गरुडपुराणम्/ब्रह्मकाण्डः (मोक्षकाण्डः)/अध्यायः १

विकिस्रोतः तः
Jump to navigation Jump to search
गरुडपुराणम्
अध्यायः १
वेदव्यासः
अध्यायः २ →

श्रीगरुडमहापुराणम्
श्रीगणेशायनमः ।
श्रीलक्ष्मीनृसिंहाय नमः ।
श्रीदत्तात्रेयाय नमः ।
श्रीवेदव्यासाय नमः ।
श्रीहयग्रीवाय नमः ।
अथ गारुडे ब्रह्मकाण्डस्तृतीय आरभ्यते ।
ओं मल्लानामशनिर्नृणां नरवरः स्त्रीणां स्मरो मूर्तिमान् गोपानां स्वजनोऽसतां क्षितिभृतां शास्ता स्वपित्रोः शिशुः ।
मृत्युर्भोजपतेर्विधातृविहित स्तत्त्वं परं योगिनां वृष्णीनां च पतिः सदैव शुशुभे रङ्गेऽच्युतः साग्रजः ॥ ३,१.१ ॥

नमो नारायणायेति तस्मै वै मूलरूपिणे ।
नमस्कृत्य प्रवक्ष्यामि नारायणकथामिमाम् ॥ ३,१.२ ॥

शौनकाद्या महात्मानो ह्यृषयो ब्रह्मवादिनः ।
नैमिषाख्ये महापुण्ये तपस्तेपुर्महत्तरम् ॥ ३,१.३ ॥

जितेन्द्रिया जिताहाराः संतः सत्यपरायणाः ।
यजन्तः परया भक्त्या विष्णुमाद्यं जगद्गुरुम् ॥ ३,१.४ ॥

गृणन्तः परमं ब्रह्म जगच्चक्षुर्महौजसः ।
सर्वशास्त्रार्थतत्त्वज्ञास्तेपुर्नैमिष कानने ॥ ३,१.५ ॥

यज्ञैर्यज्ञपतिं केचिज्ज्ञानैर्ज्ञानात्मकं परम् ।
केचित्परमया भक्त्या नारायणमपूजयन् ॥ ३,१.६ ॥

एकदा तु महात्मानः समाजं चक्रुरुत्तमाः ।
धर्मार्थकाममोक्षाणामुपायं ज्ञातुमिच्छवः ॥ ३,१.७ ॥

षद्विंशतिसहस्राणि मुनीनामूर्ध्वरेतसाम् ।
तेषां शिष्यप्रशिष्याणां संख्या वक्तुं न शङ्क्यते ॥ ३,१.८ ॥

मुनयो भावितात्मानो मिलितास्ते महोजसः ।
लोकानुग्रहकर्तारो वीतरागा विमत्सराः ॥ ३,१.९ ॥

कथं हरौ मनुष्याणां भक्तिरव्यभिचारिणी ।
केन सिध्येत्तु सकलं कर्म त्रिविधमात्मनः ॥ ३,१.१० ॥

इत्येवं प्रष्टुमात्मानमुद्यतान्प्रेक्ष्य शौनकः ।
सांज लिर्वाक्यमाह स्म विनयावनतः सुधीः ॥ ३,१.११ ॥

शौनक उवाच ।
आस्ते सिद्धाश्रमे पुण्ये सूतः पौराणिकोत्तमः ।
स एतदखिलं वेत्ति व्यासशिष्यो यतीश्वरः ॥ ३,१.१२ ॥

तस्मात्तमेव पृच्छाम इत्येवं शौनको मुनिः ।
अथ ते ऋषयो जग्मुः पुण्यं सिद्धाश्रमं ततः ॥ ३,१.१३ ॥

पप्रच्छुस्ते सुखासीनं नैमिषारण्यवासिनः ।
ऋषय ऊचुः ।
वयं त्वतिथयः प्राप्तास्त्वातिथेयोसि सुव्रत ॥ ३,१.१४ ॥

