गरुडपुराणम्/ब्रह्मकाण्डः (मोक्षकाण्डः)/अध्यायः १२

विकिस्रोतः तः
Jump to navigation Jump to search
← ब्रह्मकाण्डः (मोक्षकाण्डः), अध्यायः ११ गरुडपुराणम्
अध्यायः १२
वेदव्यासः
ब्रह्मकाण्डः (मोक्षकाण्डः), अध्यायः १३ →

श्रीगरुडमहापुराणम् १२
श्रीकृष्ण उवाच ।
नाडीं समाविश्य महानुभावः श्रीविष्णुभक्तो त्वथ पुष्करस्थः ।
विचारयामास गुरुं स्वमूलं नारायणं निर्गुणमद्वितीयम् ॥ ३,१२.१ ॥

एतावता हरिभक्तस्य तस्याप्यच्छिन्नभक्तस्य चतुर्मुखस्य ।
विचारकाले च विचिन्तनीयो ह्यज्ञानलेशस्तु खगेश्वरेश्वर ॥ ३,१२.२ ॥

यथास्ति विष्णोर्मनः सङ्कल्प एव तथैव सोपि प्रकरोति नित्यम् ।
आलोचने तस्य सदास्ति भूमन्स्वयोग्यतामनतिक्रम्य चैव ॥ ३,१२.३ ॥

हरेः स्वरूपे च तथा प्रपञ्चः स्वस्मिन्स्वरूपे च खगस्ति ज्ञानम् ।
यथापि नित्यं परिचारवारि च अज्ञातवद्दृश्यते विष्णुना च ॥ ३,१२.४ ॥

हरेः प्रीत्यर्थं कुरुते सौ कदाच्चित्तत्रापि कश्चिद्विशेषोऽस्ति वीन्द्र ।
शृणुष्व सम्यङ्निगृहीतचित्तो यथा प्रोवाच स विजानाति देवः ॥ ३,१२.५ ॥

सदा त्वदोषं प्रविशेषेश्च मुक्तवेदास्तथा वा पविजानन्ति नित्यम् ।
तस्य स्वरूपं न तथा हरिं च स्वयोग्यतामनतिक्रम्य वेधाः ॥ ३,१२.६ ॥

हरेः स्वरूपं न विजानाति सर्वं स्वयो ग्यरूपं सर्वदा वेत्ति विष्णोः ।
तत्राज्ञानं नास्ति किञ्चिद्द्विजेन्द्र यावत्स्वरूपं च तथैव लक्ष्म्याः ॥ ३,१२.७ ॥

वेधा न जानाति कुतस्तदन्ये तयोः स्वरूपंन विजानाति सर्वम् ।
तथापि वेदानेकदेशेन वेद जानाति लक्ष्मीर्हरिरूपं च यावत् ॥ ३,१२.८ ॥

तावन्न जानाति विधिः खगेन्द्र ज्ञाने विधातुश्च स्वयोग्यभूते ।
अतो विरिञ्चस्य न चिन्तनीयो ह्यज्ञानलेशः क्वापि देशे च काले ॥ ३,१२.९ ॥

नाडीं समाविश्य तदा विरिञ्चो न वेद नारायणमेकवच्च ।
तदा शृणोत्तं कमलासनं प्रभुस्तपस्तप द्व्यक्षरं सादरेण ॥ ३,१२.१० ॥

अभिप्रायं तस्य सम्यग्विदित्त्वा तपः कुरु त्वं हरितुष्ट्यर्थमेव ।
तपोऽकरोद्धरिपादैक निष्ठो हरेः प्रीत्यर्थं दिव्यसहस्रवर्षम् ॥ ३,१२.११ ॥

ततो हरिः प्रादुरासीत्खगेन्द्र वरं दातुं भक्तवरस्य दिव्यम् ।
सदा विष्णुं देवदेवो ददर्श चतुर्भुजं तं जलजायताक्षम् ॥ ३,१२.१२ ॥

