गरुडपुराणम्/ब्रह्मकाण्डः (मोक्षकाण्डः)/अध्यायः ३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २ गरुडपुराणम्
अध्यायः ३
वेदव्यासः
अध्यायः ४ →

श्रीगरुडमहापुराणम् ३
श्रीकृष्ण उवाच ।
बभूवेच्छा मम देवस्य विष्णोः स्रष्टुं सृज्यान्मोक्षयोग्यांश्च मोक्तुम् ।
इच्छाशक्तिः सर्वदैवास्ति विष्णोस्तथापि तद्व्याहरणं च लौकिकम् ॥ ३,३.१ ॥

तदा हरिर्जगृहे लौकिकं च तमः पानं तेन रूपेण चक्रे ।
तद्रूपमाहुः प्राकृतं वै तदज्ञा ह्यन्धं तमः प्रविशन्त्येव सर्वे ॥ ३,३.२ ॥

अवतारा महाविष्णोः सर्वे पूर्णाः प्रकीर्तिताः ।
पूर्णं च तत्परं रूपं पूर्णात्पूर्णाः समुद्गताः ॥ ३,३.३ ॥

परावरत्वं तेषां तु व्यक्तिमात्रविशेषतः ।
न देशकालसामर्थ्यात्पारावर्यं कथञ्चन ॥ ३,३.४ ॥

पूर्वरूपं च पूर्णं च पूर्णं पदवितारगम्? ।
रूपं तदात्मन्यादाय पूर्णमेवावशिष्यते ॥ ३,३.५ ॥

लौकिकव्यवहारोयं भूभारक्षपणादिकः ।
तस्य दृर्ष्टि विना नान्यो लयः कृष्णादिना क्वचित् ॥ ३,३.६ ॥

तत्त्वे पीडा न कर्तव्या तया दुः खानि विन्दति ।
अत्यन्तपीडनात्तस्य रोगस्तस्य न संशयः ॥ ३,३.७ ॥

ज्ञातव्यांशे तु पीडा तु कर्तव्या गुरुणा सह ।
तमन्तेवासिनं चाहुः स एव चु गुरुः स्मृतः ॥ ३,३.८ ॥

ये कुर्वन्ति हरेस्तत्त्वविचारं तु परस्परम् ।
तावेव गुरुशिष्यौ तु विनतानन्दसंयुत ॥ ३,३.९ ॥

गुरुणापि समं हास्यं कर्तव्यं कुटिलं विना ।
हर्षामर्षयुतः शिष्यो गुरुः कौटिल्यसंयुतः ॥ ३,३.१० ॥

उभौ तौ निरयं यातो यावदाचन्द्रतारकम् ।
साक्षाद्धरिः पुरुषः पिङ्गलाक्षः स्वमायायां गुणमय्यां महात्मा ।
स्वपौरुषेणैव सुमङ्गलेन अधात्तु वीर्यं भगवान्वीर्यवांश्च ॥ ३,३.११ ॥

गरुड उवाच ।
वीर्यस्वरूपं ब्रूहि मे वासुदेव वीर्ये त्वदीये संशयो मे विभाति ।
किं वीर्यमीशस्य स्वरूपभूतं किं वा विभिन्नं वद साधु वेत्सि ॥ ३,३.१२ ॥

श्रीकृष्ण उवाच ।
यद्वीर्यमाधत्त हरिः स्वयं प्रभुर्मायाभिधायां विनतातनूज ।
तद्वीर्यमाहुर्नृहरेः स्वरूपं विपश्चितो निश्चिततत्त्वदर्शिनः ॥ ३,३.१३ ॥

भिन्नं तदाहुः प्राकृतमेव चाहुः स्वनाभिपद्मादिकवच्च बोध्यम् ।
नैतावता ज्ञानरूपस्य विष्णोर्न वीर्यहानिरिति चिन्तनीयम् ॥ ३,३.१४ ॥

