव भक्तिज्ञानं दुर्लभं वै कलौ च ।
भक्ता ये वै न विरक्ताः सदैव तेषां हरेर्दर्शनं दुर्लभं च ॥ ३,२४.१४ ॥
भक्तस्वरूपं तव वक्ष्ये खगेन्द्र यो ज्ञानपूर्णः परमे स्निग्ध एव ।
न च द्वेषैर्बन्धुरो भक्तियुक्तस्तव द्वेषाञ्छृणु वक्ष्ये च सम्यक् ॥ ३,२४.१५ ॥
जीवाभिदा हरिणाप्राकृतेन स्वतन्त्रेण ह्यस्वतन्त्रस्य नित्यम् ।
ज्ञानानन्दैः परिपूर्णे हरौ च गुणैरपूर्णो हरिरित्येव चिन्ता ॥ ३,२४.१६ ॥
श्रीब्रह्मरुद्रादिदिवौकसां सदा तथा द्विजानां संमानायाश्च चिन्ता ।
विष्णोः सकाशाद्ब्रह्मरुद्रादिकानां सदाधिक्यालोचनं द्वेष एव ॥ ३,२४.१७ ॥
विष्णोर्भद्रे हस्तपादादिकानां भेदज्ञानं द्वेषमाहुर्महान्तः ।
अवताराणा छेदभेदादिकं च तथोच्यते मरणस्यापि चिन्ता ॥ ३,२४.१८ ॥
तद्भक्तानां द्वेषणं चाहुरार्यास्तद्वाक्यानां दूषणं द्वेष एव ।
नच द्वेषैः संयुता ये च लोके कन्ये दृश्यन्ते न तु भक्ताः कदाचित् ॥ ३,२४.१९ ॥
कन्योवाच ।
जैगीषव्य ब्रूहि मे के च भक्ता भक्तिं कथं दर्शयामासुरेते ।
तेषां हरिः श्रीनिवासो महात्मा त्राता सदा भक्तवर्गे दयालुः ॥ ३,२४.२० ॥
जैगीषव्यस्त्वेवमुक्तो महात्मा उवाच कन्यां संस्मरन् भक्तवर्यः ।
जैगीषव्य उवाच ।
प्रहादाद्या श्रीनिवासस्य भक्ताः कृत्वा नृसिंहे चोत्तमां भक्तिमेव ॥ ३,२४.२१ ॥
अवाप साम्राज्यमनुत्तमं च ज्ञानं नृसिंहात्समवाप पश्चात् ।
पराशरः श्रीनिबासस्य भक्तो भक्तिं कृत्वा व्यासरूपं हरिं च ॥ ३,२४.२२ ॥
स्तुत्वा तेन ज्ञानतत्त्वं ह्यवाप्य जगाम मोक्षं भक्तिसंवर्धितात्मा ।
यो नारदः श्रीनिवासस्य भक्तो भक्तिं कृत्वा गर्भवासे हरौ च ॥ ३,२४.२३ ॥
तया भक्त्या ब्रह्मपुत्रत्वमाप ज्ञानप्राप्त्या तेन मुक्तिं जगाम ।
यो ह्यंबरीषः श्रीनिवासस्य भक्तः कृत्वा भक्तिं परदेव हरौ च ॥ ३,२४.२४ ॥
जप्त्वा ज्ञानं प्राप्य दुर्वासकश्चाप्यवाप मोक्षं तेन संवर्धितात्मा ।
मुचुकुन्दो वै श्रीनिवासस्य भक्तो वैराग्यतो भक्तिदार्ढ्यं च कृत्वा ॥ ३,२४.२५ ॥
तत्त्वज्ञानं प्राप्य विष्णोर्महात्मा ह्यवाप मोक्षं तेन संवर्धितात्मा ।
स पुण्डरीकः श्रीनिवासस्य भक्तः पित्रादिष्टो विष्णुभक्तिं च कृत्वा ॥ ३,२४.२६ ॥