श्रीवत्सलक्ष्मं गलशोभिकौस्तुभं संपश्यन्तं सुप्रसन्नार्द्रदृष्ट्या ।
दृष्ट्वा हरिं ब्रह्म नारायणं च पुरः स्थितं भक्तवश्यं दयालुम् ॥ ३,१२.१३ ॥

समर्चयामास महाविभूत्या भक्त्या हरेः पादतीर्थं दधार ।
अस्तौन्महाभागवतप्रधानो हरिं गुरुं भक्तिविवर्धितात्मा ॥ ३,१२.१४ ॥

ब्रह्मोवाच ।
रमेश लोकेश जगन्निवास तव स्वरूपं न विजानाति देवी ।
तव प्रसादात्सुविजानाति देवी गुणान्वेदोक्तान्सर्वदा वीन्द्र सर्वान् ॥ ३,१२.१५ ॥

तथापि सा न विजानाति देवी साकल्येनाशेषितः सद्गुणांश्च ।
यद्यप्यनुक्तं पञ्चभिर्नास्ति वेदैस्तथापि देवेऽत्र विशेष आस्ते ॥ ३,१२.१६ ॥

तत्त्वेच्छवः प्रविजानन्ति नित्यं वेदे सूक्तान्क्वाप्यनुक्तांश्च सर्वान् ।
आदौ जानन्त्यत्र वेदा मुरारे ऋगादयः सुष्ठु चत्वार एव ॥ ३,१२.१७ ॥

वेदा ह्येते वेदयन्तीति देव तथा पुराणं भारतं पञ्चरात्रम् ।
क्रमादितो विचिन्त्य सा विष्णुगुणान्स्वयोग्यान्सदा विजानाति रमापि देवी ॥ ३,१२.१८ ॥

विशेषतो ह्युक्तगुणा नृगादिषु स्वयोग्यभूतान्संविजानाति देवी ।
सामान्यतः प्रविजानाति देवी हरेर्गुणान्न विशेषाच्च नित्यम् ॥ ३,१२.१९ ॥

अहं विजानामि रमाप्र सादात्तव प्रसादाच्च गुणान्सदैव ।
स्वयोग्यभूताञ्छ्रुतिपूक्तान् गुणांश्च कांश्चिद्विजानाति हरेर्न कश्चित् ॥ ३,१२.२० ॥

तव प्रसादाच्च मम प्रसादात्कालान्तरे तांश्च जानाति शेषः ।
दुष्कर्मलेशान्न तिरोहितान् गुणान्यानेव पूर्वं विदितान् स्वयोग्यान् ॥ ३,१२.२१ ॥

तानेव ज्ञात्वा पुनरेव शेषस्तिरो हितांल्लब्धगुणस्ततः स्मृतः ।
सदा स्वयोग्यांश्च हरेर्गुणांश्च उमापतिश्चापि तव प्रसादात् ॥ ३,१२.२२ ॥

यदा विजानाति हरे मुरारे अप्राप्तलब्धेति तदोच्यते हरः ।
ममापि लोकं च यदा मुरारे तदा विजानाति तव स्वरूपम् ॥ ३,१२.२३ ॥

गोविन्द नित्याव्यय चित्सुपूर्ण तव प्रसादान्नास्ति शतेषु तन्ममयेये हि देवाश्च शरीरधारिणस्ते ज्ञानहीना विषयेषु निष्ठाः ॥ ३,१२.२४ ॥

येये देवा विषयेषु निष्ठास्तेते देवा बहिरर्थभावाः ।
येये देवा बहिरर्थभावा मोक्षा दन्ये प्रलपन्तः सदैव ॥ ३,१२.२५ ॥

तव स्वरूपे च जगत्स्वरूपे तवासमानं नास्ति विष्णो सदैव ।
यतस्तव प्राकृतो नास्ति देहो यतो ज्ञानं नास्ति नास्त्ये व नित्यम् ॥ ३,१२.२६ ॥

