गरुडपुराणम्/ब्रह्मकाण्डः (मोक्षकाण्डः)/अध्यायः १४

विकिस्रोतः तः
Jump to navigation Jump to search
← ब्रह्मकाण्डः (मोक्षकाण्डः), अध्यायः १३ गरुडपुराणम्
अध्यायः १४
वेदव्यासः
ब्रह्मकाण्डः (मोक्षकाण्डः), अध्यायः १५ →

श्रीगरुडमहापुराणम् १४
श्रीगरुड उवाच ।
अवतारान्हरे ब्रूहि तथा लक्ष्म्या दिवौकसाम् ।
गुणानामन्तर ब्रूहि शिष्यस्य मम सव्रत ॥ ३,१४.१ ॥

श्रीकृष्ण उवाच ।
यो मूलरूपी भगवाननन्तो ब्रह्मादिभिः पुर्णगुणः स्वतन्त्रः ।
पुरातनः पूर्णतनुर्मदात्मा न तादृशाः संति कदापि वीद्र ॥ ३,१४.२ ॥

पादश्च पूर्णः पादतलं च पूर्णं नखाश्च पूर्णाः कटिकण्ठौ च पूर्णौ ।
ऊरू च पूर्णे उदरं च पूर्णं लब्ध्वापि पूर्णाञ्जगृहे तथाप्युरः ॥ ३,१४.३ ॥

स्कन्धः सुपूर्णाः सकलाश्च बाहवः पूर्णाः केशाः श्मश्रुदन्ताश्च पूर्णाः ।
लोमानि पूर्णानि तथैव रोमकूपाश्च पूर्णास्तु तथैव शिश्रः ॥ ३,१४.४ ॥

अण्डश्च पूर्णो ह्यण्डरोमाणि कक्षाश्चक्षुश्च श्रोत्रे सर्व एते च पूर्णाः ।
किं वर्णये मूलरूपं हरेश्च यावद्वलं पूर्णं समग्रदेहे ॥ ३,१४.५ ॥

तावद्ब्रलं ह्येकरोमादिकेषु संतित्विमे हि यतः स एव पूर्णः ।
स एव तु सर्वस्य कर्ता स एव हर्था स तु सारांशभोक्ता ॥ ३,१४.६ ॥

असारांशं नैव भोक्ता हरिस्तु सारान्वक्ष्ये शृणु पक्षीन्द्र सम्यक् ।
द्राक्षेक्षुसारं नारिकेलस्य सारं चूतस्य सारं पनसस्यापि सारम् ॥ ३,१४.७ ॥

नारङ्गसारं क्रमुकस्यापि सारं खर्जूरसारं कदलीफलस्य ।
नारायणो बीजरूपस्य सारं गृह्णाति नित्यं भक्तवर्यो दयालुः ॥ ३,१४.८ ॥

ताम्बूलसारं खदिरस्य सारं पुष्पस्य सारं चन्दनस्यापि सारम् ।
गोधूमसारं यवानां च सारं माषस्य सारं हरेणोश्च सारम् ॥ ३,१४.९ ॥

शुद्धं तथा व्रीहिनीवारसारं श्यामाकसारं शुद्धधान्यस्य सारम् ॥ ३,१४.१० ॥

निषिद्धान्सर्वशाकस्य सारांस्तथा निपिद्धाल्लांवणस्वापि सारान् ।
गृह्णाति विष्णुः परमादरेण अन्नस्य सारं भक्ष्यभोज्यस्य सारम् ॥ ३,१४.११ ॥

सूपस्य सारं परमान्नस्य सारं दुग्धस्य सारं दधितक्रस्य सारम् ।
घृतस्य सारं रामठस्यापि सारं गृह्णाति विष्णुः सर्षपस्यापि सारम् ॥ ३,१४.१२ ॥

मरीचसारं जीरकस्यापि सारं तथा हविर्घृतपक्वस्य सारम् ।
तैलेषु पक्वस्य च भर्जितस्य गुडस्य सारं नवनीतस्य सारम् ॥ ३,१४.१३ ॥

