गरुडपुराणम्/ब्रह्मकाण्डः (मोक्षकाण्डः)/अध्यायः १३

विकिस्रोतः तः
Jump to navigation Jump to search
← ब्रह्मकाण्डः (मोक्षकाण्डः), अध्यायः १२ गरुडपुराणम्
अध्यायः १३
वेदव्यासः
ब्रह्मकाण्डः (मोक्षकाण्डः), अध्यायः १४ →

श्रीगरुडमहापुराणम् १३
श्रीकृष्ण उवाच ।
इति स्तुतः स भगवान् स्वपूत्रेण दयानिधिः ।
मेधगंभीरया वाचा प्रोवाच मधुसूदनः ॥ ३,१३.१ ॥

सृज ब्रह्मन्निमान्देवान्मत्प्रसादात्क्रमेण च ।
यथा वै प्राक्क्षणेतद्वत्सृज सर्वं महाप्रभो ॥ ३,१३.२ ॥

नास्ति प्रयोजनं तेन तव मत्प्रीतये सृज ।
एवमुक्तस्तु हारिणा ब्रह्मा स्तुत्वा हरिं परम् ॥ ३,१३.३ ॥

सृष्टिं कर्तुं मनो दध्रे प्रीणयन्नेव माधवम् ।
महत्तत्वात्मको ब्रह्मा वायुं जीवभिमानिनम् ॥ ३,१३.४ ॥

आदौ ससर्ज गरुड पुरुषात्मा स एव च ।
ततो दक्षिणहस्तात्तु ब्रह्माणीं भारन्ती तथा ॥ ३,१३.६ ॥
(१३.५)
असृजत्ते महाभागे अव्यक्तस्य नियामिके ।
वामहस्तात्सत्यपुत्रो महत्तत्वात्मकोऽनलः ॥ ३,१३.६ ॥

ब्रह्मणो दक्षिणाद्धस्तादहङ्कारात्मको हरः ।
आदौ शेषस्ततो जज्ञे गरुडतदनन्तरम् ॥ ३,१३.७ ॥

तदनन्तरजो रुद्रः स एवं सृष्टवान्प्रभुः ।
स्वोत्पत्त्यनन्तरं ब्रह्मा दशवर्षान्महाप्रभुः ॥ ३,१३.८ ॥

वायुमुत्त्पाद्रयामास वत्सरानन्तरे प्रभुः ।
गायत्रीं जनयामास वायोरुत्पत्त्यनन्तरम् ॥ ३,१३.९ ॥

संवत्सरानन्तरे तु भारतीमसृजत्प्रभुः ।
भारत्यनन्तरं शें दिव्यसाहस्रवत्सरात् ॥ ३,१३.१० ॥

अनन्तरं संबभूव गरुडस्तु ततः परम् ।
दिव्यसाहस्रवर्षात्तु तथा रुद्रञ्च सृष्टवान् ॥ ३,१३.११ ॥

शेषस्यानन्तरं देवीं वारुणीं च महाप्रभुः ।
दशवर्षानन्तरं तु ह्यसृजत्कमलासनः ॥ ३,१३.१२ ॥

गरुडानन्तरं देवीं सौपर्णीमसृजत्प्रभुः ।
दशवर्षानन्तरं च पार्वतीं च तथैव सः ॥ ३,१३.१३ ॥

पार्वत्यनन्तरं चन्द्रं मनस्तत्त्वनियामकम् ।
दशवर्षानन्तरं तु वासवं ह्यसृजत्ततः ॥ ३,१३.१४ ॥

अभिमानी दक्षिणस्य बाहोश्च परमेष्ठिनः ।
दशवर्षानन्तरं तु शची तामसृजत्प्रभुः ॥ ३,१३.१५ ॥

इन्द्रस्यानन्तरं कामं त्रिंशद्वर्षादनन्तरम् ।
असृजद्वामबाहोश्चमनस्तत्वाभिमानिनम् ॥ ३,१३.१६ ॥

तदनन्तरजां देवीं दशवर्षादनन्तरम् ।
रतिं स जनयामास कामभार्यां महाप्रभुः ॥ ३,१३.१७ ॥