स्नानदानोपचारेण पूजयित्वा यथाविधि ।
केन विष्णुः प्रसन्नः स्यात्स कथं पूज्यते नरैः ॥ ३,१.१५ ॥

मुक्तिसाधनभूतं च ब्रूहि तत्त्वविनिर्णयम् ।
सूत उवाच ।
शृणुध्वमृष्यः सर्वे हरिं तत्त्वविनिर्णयम् ॥ ३,१.१६ ॥

नत्वा विष्णुं श्रियं वायुं भारतीं शेषसंज्ञकम् ।
द्वैपायनं गुरुं कृष्णं प्रवक्ष्यामि यथामति ॥ ३,१.१७ ॥

नास्ति नारायणसमं न भूतं न भविष्यति ।
एतेन सत्यवाक्येन सर्वार्थान्साधयाम्यहम् ॥ ३,१.१८ ॥

शौनक उवाच ।
किमर्थं नमनं विष्णोर्ग्रन्थादौ मुनिसत्तम ।
कर्तव्यं ब्रूहि मे ब्रह्मन्कृपया मम सुव्रत ॥ ३,१.१९ ॥

ततः श्रियं ततो वायुं भारतीं च ततः परम् ।
अन्ते व्यासं किमर्थं च त्वं नमस्कृतवानसि ।
सूतसूत महाभाग ब्रूहि कारणमत्र च ॥ ३,१.२० ॥

सूत उवाच ।
आदौ वन्द्यः सर्ववेदैकवेद्यो वेदे शास्त्रे सेतिहासे पुराणे ।
सत्तां प्रायो विष्णुरेवैक एव प्रकाशतेऽतो नम्य एको हरिर्हि ॥ ३,१.२१ ॥

सर्वत्र मुख्यस्त्वधिकोन्यतोपि स एव नम्यो न च शङ्कराद्याः ।
नमन्ति येऽविनयाच्छङ्करं तु विनायकं चण्डिकां रेणुकां च ॥ ३,१.२२ ॥

तथा सूर्यं भैरवं मातारश्व तथा वाणीं गिरिजां वै श्रियं च ।
सर्वेपि ते वैष्णवा नैव लोके न तद्भक्ता वेति चार्या वदन्ति ॥ ३,१.२३ ॥

न पार्थिक्यान्नमनं कार्यमेव प्रीणन्ति नैता देवताः पूजनेन ।
पूजां गृहीत्वा देवताश्चैव सर्वाः किञ्चिद्दत्वा फलदानेन तांश्च ॥ ३,१.२४ ॥

संतर्प्य तुष्टैः स्वमनोनु सारात्तैः कारितां काम्यपूजां तथैव ।
निवेदयित्वा परदेवतायां विष्णौ हरौ श्रीपुरुषादिवन्द्ये ॥ ३,१.२५ ॥

इहापरत्रापि सुखेतराणि दास्यन्ति पश्चादधरं वै तमश्च ।
अतो ह्येते नैव पूज्या न नम्या मोक्षेच्छुभिर्ब्राह्मणाद्यैर्द्विजेन्द्र ॥ ३,१.२६ ॥

तथैव सर्वाश्रमिभिश्च नित्यं महाविपत्तावपि विप्रवर्याः ।
श्रीकाम्य या ये तु भजन्ति नित्यं श्रीब्रह्मरुद्रेद्रयमादिदेवान् ॥ ३,१.२७ ॥

इहेव भुञ्जन्ति महच्च दुः खं महापदः कुष्ठभगन्दरादीन् ।
नमन्ति येऽवैष्णवान्ब्रह्मरुद्रवायु प्रतीकान्नैव ते विष्णुभक्ताः ॥ ३,१.२८ ॥

अभिप्रायं त्वत्र वक्ष्ये मुनीन्द्राः परं गोप्यं हृदि धार्यं हि तद्धि ।
वायोः प्रतीकं पूज्यमेवेह विप्रा न ब्रह्मरुद्रादिप्रतीकमेव ॥ ३,१.२९ ॥

