गरुडपुराणम्/ब्रह्मकाण्डः (मोक्षकाण्डः)/अध्यायः १६

विकिस्रोतः तः
Jump to navigation Jump to search
← ब्रह्मकाण्डः (मोक्षकाण्डः), अध्यायः १५ गरुडपुराणम्
अध्यायः १६
वेदव्यासः
ब्रह्मकाण्डः (मोक्षकाण्डः), अध्यायः १७ →


श्रीगरुडमहापुराणम् १६
श्रीकृष्ण उवाच ।
महालक्ष्म्याः स्वरूपं च अवतारान्खगेश्वर ।
शृणु सम्यङ्महाभाग तज्ज्ञानस्य विनिर्णयम् ॥ ३,१६.१ ॥

ईशादन्यस्य जगतो ह्यात्मो लोचन एव तु ।
विषयीकुरुते तत्स्याज्ज्ञानं लक्ष्म्याः प्रकीर्तितम् ॥ ३,१६.२ ॥

नित्यावियोगिनी देवी हरिपादैकसंश्रया ।
नित्यमुक्ता नित्यबुद्धा महालक्ष्मीः प्रकीर्तिता ॥ ३,१६.३ ॥

मूलस्य च हरेर्भार्या लक्ष्मीः संप्रकीर्तिता ।
पुंसो हिभार्या प्रकृतिः प्रकृतेश्चा भिमानिनी ॥ ३,१६.४ ॥

सृष्टिं कर्तुं गुणान्वीन्द्र पुरुषेण सह प्रभो ।
तमः पानं तथा कर्तुं प्रकृत्याख्या तदाभवत् ॥ ३,१६.५ ॥

वासुदेवस्य भार्या तु माया नाम्नी प्रकीर्तिता ।
संकर्षणस्य भार्या तु जयेति परिकीर्तिता ॥ ३,१६.६ ॥

अनिरुद्धस्य भार्या तु शान्ता नाम्नीति कीर्तिता ।
कृतिः प्रद्युम्नभार्यापिं सृष्टिं कर्तुं बभूवह ॥ ३,१६.७ ॥

विष्णुपत्नी कीर्तिता च श्रीदेवी सत्त्वमानिनी ।
तमोभिमानिनी दुर्गा कन्यकेति प्रकीर्तिता ॥ ३,१६.८ ॥

कृष्णावतारे कन्येव नन्दपुत्रानुजा हि सा ।
रजोभिमानिभूदेवी भार्या सा सूकरस्य च ॥ ३,१६.९ ॥

वेदाभिमानिनी वीन्द्र अन्नपूर्णा प्रकीर्तिता ।
नारायणस्य भार्या तु लक्ष्मीरूपा त्वजा स्मृता ॥ ३,१६.१० ॥

यज्ञाख्यस्य हरेर्भार्या दक्षिणा संप्रकीर्तिता ॥ ३,१६.११ ॥

जयन्ती वृषभस्यैव पत्नी संपरिकीर्तिता ।
विदेहपुत्री सीता तु रामभार्या प्रकीर्तिता ॥ ३,१६.१२ ॥

रुक्मिणीसत्यभामा च भार्ये कृष्णस्य कीर्तिते ।
इत्यादिका ह्यनन्ताश्चाप्यावताराः पृथग्विधाः ॥ ३,१६.१३ ॥

रमायाः संति विप्रेन्द्र भेदहीनाः परस्परम् ।
अनन्तानन्तगुणकाद्विष्णोर्न्यूनाः प्रकीर्तिताः ॥ ३,१६.१४ ॥

अथ ब्रह्मा च वायुश्च श्रियः कोटिगुणाधमौ ।
वक्ष्ये च ब्रह्मणो रूपं शृणु पक्षीन्द्रसत्तम ॥ ३,१६.१५ ॥

वासुदेवात्समुत्पन्नो मायायां च खगेश्वर ।
स एव पुरुषोनाम विरिञ्च इति कीर्तितः ॥ ३,१६.१६ ॥

अनिरुद्धात्तु शान्तायां महत्तत्त्वतनुस्त्वभूत् ।
तदा महान्विरिञ्चेति संज्ञामाप खगेश्वर ॥ ३,१६.१७ ॥

रजसात्र समुत्पन्नो मायायां वासुदेवतः ।
विधिसंज्ञो विरिञ्चः स ज्ञातव्यः पक्षिसत्तम ॥ ३,१६.१८ ॥

