गरुडपुराणम्/ब्रह्मकाण्डः (मोक्षकाण्डः)/अध्यायः २

विकिस्रोतः तः
Jump to navigation Jump to search
←  अध्यायः १ गरुडपुराणम्
अध्यायः २
वेदव्यासः
अध्यायः ३ →

श्रीगरुडमहापुराणम् २
श्रीशौनक उवाच ।
कथं ससर्ज भगवांस्तत्तत्तत्त्वाभिमानिनः ।
सृष्टिक्रमं न जानामि देवानां ह्यन्तरं मुने ॥ ३,२.१ ॥

शौनकेनैव मुक्तस्तु सूतो वचनमब्रवीत् ।
शूत उवाच ।
सम्यग्व्यवसिता बुद्धिस्तव ब्रह्मर्षिसत्तम ॥ ३,२.२ ॥

एवमेव कृतः प्रश्रो हरौ तु गरुडेन वै ।
यदुक्तवान्हरिस्तस्मैतद्वक्ष्यामि तवानघ ।
गरुड उवाच ।
सृष्टिं व्रूहि महाभाग सच्चिदानन्दविग्रह ॥ ३,२.३ ॥

सृष्टौ ज्ञाते तवोत्कर्षो ज्ञातप्रायो भविष्यति ।
ब्रह्मादीनां तारतम्यज्ञानं मम भविष्यति ॥ ३,२.४ ॥

मोक्षोपायम्यः स वोक्त मिततरत्तस्य साधनम् ।
गरुडेनैव मुक्तस्तु कृष्णो वचनमब्रवीत् ॥ ३,२.५ ॥

शृकृष्ण उवाच मूलरूपे ह्यतो ज्ञेयो विष्णुत्वाद्विष्णुरव्ययः ॥ ३,२.६ ॥

अवतारमिदं प्रोक्तं पूर्णत्वादेव सुव्रत ।
अनेको ह्येकतां प्राप्य संशेते प्रलयाय वै ॥ ३,२.७ ॥

तत्रापि च विशेषोस्ति ज्ञातव्यं तत्वमेव सः ॥ ३,२.८ ॥

भेदेन दर्शनाद्वापि भेदाभेदेन दर्शनात् ।
विष्णोर्गुणानां रूपाणां तदङ्गानां सुखादिनाम् ।
तत्रैव दशनाद्वापि क्षिप्रमेव तमो व्रजेत् ॥ ३,२.९ ॥

पुरुषान्तरमारभ्य कल्पिता ये द्विजोत्तम ।
हरिरूपास्तु ते ज्ञेया एकीभूता हि तेन ते ॥ ३,२.१० ॥

प्रलये समनुप्राप्ते जीवाः स यान्ति मामकाः ।
विराड्रूपे हरेः संति तदा ते च ह्यनेकधा ॥ ३,२.११ ॥

एकीभावं प्राप्नुवन्ति मूलेन प्रलये द्विज ।
बिंबेन तु स्वयं विष्णुरेकीभावं व्रजेद्यदि ॥ ३,२.१२ ॥

प्रतिबिंबः कथं जीवो भवेन्नारायणस्य च ।
तदधीनस्तत्सदृशो हरेर्जीवो न संशयः ॥ ३,२.१३ ॥

प्रतिबिंबस्य शब्दार्थो ह्ययमेवमुदाहृतः ।
तस्माच्च बिंबरूपाणामेकीभावं न चिन्तयेत् ॥ ३,२.१४ ॥

कृष्णरामादिवच्चैव त्वेकीभावो विवक्षितः ।
बिंबानां मूलरूपस्य भेदो नात्र विवक्षितः ॥ ३,२.१५ ॥

तत्रापि च विशेषोस्ति ज्ञातव्यस्तत्त्वमिच्छुभिः ।
एकांशेन तु बिंबैस्तु चैकीभावं व्रजन्ति ते ॥ ३,२.१६ ॥

एकांशेन तु जीवत्वे संस्थिता नात्र संशयः ।
बिंबमूलं न जानन्ति ते जना ह्यसुराः स्मृताः ॥ ३,२.१७ ॥

एक एव हरिः पूर्वं ह्यविद्यावशतः स्वयम् ।
अनेको भवति ह्यारादादर्शप्रतिबिंबवत् ॥ ३,२.१८ ॥

एवं वदन्ति ये मूढास्तेपि यान्त्यधरं तमः ।
उपाधिर्द्विविधः प्रोक्तः स्वरूपो बाह्य एव च ॥ ३,२.१९ ॥