पूर्णानन्दज्ञानदेहोऽपि नित्यं सदा शरीरी भाष्यते भक्तिमद्भिः ।
यतस्तव प्राकृतो नास्ति देहो ह्यतोपि नित्यमशरीरीति च स्मृतः ॥ ३,१२.२७ ॥

नतोऽहं सर्वदास्मिञ्शरीरेऽहंममेत्यभिमानेन शून्यः ।
अत्तोऽप्यहं त्वशरीरी सदैव तथैव नित्यं बहिरर्थैश्च शून्यः ॥ ३,१२.२८ ॥

स्वभोगभार्यासत्यलोकादिभोगः स्वयोग्यभोगो वस्त्रमाल्यादिभोगः ।
एते हि सर्वे बहिरर्थसंज्ञकाः नैसर्गकामाः सर्वदा मे हि विष्णो ॥ ३,१२.२९ ॥

तथाप्यहं कामहीनो हि नित्यं रुद्रादयः कामवन्तो यतोतः ।
शरीरिणस्ते बहिरर्थभावा अज्ञानवन्तोऽपि च संस्मृताः खग ॥ ३,१२.३० ॥

स्वदारभोगे केवलां प्रीतिमेवं हरेरेवं सर्वदाहं करोति ।
स्तम्बास्त्रादीन्धारियिष्ये सदैव विष्णोः प्रीत्यर्थं नैव गात्रार्थमेव ॥ ३,१२.३१ ॥

नित्यानन्दादन्यकामो न मेस्ति अतः सदा बहिरर्थैश्च शून्यः ।
ममापि भार्या बहिरर्थशून्या अमूढभावा मूढवतीव दृश्यते ॥ ३,१२.३२ ॥

अमूढभूता ज्ञानिनां सर्वदैव तथाज्ञानां ज्ञानहीनेति भाति ।
यावज्ज्ञानं चास्ति मे वास्तुदेव तावज्ज्ञानं वासुदेवस्य चास्ति ॥ ३,१२.३३ ॥

यावज्ज्ञानं वासुदेवस्य चास्ति तावज्ज्ञानं ज्ञानवतामृजूनाम् ।
क्रमेणैवाज्ञानिनां वानृजूनामस्पष्टरूपो ज्ञानगतो विशेषः ॥ ३,१२.३४ ॥

सौरिप्रकाशे च यथैव दर्शनं तथा मम ज्ञानगतो विशेषः ।
दीपप्रकाशे च यथैव दर्शनं तथा ज्ञानं वासुदेवस्य चास्ति ॥ ३,१२.३५ ॥

अस्पष्टपरूपा न्यूनता ह्यस्ति वायौ तथा ज्ञानं नैव संचिन्तनीयम् ।
एतादृशी ज्ञानशक्तिर्मुरारेर्वाय्वादीनां मोक्षपर्यन्तमस्ति ॥ ३,१२.३६ ॥

ज्ञानं त्वृजूनां मोक्षकाले पिपञ्चवाय्वादीनां प्रलयेनाद्रादीर्न ।
वायोर्मम प्रलये सृष्टिकाले तथा गायत्र्या नास्तिनास्त्येव मोहः ॥ ३,१२.३७ ॥

गायत्रीवद्भारत्या देवदेव ज्ञातव्यमेवं हरितत्त्ववेदिभिः ।
ममाज्ञानं दृश्यते यत्र कुत्र दैत्यादीनां मोहनार्थ सदैव ॥ ३,१२.३८ ॥

तेन प्रीतिर्देवदेवस्य विष्णर्भविष्यतीत्येव विनिश्चितात्मा ।
प्रश्रादिकं त्वज्ञवत्सर्वदैवं करिष्येहं मोहनायाधमानाम् ॥ ३,१२.३९ ॥