वीर्यस्वरूपी भगवान्वा सुदेवः सर्वत्र देशेपि च सर्वकाले ।
सर्वार्थवान्यदि न स्यात्खगेन्द्र तर्हीश्वरः पुरुषो नैव स स्यात् ॥ ३,३.१५ ॥

अचिन्त्यवीर्यैश्चिन्त्यवीर्यैर्द्विरूपः स्त्रीरूपमेकं पुरुषं तथा परम् ।
उभे रूपे वीर्यवती खगेन्द्र तयोरभेदश्चिन्तनीयो हि सम्यकू ॥ ३,३.१६ ॥

स्त्रीरूपवान्यदि न स्यात्खर्गेद्रस्त्रीणां कथं प्रतिबिंबत्वमेव ॥ ३,३.१७ ॥

स्त्रीरूपमस्माद्ब्रह्मजं (द्वास्तवं) चिन्तनीयं स्वरूपमेतन्नान्यथा चिन्तनीयम् ।
स्त्रीरूपवन्नैव विचिन्तनीयं नपुंसकं त्बस्य जन्यं हि विद्धि ॥ ३,३.१८ ॥

नपुंसकं नवैव स्वरूपभूतमतो हरौ नास्ति विचिन्तनीयम् ।
स्त्रीबिंबभूते हरिरूपे खगेन्द्र श्रीरूपमस्तीति विचिन्तनीयम् ॥ ३,३.१९ ॥

गरुड उवाच ।
स्त्रिया स्त्रियश्च संयोगं व्यर्थमहुर्मनीषिणः ।
स्त्रीरूपभूते विंबे तु स्त्रीरूपाः सन्ति सर्वदा ॥ ३,३.२० ॥

स्थितौ तत्र निमित्तं च ब्रूहि कृष्ण मम प्रभो ॥ ३,३.२१ ॥

श्रीकृष्ण उवाच ।
स्त्रीबिंबभूतस्त्रीरूपे लक्ष्मीर्न स्यात्खगेश्वर ।
नित्यावियोगिनी देवी कथं स्यात्परमात्मनः ॥ ३,३.२२ ॥

हरेरनन्तरूपाणां स्त्रीरूपाणां खगेश्वर ।
अनन्तानन्तरूपेण नित्यं शुश्रूषणे रता ॥ ३,३.२३ ॥

अतो लक्ष्म्या वियोगस्तु शङ्कनीयः कथञ्चन ।
नारायणो नाम हरिः स्वतन्त्रः श्रिया विना नास्ति कदापि तार्क्ष्य ।
हरेर्मुकुन्दस्य पदारविन्दे शुश्रूषमाणा परमादरेण ॥ ३,३.२४ ॥

हरिं विना श्रीरपि देशकाले नास्तीति मोक्षेच्छुभिरेव वेद्यम् ।
यस्यामधाद्वीर्यमनुक्षणं च सा मामिका चेन्द्रजाला त्मिकेति ॥ ३,३.२५ ॥

वदन्ति ये असुरा मूढरूपा अधंमतः प्रविशन्त्येव सर्वे ।
माया नाम प्रकृतिस्त्वेमाहुः सुसूक्ष्मरूपा न तु चेन्द्रजालिका ॥ ३,३.२६ ॥

तस्याभिमानः श्रीरिति वेदितव्यो वीर्याधानं तत्र तेषां च मेलः ।
कार्योन्मुखं मेलनं चाहुरार्या इतो रूपं नाहुराय्याश्च विष्णोः ॥ ३,३.२७ ॥

सानादि नित्या सत्यरूपा च विष्णोर्मिथ्या रूपा सा कथं स्यात्खगेन्द्र ।
सत्या तनुः प्रकृतेस्तन्निगूढा सत्यत्वमाहुर्व्यवहारार्थरूपम् ॥ ३,३.२८ ॥

