गरुडपुराणम्/ब्रह्मकाण्डः (मोक्षकाण्डः)/अध्यायः ९

विकिस्रोतः तः
← ब्रह्मकाण्डः (मोक्षकाण्डः), अध्यायः ८ गरुडपुराणम्
अध्यायः ९
वेदव्यासः
ब्रह्मकाण्डः (मोक्षकाण्डः), अध्यायः १० →

श्रीगरुड उवाच ।
अजानजस्वरूपं च ब्रूहि कृष्ण महामते ।
तदन्यांश्च क्रमेणेव वक्तुं कृष्ण त्वमर्हसि ॥ ३,९.१ ॥
श्रीकृष्ण उवाच ।
अजानाख्या देवतास्तु तत्तद्देवकुले भवाः ।
अजानदेवतास्ता हि तेभ्योग्र्याः कर्मदेवताः ॥ ३,९.२ ॥
विराधश्चारुदेष्णश्च तथा चित्ररथस्तथा ।
धृतराष्ट्रः किशोरश्च हूहूर्हाहास्तथैव च ॥ ३,९.३ ॥
विद्याधरश्चोग्रसेनो विश्वावसुपरावसू ।
चित्रसेनश्च गोपालो बलः पञ्चदश स्मृताः ॥ ३,९.४ ॥
एवमाद्याश्च गन्धर्वाः शतसंख्याः खगेश्वर ।
अजानजसमा ज्ञेया मुक्तौ संसार एव च ॥ ३,९.५ ॥
अज्ञानजास्तु मे देवाः कर्मजेभ्यः शतावराः ।
घृताची मेनका रंभा उर्वशी च तिलोत्तमा ॥ ३,९.६ ॥
सुकेतुः शबरी चैव मञ्जुघोषा च पिङ्गला ।
इत्यादिकं यक्षरत्नं सह संपरिकीर्तितम् ॥ ३,९.७ ॥
अजानजसमा ह्येते कर्मजेभ्यः शतावराः ।
विश्वामित्रो वसिष्ठश्च नारदश्च्यवनस्तथा ॥ ३,९.८ ॥
उतथ्यश्च मुनिश्चैतान्द्राजपित्वा खगेश्वर ।
ऋषयश्च महात्मानो ह्यजानजसमाः स्मृताः ॥ ३,९.९ ॥
शतर्चिः कश्यपो ज्ञेयो मध्यमश्च पराशरः ।
पावमान्यः प्रगाथश्च क्षुद्रसूक्तश्च देवलः ॥ ३,९.१० ॥
गृत्समदो ह्यासुरिश्च भरद्वाजोथ मुद्गलः ।
उद्दालको ह्यृष्यशृङ्गः शङ्खः सत्यव्रतस्तथा ॥ ३,९.११ ॥
सुयज्ञश्चैव बाभ्रव्यो माण्डूकश्चैव बाष्कलः ।
धर्माचार्यस्तथागस्त्यो दाल्भ्यो दार्ढ्यच्युतस्तथा ॥ ३,९.१२ ॥
कवषो हरितः कण्वो विरूपो मुसलस्तथा ।
विष्णुवृद्धश्च आत्रेयः श्रीवत्सो वत्सलेत्यपि ॥ ३,९.१३ ॥
भार्गवश्चाप्नवानश्च माण्डूकेयस्तथैव ।
मण्डूकश्चैव जाबचलिः वीतिहव्यस्तथैव च ॥ ३,९.१४ ॥
गृत्समदः शौनकश्च इत्याद्या ऋषयः स्मृताः ।
एतेषां श्रवणादेव हरिः प्रीणाति सर्वदा ॥ ३,९.१५ ॥
ब्रुवे द्व्यष्टसहस्रं च शृणु तार्क्ष्य मम स्त्रियः ।
अग्निपुत्रास्तु यद्द्व्यष्टसहस्रञ्च मम स्त्रियः ।
अजानजसमा ह्येता (ते) नात्र कार्या विचारणा ॥ ३,९.१६ ॥
त्वष्टुः पुत्री कशेरूश्च तासां मध्ये गुणाधिका ।
तदनन्तरजान्वक्ष्ये शृणु सम्यक्खगेश्वर ॥ ३,९.१७ ॥
आजानेभ्यस्तु पितरः सप्तभ्योन्ये शतावराः ।
तथाधिका हि पितर इति वेदविदां मतम् ॥ ३,९.१८ ॥
तदनन्तराजान्वक्ष्ये शृणु त्वं द्विजसत्तम ।
अष्टाभ्यो देवगन्धर्वा अष्टोत्तरशतं विना ॥ ३,९.१९ ॥
तेभ्यः शतगुणानन्दा देवप्रेष्यास्तु मुख्यतः ।
स्वमुखेनेव देवैश्च आज्ञाप्याः सर्वदा गणाः ॥ ३,९.२० ॥
आख्याता देवगन्धर्वास्तेभ्यस्ते च शतावराः ।
तेभ्यस्तु क्षितिपा ज्ञेया अवराश्च शतैर्गुणैः ॥ ३,९.२१ ॥
तेभ्यः शतगुणाज्ञेया मानुषेषूत्तमा गणाः ।
एवं प्रासंगिकानुक्त्वा प्रकृतं ह्यनुसराम्यहम् ।
एवं ब्रह्मादयो देवा लक्ष्म्याद्या अपि सर्वशः ॥ ३,९.२२ ॥
स्तुत्वा तूष्णीं स्थिताः सर्वे प्राञ्जलीकृत्य भो द्विज ॥ ३,९.२३ ॥
इति स्तुतश्च देवेशो भगवान् हरिरव्ययः ।
तेषामायतनं दातुं मनसा समचिन्तयत् ॥ ३,९.२४ ॥
इदं पवित्रमारोग्यं पुण्यं पापप्रणाशनम् ।
हरिप्रसादजनकं स्वरूपसुखसाधनम् ॥ ३,९.२५ ॥
इदं तु स्तवनं विप्रा न पठन्तीह मानवाः ।
न शृण्वन्ति च ये नित्यं ते सर्वे चैव मायिनः ॥ ३,९.२६ ॥
नस्मरन्तोन्तरं नित्यं ये भुञ्जन्ति नराधमाः ।
तैर्भुक्ता सततं विष्ठा सदा क्रिमिशतैर्युता ॥ ३,९.२७ ॥
इति श्रीगारुडे महापुराणे तृती० उत्त० ब्रह्मकाण्डे देवकृतविष्णुस्तुतिदेवतातारतम्यनिरूपणं नाम नवमोऽध्यायः