बाह्योपाधिर्लये याति मुक्तावन्यस्य संस्थितिः ।
सर्वोपाधिविनाशे हि प्रतिबिंबः कथं भवेत् ॥ ३,२.२० ॥

चिद्रूपाख्यो ह्युपाधिस्तु मोक्षे येप्यधिकारिणः ।
दुःखरूपो ह्युपाधिस्तु तमसो येधिकारिणः ॥ ३,२.२१ ॥

मिश्ररूपो ह्युपाधिस्तु नित्यसंसारिणां मतः ।
बाह्योपाधिर्लिङ्गदेहः सर्वेषां नात्र संशयः ॥ ३,२.२२ ॥

दैत्याः दुःखायते यस्मात्तस्मादुःखी हरिः स्वयम् ।
तत्तद्दुःखस्वरूपत्वाद्दैत्यानां बिंबरूपकः ॥ ३,२.२३ ॥

दैत्यस्थितानां बिंबानां मूलरूपस्य वै प्रभोः ।
परस्परं तथा भेदं ह्यन्तरं वा न चिन्तयेत् ॥ ३,२.२४ ॥

श्रीभूदुर्गादिरूपाणां तथा सीतादिरूपिणाम् ।
अन्योन्यं नाणुमात्रं च भेदो बाह्यान्तरेपि च ॥ ३,२.२५ ॥

चिन्तनीयः कथमपि ज्ञात्वा यान्त्यधरं तमः ।
प्रतिबिंबस्थितो बिंबः स्त्रीरूपो ह्यस्ति सर्वदा ॥ ३,२.२६ ॥

प्रलये समनुप्राप्ते लक्ष्म्या सह खगोत्तम ।
एकीभावं नाप्नुवन्ति बिंबेन सह संस्थिताः ॥ ३,२.२७ ॥

बिंबस्थितानां रूपाणां लक्ष्म्याश्च विनतासुत ।
भेदस्तु नाणुमात्रं च शङ्कनीयः कथञ्चन ॥ ३,२.२८ ॥

यदा हि शेते प्रलयार्णवे विभुर्जीवांश्च सर्वानुदरे निवेश्य ।
मुक्तांश्च ब्रह्मेन्द्रमरुद्गणादीन्प्रात्पव्यमुक्तींश्च सुतौ? च संस्थितान् ॥ ३,२.२९ ॥

प्राप्तान्धकूपादिसमस्तजीवांस्तथैव प्राप्तव्यकलीनथापरान् ।
तथैव नित्यं सृतिसंस्थिताञ्जनानचेतनानृक्षरूपादिजीवान् ॥ ३,२.३० ॥

एवं जनाञ्जठरे संनिधाय सम्यक्शेते ह्यंभसि वै स कल्पे ।
लक्ष्मीस्तु सा सर्ववेदात्मिका च भक्त्या हरौ नित्यसंवर्धितापि ॥ ३,२.३१ ॥

अत्यादरं दर्शयतीव सा तु ईडे विष्णुं भक्तिसंवर्धितापि ।
चेष्टादिरूपेण तदा न किञ्चिदासीद्विना विष्णुमथ श्रियं च ॥ ३,२.३२ ॥

पर्यङ्करूपेण बभूव देवी वासस्वरूपेण रमा विरेजे ।
सर्वं रमा सैव तदैव चासीत्सैका देवी बहुरूपा बभाषे ॥ ३,२.३३ ॥

त्वमुत्कृष्टः सर्वदेवोत्तमत्वान्न त्वत्समः कश्चिदेवाधिको वा ।
त्वं ब्रह्म एको न चतुर्मुखश्च नाहं रुद्रो न बृहस्पतिश्च ॥ ३,२.३४ ॥

विष्णावेव ब्रह्मशब्दो हि मुख्यो ह्यन्येष्वमुख्यो ब्रह्मरुद्रादिकेषु ।
अनन्तगुणपूर्णत्वाद्ब्रह्मेति हरिरुच्यते ॥ ३,२.३५ ॥

गुणादिपूर्णताभावान्नान्ये ब्रह्मेत्युदाहृताः ।
देशानन्त्यं गुणतः कालतो वा नास्त्यानन्त्यं क्वापि देशे च काले ॥ ३,२.३६ ॥

यदा नन्त्यं किमु वक्तव्यमत्र गुणानन्त्यं नास्ति ब्रह्मादिकेषु ।
यद्यप्यहं देशतः कालतश्च समस्तदा वासुदेवेन सार्धम् ॥ ३,२.३७ ॥