पूजाकाले देवदेवस्य विष्णोर्वायोः प्रतीकं योग्यभागे निधाय ।
अन्तर्गतं तस्य वायोर्हरिं च लक्ष्मीपतिं पूजयित्वा हि सम्यक् ॥ ३,१.३० ॥

पश्चाद्वायोः सुप्रतीकं च सम्यङ्निर्माल्यशेषेण हरेः समर्चयेत् ।
पृथक्च स्रग्धूपविलेपनादिपूजां प्रकुर्वन्ति च ये विमूढः ॥ ३,१.३१ ॥

तेषां दुः खमिह लोके परत्र भविष्यते नात्र विचार्यमस्ति ।
प्रायश्चित्तं स्वस्ति विप्राः कथञ्चित्तत्कुर्वन्तु स्मरणं नाम विष्णोः ॥ ३,१.३२ ॥

पाषण्डरुद्रादिकसं प्रतिष्ठितान्हरेर्वायोः शङ्करस्य प्रतीकान् ।
नमन्ति ये फलबुद्ध्या विभूढास्तेषां फलं शाश्वतं दुः खमेव ॥ ३,१.३३ ॥

वायोः प्रतीकं यदि विप्रवर्यैः प्रतिष्ठितं चेन्नमनं हि कार्यम् ।
नैवेद्यशेषेण हरेश्च विष्णोः पूजा कृता चेन्न हि दोषलेशः ॥ ३,१.३४ ॥

गुरुर्हि मुख्यो हनुमज्जनिर्महान्रामाङ्घ्रिभक्तो हनुमान्सदैव ।
एवं विदित्वा परमं हरिं च पुत्रं पुनर्मुख्यदेवस्य वायोः ॥ ३,१.३५ ॥

नमस्कारो नान्यथा विप्रवर्या आधीयतां हृदि सर्वै रहस्यमम् ।
ये वैष्णवा वैष्ण वदासभृत्याः सर्वेपि ते सर्वदा विष्णुमेव ॥ ३,१.३६ ।
नमन्ति ये वै प्रतिपादयन्ति तथैव पुण्यानि च सात्त्विकानि ।
नमन्ति ये वासुदेवं हरिं च सम्यक्स्वशक्त्या प्रतिपादयन्ति ॥ ३,१.३७ ॥

प्रवृत्तिमार्गेण न पूजयन्ति ह्यापत्काले परदैवं तदन्यम् ।
ते वैष्णवा वैष्णवदासभृत्या अन्ये च सर्वेऽवैष्णवमात्रकाः स्मृताः ॥ ३,१.३८ ॥

उपक्रमैरुपसंहारस्य लिङ्गैर्हरिं गुरुं ह्यन्तरेणैव यान्ति ।
तानेवाहुः सत्पुराणानि विप्राः कलौ युगे नाभ्यसूयन्ति सर्वे ॥ ३,१.३९ ॥

यतो हितान्ये प्रतिपादयन्ति प्रवृत्तिधर्मान्स्वस्ववर्णानुरूपान् ।
अतो ह्यसूयन्ति सदा विमूढाः कलौ हि विप्राः प्रचुरा हि तेपि ॥ ३,१.४० ॥

न चास्ति विष्णोः सदृशं च दैवतं न चास्ति वायोः सदृशो गुरुश्च ।
न चास्ति तीर्थं सदृशं विष्णुपद्याः न विष्णुभक्तेन समोस्ति भक्तः ॥ ३,१.४१ ॥

अन्यानि विष्णोः प्रतिपादकानि सर्वाणि ते सात्त्विकानीति चाहुः ।
श्राव्याणि तान्येव मनुष्यलोके श्राव्याणि नान्यानि च दुः खदानि ॥ ३,१.४२ ॥

कलौ युगे सर्व पुराणमध्ये त्रीण्येव मुख्यानि हरिप्रियाणि ।
मुख्यं पुराणं हि कलौ नृणां च श्रेयस्करं भागवतं पुराणम् ॥ ३,१.४३ ॥