सूर्योदये नास्ति यथा तमश्च तथाज्ञानं नास्तिनास्त्येव देव ।
करोम्यहं श्रवणं सर्वदैव हरिप्रीत्यर्थं निश्चतार्थं सतां हि ॥ ३,१२.४० ॥

शतजन्मगतानां त्वनृजूनां पूर्वमेव तु ।
अपरोक्षाभाव एव ह्यज्ञानं समुदीरितम् ॥ ३,१२.४१ ॥

अपरोक्षानन्तरं तु नास्त्यज्ञानं न संशयः ।
शतजन्मसु देवेश अपरोक्षेण सर्वदा ॥ ३,१२.४२ ॥

पूर्णज्ञानं ममास्त्येव नात्र कार्या विचारणा ।
शतजन्मसु पूर्वं तु परोक्षेण मम प्रभो ॥ ३,१२.४३ ॥

पूर्णं ज्ञानं सदाप्यस्तीत्येवमाहुर्महर्षयः ।
संज्ञाजन्मगतायाश्च सरस्वत्या महाप्रभो ॥ ३,१२.४४ ॥

नाज्ञानं चिन्तनीयं हि ब्रह्मय्वोश्च देव हि ।
अत्र कश्चिद्विशेषोस्ति ज्ञातव्यस्तत्वमिच्छुभिः ॥ ३,१२.४५ ॥

अवतारेषु भारत्याः कदाचिज्ज्ञानपूर्वकम् ।
सर्वदा ज्ञानरूपा सा सर्वदुः खविवर्जिता ॥ ३,१२.४६ ॥

दैत्यानां मोहनार्थाय अंशे दुः खीव दृश्यते ।
तस्या दुः खादिकं किञ्चिन्नास्तिनास्त्येव सर्वथा ॥ ३,१२.४७ ॥

अपरोक्षतिरोभाव ईषत्काले प्रदृश्यते ।
तावन्मात्रेण वाज्ञानं तस्यां नैवाहितं च यत् ॥ ३,१२.४८ ॥

मूलरूपे तु नास्त्येव भारत्या ज्ञानविस्मृतिः ।
भारत्यास्तु यथा नास्ति सरस्वत्यास्तु किं पुनः ॥ ३,१२.४९ ॥

अंशावतरणं नास्ति सरस्वत्याः कदाचन ।
अंशावतरणं नास्ति ममापि मधुसूदन ॥ ३,१२.५० ॥

तथैव ज्ञानमस्त्येव हरेर्नारायणस्य च ।
वायोरंशावतारोस्ति यथा मूले तथैव च ॥ ३,१२.५१ ॥

बलज्ञाना दिकं सर्वं चिन्तनीयं न संशयः ।
तथापि वायौ दृश्यन्ते बलज्ञानादिव्यक्तयः ॥ ३,१२.५२ ॥

अवतारेषु वायोस्तु सम्यक्शक्त्यात्मनास्ति हि ।
अपरोक्षतिरोभावौ नांशावतरणेष्वपि ॥ ३,१२.५३ ॥

बलज्ञानादिकं यावन्मूलरूपे प्रदृश्यते ।
त्रेतायुगस्वरूपे च न दर्शयति तादृशम् ॥ ३,१२.५४ ॥

त्रेतायुगस्वरूपे च यादृक्चादर्शयत्प्रभो ।
द्वापरस्थे स्वरूपे तत्तद्दर्शयति तादृशम् ।
त्रेतायुगस्वरूपे च यादृक्चादर्शयत्प्रभो ॥ ३,१२.५५ ॥

द्वापरस्थे वायुरूपे यादृग्वा दर्शयत्प्रभुः ।
वायुः कलियुगे रूपे तद्दर्शयति तादृशम् ॥ ३,१२.५६ ॥

तथा दर्शयते वायुर्दैत्यानां मोहनाय च ।
अवतारेषु वायोश्च अन्तरं ये विदुः प्रभो ॥ ३,१२.५७ ॥