लवङ्गसारं शर्करायाश्च सारमित्यादिसारान् वासुदेवस्तु भुक्ते ।
लक्ष्मीपतिः सर्वजगन्निवा सस्तस्याज्ञया वासुदेवोपि नित्यम् ॥ ३,१४.१४ ॥

तच्छेषसारानपि चावनीशो महात्मनोंशाञ्छृणु शिष्यवर्य ।
एवं विमूढा वासुदेवस्य भक्ताः किं वक्तव्यं विष्णुभक्ता हि लोके ॥ ३,१४.१५ ॥

कल्याणास्ते सारभोक्तार एव नैषां भवेत्तेन दुः खाभिवृद्धिः ।
भुञ्जन्ति ये वैश्वदेवं विहाय दुष्टांस्तान्वै भुक्तिचिन्त्तांश्च विद्धि ॥ ३,१४.१६ ॥

वक्ष्ये विशेषं वैश्वदेवे खगेन्द्र गोप्यं नो वदान्यत्र विद्वान् ।
सूर्यादीनां ये च दाने च दद्युर्विना वायोरन्तरस्थं हरिं च ॥ ३,१४.१७ ॥

ते वै सदा सारभोक्तार एव ज्ञेयास्त्वतो विष्णुरेको महात्मा ।
सारांशभोक्ता न तु सर्वस्य भोक्ता भुनक्ति सर्वं त्वविरुद्धशक्तिः ॥ ३,१४.१८ ॥

वक्ष्ये ह सारान्पुनरन्यान्खगेन्द्र शृणुष्व गुह्यं परमादरेण ।
द्राक्षादयः सर्व एव त्वसाराः कालादिदुष्टा भावदुष्टाः पदार्थाः ॥ ३,१४.१९ ॥

अतिपक्वानन्तरं तु तथा दिनचतुष्टये ।
असाराः कलुषा ज्ञेयास्तथा जंबूफलं स्मृतम् ॥ ३,१४.२० ॥

मासस्यानन्तरं वीन्द्र त्वसारं पनसं स्मृतम् ।
षण्मासानन्तरं वीन्द्र खर्जूरं तिक्तवत्स्मृतम् ॥ ३,१४.२१ ॥

आर्द्रं पूतं नारिकेलं स्फोटनानन्तरं प्रभो ।
अहोरात्रानन्तरं तु असारं परिकीर्तितम् ॥ ३,१४.२२ ॥

शुष्कभूतं नारिकेलं खजूरं तु यथा तथा ।
पक्षस्यानन्तरं चूतमसारं परिकीर्तितम् ॥ ३,१४.२३ ॥

वर्षस्यानन्तरं वीन्द्र पूगीफलमुदाहृतम् ।
घटिकानन्तरं वीन्द्र तांबूलं परिकीर्तितम् ॥ ३,१४.२४ ॥

यामस्यानन्तरं चान्नं सूपान्नं पायसं तथा ।
भक्ष्यं च क्वथितं वीन्द्र असारं परिकीर्तितम् ॥ ३,१४.२५ ॥

त्रिपक्षानन्तरं वीन्द्र तैलपक्वं तथा स्मृतम् ।
चतुर्यामानन्तरं च त्वसारं घृतपक्वकम् ॥ ३,१४.२६ ॥

त्रियामानन्तरं शाका निः साराः परिकीर्तिताः ।
जंबीरं शृङ्गबेरे धात्री कर्पूरं च चूतकम् ॥ ३,१४.२७ ॥

वत्सरानन्तरं वीन्द्र निः सारं परिकीर्तितम् ।
पर्पटः पक्षमात्रेण निः सारः परिकीर्तितः ॥ ३,१४.२८ ॥

तुलसी सर्वदा सारा एकादश्यामपि द्विज ।
आर्द्रा वाप्यथवा शुष्का सार्द्रा सारवती स्मृता ॥ ३,१४.२९ ॥

एकादश्यां तु तुलसी सारा ग्राह्या मनीषिभिः ।
त्वचा नासेंद्रियेणापि न तु जिह्वेन्द्रियेण च ॥ ३,१४.३० ॥

