गरुडपुराणम्/ब्रह्मकाण्डः (मोक्षकाण्डः)/अध्यायः ११

विकिस्रोतः तः
Jump to navigation Jump to search
← ब्रह्मकाण्डः (मोक्षकाण्डः), अध्यायः १० गरुडपुराणम्
अध्यायः ११
वेदव्यासः
ब्रह्मकाण्डः (मोक्षकाण्डः), अध्यायः १२ →


श्रीगरुडमहापुराणम् ११
श्रीकृष्ण उवाच ।
पुरुषाख्यो हरिः साक्षाद्भगवान्पुरुषोत्तमः ।
शिश्येत्वण्डोदक विष्णुर्नृणां साहस्रवत्सरम् ।
लक्ष्मीश्चोदकरूपेण शय्यारूपेण भोण्डजा ॥ ३,११.१ ॥

विद्या तरङ्गरूपेण वायुरूपेण भोण्डज ॥ ३,११.२ ॥

तमोरूपेण सैवासी न्नान्यदासीत्कथञ्चन ।
असीद्गर्भोदके चैव नान्यदासीत्कथञ्चन ॥ ३,११.३ ॥

लक्ष्मीस्तुष्टाव च हरिं गर्भोदे पक्षिसत्तम ।
लक्ष्मीधराभ्यां रूपाभ्यां प्रकृतिर्हरिणा तथा ॥ ३,११.४ ॥

शेत श्रुतिस्वरूपेण स्तौति गर्भोदके हरिम् ।
नारायण नमस्तेऽस्तु शृणु विज्ञापनं मम ॥ ३,११.५ ॥

अजां जहि महाभाग योग्यानां मुक्तिमावह ।
अजा तु प्रकृतिः प्रोक्ता चापरा प्रकृतिः परा ॥ ३,११.६ ॥

शततोवरा तु ब्रह्माणी ब्रह्मपत्नी वरानना ।
उमा शच्यवरा तस्या अवराः संप्रकीर्तिताः ॥ ३,११.७ ॥

एतासां हननं नैव प्रार्थयामः सदा हरे ।
अस्ति प्रतिनृषु ब्रह्म प्रकृती द्वे व्यवस्थिते ॥ ३,११.८ ॥

एका तु नित्यसंसारा त्वजशब्दाभिधायिका ।
द्वितीया तु तमोऽपोह्या अजशब्दाभिधायिका ॥ ३,११.९ ॥

अत एव त्वजे ज्येष्ठे इति लोके प्रकीर्तिते ।
सुखदुः खप्रदा चैव अपरा दुः खदैव तु ॥ ३,११.१० ॥

मोक्षाधिकारिणामेव ज्ञानैश्वर्यादयो गणाः ।
तेषामाच्छादिका होका तमोङ्गा सा प्रकीर्तिता ॥ ३,११.११ ॥

जीवं प्रति महाविष्णुं पाह्याच्छादयति प्रभो ।
सा परा प्रकृतिर्ज्ञेया परमाच्छादिका स्मृता ॥ ३,११.१२ ॥

एवं सा परमा दुष्टा होका तमोङ्गा तु प्रकीर्तिता ।
जीववर्गेष्वेव खग ब्रह्मादेर्नास्ति सा क्वचित् ॥ ३,११.१३ ॥

पिशाचवत्समुद्दिष्टा जीवस्येत्यधिकारिणः ।
प्रेरिका तु तयोर्देव्यो स्त्वहमाद्या सुखात्मिका ॥ ३,११.१४ ॥

तत्र विष्णो महाभाग सगुणाच्छादको हितः ।
परमाच्छादिकां दुष्टां व्यामुच्यैव महाप्रभो ॥ ३,११.१५ ॥

मोक्षं देहि महादेव त्वद्भक्तानां महाप्रभो ।
परमाच्छादिका ह्यस्मान्नित्य संसारिणो यतः ॥ ३,११.१६ ॥

अत एव च नित्यत्वात्तस्मात्तदपसारणम् ।
कुरु देव महाभाग इति विज्ञायतां मम ॥ ३,११.१७ ॥

एवं स्तुतो हरिः कृष्णो सुप्रबुद्धोऽपि सर्बदा ।
उद्वुद्धवन्महा विष्णुरभूदज्ञपरीक्षया ॥ ३,११.१८ ॥

तस्य नाभेरभूत्पद्मं सौवर्णं भुवनाश्रयम् ।
तत्प्राकृतं च विज्ञेयं भूदेवी त्वभिमानिनी ॥ ३,११.१९ ॥

अनन्तसूर्यवच्चैव प्रकाशकरमीरितम् ।
चिदानन्दमयो विष्णुस्तस्माद्भिन्नो न संशयः ॥ ३,११.२० ॥

विष्णोः स्वरूपभूतं च ये विजानन्ति ते नराः ।
ते यान्ति ह्यधरं लोकं तथा तत्संगिसंगिनः ॥ ३,११.२१ ॥

किरीटादिकवच्चैव ज्ञातव्यं च खगेश्वर ।
किरीटाद्या अपि हरेर्द्विधा संति न संशयः ॥ ३,११.२२ ॥

स्वरूपा ह्यस्वरूपाश्च स्वस्वरूपनि दर्शने ।
गृहीता इति विज्ञेया न स्वरूपाः खगेश्वर ॥ ३,११.२३ ॥

भ्माण्डं ह्यसृजत्तत्र सर्वलोकविधायकम् ।
प्रलये मुक्तिहीनश्च सुप्त इत्युच्यते बुधः ॥ ३,११.२४ ॥