तेऽधं तमः प्रविशन्ते ते दैत्या न च ते सुराः ।
वायावप्यन्तरं नास्ति हरितत्त्वविनिर्णये ॥ ३,१२.५८ ॥

निन्दां कुर्वन्ति ये विष्णोर्जिह्वाछेदं करोम्यहम् ।
तदर्थमेव वायोश्च अवतारः सदा भुवि ॥ ३,१२.५९ ॥

गुणपूर्णस्य विष्णोस्तु निर्गुणत्वविचिन्तनम् ।
जातानन्दादिपूर्णाङ्ख्यं सोहमित्यादिचिन्तनम् ॥ ३,१२.६० ॥

चिदानन्दात्मके देहे उत्पत्त्यादिविचिन्तनम् ।
अच्छेद्याभेद्यगात्रेषु च्छेदभेदादिचिन्तनम् ॥ ३,१२.६१ ॥

देव्या नित्यावियोगिन्या वियोगादिविचिन्तनम् ।
क्लेशशोकादिशून्यस्य हरेः क्लेशादिचिन्तनम् ॥ ३,१२.६२ ॥

व्यासरामादिरूपेष्वनृषिविप्रत्वचिन्तनम् ।
कृष्णरामादिरूपेषु अन्तरस्य विचिन्तनम् ॥ ३,१२.६३ ॥

रामकृष्णादिरूपेषु अन्तरस्य विचिन्तनम् ।
रामकृष्णादिरूपेषु पराजयविचिन्तनम् ॥ ३,१२.६४ ॥

सन्तानार्थं तु कृष्णे न शिवपूजादिचिन्तनम् ।
रामेण दुः खयुक्तेन लिङ्गस्य स्थापनं कृतम् ॥ ३,१२.६५ ॥

पञ्चधातुमये कृष्णे हरिरूपविचिन्तनम् ।
स्वयं व्यक्तस्थले चापि चिदा नन्दत्वकल्पनम् ॥ ३,१२.६६ ॥

पितृमातृद्विजातीनां हरिरूपत्वचिन्तनम् ।
अस्वतन्त्रेण रुद्रेण हरेरैक्यदिचिन्तनम् ॥ ३,१२.६७ ॥

विष्णोः सूर्येण साकं च अभेदा दिविचिन्तनम् ।
सर्वोत्तमः सूर्य एव विष्ण्वाद्यास्तस्य किङ्कराः ॥ ३,१२.६८ ॥

इत्यादिचिन्तनं दोषो हरिनिन्देति चोच्यते ।
अस्वयं व्यक्तिलिङ्गेषु अश्वत्थतुलसीषु च ॥ ३,१२.६९ ॥

शालग्रामं विहायैव नमनं ये प्रकुर्वते ।
ते सर्वे हरिनिन्दायामविकारिण एव हि ॥ ३,१२.७० ॥

मोक्षाधिकारिणो ये तु अज्ञानात्परमेश्वरम् ।
पार्थक्यनयनं येषु कुर्वन्ति यर्हि वा प्रभो ॥ ३,१२.७१ ॥

तर्हि तेषां हि कालेषु दुः खं याति न संशयः ।
अतः प्रार्थक्यनयनं ये कुर्वन्त्येषु सर्वदा ॥ ३,१२.७२ ॥

ते सर्वे त्वबुधा ज्ञेया नात्र कार्या विचारणा ।
अस्वयंव्यक्तलिङ्गेषु नमनं ये प्रकुर्वते ॥ ३,१२.७३ ॥

ते सर्वे ह्यसुरा ज्ञेया नान्यथा तु कथञ्चन ।
विहाय शून्यमश्वत्थं नमनं ये प्रकुर्वते ॥ ३,१२.७४ ॥

द्विमासहीनां तुलसीमप्रसूतां च गां नवाम् ।
ते सर्वे ह्यसुरा ज्ञेया नात्र कार्या विचारणा ॥ ३,१२.७५ ॥