पूर्वं हि सृष्टिः प्रतिपाद्यते त्र यतो ह्यतो भागवतं परं स्मृतम् ।
यस्मिन्पुराणे कथयन्ति सृष्टिं ह्यादौ विष्णोर्ब्रह्मरुद्रादिकानाम् ॥ ३,१.४४ ॥

नानार्थमेवं कथयन्ति विप्र नीचोच्चरूपं ज्ञानमाहुर्महान्तः ।
तेनैव सिद्धं प्रवदन्ति सर्वं ह्यतः परं भागवतं पुराणम् ॥ ३,१.४५ ॥

ततः परं विष्णुपुराणमाहुस्ततः परं गारुडसंज्ञकं च ।
त्रीण्येव मुख्या नि कलौ नृणां तु तथा विशेषो गारुडे किञ्चिदस्ति ॥ ३,१.४६ ॥

शृणुध्वं वै तं विशेषं च विप्रास्त्र्यंशैर्युक्तं गारुडाख्यं पुराणम् ।
आद्यांशं वै कर्मकाण्डं वदन्ति द्वितीयांशं धर्मकाण्डं तमाहुः ॥ ३,१.४७ ॥

तृतीयांशं ब्रह्मकाण्डं वदन्ति तेषां मध्ये त्वन्तिमोयं वरिष्ठः ।
तृतीयांशश्रवणात्पुण्यमाहुस्तुल्यं पुण्यं भागवतस्य विप्राः ॥ ३,१.४८ ॥

तृतीयांशे पठिते वेदतुल्यं फलं भवेन्नात्र विचार्यमस्ति ।
तृतीयांशश्रवणादेव विप्राः फलं प्रोक्तं पठतोप्यर्थमेवम् ॥ ३,१.४९ ॥

तृतीयांशश्रवणादर्थतश्च पुण्यं चाहुः पठतो वै दशांशम् ।
ततो वरं मत्स्यपुराणमाहुस्ततो वरं कूर्मपूराणमाहुः ॥ ३,१.५० ॥

तथैव वै वायुपुराणमाहुस्त्रीण्येव चाहुः सात्त्विकानीति लोके ।
तत्रापि किञ्चिद्वेदितव्यं भवेच्च पुराणषट्के सत्त्वरूपे मुनीन्द्राः ॥ ३,१.५१ ॥

सत्त्वाधमे मात्स्यकौर्मे तथाहुर्वायु चाहुः सात्त्विकं मध्यमं च ।
विष्णोः पुराणं भागवतं पुराणं सत्त्वोत्तमं गारुडं चाहुरार्याः ॥ ३,१.५२ ॥

स्कान्दं पाद्मं वामनं वै वराहं तथाग्रेयं भविष्यं पर्वसृष्टौ ।
एतान्याहू राजसानीति विप्रास्तत्रैकदेशः सात्त्विकस्तामसश्च ॥ ३,१.५३ ॥

रजः प्राचुर्याद्राजसानीति च हुः श्राव्याणि नैतानि मुमुक्षुभिः सदा ।
तेषां मध्ये सात्त्विकांशाश्च संति तेषां श्रुतेर्गारुडीयं फलं च ॥ ३,१.५४ ॥

ब्रह्माण्डलैङ्ग्ये ब्रह्मवैवर्तकं वै मार्कंण्डेयं ब्राह्ममादित्यकं च ।
एतान्या हुस्तामसानीति विप्रास्तत्रैकदेशः सात्त्विको राजसश्च ॥ ३,१.५५ ॥

श्राव्याणि नैतानि मनुष्यलोके तत्त्वेच्छुभिस्तामसानीत्यतो हि ।
तेषु स्थिताः सात्त्विकांशा मुनीन्द्रास्तेषां श्रुतिर्गारुडैकाङ्घ्रितुल्या ॥ ३,१.५६ ॥