ब्रह्माण्डान्तः पद्मनाभो यो जातः कमलासनः ।
स चर्तुमुखसंज्ञां चाप्यवाप खगसत्तम ॥ ३,१६.१९ ॥

एवं चत्वारिरूपाणि ब्रह्मणः कीर्तितानि च ।
वायोर्नामानि वक्ष्येहं शृणु पक्षीन्द्रसत्तम ॥ ३,१६.२० ॥

संकर्षणाच्च गरुड जयायां यो वभूव ह ।
स वायुः प्रथमो ज्ञेयो प्रधान इति कीर्तितः ॥ ३,१६.२१ ॥

लोकचेष्टाप्रदत्वात्स सूत्रनाम्नापि कीर्तितः ।
बदरीस्थस्य विष्णोश्च धैर्येण स्तवनाय सः ॥ ३,१६.२२ ॥

धृतिरूपं ययौ वायुस्तस्माद्धृतिरिति स्मृतः ।
योग्यानां हरिभक्तानां धृतिरूपेण संस्थितः ॥ ३,१६.२३ ॥

यतो हृदि स्थितो वायुस्ततो वै धृतिसंज्ञकः ।
सर्वेषां च दृदि स्थित्वा स्मरते सर्वदा हरिम् ॥ ३,१६.२४ ॥

अतो वायुःस्थितिर्नाम बभूव खगसत्तम ।
अथवा वायुरेवैकः श्वेतद्वीपगतं हरिम् ॥ ३,१६.२५ ॥

सदा स्मरति वै वीन्द्र अतोसौ स्मृतिसंज्ञकः ।
सर्वेषां च हृदिस्थित्वा ज्ञातो विष्णोरुदीरणात् ॥ ३,१६.२६ ॥

अतो मे मुक्तिनामाभूद्वायुरेव न संशयः ।
ज्ञानद्वारेण भक्तानां मुक्तिदो मदनुज्ञया ॥ ३,१६.२७ ॥

यतो सौ वायुरेवैको मुक्तिनामा भूवह ।
विष्णौ भक्तिं वर्ध्यति भक्तानां हृदि संस्थितः ॥ ३,१६.२८ ॥

अतोसौ विष्णुभक्तश्च कीर्तितो नात्र संशयः ।
एषोसौ सर्वजीवानां चित्तसंज्ञानमेव च ॥ ३,१६.२९ ॥

चित्तरूपो यतो वायुरतश्चित्तमिति स्मृतः ।
प्रभुः प्रभूणां गरुड सोदराणां च सर्वशः ॥ ३,१६.३० ॥

अतस्तु वायुरेवैको महाप्रभुरिति स्मृतः ।
सर्वेषां च हृहि स्थित्वा बलं पश्यति सत्तम ॥ ३,१६.३१ ॥

अतो बलमिति ह्याख्यामवाप विनतासुत ।
सर्वेषां च हृदि स्थित्वा पुत्रपौत्रादिकैर्जनैः ॥ ३,१६.३२ ॥

याजनं कुरुते नित्यमतोसौ यष्टृसंज्ञकः ।
अनन्तकल्पमारभ्य वायुपर्यन्तमेव च ॥ ३,१६.३३ ॥

वक्रत्वं नास्ति योगस्य ऋजुर्योग्य इति स्मृतः ।
योगस्य वक्रता नाम काम्यता हरिपूजने ।
ईशरुद्रादिकानां च काम्येन हरिपूजनम् ॥ ३,१६.३४ ॥

कस्यचित्त्वथ पक्षीन्द्र ह्यतस्त्वनृजवः स्मृताः ॥ ३,१६.३५ ॥

ऋष्यादीनां च मध्येपि काम्येन हरिपूजनम् ।
अतो न ऋजवो ज्ञेया मनुष्याणां च का कथा ॥ ३,१६.३६ ॥

यावत्काम्यसपर्यां वै न जहाति नरोत्तमः ।
तथा ऋष्यादयश्चैव मोक्षस्य परिपन्थिनीम् ॥ ३,१६.३७ ॥

अनादिकालमारभ्य कर्मजन्या च वासना ।
मोक्षाधिकारिणः सर्वे कुर्वते कस्य पूजनम् ॥ ३,१६.३८ ॥

नष्टप्रायं च तत्सर्वं गुरोः संज्ञानबोधकात् ।
प्राप्ययोगं समाचर्य अन्ते मोक्षमवाप्नुयात् ॥ ३,१६.३९ ॥

