गरुडपुराणम्/ब्रह्मकाण्डः (मोक्षकाण्डः)/अध्यायः १०

विकिस्रोतः तः
← ब्रह्मकाण्डः (मोक्षकाण्डः), अध्यायः ९ गरुडपुराणम्
अध्यायः १०
वेदव्यासः
ब्रह्मकाण्डः (मोक्षकाण्डः), अध्यायः ११ →

श्रीगरुडमहापुराणम् १०
गरुड उवाच ।
देवैरेवं स्तुतो विष्णुर्भगवान्सात्त्वतां पतिः ।
कीदृशं ह्याश्रयं दत्त्वैषां विवेश महाप्रभुः ॥ ३,१०.१ ॥

एतद्वेदितुमिच्छामि कृष्णकृष्ण महाप्रभो ।
सम्यग्ब्रूहि दयालो त्वं यदि मच्छ्रोत्रमर्हति ॥ ३,१०.२ ॥

श्रीकृष्ण उवाच ।
तेषु तत्त्वेषु भगवान्स विवेश महाप्रभुः ।
क्षोभयामास भगवान् संबन्धविधुरो हरिः ॥ ३,१०.३ ॥

अदौ ससर्ज भगवान् ब्रह्माण्डं कन कात्मकम् ।
पञ्चाशत्कोटिविस्तीर्णं योजनानां समन्ततः ॥ ३,१०.४ ॥

तदूर्ध्वमण्ववयवस्तावान्कनकरूपकः ।
वर्तते तत ऊर्ध्वं तु पञ्चाशत्कोटिभूतलम् ॥ ३,१०.५ ॥

एवं कोटिशतं तस्यावयवः परिकीर्तितः ।
ततश्च सप्तावरणैः समतात्परिधीकृतम् ॥ ३,१०.६ ॥

कबन्धावरणं ह्याद्यं कोट्या दशसहस्रकम् ।
द्वितीया वरणं ज्ञेयं पावकस्य महात्मनः ॥ ३,१०.७ ॥

अपां दशगुणैर्युक्तं समन्तात्परिधी (खी) कृतम् ।
तृतीयावरणं ज्ञेयं हरस्यैव महात्मनः ॥ ३,१०.८ ॥

दशाधिकं पावकाच्च समन्तात्परिवारितम् ।
चतुर्थावरणं ज्ञेयं नभसोपि महाप्रभो ॥ ३,१०.९ ॥

हराद्दशगुणैरेवं समन्तात्परिवारितम् ।
पञ्चमावरणं ज्ञेयमहङ्काराख्यमेवच ॥ ३,१०.१० ॥

व्योम्नो दशगुणैरेवं समन्तात्परिवारि तम् ।
षष्ठमावरणं प्रोक्तं महत्तत्त्वं खगेश्वर ॥ ३,१०.११ ॥

अहङ्काराद्दशगुणं समन्तात्परिवारितम् ।
सप्तमावरणं प्रोक्तं त्रिगुणावरणं प्रभो ॥ ३,१०.१२ ॥

महत्तत्त्वाद्दशगुणैरधिकं परिकीर्तितम् ।
महत्तत्त्वानन्तरं च तमो ह्यावरणं स्मृतम् ॥ ३,१०.१३ ॥

महत्तत्त्वात्पञ्चगुणैरधिकं परिकीर्तितम् ।
तस्माच्च द्विगुणं ज्ञेयंरजो ह्यावरणं स्मृतम् ॥ ३,१०.१४ ॥

ततश्च द्विगुणं ज्ञेयं सत्त्वावरणमुत्तमम् ।
त्रयश्चैवं मिलित्वा तु एकावरणमीरितम् ॥ ३,१०.१५ ॥

अव्याकृताख्यमाकाशं तदनन्तरमीरितम् ।
मर्यादारहितश्चैवं तत्रास्ते हरिरव्ययः ॥ ३,१०.१६ ॥

अष्टमावरणं व्योम्नोरं तरा विरजा नदी ।
पञ्चयोजनविस्तीर्णा समन्तात्परीधीकृता ॥ ३,१०.१७ ॥

अस्ति पुण्यतमा ज्ञेया लोकसंसारनाशिनी ।
एवं चतुर्मुखेनैव तदा हृष्यं ति चाण्डज ॥ ३,१०.१८ ॥