हरिप्रासादाज्ज्ञानमनुत्तमं चाप्यवाप मोक्षं भक्तिसंवर्धितात्मा ।
ब्रह्मा च वायुश्च सरस्वती च ज्ञातव्याः सर्वे ऋजुयोगिनश्च ॥ ३,२४.२७ ॥
अच्छिन्नभक्ताश्च सदा मुरारेर्न काम्यरक्ताः शुद्धरूपा हि ते च ।
गिरीशनागेशखगेशसंज्ञा देवाः शुक्रारौ गुरुचन्द्रेन्दुसूर्याः ॥ ३,२४.२८ ॥
जलेशोग्निर्मनुधर्मौ कुबेरः विघ्नेशनासत्यमरुद्गणाश्च ।
पर्जन्यमित्रादय एव सर्वे सदा ह्येते श्रीनिवासस्य भक्ताः ॥ ३,२४.२९ ॥
विश्वामित्रो भृगुरौर्वश्च कुत्सो मरीचिरत्रिः पुलहः क्रतुश्च ।
शक्तिर्वसिष्ठो सौतमीयो पुलस्त्यो भारद्वाजः श्रीनिवासस्य भक्ताः ॥ ३,२४.३० ॥
मान्धाता नहुषोंबरीषसगरौ राजा पृथुर्हैहयो इक्ष्वाकुर्भरतो ययातिसुतलौ धर्मो विकुक्षिस्तथा ।
उत्तानश्च बिभीषणो दशरथो ह्येते महाज्ञानिनः श्रीमद्वेङ्कटनायकस्य च गुरोर्भक्ताः सदा संस्मृताः ॥ ३,२४.३१ ॥
भागीरथी समुद्रश्च यमुना च सरस्वती ।
गोदावरी नर्मदा च कृष्णा भीमरथी तथा ॥ ३,२४.३२ ॥
सरयूफल्गुकावेरीगण्डकी कपिला स्तथा ।
इत्येताश्च हरेर्भक्ताः संति चात्रैव भामिनि ॥ ३,२४.३३ ॥
अभिप्रायं तत्र वक्ष्ये शृणु कन्ये मया सति ।
यत्र प्रवर्तते मार्गे कथा विष्णोर्महात्मनः ॥ ३,२४.३४ ॥
वर्तन्ते वैष्णवा यत्र हरितत्त्वार्थबोधकाः ।
तत्रैव भक्ताः सर्वेपि संति विष्णोस्तथैव च ॥ ३,२४.३५ ॥
ये देवयात्रां परमात्मचिन्तया कुर्वन्ति ते हरिभक्ताश्च नान्ये ।
यतो हरौ परमे वैष्णवानां सर्वं निष्ठामेति कृत्यं खगेन्द्र ॥ ३,२४.३६ ॥
शेषाचलं समासाद्य ह्यन्नवस्त्रादिभूषणम् ।
यो न दद्यादभक्तः स ततः को नु परः पशुः ॥ ३,२४.३७ ॥
भक्ता हरेः श्रीनिवासाचले च गङ्गादिरूपेण च तत्रतत्र ।
तिष्ठन्ति सेवार्थमुरुक्रमस्य तेषां पूजा नैव कार्या च देवि ॥ ३,२४.३८ ॥
अभिप्रायं तत्र वक्ष्ये शृणु त्वं तत्र स्थले वस्त्रगन्धादिधूपैः ।
पुराणोक्ता अपि भेदेन पूज्या दृष्ट्वा च तान्वन्दयेत्प्राज्ञ एव ॥ ३,२४.३९ ॥
सद्ब्राह्मणान्वन्दयेत्पादमूले हस्तौ च द्वौ संपुटीकृत्य देवि ।
साष्टाङ्गरुपं वन्दनं चैव विष्णोः कुर्यात्तथा गुरवे विष्णुबुद्ध्या ॥ ३,२४.४० ॥
गङ्गादीनां वन्दनं कार्यमेव साष्टाङ्गं वै तुलसीनां तथैव ।