काम्येन पूजनं विष्णोरैश्वर्यं प्रददाति च ।
ज्ञानं च विपरीतं स्यात्तेन यात्यधरं तमः ॥ ३,१६.४० ॥

तदेव विपरीतं चेज्ज्ञानाय परिकीर्तितम् ।
शिलायां विष्णुबुद्धिस्तु विष्णुबुद्धिर्द्विजे तथा ॥ ३,१६.४१ ॥

सलिले तीर्थबुद्धिस्तु रोणुकायां तथैव च ।
शिवे सूर्ये पण्मुखे च विष्णुबुद्धिः खगेश्वर ॥ ३,१६.४२ ॥

इत्याद्यमखिलं ज्ञानं विपरीतमिति स्मृतम् ।
शिलाद्येषु च सर्वेषु ऐक्येनव विचिन्तनम् ॥ ३,१६.४३ ॥

विष्णुबुद्धिरिति प्रोक्तं न तु तत्रस्थवेदनम् ।
अनाद्यनन्तकालेपि काम्येन हरिपूजनम् ॥ ३,१६.४४ ॥

यतो नास्ति ततो वायुरृजुर्योग्यः प्रकीर्तितः ।
अन्येषां सर्वदा नास्ति अतो न ऋजवः स्मृताः ॥ ३,१६.४५ ॥

हरिं दर्शयते वापि अपरोक्षेण सर्वदा ।
मोक्षाधिकारिणां काले अतः प्रज्ञेति कथ्यते ॥ ३,१६.४६ ॥

परोक्षेणापि सर्वेषां हरिं दर्शयते सदा ।
अतो वायुः सदा वीन्द्र ज्ञानमित्येव कीर्तितः ॥ ३,१६.४७ ॥

हिताहितोपदेष्टृत्वाद्भक्तानां हृदये स्थितः ।
ततश्च गुरुसंज्ञां चाप्यवाप स च मारुतः ॥ ३,१६.४८ ॥

योगिनां हृदये स्थित्वा सध्यायति हरिं परम् ।
पार्थक्येनापि तं ध्यायन्महाध्यातेति स स्मृतः ॥ ३,१६.४९ ॥

यद्योग्यतानुसारेण विजानाति परं हरिम् ।
रुद्रादौ विद्यमानांश्च गुणाञ्जानाति सर्वदा ॥ ३,१६.५० ॥

अतो वै विज्ञनामासौ प्रोक्तो हि खगसत्तम ।
काम्यानां कर्मणां त्यागाद्विराग इति स स्मृतः ॥ ३,१६.५१ ॥

अथवायोगिनां नित्यं हृदि स्थित्वा स मारुतः ।
वैराग्यं संजनयति विराग इति स स्मृतः ॥ ३,१६.५२ ॥

देवानां पुण्यपापाभ्यां सुखमेवोत्तरोत्तरम् ।
तत्सुखं तूत्तरेषां च वायुपर्यन्तमेव च ॥ ३,१६.५३ ॥

देवानां च ऋषीणां च उत्तमानां नृणां तथा ।
सुखांशं जनयेद्वायुर्यतोतः सुखसंज्ञकः ॥ ३,१६.५४ ॥

भुनक्ति सर्वदा वीद्रं तत्र मुख्यस्तु मारुतः ।
दुः खशोकादिकं किञ्चिद्देवानां भवति प्रभो ॥ ३,१६.५५ ॥

तच्चासुरावेशवशादित्यवेहि न संशयः ।
तज्जीवस्य भवेत्किञ्चिद्दैत्यानां क्रमशो भवेत् ॥ ३,१६.५६ ॥

यतः कलिश्चाधिकः स्यादतो दुः खीति स स्मृतः ।
दैत्यानां पुण्यपापाभ्यां दुः ख मेवोत्तरोत्तरम् ॥ ३,१६.५७ ॥

तद्दुः खमुत्तरेषां च कलिपर्यन्तमेव च ।
भुनक्ति सर्वदा वीन्द्र ततः कलिरिति स्मृतः ॥ ३,१६.५८ ॥

सुखहर्षादिकं किं चिद्दैत्यानां भवति प्रभो ।
देवावेशो भवेत्तस्य नात्र कार्या विचारणा ॥ ३,१६.५९ ॥

देवानां निरयो नास्ति दैत्यानां विनतासुत ।
सुखस्वरूपं तन्नास्ति विषयोत्थमपि द्विज ॥ ३,१६.६० ॥

विषयोत्थं किञ्चिदपि देवावेशादुदीरितम् ।
तमो नास्त्येव देवानां दुः खं नास्ति स्वरूपतः ॥ ३,१६.६१ ॥