गुल्माद्याश्च मनुष्यान्तास्ते ज्ञेया ब्रह्मबाहवः ।
अस्मच्छतायुः पर्यन्तमेक एव कलिः स्मृतः ॥ ३,१२.७६ ॥

कलौ संति कल्पमानं कलेरन्ते संति च ।
तस्मिन्दिने ब्रह्मरूपे गच्छन्ति च तमोन्तिकम् ॥ ३,१२.७७ ॥

तत्र स्थित्वा लोकमार्गं प्रतीक्षन्ते न संशयः ।
साधकैर्विष्णुकार्याणां वायुदासैः प्रपीडिताः ॥ ३,१२.७८ ॥

शतवर्षानन्तरं च सर्वेषां कलिना सह ।
वायोर्गदाप्रहारेण लिङ्गभङ्गो भविष्यति ॥ ३,१२.७९ ॥

तमोन्धं प्रविशन्त्येते तारतम्येन सर्वशः ।
तमस्यन्धेपि संसारे नात्र कार्या विचारणा ॥ ३,१२.८० ॥

सर्वेषामुत्तमोन्ते यः कलिरेव न संशयः ।
दूषको विष्णुभक्तानां तत्समो नास्ति सर्वदा ॥ ३,१२.८१ ॥

संसारे वान्धतमसि सर्वत्र हरिदूषकः ।
मिथ्यादाने ज्ञानबुद्धिर्दुः खे च सुखबुद्धिमान् ॥ ३,१२.८२ ॥

तस्मात्कलिसमो लोके शिवभक्तो न कुत्रचित् ।
दुर्योधनः स एवोक्तो दुः खानन्त्यस्वरूपवान् ॥ ३,१२.८३ ॥

तस्माच्छतगुणांशेन कलिभार्या तु सर्वदा ।
अलक्ष्मीरिति विख्याता सा लोके मन्थरा स्मृता ॥ ३,१२.८४ ॥

तस्माद्दशगुणांशोनो विप्रचित्तिस्तु सर्वदा ।
जरासंधः स एवोक्तः कालनेमिस्ततः परम् ॥ ३,१२.८५ ॥

तस्माच्छतगुणांशोनः स तु कंसेति विश्रुतः ।
तस्मात्पञ्चगुणैर्हीनौ मधुकैटभसंज्ञकौ ॥ ३,१२.८६ ॥

तावेव हंसहिडंबकौ ज्ञेयौ तौ च जनार्दन ।
विप्रचित्तिसमो ज्ञेयो भौमो वै भूतले स्मृतः ॥ ३,१२.८७ ॥

तस्मादष्ट गुणैरुच्यो हरिण्यकशिषुः स्मृतः ।
तस्माच्च त्रिगुणैर्हीनो हिरण्याक्षो महासुरः ॥ ३,१२.८८ ॥

मणिमांस्तत्समो ज्ञेयः किञ्चिदूनो बकः स्मृतः ।
तस्माद्विंशद्गुणैर्हीनस्तारकाख्यो महासुरः ॥ ३,१२.८९ ॥

तस्मात्षड्गुणतो हीनः शंबरो लोककण्टकः ।
शंबरस्य समो ज्ञेयः शाल्वो दैत्येषु चाधमः ॥ ३,१२.९० ॥

शंबरात्तु द्विगुणतो हिडिंबो न्यून उच्यते ।
बाणस्ततोऽधमो ज्ञेयः स तु कीचकनामतः ॥ ३,१२.९१ ॥

द्वापारख्यो महाहासोबाणासुरसमः स्मृतः ।
तस्माद्दशगुणैर्हीनो नमुचिदैत्यसत्तमः ॥ ३,१२.९२ ॥

नमुचेस्तुसमौ ज्ञेयौ पाक इल्वल इत्युभौ ।
तस्माच्चतुर्गुणैर्हीनो वातापिर्दानवाधमः ॥ ३,१२.९३ ॥