अश्वत्थानां नमनं कार्यमेव गवादीनां नमनं मानसेन ॥ ३,२४.४१ ॥
पूजा सदा देवदेवस्य विष्णोः कार्या भक्त्या वैष्णवैरेव नान्यैः ।
ये नामका ज्ञानवन्तः सुभक्ताः सदैव कार्या विष्णुपूजा च कन्ये ॥ ३,२४.४२ ॥
ये नामका ज्ञानवन्तः सुभक्ताः सदैवं कार्या विष्णुपूजा च कन्ये ।
येनामका विष्णुभक्ताः सदैव पूजा विष्णोर्नैव कार्यात्र देवि ॥ ३,२४.४३ ॥
मोहाद्यो वै पूजयेद्देवदेवं महाधर्माद्याति चान्धं तमो वै ।
ब्रह्मादिनामानि हरेर्हि देवीं विष्णोः स्वनामानि ददौ दिवौकसाम् ॥ ३,२४.४४ ॥
नादाद्धीरः केशवादीनि कन्ये स्वकं पुरं प्रविहायैव राजा ।
एवं मयोक्तं कन्यके सर्वमेतदेतत्परं सम्यगारोहणीयम् ॥ ३,२४.४५ ॥
गोविन्द नारायण माधवेति यूयं मया सर्वमाराधितव्यम् ।
सर्वे मिलित्वा पुनरेवं खगेन्द्र समारुहन्वैङ्कटाद्रिं गृणन्तः ॥ ३,२४.४६ ॥
हरेर्नामान्यत्र पूर्वं गृणन्तस्त्वास्वादयन्तः श्रीनिवासस्य नाम ।
द्रष्टुं सर्वे श्रीनिवासं तथैव कुर्वन्तस्ते तलशब्दं नदन्तः ॥ ३,२४.४७ ॥
इति कृष्णवचः श्रुत्वा तार्क्ष्यः कृष्णमुवाचह कथमास्वादनं चक्रुरेतद्विस्तीर्यमे वद ।
श्रीकृष्ण उवाच ।
भो श्रीनिवास तव नामैव चैतन्नाम स्वामी ननु नामैव स्वामी ।
यां ब्रह्माद्या आश्रयन्तीत्ति यस्मात्तस्माद्रमा श्रीरिति नाम चाप ॥ ३,२४.४८ ॥
रमाश्रयत्वान्नितरां सर्वदा चेत्यतो हरिः श्रीनिवासाभिधानः ।
भो श्रीनिवासेति तु नर्तयन्तो रोमाञ्चमात्रास्तलशब्दकारिणः ॥ ३,२४.४९ ॥
अद्यैव पश्याम हरेस्तवास्यं कदा वयं कृत कृत्या भवामः ।
भोः केशवाद्यैव पदारविन्दं संदर्शयित्वा सुदयां कुरुष्व ॥ ३,२४.५० ॥
ब्रह्माणमाहुश्च पुराणमाहुः कशब्दवाच्यं सर्वलोकेशमाहुः ।
ईशं चार्हं रुद्रमित्येव चाहुस्तत्प्रेरकं सृष्टिसंहारकार्ये ॥ ३,२४.५१ ॥
अतो हरिः केशवनामधेयो भोः केशवेति च नर्तयन्तः ।
आनन्दवापीं संस्त्रवन्तोभि जग्मुर्नारायणेति प्रवदन्तो हि जग्मुः ॥ ३,२४.५२ ॥
अतो दोषास्तद्विरुद्धा गुणाश्च नाराश्च तेषामाश्रयत्वान्मुरारिः ।
नारायणेति प्रवदन्तीह लोके नारानुबन्धात्सर्वमुक्ताः खगेन्द्र ॥ ३,२४.५३ ॥
नाराः प्रोक्ता आश्रयत्वाच्च तेषामतोपि नारायण एव वीन्द्र ।