विषयोत्थं महादुः खं देवानां नास्ति सर्वदा ।
दुः खशोकादिकं किं चिदसुरावेशतो भवेत् ॥ ३,१६.६२ ॥

अतः कलिः सदा दुः खी सुखी वायुस्तु सर्वदा ।
मनुष्याणा मृषीणां च सुखं दुः खं खगेश्वर ॥ ३,१६.६३ ॥

भवेत्तत्पुण्यिपापाभ्यां पुण्यभोगी च मारुतः ।
कष्टभङ्गः कलिलयो नात्र कार्या विचारणा ॥ ३,१६.६४ ॥

प्राणादिसुखपर्यन्ता अंशा एकोनविंशतिः ।
प्रविष्टाः संति लोकेषु पृथक्संति खगेश्वर ॥ ३,१६.६५ ॥

मारुतरेवतारांश्च शृणु पक्षीन्द्रसत्तम ।
चतुर्दशसु चन्द्रेषु द्वितीयौयो विरोचनः ॥ ३,१६.६६ ॥

स वायुरिति संप्रोक्त इन्द्रादीनां खगेश्वर ।
हरितत्त्वेषु सर्वेषु स विष्वग्याव्यतेक्षणः ॥ ३,१६.६७ ॥

अतो रोचननामासौ मरुदंशः प्रकीर्तितः रामावतारे हनुमान्रामकार्यार्थसाधकः ।
स एव भीमसेनस्तु जातो भूम्यां महाबलः ॥ ३,१६.६८ ॥

कृष्णावतारे विज्ञेयो मरुदंशः प्रकीर्तितः ॥ ३,१६.६९ ॥

मणिमान्नाम दैत्यस्तु संराख्यो भविष्यति ।
सर्वेषां संकरं यस्तु करिष्यति न संशयः ॥ ३,१६.७० ॥

तेन संकरनामासौ भविष्यति खगेश्वर ।
धर्मान्भागवतान्सर्वान्विनाशयति सर्वथा ॥ ३,१६.७१ ॥

तदा भूमौ वासुदेवो भविष्यति न संशयः ।
यज्ञार्थैः सदृशो यस्य नास्ति लोके चतुर्दशे ॥ ३,१६.७२ ॥

अतः स प्रज्ञया पूर्णो भविष्यति न संशयः ।
अवतारास्त्रयो वायोर्मतं भागवताभिधम् ॥ ३,१६.७३ ॥

स्थापनं दुष्टदमनं द्वयमेव प्रयोजनम् ।
नान्यत्प्रयोजनं वायोस्तथा वैरोचनात्मके ॥ ३,१६.७४ ॥

अवतारत्रये वीन्द्र दुः खं गर्भादिसंभवम् ।
नास्ति नास्त्येव वायोस्तु तथा वैरोचनादिके ॥ ३,१६.७५ ॥

शुक्रशोणितसंबन्धो ह्यवतारचतुष्टये ।
नास्ति नास्त्येव पक्षीन्द्र यतो नास्त्यशुभं ततः ॥ ३,१६.७६ ॥

पूर्वं गर्भं समाशोष्य समये प्रभवस्य च ।
प्रादुर्भवति देवेशी ह्यवतारचतुष्टये ॥ ३,१६.७७ ॥

त्रयोविंशतिरूपाणां वायोश्चैव खगेश्वर ।
रूपैरृजुस्वरूपैश्च ब्रह्मणः परमेष्ठिनः ॥ ३,१६.७८ ॥

सत्यमेव न संदेहो नित्यानन्दसुखादिषु ।
एवमेव विजानीयान्नान्यथा तु कथञ्चन ॥ ३,१६.७९ ॥

एतस्य श्रवणादेव मोक्षं यान्ति न संशयः ।
तदनन्तरजान्वक्ष्ये शृणु पक्षीन्द्रसत्तम ॥ ३,१६.८० ॥

कृतौ प्रद्युम्नतश्चैव समुत्पन्ने खगेश्वर ।
स्त्रियौ द्वे यमले चैव तयोर्मध्ये तु यद्यिका ॥ ३,१६.८१ ॥

वाणीतिसंज्ञकां वीन्द्र ब्रह्माणीसंज्ञकां विदुः ।
पुरुषाख्यविरिञ्चस्य भार्या सावित्रिका मता ।
चतुर्मुखस्य भार्या तु कीर्तिता सा सरस्वती ॥ ३,१६.८२ ॥