अल्पान्युपपुराणानि वदन्त्यष्टादशानि च ।
विष्णुधर्मोतरं चैव तन्त्रं भागवतं तथा ॥ ३,१.५७ ॥

तत्त्वसारं नारसिंहं वायुप्रोक्तं तथैव च ।
तथा हंसपुराणं च षडेतानि मुनीश्वराः ॥ ३,१.५८ ॥

सात्त्विकान्येव जानीध्वं प्रायशो नात्र संशयः ।
एतेषां श्रवणादेव गारुडार्धफलं श्रुतम् ॥ ३,१.५९ ॥

भविष्योत्तरनामानं बृहन्नारदमेव च ।
यमनारदसंवादं लघुनारदमेव च ॥ ३,१.६० ॥

विनायकपुराणं च बृहद्ब्रह्माण्डमेव च ।
एतानि राजसान्याहुः श्रवणाद्भुक्तरुत्तमा ॥ ३,१.६१ ॥

गारुडात्पादतुल्यं च फलं चाहुर्मनीषिणः ।
पुराणं भागवतं शैवं नन्दिप्रोक्तं तथैव च ॥ ३,१.६२ ॥

पाशुपत्यं रैणुकं च भैरवं च तथैव च ।
एतानि तामसान्याहुर्हरितत्त्वार्थवेदिनः ॥ ३,१.६३ ॥

एतेषां श्रवणाद्विप्रागारुडाङ्घ्यर्ध्मेव च ।
सर्वेष्वपि पुराणेषु श्रेष्ठं भागवतं स्मृतम् ॥ ३,१.६४ ॥

वेदैस्तुल्य सम पाठे श्रवणे च तदर्धकम् ।
अर्थतः श्रवणे चास्य पुण्यं दशगुणं स्मृतम् ॥ ३,१.६५ ॥

वक्तुः स्याद्द्विगुणं पुण्यं व्याख्यातुश्च तथाधिकम् ।
अनन्तवेदैःसाम्यमाहुर्महान्तः भारान्महत्त्वाद्भारतस्यापि विप्राः ॥ ३,१.६६ ॥

वेदोभ्योस्य त्वर्थतश्चाधिकत्वं वदन्ति बै विष्णुरहस्यवेदिनः ॥ ३,१.६७ ॥

तत्र श्रेष्ठां गीतिकामाहुरार्यास्तथैव विष्णोर्नामसाहस्रक च ।
तयोस्तत्र श्रवणाद्भारतस्य दशाधिकं फलमाहुर्महान्तः ॥ ३,१.६८ ॥

दैत्याः सर्व विप्रकुलेषु भूत्वा कृते युगे भारते षट्सहस्र्याम् ।
निष्कास्य कांश्चिन्नवनिर्मितानां निवेशनं तत्र कुर्वन्ति नित्यम् ॥ ३,१.६९ ॥

मत्वा हरिं भगवान्व्यासरूपी चक्रे तदा भागवतं पुराणम् ।
तथा समाख्याय च वैष्णवं तत्ततः परं गारुडाख्यं स चक्रे ॥ ३,१.७० ॥

अतो हि गारुडं मुख्यं पुराणं शास्त्रसंमतम् ।
गारुडेन समं नास्ति विष्णुधर्मप्रदर्शने ॥ ३,१.७१ ॥

यथा सुराणां प्रवरो जनार्दनो यथायुधानां प्रवरः सुदर्शनम् ।
यथाश्वमेधः प्रवरः क्रतूनां छिन्नेषु भक्तेषु तथैव रुद्रः ॥ ३,१.७२ ॥

नदीषु गङ्गा जलजेषु पद्ममच्छिन्नभक्तेषु तथैव वायुः ।
तथा पुराणेषु च गारुडं च मुख्यं तदाहुर्हरितत्त्वदर्शने ॥ ३,१.७३ ॥

गारुडाख्यपुराणे तु प्रतिपाद्यो हरिः स्मृतः ।
अतो हरिर्नमस्कार्यो गम्यो योग्यो हरिः स्मृतः ॥ ३,१.७४ ॥