ते सर्वे विरजानद्यां सम्यक्स्नात्वा विसर्ज्य च ।
लिङ्गदेहं ततः पश्चान्मोक्षं विन्दन्ति ते हरेः ॥ ३,१०.१९ ॥

अपरोक्षदृशामेवं ब्रह्मणा सह गामिनाम् ।
विरजातरणं विद्धि नान्येषां विनतासुत ॥ ३,१०.२० ॥

अपरोक्षदृशां ब्रह्मन्व्यासादीनां खगेश्वर ।
विरजातरणं नास्ति भोक्तव्यत्वाच्च कर्मणः ॥ ३,१०.२१ ॥

विरिञ्चेनैव साकं तु कल्पेस्मिन्नधिकारिणाम् ।
तेषां तु नियमेनैव सर्वप्रारब्धसंक्षयः ॥ ३,१०.२२ ॥

भवत्येवं न संदेहो नान्येषां सर्वसंक्षयः ।
अतस्तु विरजातरणं तेषामेव भवेत्पटो ॥ ३,१०.२३ ॥

विरजातरणं नास्ति तेषां त (तयोस्त)त्संगिनां तथा ।
सर्वारब्धक्षयो नास्ति यतस्तेषां खगाधिप ॥ ३,१०.२४ ॥

अतश्च सर्वथा नास्ति विरजातरणं प्रभो ।
प्रलये विरजानद्या लयो नास्ति खगेश्वर ॥ ३,१०.२५ ॥

लक्ष्म्यात्मिका तु सा ज्ञेया लिङ्गदेहविदारिणी ।
ब्रह्मत्वयोग्या ऋजवो नाम देवाः प्रकीर्तिताः ॥ ३,१०.२६ ॥

तेपि प्रत्येकशः संति ह्यनन्ताश्च पृथग्गणाः ।
पृथक्पृथक्च तैः साकं मोक्षयोग्याः खगेश्वर ॥ ३,१०.२७ ॥

जीवाः संति ह्यनेके च प्रतिकल्पे सृजन्ति ते ।
द्वात्रिंशल्लक्षणैः सम्यग्युक्ता वायुत्वयोग्यकाः ॥ ३,१०.२९ ॥
(१०.२८)
अष्टाविंशल्लक्षणैश्च गिरीशपदयोगिनः ।
चतुर्विंशतिमारभ्याषोडशाच्च सुराः स्मृताः ॥ ३,१०.२९ ॥

अष्टका ऋषयः प्रोक्तास्तदूनाश्चक्रवर्तिनः ।
शतजन्म समारभ्य ब्रह्मणः परमेष्ठिनः ॥ ३,१०.३० ॥

अपरोक्षमिति प्रोक्तं तथा ह्यारब्धसंक्षयः ।
एकेन शतकल्पेन वायुत्वं याति भो द्विज ॥ ३,१०.३१ ॥

शतजन्मनि ब्रह्मत्वं याति पश्चाद्धरेः पदम् ।
चत्वारिंशद्ब्रह्मकल्पं समारभ्य खगेश्वर ॥ ३,१०.३२ ॥

रुद्रस्याप्यापरोक्ष्यं स्यात्तथा प्रारब्धसंक्षयः ।
एकचत्वारिंशकल्पे शेषत्वं याति सुव्रत ॥ ३,१०.३३ ॥

ब्रह्मणा सह मोक्षं च याति सम्यङ्न चान्यथा ।
कल्पविंशतिमारभ्य ब्रह्मणः परमेष्ठिनः ॥ ३,१०.३४ ॥

इन्द्रस्याप्यापरोक्ष्यं स्यात्तथा प्रारब्धसंक्षयः ।
ब्रह्मणैव सहायाति हरिं नारायणं परम् ॥ ३,१०.३५ ॥

गरुड उवाच ।
पञ्चाशीतिब्रह्मकल्पं समारभ्य महाप्रभो ।
रुद्रस्याप्यापरोक्ष्यं स्यात्तथा प्रारब्धसंक्षयः ॥ ३,१०.३६ ॥

इति श्रुतं मया ब्रह्मन्ब्रह्मणोक्तं हरेः प्रियात् ।
इत्थं त्वयोक्तं श्रीकृष्ण संशयोबाधते मम ॥ ३,१०.३७ ॥

अतो मे संशयं छिन्धि यथा न स्यात्तथा पुनः ।
इति तद्वचनं श्रुत्वा कृष्णो वचनमब्रवीत् ॥ ३,१०.३८ ॥