एवं त्रिरूपं विज्ञेयं वाण्याश्च खगसत्तम ।
वक्ष्येऽवतारान् भारत्याः समाहितमनाः शृणु ॥ ३,१६.८३ ॥

सर्ववेदाभिमानित्वात्सर्ववेदात्मिका स्मृता ।
महाध्यातुश्च वायोस्तु भार्यासा परिकीर्तिता ॥ ३,१६.८४ ॥

ज्ञानरूपस्य वायोस्तु भार्या सा परिकीर्तिता ।
सदा सुखस्वरूपत्वाद्भारती तु सुखात्मिका ॥ ३,१६.८५ ॥

सुखस्वरूप वायोस्तु भार्या सा परिकीर्तिता ।
गुरुस्तु वायुरेवोक्तस्तस्मिन् भक्तियुता सती ॥ ३,१६.८६ ॥

ततस्तु भारती नित्या गुरुभक्तिरिति स्मृता ।
महागुरोर्हि वायोश्च भार्या वै परिकीर्तिता ॥ ३,१६.८७ ॥

हरौ स्नेहयुतत्वाच्च हरिप्रीतिरिति स्मृता ।
धृतिरूपस्य वायोश्च भार्या सा परिकीर्तिता ॥ ३,१६.८८ ॥

सर्वमन्त्राभिमानित्वात्सर्वमन्त्रात्मिका स्मृता ।
महाप्रभोश्च वायोश्च भार्या वै सा प्रकीर्तिता ॥ ३,१६.८९ ॥

भुज्यन्ते सर्वभोगास्तु विष्णुप्रीत्यर्थमेवच ।
अतस्तु भारती ज्ञेया भुजिनाम्ना प्रकीर्तिता ॥ ३,१६.९० ॥

चित्ररूपस्य वायोस्तु भार्या सा परिकीर्तिता ।
रोचनेन्द्रस्य भार्या च श्रद्धाख्या परिकीर्तिता ॥ ३,१६.९१ ॥

हनुमांश्च तदा जज्ञे त्रेतायां पक्षिसत्तम ।
तदा शिवाख्यविप्राच्च जज्ञे सा भारती स्मृता ॥ ३,१६.९२ ॥

न केवलं भारती साशच्याद्यैश्चैव संयुता ।
तस्मिन्संजनिताः सर्वाः प्रापुर्योगं स्वभर्तृभिः ॥ ३,१६.९३ ॥

अन्यगेति च विज्ञेया कन्या तन्मतिसंज्ञिका ।
त्रेतान्ते सैव पक्षीन्द्र शच्याद्यैश्चैव संयुता ॥ ३,१६.९४ ॥

दमयन्त्यनलाज्जाता इन्द्रसेनेति चोच्यते ।
नलं नन्दयते यस्मात्तस्माच्च नलनन्दिनी ॥ ३,१६.९५ ॥

तत्र स्वभर्तृसंयोगं नैव चाप खगेश्वर ।
तत्रान्यगात्वं विज्ञेयं पुरुषस्थेन वायुना ॥ ३,१६.९६ ॥

किञ्चित्कालं तथा स्थित्वा कन्यैव मृति माप सा ।
शच्यादिसंयुता सैव द्रुपदस्य महात्मनः ॥ ३,१६.९७ ॥

वेदिमध्यात्समुद्भूता भीमसेनार्थमेव च ।
तत्रान्यगात्वं नास्त्येव योगश्च सह भर्तृभिः ॥ ३,१६.९८ ॥

केवला भारती ज्ञेया काशिराजस्य कन्यका ।
काली नाम्ना तु सा ज्ञेया भीमसेनप्रिया सदा ॥ ३,१६.९९ ॥

वाच्यादिभिः संयुतैवद्रौपदी द्रुपदात्मजा ।
देहं त्यक्त्वाविशिष्टैव कारटीग्रामसंज्ञकै ॥ ३,१६.१०० ॥

संकरस्य गृहे वीन्द्र भविष्यति कलौ युगे ।
वायोस्तृतीयरूपार्थं सा कन्यैव मृतिं गता ॥ ३,१६.१०१ ॥

इत्याद्या वायुभार्याश्च ब्रह्मभार्याश्च सतम ।
स्वभर्तृभ्यां च पक्षीन्द्र गुणैश्चैव शताधमाः ॥ ३,१६.१०२ ॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे महालक्ष्म्यवतारादिनिरूपणं नाम षोडशोऽध्यायः