गरुडपुराणम्/ब्रह्मकाण्डः (मोक्षकाण्डः)/अध्यायः १५

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← ब्रह्मकाण्डः (मोक्षकाण्डः), अध्यायः १४ गरुडपुराणम्
अध्यायः १५
वेदव्यासः
ब्रह्मकाण्डः (मोक्षकाण्डः), अध्यायः १६ →

श्रीगरुडमहापुराणम् १५
श्रीकृष्ण उवाच ।
अथावता रान्पुरुषाख्यो हरिश्च गतो ध्यानं कर्तुमीशो महात्मा ।
प्रादुर्बभूवाखिलसद्गुणार्णवः स एव विष्णुः स च बीजभूतः ॥ ३,१५.१ ॥

यो बीजभूतः पुरुषाख्य विष्णुः स एवाभूद्वासुदेवो महात्मा ।
सृष्टिं कर्तुं पुरुषाख्यस्य वायोर्मायाख्यायां मूलरूपो यथाऽस ॥ ३,१५.२ ॥

यो वासुदेवस्तु स एव जातः संकर्षणाख्यो खिलसद्गुणात्मा ।
सृष्टिं कर्तुं सूत्रभूतस्य वायोर्जयाख्यायं पूर्णसंवित्परात्मा ॥ ३,१५.३ ॥

स एवं संकर्षणनामधेयः प्रद्युम्ननामा च स एव विश्रुतः ।
सरस्वतीभारतीसर्जनार्थं स एव देव्या मूलरूपो बभूव ॥ ३,१५.४ ॥

सृष्ट्वा युक्तं षोडशभिः कलाभिर्महत्तत्त्वं सूक्ष्मरूपं स एव ।
साहङ्कारं क्रीडयामास देवः शृणु त्वं वै षोडशाख्याः कलाश्च ॥ ३,१५.५ ॥

भूतानि कर्मेन्द्रियपञ्चकानि ज्ञानेन्द्रियाणीह तथा मनश्च ।
ततो बभूव ह्यनिरुद्धसंज्ञको जीवांश्च संगृह्य सुपूर्णशक्तिः ॥ ३,१५.६ ॥

सोयं विरिञ्च्यादिसमस्तदेवान् स्थूलेन देहेन ससर्ज नाथः ।
तथा स विष्णुः पुरुषाभिधस्तु सनत्कुमारत्वमवाप वीन्द्र ॥ ३,१५.७ ॥

अनन्यसाध्यं ब्रह्मचर्यं च कर्तुं दशेन्द्रियाणां शोषणार्थं सदैव ।
सनन्दनादौ पठितः कुमारस्तस्मान्नान्यो नात्र विचार्यमस्ति ॥ ३,१५.८ ॥

स एव विष्णुः सूकरत्वं ह्यवाप क्षोपणीमुद्धर्तुं दैत्यवपुर्निहन्तुम् ।
हिरण्याक्षं सज्जनानां खगेन्द्र तथा भूमेः स्थापनार्थं च देवः ॥ ३,१५.९ ॥

ततो हरिर्मद्विदासत्वमापानृषेर्भार्यायां यामिन्यां यो महात्मा ।
तत्रावतारे पञ्चरात्रं समग्रमुपादेष्टुं नाप दानं स्वतन्त्रः ॥ ३,१५.१० ॥

स एव विष्णुः समभूद्ब्रदर्यां नारायणाख्यः शमलापहश्च ।
तपस्तप्तुं शिक्षयितुं त्वृषीणां तिरस्कर्तुं ह्यप्सरसां सहस्रम् ॥ ३,१५.११ ॥

ततो हरिः कपिलत्वं ह्यवाप्य तिरोहितान्कालबलेन तत्त्वान् ।
चतुर्विशतिं संशयं चोद्धरिष्यन्नुपादिशच्चासुरये महात्मा ॥ ३,१५.१२ ॥

स एव दतः समभूद्रमेशोनसूयायामत्रिरूपः परात्मा ।
आन्वीक्षिकिं नाम सुतर्कविद्यामलर्कनाम्ने प्रददात्तां महात्मा ॥ ३,१५.१३ ॥

स एव वंशेप्यभवद्रवेश्च आकूत्यां यः सच्चिदानन्दरूपः ।
स्वायंभुवं यत्तु मन्वन्तरं च देवैः साकं पालयामास वीन्द्र ॥ ३,१५.१४ ॥