श्रीकृष्ण उवाच ।
ब्रह्मोक्तस्य मयोक्तस्य विवादो नास्ति सर्वथा ।
संदेहस्त्वज्ञदृष्टीनां ज्ञानिनां नास्ति सर्वथा ॥ ३,१०.३९ ॥

अशीतिह्यष्टका प्रोक्ता अष्टपञ्च खगेश्वर ।
चत्वारिंशद्ब्रह्मकल्प एवं प्राह चतुर्मुखः ॥ ३,१०.४० ॥

तत्त्वानां बहुगोप्यत्वात्तथोक्तं ब्रह्मणा पुरा ।
अभिप्रायस्त्वेवमेव ज्ञातव्यो नात्र संशयः ॥ ३,१०.४१ ॥

पञ्चा शीतिब्रह्मकल्पं ये विजानन्ति भो द्विज ।
तेन्धं तमः प्रविशन्ति सत्यंसत्यं मयोदितम् ॥ ३,१०.४२ ॥

विरजानन्तरं विप्रं तथा व्याकृतमंबरम् ।
अनन्तपारं तदपि लक्ष्मीस्तस्याभिमानिनी ॥ ३,१०.४३ ॥

संख्यानुगणनं नाम यस्य नास्ति महाप्रभो ।
न दानं जातिप्रोक्तं सर्वदा नास्ति संशयः ॥ ३,१०.४४ ॥

अण्डाभिमानी ब्रह्मा तु विराडाख्यो ह्यभूत्तदा ।
एवं मतं स निर्माय भगवान्हरिख्ययः ॥ ३,१०.४५ ॥

विशेषात्तत्र गरुड देवैस्तत्त्वाभिमानिभिः ।
अधश्चोर्ध्वं तदाक्रम्य हरिस्तिष्ठति सर्वदा ॥ ३,१०.४६ ॥

एवं प्राकृतसर्गोक्तिर्वैकृतं शृणु पक्षिराट् ॥ ३,१०.४७ ॥

गरुड उवाच ।
सृष्टिरुक्ता त्वया पूर्वं श्रुता सम्यङ्मया हरे ॥ ३,१०.४८ ॥

किं नाम प्राकृतं ज्ञेयं तथा किं वैकृतं प्रभो ।
एतद्विस्तीर्य मे ब्रूहि श्रोतुं कौतूहलं हि मे ॥ ३,१०.४९ ॥

श्रीकृष्ण उवाच ।
अव्यक्ताद्याः पृथिव्यन्ता अण्डाच्च बहिरुद्भवाः ।
ते सर्वे प्राकृताः प्रोक्तास्तेषां ज्ञानाद्विमच्यते ॥ ३,१०.५० ॥

ब्रह्माडं विकृतं ज्ञेयं ब्रह्माण्डान्तः खगेश्वर ।
या सृष्टिरुच्यते सद्भिः सैवोक्ता विकृतेति च ॥ ३,१०.५१ ॥

सृष्टिश्च प्रलयश्चैव संसारो भक्तिरेव च ।
देवता ऋषिमुख्याश्च लोका भूरादयस्तथा ॥ ३,१०.५२ ॥

अनाद्यनन्तकालीनाः सर्वदैकप्रकारकाः ।
जगत्प्रवाहः सत्योऽयं नैव मिथ्या कथञ्चन ॥ ३,१०.५३ ॥

यत्त्वेतदन्यथा ब्रूयुः सर्वहन्तार एव ते ।
जगत्प्रवाहः सत्योऽयं हरिसेवेतिसाथा ॥ ३,१०.५४ ॥

सत्यं सत्यं पुनः सत्यमुद्धत्य भुजमुत्यते ।
वेदाच्छास्त्रं परं नास्ति न देवः केशवात्परः ॥ ३,१०.५५ ॥

सर्वोत्कृष्टं केशवं च विहायान्यमुपासते ।
तेषामन्धं तमो ज्ञेयं पितॄणां गरुणामपि ॥ ३,१०.५६ ॥

इदानीं शृणु पक्षीन्द्र वैकृतं सर्गमुत्तमम् ।
सम्यग्जानाति यो लोके स याति परमं पदम् ॥ ३,१०.५७ ॥

इति श्रीगारुडे महापुराणे श्रीकृष्णगरुडसंवादे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे ब्रह्माण्डादिवैकृतैकदेशप्राकृतसृष्टिनिरूपणं नाम दशमोऽध्यायः