तथापि मे गुणतो नास्त्यनन्तं ततो धर्मा गुणतोनन्ततश्च ।
संति श्रुतावविरुद्धाश्च देवे चिन्त्या ह्यचिन्त्या बहुधा ते ह्यनन्ताः ॥ ३,२.३८ ॥

अतो गुणांस्तव देवस्य विष्णो स्तोतुं सदा स्मो न हरेः कदापि ।
नाहं न केशौ न च गीर्न रुद्रो न दक्षकन्या न च मेनकासुता ॥ ३,२.३९ ॥

न वै बिडौजा न च वा पुलोमजा न चेध्मवाहो न यमो न चान्यः ।
न नारदो नापि भृगुर्वसिष्ठो न विघ्नपो नापि बल्यादयश्च ॥ ३,२.४० ॥

न वै विराटो नापि भीमः शनिश्च न पुष्करो न कशेरुस्तथैव ।
न किन्नराः पितरो नैव देवा गन्धर्वमुख्या नापि वा तुष्यसंज्ञाः ॥ ३,२.४१ ॥

न वै क्षितीशा न च मानुषाश्च विष्णोर्न जानन्ति किमत्र चान्ये ।
मत्तोधमः कोचिगुणेन ब्रह्मा समो हि तस्य ब्रह्मणो मातरिश्व ॥ ३,२.४२ ॥

तौ वै विरागे हरिभक्तिभावे धृतिस्तितिप्राणबलेषुयोगे ।
बुद्धौ समानौ संसृतौ मोक्षकाले परस्पराधारसमन्वितौ च ॥ ३,२.४३ ॥

अन्नाभिमानं ब्रह्म चाहुर्मुरारिं जीवाभिमानं वायुमाहुर्महान्तः ।
न शक्तोसौ ब्रह्मदेवो विवस्तुं वायुं विना संसृतावेव नित्यम् ॥ ३,२.४४ ॥

न तं विना मातरिश्वा च वस्तुमन्योन्यमाप्तिः कालतो न्यूनता च ।
यदा महत्तत्त्वनि यामकोभूद्ब्रह्माण्डान्तस्थूलसृष्टौ महात्मा ॥ ३,२.४५ ॥

तदा वायुर्नाशकद्वै महात्मा बाह्ये सृष्टौ कालभेदेन चास्ति ।
सरस्वती भारती ब्रह्मणस्तु संवत्सरानन्तरं संबभूव ॥ ३,२.४६ ॥

यदा दशाब्दाः समतीता महात्मा तदा वायुः समभूल्लोकपूज्यः ।
किञ्चिन्न्यूनत्वं स्थूलसृष्टौ महात्मन्नैतावता वानयोः सौम्यहानिः ॥ ३,२.४७ ॥

सरस्वती वत्सरात्संबभूव ह्यनन्तरं ब्रह्मणो जन्मकालात् ।
गिरः सकाशात्कालतो न्यूनतास्ति वायोस्तदा ह्यधमत्त्वे क्षतिः का ॥ ३,२.४८ ॥

वायोरनन्तरं वाणी ह्यभूत्संवत्सरात्परम् ।
यावत्पश्चाज्जनिस्तावत्पूर्वदेहक्षयो भवेत् ॥ ३,२.४९ ॥

शेषस्त्विन्द्रो रुद्र एते त्रयश्च समा ह्येते ज्ञानबलादिकेष्वपि तथापि तेषां कालतो न्यूनतास्ति कालोपि तेषां द्विव्येसहस्रवर्षम् ॥ ३,२.५० ॥

अनन्तरुद्रो ब्रह्मवायू यथा वा तथा ज्ञेयो नैव हानिः स्वरूपे ।
स्थूलस्य सृष्टौ बाह्यसृष्टौ महात्मन्कालान्न्यूनत्वं स मया नैव चिन्त्यः ॥ ३,२.५१ ॥

तेषां सकाशाद्वारुणी पार्वती च सौपर्णीनाम्नी तिस्त्र एता महात्मन् ।
दशाब्देभ्योनन्तरं संबभूवुः सरस्वती भारतीवच्च बोध्या ॥ ३,२.५२ ॥

इन्द्रो वरो रुद्रभार्यादिकेभ्य एवं ज्ञानं सर्वदा देह्यमन्दम् ।
एवं ज्ञानं यस्य भवेच्च लोके स वै ज्ञानी वेदवेद्यः स एव ॥ ३,२.५३ ॥

न वै ज्ञानीत्यन्तरं यो न वेद स वेदवादी न च वेदपाठकः ॥ ३,२.५४ ॥

वेदाक्षराणि यावन्ति पठितानि द्विजातिभिः ।
तावन्ति हरिनामानि प्रियाणि च हरेः सदा ॥ ३,२.५५ ॥