कामस्याप्यभिमानी तु स एव परिकीर्तितः ।
ब्रह्माहङ्कारिकं प्राणं कार्योत्पत्तेरनन्तरम् ॥ ३,१३.१८ ॥

दशवर्षानन्तरं तु निर्ममे नासिक ततः ।
तस्य भार्यां नासिकस्यः पञ्चवर्षादनन्तरम् ॥ ३,१३.१९ ॥

निर्ममे नासिकां वामां ब्रह्मा लोकपितामहः ।
अहङ्कारादनु ब्रह्मा सज्ञानं च बृहस्पतिम् ॥ ३,१३.२० ॥

निर्ममे च वर्षयुग्मपञ्चवर्षादनन्तरम् ।
पञ्चवर्षानन्तरं तु तारां भार्यां विनिर्ममे ॥ ३,१३.२१ ॥

गुरोरनन्तरं ब्रह्मा पञ्चविंशादनन्तरम् ।
स्वायंभुवं मनुं चैव निर्ममे मनसा विभुः ॥ ३,१३.२२ ॥

पञ्चवर्षानन्तरं तु शतरूपां विनिर्ममे ।
शतरूपानन्तरं तु विंशद्वर्षदिनान्तरम् ॥ ३,१३.२३ ॥

दक्षः शिष्यात्मको जज्ञे दक्षिणाङ्गुष्ठतः प्रभोः ।
पञ्चवर्षानन्तरं तु वामाङ्गुष्ठाच्चतुर्मुखः ॥ ३,१३.२४ ॥

प्रसूतिमसृजद्ब्रह्मा सृष्ट्यर्थं परमादरात् ।
दक्षस्यानन्तरं ब्रह्मा पञ्चविंशादनन्तरम् ॥ ३,१३.२५ ॥

निर्ममे ह्यनिरुद्धं च मध्यमाङ्गुलिपर्वतः ।
पञ्चवर्षानन्तरं तु ससर्ज भगवानजः ॥ ३,१३.२६ ॥

विराजसंज्ञकां भार्यां मध्यमाङ्गुलिपर्वतः ।
अनिरुद्धानन्तर तु शतवर्षादनन्तरम् ॥ ३,१३.२७ ॥

निर्ममे प्रवहं वायुं कनिष्ठाङ्गुलिपर्वतः ।
दशवर्षानन्तरं तु प्रवाहीं निर्ममे प्रभुः ॥ ३,१३.२८ ॥

कनिष्ठाङ्गुलिपर्वाच्च वामदेवं न संशयः ।
प्रवहानन्तरं तब्रह्मा शतवर्षादनन्तरम् ॥ ३,१३.२९ ॥

यमं विनिर्ममे पृष्ठादष्टवर्षादनन्तरम् ।
तद्भार्यां शामलां देवीं तस्मादेव महाप्रभुः ॥ ३,१३.३० ॥

यमस्यानन्तरं चन्द्रं त्रिंशद्वर्षादनन्तरम् ।
असृजद्दक्षिणाच्छोत्राच्छोत्रतत्त्वनियामकम् ॥ ३,१३.३१ ॥

नववर्षानन्तरं तु रोहिणीसमृजत्प्रभुः ।
वामश्रोत्राच्च गरुडं वामश्रोत्राभिमानिनम् ॥ ३,१३.३२ ॥

चन्द्रस्यानन्तरं सूर्यं विंशद्वर्षादनन्तरम् ।
सम्यग्विनिर्ममे ब्रह्मा दक्षिणाक्ष्णश्च देवताम् ॥ ३,१३.३३ ॥

वामाक्ष्णो निर्ममे संज्ञां षड्वर्षानन्तरं प्रभुः ।
सूर्यस्यानन्तरं ब्रह्मा शतवर्षादनन्तरम् ॥ ३,१३.३४ ॥

रसनेन्द्रियाच्च वरुणं निर्ममे तस्य मानिनम् ।
विंशद्वर्षानन्तरं तु तस्मादेवेद्रियात्प्रभुः ॥ ३,१३.३५ ॥