मुक्ताश्च ये तु प्रपदंनु जग्मुरण्डोदकं यस्य कटाक्षमात्रात् ॥ ३,२४.५४ ॥
यदुत्पन्नं तेन नाराः खगेन्द्र तेषां सदाप्याश्रयत्वाच्च वीन्द्र ।
नारायणेति प्रवदन्तीह लोके ह्यनन्तब्रह्माण्डविसर्जकत्वात् ॥ ३,२४.५५ ॥
एवं ननृतुः परिशंसयन्तो गोविन्द नान्यो हि न चैव दर्शनम् ।
गोशब्दवाच्यास्तु समस्तवाचो गोभिश्च सर्वैः प्रतिपाद्यते यतः ॥ ३,२४.५६ ॥
अतो हि गोविन्द इति स्मृतः सदा भो वेदवेद्येति तथा न ननृतुः ।
आनन्दबाष्पैश्च समन्विता हि हरे मुरारे तव दर्शनं हि ॥ ३,२४.५७ ॥
देहि प्रभो वै तवदासदासाश्चतुर्दशे भुवने सर्वदापि ।
यतस्त्वमेवं वसतीति वासुश्चात्रैव नित्यं क्रीडते सर्वदैव ॥ ३,२४.५८ ॥
यतो देवेत्येवमाहुर्महान्तस्त्वतो हरिं वासुदेवेति चाहुः ।
भो वासुदेवेति ननृतुः सर्वदैव भो माधवेति ननृतुश्चैव सर्वे ॥ ३,२४.५९ ॥
लक्ष्मीपते चेति वदन्ति सर्वे धनीति शब्दः स्वाभिवाची यतो हि ।
अतोप्यार्या माधवेति ब्रुवन्ति लक्ष्मीपते पाहि तथैव भक्तान् ॥ ३,२४.६० ॥
ते वै ब्रुवन्तो ननृतुश्च जग्मुर्विष्णो सदास्मान्परिपाहि नित्यम् ।
सर्वत्र यस्माद्विततोसि तस्मादित्यादिनामानि गृणन्त एव ।
जग्मुश्च सर्वे ददृशुश्च तीर्थं भक्त्योपेताः श्रीनिवासं स्मरन्तः ॥ ३,२४.६१ ॥
कन्योवाच ।
किं नामकं तीर्थमिदं मुनीन्द्र किं कार्यमत्र प्रवदास्मान्कृतीश ।
कस्मै प्रसन्नो भगवाञ्छ्रीनिवासस्त्वस्मिन्सुतीर्थं वद विस्तरेण ॥ ३,२४.६२ ॥
जैगीषव्य उवाच ।
कन्ये शृणु त्वं ह्यभवत्सुबुद्धिमान्प्रह्रादसंज्ञो हरिभक्तवर्यः ।
निष्कामबुद्ध्या तु यदा जगाम शेषाचलस्थं श्रीनिवासं च द्रष्टुम् ॥ ३,२४.६३ ॥
अस्मिंस्थले दैत्यकुमारकान्प्रति हरेश्च तत्त्वं परिपृष्टवान्प्रभुः ।
नृसिंहरूपं श्रीनिवासं भजस्व सुदुर्लभं मानुषं जन्म कन्ये ॥ ३,२४.६४ ॥
तत्रापि विष्णोर्नृहरे सुतत्त्वं सुदुर्लभं सुष्ठु यात्रा तथैव ।
यस्यां यात्रायां यत्र कुत्रापि देशे हरेः कथा वर्तते दैत्यवर्याः ॥ ३,२४.६५ ॥
तत्र स्थले हरिरास्ते सदैव यतो व्याप्तः सर्वतो वै नृसिंहः ।
एतच्छ्रुत्वा दैत्यकुमारकास्ते प्रह्लादमूचुर्भक्तवर्यं हरेश्च ॥ ३,२४.६६ ॥