स एव विष्णुः स उरुक्रमोभूदाग्नीध्रपुत्र्यां मेरुदेव्यां च नाभेः ।
विद्यारतानां मानिनां सर्वदैवमत्याश्चर्यं दर्शयितुं च वीन्द्र ॥ ३,१५.१५ ॥

ततो हरिर्जगृहे कूर्मरूपं सुरासुराणामुदधिं विमथ्नताम् ।
पृष्ठे धर्तुं मन्दरं पर्वतं च ब्रह्माण्डं वा धर्तुमीशो महात्मा ॥ ३,१५.१६ ॥

ततो हरिः प्रादुरभून्महात्मा धन्वन्तरिर्नाम हरिन्मणिद्युतिः ।
अपथ्यदोषान्परिहर्तुमेव हस्ते गृहीत्वा पूर्णकुभं सुधाभिः ॥ ३,१५.१७ ॥

ततो हरिर्जगृहे श्रीवपुश्च यन्मोहिनीति प्रवदन्ति लोके ।
उद्वृत्तानां दितिजानां महात्मा सम्यक्तेषां वञ्चयितुं हरिर्बलम् ॥ ३,१५.१८ ॥

ततो हरिः प्रादुरभून्महात्मा नृसिंहनामा भगवाननन्तः ।
दैत्यो हिरण्यकशिपुश्च तथोरुदेशे संस्थापितः करजैर्दारितश्च ॥ ३,१५.१९ ॥

ततो हरिर्भगवान्वामनोभूददित्यां वै कश्यपाद्दवदेवः ।
इन्द्रायेदं दातुकामः खगेन्द्र तदर्थं वै पावितुं सोवितुं च ॥ ३,१५.२० ॥

ततो हरिर्जमदग्नेः सुतोभूल्लोके सर्वे पर्शुरामं वदन्ति ।
ब्रह्मद्विषां क्षत्रियाणां च वीन्द्र भूमिं निः क्षत्रां कर्तुकामो महेशः ॥ ३,१५.२१ ॥

ततोभवद्व्यासरूपी स विष्णुश्चतुर्वारं राघवास्यापि पूर्णः ।
पराशरात्सत्यवत्यां बभूव पैलादिभिर्वेदभागांश्च कर्तुम् ॥ ३,१५.२२ ॥

ततो हरी रघुवंशेवतीर्णः कौसल्यायां राघवः सूर्यवंशे ।
समुद्रादोर्विग्रहं कर्तुमीशो हं तुं भूम्यां रावणादींश्च वीन्द्र ॥ ३,१५.२३ ॥

ततो हरिर्व्यासरूपी बभूव अष्टाविंशे द्वपरे ज्ञानरूपी ।
पराशरात्सत्यवत्यां महात्मा स्वयं वेदान् संविभक्तुं च देवः ॥ ३,१५.२४ ॥

ततो हरिः कृष्णरूपी बभूव देवक्यां वै वसुदेवात्स विष्णुः ।
कंसादीन्वै नितरां हन्तुकामः सम्यक्पातुं पाण्डवांश्चापि वीन्द्र ॥ ३,१५.२५ ॥

ततः कलौ संप्रवृत्ते हरिस्तु संमोहनार्थं चासुराणां खगेन्द्र ।
नाम्ना बुद्धो कीकटेषु प्रजातो वेदप्रमाणं निराकर्तुमेव ॥ ३,१५.२६ ॥

ततो हरिः कल्किसंज्ञश्च वीन्द्र उत्पत्स्यते युगयोर्मध्यसंधौ ।
दस्युप्रायान्भूमिपान्वै निहन्तुं नाम्ना हरिर्विष्णुगुप्तस्य गेहे ॥ ३,१५.२७ ॥

केशवाद्याश्चतुर्विंशतिर्वै संकर्षणादयः ।
विश्वादय सहस्रं च पराद्या अमिताः स्मृताः ॥ ३,१५.२८ ॥

अवतारा ह्यसंख्याता विष्णोर्नारायणस्य च ।
स्वयं नारायणास्ते ते नाणुमात्रं विभिद्यते ॥ ३,१५.२९ ॥

बलतोरूपतश्चापि गुणतश्च कथञ्चन ।
अनन्तोनन्तगुणतः पूर्णो विष्णुर्न चान्यथा ॥ ३,१५.३० ॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे विष्णोरवतारनिरूपणं नाम पञ्चदशोऽध्यायः