व्यवहाररूपा सत्यता चेत्प्रकृत्यास्तदा कथं स्याद्यदनादिभूता ।
अनादिनित्या यदि न स्यात्खगेन्द्र सुशूक्ष्मरूपेण न कारणं स्यात् ॥ ३,३.२९ ॥

सूक्ष्मेण रूपेण च कारणं स्यात्तर्हि प्रपञ्चस्य च कारणं वद ।
अविद्याया वशतो विष्णुरेव नानारूपैर्दृश्यते विष्णुरेव ॥ ३,३.३० ॥

शास्त्रज्ञानान्नाशमेति ह्यविद्या न संशयो हरिणा चैक्यमेति ।
एवं ब्रूषे यदि वादत्खगेन्द्र वक्ष्येहं ते तत्र युक्तिं शृणु त्वम् ॥ ३,३.३१ ॥

सर्वज्ञरूपस्य हि मे मुरारेः कथं हरेर्घटते ह्यज्ञता च ।
सूर्ये यथा तमो नास्ति तथा नारायणे हरौ ।
अज्ञानं नास्ति पक्षीद्र कथं तत्वं ब्रवीष्यहो ॥ ३,३.३२ ॥

अतो नाहं ब्राह्मणस्त्वादिकालादुपाधिसंबन्धवशादज्ञताचेत् ।
सर्वज्ञोसौ कुत्र पक्षीन्द्र विष्णुरल्पज्ञजीवो ज्ञानशून्यश्च कुत्र ॥ ३,३.३३ ॥

विरुद्धयोश्चानयोः सर्वदैव कथं चैक्यं संवादिष्यन्ति वेदाः ।
देशे काले सर्वदा द्दुः खहीनो जगत्कर्ता पूर्णशक्तिः सदैव ॥ ३,३.३४ ॥

जीवः सदा स्वल्पकर्तास्ति पूर्णः संसाररूपे दुः खरूपे च नित्यम् ।
विरुद्धयोश्चानयोरैक्यमाहुरीशस्य मायावशतो मायिनश्च ॥ ३,३.३५ ॥

ये वैष्णवा वैष्णवदासवश्यास्तेषां द्रोहं सर्वदा संचरेद्यः ।
हरिप्रीतिस्तेन भवेन्न नित्यमानन्दवृद्धिस्तेन भवेन्न मुक्तौ ॥ ३,३.३६ ॥

मायी सदा मायिभृत्यस्तथापि भेदज्ञानान्निन्द्यते कार्यते च ।
तेनापि तेषां दुः खवृद्धिर्भवेच्च ह्यधं तमः पुनरावृत्तिहीनम् ॥ ३,३.३७ ॥

खगेन्द्रातः प्रकृतिः सूक्ष्मरूपा सा नित्या सा सत्यभूता सदैव ।
एवं स्वयं कालवाय्वादिकानां परा (रमा)णवः सत्यरूपाश्च सन्ति ॥ ३,३.३८ ॥

परा (माणू)नां लक्षणं वेदितव्यं ज्ञानेच्छुभिर्नान्यथा वेदितव्यम् ।
पदार्थानां पार्थिवानां खगेन्द्र विशेषाणां चरमाख्यो विशेषः ॥ ३,३.३९ ॥

स एवः स्यात्परमाणुर्द्विजेन्द्र योन्त्योवि (व) शेषोवयवश्च स स्मृतः ॥ ३,३.४० ॥

गरुड उवाच ।
हे कृष्ण हे माधव सात्त्वतां पते पदार्थानां चरमांशः पराणु ॥ ३,३.४१ ॥

इति प्रोक्तं तत्र मे संशयोस्ति योन्त्यो विशेषः स तु नांशयुक्तः ।
यो ह्यंशयुक्तो न तु सोंत्यो विशेष एवं ममाभाति वचस्तु तथ्यम् ॥ ३,३.४२ ॥