गङ्गां विनिर्ममे ब्रह्मा रसनेन्द्रियदेवताम् ।
वरुणस्यानन्तरं तु दशवर्षादनन्तरम् ॥ ३,१३.३६ ॥

उत्संगान्निर्ममे ब्रह्मा नारदं भगवत्प्रियम् ।
नारदस्यानन्तरं तु षष्टिवर्षादनन्तरम् ॥ ३,१३.३७ ॥

अग्निं विनिर्ममे ब्रह्मात्वगिन्द्रियतः प्रभुः ।
अतो वागभिमानी सं पञ्चवर्षादनन्तरम् ॥ ३,१३.३८ ॥

स्वाहां विनिर्ममे ब्रह्मा तामाहुर्मन्त्रदेवताम् ।
अग्नेरनन्तरं वीन्द्र भृगुं ब्रह्मर्षिसत्तमम् ॥ ३,१३.३९ ॥

दशवर्षानन्तरं तु भ्रुवोर्मध्याद्विनिर्ममे ।
संवत्सरानन्तरं तु भृगुभार्यां विनिर्ममे ॥ ३,१३.४० ॥

भृगोरनन्तरं ब्रह्मा शतवर्षादनन्तरम् ।
कश्यपञ्जनयामास मनसा च स्वयं प्रभुः ॥ ३,१३.४१ ॥

संवत्सरानन्तरं तु अदितिं निर्ममे प्रभुः ।
कश्यपानन्तरं चात्रिं दशवर्षादनन्तरम् ॥ ३,१३.४२ ॥

अत्रेरनन्तरं ब्रह्मा दशवर्षादनन्तरम् ।
अजीजनद्भरद्वाजं वसिष्ठ तदनतरम् ॥ ३,१३.४३ ॥

दशवर्षानन्तरं तु तेषां भार्याः क्रमेण तु ।
संवत्सरानन्तरेण असृजत्कमलासनः ॥ ३,१३.४४ ॥

वसिष्ठस्यानन्तरं तु गौतमं ह्यसृजत्प्रभुः ।
दशवर्षानन्तरेण जमदग्निं ततोऽसृजत् ॥ ३,१३.४५ ॥

दशवर्षानन्तरेण मनुर्वैवस्वतोऽभवत् ।
मनोरनन्तरं जज्ञे शतवर्षादनन्तरम् ॥ ३,१३.४६ ॥

विष्वक्सेनो महाभागो वायुपुत्रो महाबलः ।
तस्माच्चतुर्दशे वर्षे गणपो ह्यभवद्विभोः ॥ ३,१३.४७ ॥

तदनन्तरजो वीन्द्र अष्टवर्षादनन्तरम् ।
धनपो ह्यभवत्तत्र तद्भार्या वत्सरे परे ॥ ३,१३.४८ ॥

विष्वक्सेनानन्तरं तु दशवर्षादनन्तरम् ।
जयादीन्भ गवद्भक्तान्सृष्टवान् कमलासनः ॥ ३,१३.४९ ॥

जयाद्यानन्तरं ब्रह्मा वल्लाद्याः कर्मदेवताः ।
शतवर्षानन्तरं तु सृष्टवाञ्छिववाहनम् ॥ ३,१३.५० ॥

कर्मदेवानन्तरं तु त्रिंशद्वर्षादनन्तरम् ।
पर्जन्यमसृजद्ब्रह्मा मन्त्रयन्त्राभिमानिनम् ॥ ३,१३.५१ ॥

पर्जन्यानन्तरं ब्रह्मा दशवर्षादनन्तरम् ।
पुष्करं जनयामास कर्मतत्त्वाभिमानिनम् ॥ ३,१३.५२ ॥

एवं विनिर्ममे ब्रह्मा मत्प्रसादात्खगेश्वर ।
एवं ज्ञात्वा मोक्षमेति नान्यथा तु कथञ्चन ॥ ३,१३.५३ ॥

इति श्रीगारुडे महापुराणे श्रीकृष्णगरुडसंवादे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे देवोत्पत्तिनिरूपणं नाम त्रयोदशोऽध्यायः