व्याप्तो हरिश्चेत्कथमत्र वै सखे न दृश्यते जलरूपी नृसिंहः ।
स एवमुक्तो दानवानां सुतैश्च तुष्टाव विष्णुं परमादरेण ॥ ३,२४.६७ ॥
तव स्वरूपं मम दर्शयस्व स्वयोग्यरूपं दानवानां सुतानाम् ।
इति स्तुतः श्रीनिवासो हरिस्तु तस्मिन्नन्तर्जलरूपं समायात् ॥ ३,२४.६८ ॥
अस्मिन्स्नानं ये प्रकुर्वन्ति तीर्थे तेषां ज्ञानं परमं दृढं स्यात् ।
अत्र स्नाने मानुषाणां च तात बुद्धिर्न हि स्यात्कलिकाले विशेषात् ॥ ३,२४.६९ ॥
दत्त्वां वरं दैत्यवराय विष्णुरन्तर्दधे जलपूर्णे सुकुण्डे ।
अद्याप्यास्ते जलमध्ये नृसिंहः प्रह्लादोपि दैत्यकुमारकैः सह ॥ ३,२४.७० ॥
तस्मिन् सुतीर्थे परितस्तत्रतत्र जयेति शब्दः श्रूयते चापराह्ने ।
इदं तीर्थं नारसिंहाभिधं च कन्येस्नानं ह्यत्र कार्यं मनुष्यैः ॥ ३,२४.७१ ॥
स्नानं कृत्वा तत्र तीर्थे च सम्यग्दीपं दत्त्वा द्विजवर्याय मुख्यम् ।
द्रष्टुं पुनः श्रीनिवासं प्रजग्मुर्गोविन्दगोविन्द इति ब्रुवन्तः ॥ ३,२४.७२ ॥
मुख्यप्राणाधिष्ठितं स्थानमाप्य अपाविशत्तत्र देवी ह्युवाच ।
जैगीषव्यः श्रीनिवासस्य विष्णोः कथं कार्यं दर्शनं तद्वदस्व ॥ ३,२४.७३ ॥
जैगीषव्यः प्राह संहृष्टचित्तो ब्रवीमि तन्त्रं शृणु कन्यके त्वम् ।
श्रुत्वा मत्तः कुरु सर्वं मयोक्तमाद्यं द्वारं श्रीनिवासस्य दृष्ट्वा ॥ ३,२४.७४ ॥
अपराधसहस्राणि क्रियन्तेऽहर्निशं मया ।
तानि सर्वाणि मे देव क्षमस्व पुरुषोत्तम ॥ ३,२४.७५ ॥
मानसान्वाचिकान्दोषान्कायि कानपि सर्वशः ।
वैष्णवद्वेषहेतून्मे भस्मसात्कुरु माधव ॥ ३,२४.७६ ॥
आद्यद्वारं श्रीनिवासस्य देवि सम्यक्स्मरेद्विजयं वै जयं च ।
दक्षाध्वरे श्रीनिवासस्य देवि चण्डं प्रचण्डं संस्मरेत्सम्यगेव ॥ ३,२४.७७ ॥
पाश्चात्यभागे श्रीनिवासस्य देवि नन्दं सुनन्दं संस्मरेदेव भक्त्या ।
सव्यद्वारे श्रीनिवासस्य कन्ये स्मरेत्कुमुदाक्षं कुमुदन्तमेव ॥ ३,२४.७८ ॥
यश्चैव देहं प्रविशेद्भक्तिपूर्वं कदा द्रक्ष्ये सादरेणैव देवि ।
प्रदक्षिणद्वादशकं च कृत्वा पदे पदे संस्मरेच्छ्रीनिवासम् ॥ ३,२४.७९ ॥
श्रीस्वामितीर्थे सम्यगाचम्य नत्वा स्नात्वा नत्वा भूवराहं च देवि ।
अयुद्वारं प्रिवशेद्भक्तिपृर्वं गोविन्दगोविन्द इतिब्रुवन्वै ॥ ३,२४.८० ॥