श्रीकृष्ण उवाच ।
य एव लोके संस्थिता मानुषास्तु विशेषाणां दर्शने शक्तियुक्ताः ।
तथापि ते यस्य चांशित्वमेव विशेषं वै नैव द्रष्टुं समर्थाः ॥ ३,३.४३ ॥

तमेवाहुश्चरमांशं विशेषं ये चैवमाहुर्मुनयस्तेन चान्ये ।
ये काणादा गौतमाद्याः खगेन्द्र निरंशकं परमाणुं वदन्ति ॥ ३,३.४४ ॥

अनन्तांशैः संयुतत्वेपि तांश्च निरंशिनो भ्रान्तिदृष्ट्या वदन्ति ।
तस्मात्परा (रमा) णोः परमाणुत्वमस्ति तदंशानां विनतागर्भजात ॥ ३,३.४५ ॥

परा (रमा) णूनामेकदेशे खगेन्द्र तन्नो संति प्राणिनां राशयश्च ।
प्रत्येकश संति रूपा हरेश्च ह्यतश्च तत्परमाणोरणीयः ॥ ३,३.४६ ॥

यो वा त्वणीयान्परमस्य विष्णोः स एव रूपो महतो महीयान् ।
तेषामन्योन्यं न विशेषोस्ति कश्चिदचिन्त्यरूपे च विचिन्तनीयः ॥ ३,३.४७ ॥

कालकोटिविहीनत्वं कालानन्त्यं विदुर्बुधाः ।
देशकोटिविहीनत्वं देशानन्त्यं विदुर्बुधाः ॥ ३,३.४८ ॥

गुणानामप्रमेयत्वे गुणानन्त्यं विदुर्बुधाः ।
आनन्त्यं त्रिविधं नित्यं हरेर्नान्यस्य कस्यचित् ॥ ३,३.४९ ॥

तस्य सर्वस्वरूपेषु चानन्त्यं तु त्रिलक्षणम् ।
तथापि देशतस्तस्य परिच्छेदोपि युज्यते ॥ ३,३.५० ॥

परिच्छेदस्तथा व्याप्तेरेकरूपेपि युज्यते ।
तस्याचिन्त्याद्भुतैश्वर्यं व्यवहारार्थमेव च ॥ ३,३.५१ ॥

गुणतः कालतश्चैव परिच्छेदो न कुत्रचित् ।
व्याप्तत्वं देशतो ह्यस्ति सर्वभूतेषु यद्यापि ॥ ३,३.५२ ॥

न च भेदः क्वचित्तस्य ह्यणुमात्रेपि युज्यते ।
तथापि विद्यतेणुत्वं तस्मादैश्वर्ययोगतः ॥ ३,३.५३ ॥

तस्माद्विद्ध्यवतारार्थं व्याप्तत्वं चापि भण्यते ।
यत्तस्य व्यापकं रूपं परं नारायणं विदुः ॥ ३,३.५४ ॥

अतश्च परमाणूनां पार्थिवाऽनन्त्यवादिनाम् ।
भेदः परस्परं ज्ञेयस्तथेशस्य महात्मनः ॥ ३,३.५५ ॥

जडेशयोर्जडानां च जीवानां च परस्परम् ।
तथैव जडजीवानां नित्यं भेदो जडेशयोः ॥ ३,३.५६ ॥

पञ्च भेदा इमे नित्यं सर्वावस्थासु सर्वशः ।
एतादृश्यां तु मायायां वीर्यमाधत्त वीर्यवान् ॥ ३,३.५७ ॥

पुरुषाख्यो हरिस्तस्मात्त्रिगुणानसृजत्प्रभुः ॥ ३,३.५८ ॥

इति श्रीगारुडे महापुराणे तृतीयांशे ब्रह्मकाण्डे भगवद्वीर्यस्वरूपतदाधानद्वारकगुणत्रय सृष्टिजडेशभेदादिनिरूपणं नाम तृतीयोऽध्यायः