तस्मात्सार्धगुणैर्हीनो धेनुको नाम दैत्यराट् ।
धेनुकादर्धगुणतः केशी दैत्यस्तु चावरः ॥ ३,१२.९४ ॥

केशीदैत्यसमो ज्ञेयस्तृणावर्तो महासुरः ।
तस्माद्दशगुणैर्हीनो हंसो नामरमापते ॥ ३,१२.९५ ॥

त्रिरिकस्तु समो ज्ञेयस्तत्समः पौरुकस्मृतः ।
वेतः स एव विज्ञेयः पूर्वजन्मनि सत्तम ॥ ३,१२.९६ ॥

तस्मादेकगुणैर्हीनौ कुंभाण्डककुपर्णकौ ।
दुः शासनस्तु विज्ञेयो जरासंधसमः प्रभो ॥ ३,१२.९७ ॥

कंसेन तुल्यो विज्ञेयो विकर्णो दैत्यसत्तमः ।
कुंभकर्णाच्छतगुणैर्हीनौ क्रध्येति विश्रुतः ॥ ३,१२.९८ ॥

तस्माच्छतगुणैर्हीनः शतधन्वा महासुरः ।
समानस्तस्य विज्ञेयः कर्मारिर्दैत्यसत्तमः ॥ ३,१२.९९ ॥

कालकेयस्तु विज्ञेयः सदा वेनसमो मतः ।
अधमानां तु दैत्यानामुत्तमैः साम्यमुच्यते ॥ ३,१२.१०० ॥

तत्रावेशाच्च विज्ञेयं देवानां नात्र संशयः ।
तस्माच्छतगुर्णैहीनश्चित्तमानसुरो महान् ॥ ३,१२.१०१ ॥

तच्छरीराभिमानी तु तस्माच्छतगुणैर्वरः ।
तस्माच्छतगुणैहींनो हस्तमानसुरो महान् ॥ ३,१२.१०२ ॥

तस्माच्छतगुणैर्हीनः पादमानसुरो महान् ।
नेत्रेन्द्रियाभिमानी तु तस्माच्छतगुणो वरः ॥ ३,१२.१०३ ॥

चक्षुरिन्द्रियमानी तु तस्माच्छतगुणो वरः ।
तस्माच्छगुणैर्हीनः स्पर्शमानसुरो महान् ॥ ३,१२.१०४ ॥

तस्माच्छतगुर्णैहीनश्चण्डमानसुरो महान् ।
तस्माच्छतगुर्णैर्हीनः शिश्रमानसुरो महान् ॥ ३,१२.१०५ ॥

तस्माच्छतगुणैर्हीनः कर्ममानसुरः स्मृतः ।
कल्पाद्यैः प्रेरिताः सर्वे रुद्राद्या अधिकारिणः ॥ ३,१२.१०६ ॥

कदाचित्सुविरुद्धं च कुर्वन्ति तव सत्तम ।
कदाप्यहं च वायुश्च विरुद्धं नाचरेव भोः ॥ ३,१२.१०७ ॥

मूलेष्वंशावतारेषु रुद्रादीना महाप्रभो ।
बुद्धिर्विनश्यते यस्मात्तस्माच्छिन्ना हि तेऽखिलाः ॥ ३,१२.१०८ ॥

महीपते च मद्बुद्धिस्तस्मादच्छिन्नसंज्ञिकः ।
एतादृशोप्यहं देव न च शक्तिस्तु नस्तवे ॥ ३,१२.१०९ ॥

मह्यमच्छिन्नभक्ताय दयां कुरु महाप्रभो ।
इति स्तुत्वा हरिं ब्रह्मा स्थितः प्राञ्ज लिरग्रतः ॥ ३,१२.११० ॥

इति श्रीगारुडे महापुराणे द्वितीयांशे धर्मकाण्डे श्रीकृष्णगरुडसंवादे ब्रह्मस्तुतिवर्णनं नाम द्वादशोऽद्यायः