पश्चाद्धरेर्नमनं कार्यमेव साष्टाङ्गरूपं प्रविशेद्देवगेहम् ।
पुनर्विशेद्वारतः संस्थितः स पीठस्थदेवान्मानसा चिन्तयीत ॥ ३,२४.८१ ॥
मध्ये पीठं श्रीनिवासं च देवी नारायणं प्रणमेत्पूर्णमेव ।
देवस्य सव्ये पीठभागाद्वहिश्च नमस्कार्यं गुरुदेवाय चैव ॥ ३,२४.८२ ॥
पीठस्याग्राच्चाप्यधस्तात्प्रदेशे आग्नेयकोणे प्रणमेद्वै खगेन्द्र ।
नैरृत्यभागे व्यासदेवाय देवि नमस्कार्यो वैष्णवः सर्वदापि ॥ ३,२४.८३ ॥
वायव्यकोणे भक्तिपूर्वं सुदुर्गां नमस्कुर्याद्भक्तिसंवर्धितात्मा ।
पीठस्योर्ध्वं ह्यग्निकोणेषु देवी धर्माधिभूताय नमो यमाय ॥ ३,२४.८४ ॥
पीठस्योर्ध्वं नैरृतस्योर्ध्वकोणे ज्ञानाधिपं प्रणमेद्वायुदेवम् ।
पीठस्योर्ध्वं वायुकोणे च सुभ्रूर्वैराग्यानामधिपं चैव रुद्रम् ॥ ३,२४.८५ ॥
पीठस्योर्ध्वं त्वीशकोणे च देवि ऐश्वर्याणामधिपं चेन्द्रदेवम् ।
पीठस्य पूर्वे प्रणमेन्नैरृतिं च अर्याम्णानामधिपं चात्र देवि ॥ ३,२४.८६ ॥
देवस्य पीठस्य च दक्षिणे च दुर्गां नमेदुग्ररूपाभिधां च ।
पीठस्य कन्ये प्रणमेत्पश्चिमे वै आरोग्याणा मधिपं कामदेवम् ॥ ३,२४.८७ ॥
देवस्य पीठस्योत्तरे रुद्रदेवमनैश्वर्याणामधिपं संस्मरेच्च ।
पीठस्य मध्ये प्रणमेद्वै वराहं सदा कन्ये परमं पूरुषाख्यम् ॥ ३,२४.८८ ॥
तस्योपरिष्टाच्छक्तिसंज्ञां च लक्ष्मीमाधाररूपां प्रणमेच्चैव नित्यम् ।
तस्योपरिष्टाद्वायुकूर्मौ नमेच्च तस्योपरिष्टाच्छेषकूर्मौ नमेच्च ॥ ३,२४.८९ ॥
तस्योपरिष्टादभिमानिनीं भुवो भूदेवतां प्रणमेच्चैव सुभ्रूः ।
तस्योपरिष्टाद्वरुणं संस्मरेच्च क्षीरोदधेरधिपं चैव देवम् ॥ ३,२४.९० ॥
तस्योपरिष्टात्प्रणमेच्चैव लक्ष्मीं श्वेतद्वीपाख्यं कन्यके पूजयेच्च ।
तस्योपरिष्टात्प्रणमेच्चैव लक्ष्मीं महादिव्यां मण्डपसंज्ञकां च ॥ ३,२४.९१ ॥
पीठस्य मध्ये यमसंज्ञां च लक्ष्मीं समर्चयेद्यममध्ये च देवीम् ।
यमस्य देवस्य च दक्षिणे च सूर्यं नमेद्दीपरूपं च भद्रे ॥ ३,२४.९२ ॥
यमस्य देवस्य च वामभागे श्रियं नमेद्दीपरूपां च देवीम् ।
यमस्य देवस्य तु चाग्रभागे हुताशनं दीपरूपं नमेच्च ॥ ३,२४.९३ ॥
देवस्याग्रे भूमिनाम्नीं नमेच्च तत्त्वाभिमानां संस्मरेच्चैव नित्यम् ।