मम स्वामी हरिर्नित्यं दासोहं सर्वदा हरेः ।
ब्रह्माद्या देवताः सर्वा गुरवो मे यथाक्रमम् ॥ ३,२.५६ ॥

एतेषां च हरिः स्वामी वेदे सर्वत्र गीयते ।
एवं जानंस्तु यो वेदान्संपठेत्स द्विजोत्तमः ॥ ३,२.५७ ॥

स वेदपाठको ज्ञेयस्तदन्ये वेदवादिनः ।
वेदभारभराक्रान्तः स वै ब्राह्मणगर्दभः ॥ ३,२.५८ ॥

ज्ञानाभिमानी वेदमानी उभौ तु परस्परं ह्यूचतुः सर्वदैव ।
जलं वेदो यत्र वासो मुरारेराचार्याणां संगदोषाद्द्विजानाम् ॥ ३,२.५९ ॥

महापराधाः संति लोके महात्मन्सहस्रशः शतशः कोटिशश्च ।
हरिश्च तान्क्षमते सर्वदैव नामत्रयस्मरणाद्वै कुपालुः ॥ ३,२.६० ॥

सर्वापराधाद्रहितं दानमानैर्युक्तं सदा तारतम्याच्च हीनम् ।
दृष्ट्वापराधं तस्य विष्णुर्महात्मा हाहाकारं कुरुते क्रोधबुद्ध्या ॥ ३,२.६१ ॥

उत्तिष्ठ गोविन्द सुवेदवेद्य सोव्यात्कृताख्यो मयि सम्यक्प्रसीद ।
भो केशवोत्तिष्ठ सुखस्वरूप सृष्टौ व्यये वर्तयितुं समर्थः ॥ ३,२.६२ ॥

सृष्ट्वा ब्रह्माणं प्रेरयेत्पूज्यसृष्टौ सृष्ट्वा रुद्रं प्रेरयेत्संहृतौ च ।
प्राप्तव्ययोग्यान्ब्रह्मशेषादिदेवान्दृष्ट्वादृष्ट्वा देहि मोक्षं च सम्यक् ॥ ३,२.६३ ॥

हरे मुरारे स्वापहीनाद्य तिष्ठ कल्पा दिकानन्तरज्ञान (रं बुद्धि) (जान) हीनात् ।
सम्यग्दृष्ट्वा कर्मदृष्ट्या महात्मल्लंब्धं तमो दाहि दुः खस्वरूपम् ॥ ३,२.६४ ॥

दैत्यादिकान्दुः खमतीन्ह यस्मात्तमस्यन्धेसर्वदा चित्स्वरूपी ।
तस्मादाहुर्दुः स्वरूपी हरिस्त्वं दुः खस्वरूपात्त्वं च दुः खी हरे त्वम् ॥ ३,२.६५ ॥

उत्तिष्ठ नारायण वासुदेव ह्युत्तिष्ठ कृष्णाच्युत माधवेति ।
उत्तिष्ठ वैकुण्ठ दयार्द्रमूर्ते उत्तिष्ठ लक्ष्मीश नमोनमस्ते ॥ ३,२.६६ ॥

उत्तिष्ठ मध्वेश सरस्वतीश उत्तिष्ठ रुद्रेश तथांबिकेश ।
उत्तिष्ठ चन्द्रेश तथा शचीश विप्रेश भक्तेश गवेश नित्यम् ॥ ३,२.६७ ॥

शास्त्रप्रियोत्तिष्ठ ऋचि प्रियस्त्वं यजुः प्रियोत्तिष्ठ निदानमूर्ते ।
सामप्रियस्त्वं च तथा मुरारे अथर्ववेदप्रिय सर्वदा त्वम् ॥ ३,२.६८ ॥

गद्यप्रियस्त्वं च पुराणमूर्ते स्तुतिप्रियोत्तिष्ठ विचित्रमूर्ते ।
सुगायनप्रीतिकरस्त्वमेव ह्युतिष्ठ शीघ्रं कमला पतिस्त्वम् ॥ ३,२.६९ ॥

एवं स्तुतो विष्णुरजः पुराणो ह्यतित्वरावानुत्थितो नित्यबद्धः ॥ ३,२.७० ॥

इति श्रीगारुडे महापुराणे कृष्णगरुडसंवादे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे ब्रह्माविष्णुमहेश्वरादिदेवतातारम्यनिरूपणं नाम द्वितीयोऽध्यायः