भाग्यात्मकत्वाच्छ्रीदेव्या नमनं नदनु स्मृतम् ।
परो नरोत्तमो वा स साधकेशोपि च स्मृतः ॥ ३,१.७५ ॥

अतो नम्यो वायुरपि पुराणादौ द्विजोत्तमाः ।
भारती वाक्यरूपत्वान्नम्या वायोरनन्तरम् ॥ ३,१.७६ ॥

उपसाधको नरः प्रोक्तो यतोतस्तदनन्तरम् ।
नम्य इत्यच्यते सद्भिस्तारतम्येन सर्वदा ॥ ३,१.७७ ॥

अतो व्यासं नमस्कुर्याद्ग्रन्थकर्तृत्वहेतुतः ।
शौनक उवाच ।
व्यासस्य नमनं ह्यन्ते कथं कार्यं महात्मनः ॥ ३,१.७८ ॥

अन्ते च वन्दने तस्य कारणं ब्रूहि सुव्रत ।
सूत उवाच ।
विष्णोरनन्तरं व्यासनमनं मुख्यमेव हि ॥ ३,१.७९ ॥

हरिरेव यतो व्यासो वाच्यचक्रस्वरूपकः ।
व्यासो नैव समत्वेन प्रोक्तो भगवतो हरेः ॥ ३,१.८० ॥

तत्रापि कारणं वक्ष्ये सादरेण मुनीश्वराः ।
व्यासस्तु कश्चन ऋषिः पुराणे तामसे स्मृतः ॥ ३,१.८१ ॥

इति ज्ञाना वलंबेन दैत्या दैत्यानुगैः समाः ।
प्रविशन्ति ह्यन्धतम इति त्वन्ते नमस्कृतः ॥ ३,१.८२ ॥

यदिदं परमं गोप्यं हृदि धार्यं न संशयः ।
पराणां नम्यमेवोक्तं प्रतिपाद्यं यतोत्र हि ॥ ३,१.८३ ॥

समासव्यासभावाद्धि पराणां तत्प्रतीयते ।
वास्तवं तं न जानीयुरुपजीव्यो यतो हरिः ॥ ३,१.८४ ॥

हरिर्व्यासस्त्वेक एव व्यासस्तु हरिवत्स्मृतः ।
उपजीव्यतदीशत्वे तयोरेव न संशयः ॥ ३,१.८५ ॥

ईशकोटिप्रविष्टत्वाच्छ्रियः स्वामित्वमीरितम् ।
त्रयाणामुपजीव्यत्वात्सेव्यत्वात्स्वामिता स्मृताः ॥ ३,१.८६ ॥

वाय्वादीनां त्रयाणां च सेव्यत्वात्सेव्यता स्मृता ।
भूभारहरणे विष्णोः प्रधानाङ्गं हि मारुतिः ॥ ३,१.८७ ॥

वाक्यरूपा भारती तु द्वितीयाङ्गं हि सा स्मृता ।
तृतीयाङ्ग हरेः शेषो न नम्याः साम्यतो हरेः ॥ ३,१.८८ ॥

प्रतिपाद्या मुख्यतया नम्या एव समीरिताः ।
अवान्तराश्च वाय्वाद्या न नम्यास्तेन ते स्मृताः ॥ ३,१.८९ ॥

भीष्मद्रोणादिनामानि भीमादिष्वेव मुख्यतः ।
वाचकानि यतो नित्यं तन्नम्यास्ते मुनीश्वराः ॥ ३,१.९० ॥

पराणामेव नम्यत्वं प्रतिपाद्यत्वमेव हि ।
एतत्सर्वं मयाख्यातं किमन्यच्छ्रोतुमिच्छथ ॥ ३,१.९१ ॥

इति श्रीगारुडे महापुराणे सूतशौनकसंवादे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे सात्त्विकादिपुराणविभागनम्यानम्यदेवविभागादिविषयनिरूपणं नाम प्रथमोऽध्यायः