एकादश्यां हरेरन्नं निः सारं परिकीर्तितम् ।
एकादश्यां हरेस्तीर्थं मनुष्याणां खगेश्वर ॥ ३,१४.३१ ॥

एकवारे च सारं स्याद्द्विवारे च ततोधिकम् ।
एकादश्यां महाभाग तीर्थं गन्धादिमिश्रितम् ॥ ३,१४.३२ ॥

असारमिति संप्रोक्तं तथा स्वादूदमिश्रितम् ।
एकादश्यां हरेः सारं क्षीरं सर्पिर्मधूदकम् ॥ ३,१४.३३ ॥

निः सारं मनुजेन्द्राणामिति वेदविदां मतम् ।
आषाढमासे गरुड शाको निः सार उच्यते ॥ ३,१४.३४ ॥

मासि भाद्रपदे वीन्द्र ह्यसारं दधि चोच्यते ।
क्षीरं तु ह्याश्विने मासे निः सारं परिकीर्तितम् ॥ ३,१४.३५ ॥

ऊर्ध्वपुण्ड्रगदाहीना नार्यसारेति गीयते ।
हरिभक्तिविहीना ये ह्यसुराः परिकीर्तिताः ॥ ३,१४.३६ ॥

हरिनामविहीनं तु मुखं निः सारमुच्यते ।
हरिनैवेद्यहीनस्तु पाको निः सार उच्यते ॥ ३,१४.३७ ॥

त्रिदिनैश्चातसीपुष्पं निः सारं परिकीर्तितम् ।
प्रहरं मल्लिका सारं जाती तु प्रहरार्धकम् ॥ ३,१४.३८ ॥

त्रियामं शतपत्रं स्यात्करवीरमहर्निशम् ।
घटिकावधि सारं स्यात्पारिजातं खगेश्वर ॥ ३,१४.३९ ॥

त्रिवर्षं केसरं फल्ग सारमित्युच्यते बुधैः ।
कस्तूरी दशवर्षं तु कर्पूरं वर्षमात्रकम् ॥ ३,१४.४० ॥

ससारमिति संप्रोक्तं चन्दनं सर्वदा स्मृतम् ।
शुद्धन्निः सारभूतांश्च वक्ष्ये शृणु खगेश्वर ॥ ३,१४.४१ ॥

तुषा मेध्या आरनालं पुण्यकं भिः सटा तथा ।
उपोद्व्रजी अलाबूश्च बृहत्कोशातकी तथा ॥ ३,१४.४२ ॥

वृन्ताकं चुक्रशाकश्च बिल्वमौदुंवरं तथा ।
पलाञ्जुर्लशुनं वृन्तं कलञ्जं च तथा द्विजा ॥ ३,१४.४३ ॥

एतत्सर्वत्र काले च निः सारमिति कीर्तितम् ।
एकादश्यां वैश्वदेवं श्राद्धं तर्पणमेव च ॥ ३,१४.४४ ॥

मन्त्रेण प्रेतदहनमसारं परिकीर्तितम् ।
हविर्नारायणो देवो एतांश्च ह्यशुभान्र सान् ॥ ३,१४.४५ ॥

न गृह्णाति न गृह्णाति न गृह्णाति हरिः स्वयम् ।
तथापि सर्वं जानाति जीवानां पापकर्मणाम् ॥ ३,१४.४६ ॥

आस्वादनं कारयति स्वयं नास्वादते हरिः ।
असारभोजनं चैव जीवानां कर्मजं फलम् ॥ ३,१४.४७ ॥

अमुख्यभोजिनो जीवाः कुन्त्याद्या मुख्यभोजिनः ।
शुभानि च पिबेद्विष्णुरशुभं नो पिबेद्विभुः ॥ ३,१४.४८ ॥

को वदेत्तस्य चेष्टां तु पूर्णानन्दो हरिः स्वयम् ।
न तेन सदृशः कोपि देशे काले च विद्यते ।
तस्यावतारान्वक्ष्यहं शृणु पक्षीन्द्रसत्तम ॥ ३,१४.४९ ॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे वैश्वदेवार्थकसारासारवस्तुविवेको नाम चतुर्दशोध्यायः