पर्यङ्करूपं श्रीनिवासस्य विष्णोस्तमोभिमानां सन्नमेच्चैव दुर्गाम् ॥ ३,२४.९४ ॥
पूर्वादिगं पीठसोपानरूपमात्मानमेकं प्रणमेच्च देवि ।
दक्षस्थदिक्पीठसोपानरूपं ज्ञानात्मकं प्रणमेच्चैव कन्ये ॥ ३,२४.९५ ॥
पद्मस्य पूर्वस्थदले च देवि स्त्रीरूपाख्यं विमलाख्यामिमां च ।
ब्रह्मादिदेवान्प्रणमेच्च देवि आग्नेयकोणस्थदले शृणुत्वम् ॥ ३,२४.९६ ॥
उत्कर्षनाम्नीं परमां च देवीं नमेद्रमां ब्रह्मवायू च शेषम् ।
दक्षस्थपद्मस्य दलाष्टके च नारायणाकारशेषादिकानाम् ॥ ३,२४.९७ ॥
स्त्रीरूपेभ्यो नमनं कार्यमेव कन्ये मया पश्चिमस्थे दले च ।
गोपाख्यनारायणब्रह्मवायुविप्रादिकानां शेषरूद्रादिकानाम् ॥ ३,२४.९८ ॥
स्त्रीरूपेभ्यो नमनं कार्यमेव ईशान कोणस्थदलेषु चैव ।
ईशाननारायणमाविरिञ्चवायुर्वियच्छेषसुरादिकानाम् ॥ ३,२४.९९ ॥
स्त्रीरूपेभ्यो नमनं कार्यमेव तथैव पद्मस्य च मध्यभागे ।
अनुग्रहाख्या विष्णुलक्ष्मीश्च देवी वायुर्वियच्छेषरुद्रादिकानाम् ॥ ३,२४.१०० ॥
स्त्रीरूपाणां नमनं कार्यमेव सुयोगपीठस्य स्वरूप भूतम् ।
सदा नमेच्छ्रीमदनन्तसंज्ञमेवं न मेच्छ्रीनिवासं च देवम् ॥ ३,२४.१०१ ॥
श्रीनिवासस्य वामे तु लक्ष्मीं च प्रणमेद्वुधः ।
श्रीनिवासस्य सव्ये तु धरायै प्रणमेच्छुभे ॥ ३,२४.१०२ ॥
पीठाद्वहिः पूर्वभागे कृपोल्कं प्रणमेच्छुभम् ।
महोल्कं दक्षिणे चैव वीरोल्कं पश्चिमे नमेत् ॥ ३,२४.१०३ ॥
उत्तरे च नमः कुर्याद्युल्काय च महात्मने ।
चतुर्ष्वपि च कोणेषु सहस्रोल्कं नमेत्सुधीः ॥ ३,२४.१०४ ॥
पूर्वे तु वासुदेवाय नमस्कुर्याच्च दक्षिणे ।
संकर्षणाय देवाय प्रद्युम्नाय च पश्चिमे ॥ ३,२४.१०५ ॥
उत्तरे ह्यनिरुद्ध्या नमस्कुर्यादतन्द्रितः ।
आग्नेये च नमस्कुर्यात्कन्ये मायां सदा शुभे ॥ ३,२४.१०६ ॥
जयायै च नमस्कुर्यान्नैरृत्ये चापि वायवे ।
कृत्ये चैव नमस्कुर्यादीशान्ये शान्तिसंज्ञकाम् ॥ ३,२४.१०७ ॥
केशवाय नमः पूर्वे तथा नारायणाय च ।
माधवाय नमस्कुर्यान्नैरृत्ये चापि वायवे ॥ ३,२४.१०८ ॥
आग्नेये कन्यके नित्यं भक्त्या तु प्रयतः शुभे ।
गोविन्दाय नमस्कुर्याद्दक्षिणे विष्णवे तथा ॥ ३,२४.१०९ ॥
मधुसूदनाय भोः कन्ये नमस्कुर्यात्तु नैरृतौ ।