तस्य समिवस्त्रिवं च न ज्ञातव्या खगेश्वर ।
प्रलयोपि महाभाग ब्रह्मवाय्वोर्न चास्ति हि ॥ ३,११.२५ ॥

वृत्तिरूपं परं ज्ञानं पाद्यार्घ्यं नात्र संशयः ।
इन्द्रियाणामुपरतिः सुप्तिरित्युच्यते बुधैः ॥ ३,११.२६ ॥

ब्रह्मवाय्वोश्च पासग्नि वास्तवं स्यात्खगेश्वर ।
कथं तर्हि तयोर्वर्ते ह्यविलत्यत्वमुच्यते ॥ ३,११.२७ ॥

तस्मात्तद्वास्तवं नास्ति ब्रह्मवाय्वोः खगेश्वर ।
स्वप्नावस्थायाः सदृशी ह्यवस्था सुप्तिसंज्ञिका ॥ ३,११.२८ ॥

ब्रह्मण्यमुख्यया वृत्त्या ह्यस्तीत्येवं निबोध मे ।
अतो न वास्तवमिदमङ्गीकार्यं खगेश्वर ॥ ३,११.२९ ॥

वास्तवं ये विजानन्ति तेषां नित्यं धनं तपः ।
श्रीगरुड उवाच ।
सुप्तिस्त्वज्ञानकार्यत्वात्सुप्तिर्नास्तीत्युदीरिता ॥ ३,११.३० ॥

यदा हि कारणं चास्ति तदा कार्यमिति प्रभो ।
इत्यभिप्रायगर्भेण त्वं समाधास्य ते यदि ॥ ३,११.३१ ॥

तर्हि तस्य महाभाग कथं ब्रूहि भयादिकम् ।
भयादिकं ह्यस्तु नाम का वास्माकं क्षतिर्भवेत् ॥ ३,११.३२ ॥

एवमुक्तस्तु गोविन्दोब्रवीत्तत्रापि कारणम् ।
भयं त्वज्ञानकार्यं स्यात्कार्याकारणमत्र हि ॥ ३,११.३३ ॥

प्रीयते मत्वा ब्रह्म तस्मात्सुप्तिश्च तत्र हि ।
अज्ञादिकं यदि ब्रह्म तस्य न स्यात्कथञ्चन ॥ ३,११.३४ ॥

कथं सुखी प्रदृश्येत न कथञ्चित्करिष्यति ।
कथं वा मुक्तिपर्यन्तं ज्ञानव्यक्तिर्वदस्व मे ॥ ३,११.३५ ॥

यद्यज्ञानं तस्य सत्यं न स्यात्तर्हि महाप्रभो ।
अत्यादरात्कथं ब्रह्मञ्छ्रवणं कुरुते वद ॥ ३,११.३६ ॥

इति तस्य वचः श्रुत्वा कृष्णो वचनमब्रवीत् ।
भयं च वास्तवं तस्य न जानीहि महामते ॥ ३,११.३७ ॥

दृश्यते मद्भयं तस्य हरिप्रीत्यर्थमेव च ।
भयाकामवतीवानमुवास्तवमीरितम् ॥ ३,११.३८ ॥

प्राप्तप्राब्धलेशस्त तस्य नास्ति खगेश्वर ।
दुः खाज्ञानादिकं किञ्चित्कथं तस्मिन् भविष्यति ॥ ३,११.३९ ॥

विष्णोराज्ञानुसारेण भयायानुकरोत्यसौ ।
तेन प्रीणाति च हरिस्तस्य नास्त्यत्र संशयः ॥ ३,११.४० ॥

शृणोति सततं ब्रह्मा न चिन्त्यात्तावताज्ञता ।
कदाचिद्दृश्यते ब्रह्मा दुः खी न च खगेश्वर ॥ ३,११.४१ ॥

यद्ब्रह्म च न जानीयाद्धरिप्रीत्यर्थमेव च ।
दुः खिवद्दृश्यते ब्रह्मा आज्ञानां मोहनाय च ॥ ३,११.४२ ॥

योग्यतामनतिक्रम्य यावज्ज्ञानं च तिष्ठति ।
ब्रह्मणस्तावदेवास्ति नात्र कार्या विचारणा ॥ ३,११.४३ ॥

ज्ञानस्य व्यक्तता नाम विद्यमानस्य चादरात् ।
ज्ञानस्यासादनं चैव ज्ञानव्यक्तिरिति स्मृता ॥ ३,११.४४ ॥

अतो ज्ञानादिकं नास्ति ब्रह्मणः परमेष्ठिनः ।
पद्माद्धिरण्म याज्जातो ब्रह्मा तु चतुराननः ॥ ३,११.४५ ॥

सर्वदाऽलोचनायुक्तस्तेन स्वालोचनं कृतम् ।
अज्ञानां मोहनार्थाय हरिप्रीत्यर्थमेव च ॥ ३,११.४६ ॥

संकल्पोपि तथैवास्ति न ह्यज्ञानात्कृतस्तथा ।
को वा मां सृष्टवानत्र इति ह्यालोच्य स प्रभुः ॥ ३,११.४७ ॥

तं विचारयितुं ब्रह्मा पद्मनाडीं विवेश ह ॥ ३,११.४८ ॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे श्रीकृथ्णगरुडसंवादेऽज्ञानहेतुनिरूपणं नामैकादशोऽध्यायः