पश्चिमे त्रिविक्रमाय वामनाय तथैव च ॥ ३,२४.११० ॥
विष्णवे श्रीधरायाथ नमस्कुर्याच्च भामिति ।
उत्तरे तु महाकन्ये हृषीकेशाय वै नमः ॥ ३,२४.१११ ॥
तथा वै पद्मनाभाय नमस्कुर्यादतन्द्रितः ।
दामोदराय चैशान्ये नमस्कुर्याच्च भामिनि ॥ ३,२४.११२ ॥
चतुर्थावरणे पूर्वे महाकूर्माय वै नमः ।
वराहाय नमस्कुर्यादाग्नेये कन्यके शुभे ॥ ३,२४.११३ ॥
दक्षिणे नारसिंहाय वामनाय नमोनमः ।
भार्गवाय नमस्कुर्यान्नैरृत्ये शुद्धचेतसा ॥ ३,२४.११४ ॥
पश्चिमे माधवायाथ तथा कृष्णाय वै नमः ।
बुद्धाय च नमस्कुर्याद्वायव्ये कन्यके शुभे ॥ ३,२४.११५ ॥
उत्तरे ह्युल्करूपाय अनन्ताय नमोस्तु ते ।
ईशान्ये विश्वरूपाय नमस्कुर्यादतन्द्रितः ॥ ३,२४.११६ ॥
आग्नेये वारुणीं चैव गायत्रीं चैव नैरृते ।
वायव्ये भारतीं चैव ईशान्ये गिरिजां नमेत् ॥ ३,२४.११७ ॥
गिरिजां वामभागे तु सौपर्णै चैव संनमेत् ।
प्रागिन्द्राय नमस्कुर्यात्सायुधाय तथैव च ॥ ३,२४.११८ ॥
स परिग्रहाय श्रीविष्णोः पार्षदाय नमोनमः ।
आग्नेयेत्यग्नये तुभ्यं सायुधायेति पूर्ववत् ॥ ३,२४.११९ ॥
दक्षिणे तु यमायैव नैरृत्यां निरृतिं यजेत् ।
पश्चिमे वरुणायैव वायव्ये वायवे नमः ॥ ३,२४.१२० ॥
उत्तरे च कुबेराय ईशान्ये च शिवाय च ।
ईशानशक्रयोर्मध्ये ब्रह्मणे सायुधाय च ॥ ३,२४.१२१ ॥
निरृत्यप्यतिमध्ये तु शेषाय च नमोनमः ।
एवं कृत्वा नमस्कारं प्रणमेच्च पुनः पुनः ॥ ३,२४.१२२ ॥
इत्येतत्सर्वमाख्यातं विधिपूर्वं तु दर्शनम् ।
इतः परन्तु गन्तव्यं दर्शनार्थं रमापते ॥ ३,२४.१२३ ॥
एवमुक्त्वा तु सा देवी तैः सार्धं तु ययौ मुदा ।
यदुक्तः श्रीनिवासस्य दर्शनस्य विधिः खग ।
कस्यचिन्नैव वक्तव्यो गोप्यत्वाच्च कदाचन ॥ ३,२४.१२४ ॥
समागमो दुर्घट एव वीन्द्र सतां च सत्तत्त्वविबोधकानाम् ।
अनेकजन्मार्जितपुण्यसंचयादभूद्गुरोः संगम एव तस्य ॥ ३,२४.१२५ ॥
पयो विकारं च निजं जहाति शेषस्य शेषं नलिनस्य षङ्कजम् ।
भावं चलं पङ्कजनाभयोगात्सत्संगयोगादशुभानि न स्युः ॥ ३,२४.१२६ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे श्रीवेङ्कटेशगिर्यारोहणक्रमतद्भक्ततत्पर्वतनामादिनिरूपणं नाम चतुर्विशोऽध्यायः