गरुडपुराणम्/ब्रह्मकाण्डः (मोक्षकाण्डः)/अध्यायः १७

विकिस्रोतः तः
Jump to navigation Jump to search
← ब्रह्मकाण्डः (मोक्षकाण्डः), अध्यायः १६ गरुडपुराणम्
अध्यायः १७
वेदव्यासः
ब्रह्मकाण्डः (मोक्षकाण्डः), अध्यायः १८ →

श्रीगरुडमहापुराणम् १७
गरुड उवाच ।
चतुर्जन्मसु वै कृष्ण शच्याद्यैः सह भारती ।
एकदेह विशिष्टैव भुवि जातेति चोक्तवान् ॥ ३,१७.१ ॥

कारणं ब्रूहि मे ब्रह्मन् शिष्याय तव सुव्रत ।
गरुडेनैवमुक्तस्तमुवाच मधुसूदनः ॥ ३,१७.२ ॥

श्रीकृष्ण उवाच ।
विशिष्टदेहसं प्राप्तौ भारत्याः पक्षिसत्तम ।
वक्ष्यामि कारणं वीन्द्र सावधानमनाः शृणु ॥ ३,१७.३ ॥

पुरा कृतयुगे वीन्द्र रुद्रभार्या च पार्वती ।
इन्द्रभार्या शची देवी यम भार्याच शामला ॥ ३,१७.४ ॥

अश्विभार्या उषा देवी भर्तृभिः सहिता खग ।
ब्रह्मलोकं ययुस्तत्र ब्रह्माणं ददृशुस्तदा ॥ ३,१७.५ ॥

हावं भावं विलासं च दर्शयामासुरञ्जसा ।
दृष्ट्वा ता उद्धता ब्रह्मा शशाप खगसत्तम ॥ ३,१७.६ ॥

उद्धताश्च यतो यूयं मानुषीं योनिमाप्स्यथ ।
तत्र स्वभर्तृसंयोगमवाप्स्यथ खगेश्वर ॥ ३,१७.७ ॥

एवं शप्तास्तु ताः सर्वा आजग्मुर्मेरुपर्वतम् ।
तत्रोपविष्टं ब्रह्माणं वञ्चयामासुरञ्जसा ॥ ३,१७.८ ॥

तूष्णीमेव स्थिते वीन्द्र वञ्चयन्त्यः स्थिताः पुनः ।
ततस्तूष्णीं स्थितं वीन्द्र वञ्चयामासुरञ्जसा ॥ ३,१७.९ ॥

त्रिवारानन्तरं ब्रह्मा शप्तवांस्ता महाप्रभुः ।
त्रिवारं वञ्चनं यस्मादेकवारं च दर्शनम् ॥ ३,१७.१० ॥

किं चाश्रुत्वातः पश्चाच्चतुर्जन्मसु भूतले ।
एकदेहान्मानुषत्वं भविष्यति न संशयः ॥ ३,१७.११ ॥

द्वितीये जन्मनि तथा अन्यगात्वमवाप्स्यथ ।
तृतीये जन्मनि तथा भर्तृसंयोग माप्स्यथ ॥ ३,१७.१२ ॥

जन्मन्याद्ये चतुर्थे च नान्यगात्वमवाप्स्यथ ।
तथा स्वभर्तृसंयोगं नावाप्स्यथ च सर्वशः ॥ ३,१७.१३ ॥

एवं शप्तास्तु ताः सर्वा ब्रह्मणा पक्षिसत्तम ।
तदा विचारयामासुर्मिलित्वा मेरुमूर्धनि ॥ ३,१७.१४ ॥

ब्रह्मशापस्त्वनिर्वाय उपायैः शतशोपि च ।
नीचैः समागमो निन्द्यस्तथैव च विपत्तिदः ॥ ३,१७.१५ ॥

उत्तमेन च संगेन दैवेनाप्यर्थदो भवेत् ।
देवानामुत्तमो वायुस्तदर्थं संगमाचरेत् ॥ ३,१७.१६ ॥

विचार्यैवमुमाद्या भारत्याः सेवां तु चक्रिरे ।
सहस्रवत्सरान्ते सा भारती तोषिताब्रवीत् ॥ ३,१७.१७ ॥

मत्सेवां च किमर्थं वै ह्याचरिष्यन्ति सुव्रताः ।
तस्यां रक्ताश्च ता देव्यस्त्वब्रुवन्स्वचिकीर्षितम् ॥ ३,१७.१८ ॥

पुरा वयं तु शप्ताः स्म ब्रह्मणा क्रोधरूपिणा ।
एकदेहान्मानुषत्वमवाप्स्यथ वराङ्गनाः ॥ ३,१७.१९ ॥

चतुर्थजन्मन्यप्येवं द्वितीये जन्मनि प्रभो ।
समाप्स्यथान्यगात्वं चेत्येवं शप्ता ह भामिनि ॥ ३,१७.२० ॥

अस्माकं वायुना देवेनान्यगात्वं न दोषभाक् ।
अतस्त्वयैकदेहत्वमिच्छामो देवि जन्मसु ॥ ३,१७.२१ ॥

हत्युक्ता ताभिरथ च तथैत्युक्त्वा द्विजोत्तम ।
सा पार्वत्यादिभिर्युक्ता भारतीत्यभवद्भुवि ॥ ३,१७.२२ ॥

शिवनाम्नो द्विजस्यैव गृहे सा तु कुमारिका ।
कर्मैक्यार्थं तपश्चक्रेः विष्णोश्च शिवसंज्ञिनः ॥ ३,१७.२३ ॥

तपसा तोषिता विष्णुः शिव संज्ञो महाप्रभुः ।
वरं प्रादात्तृतीयेस्मिन्कृष्णजन्मनि भो स्त्रियः ॥ ३,१७.२४ ॥

सम्यक्त्वभर्तृसंयोगो भविष्यति विना भवम् ।
यतोनया च पार्वत्या प्रेरिता एव सर्वशः ॥ ३,१७.२५ ॥

विलासं दर्शयामास ब्रह्मणः परमेष्ठिनः ।
अतः सा पार्वाती श्रेष्ठा ब्रह्मदेहे न संशयः ॥ ३,१७.२६ ॥

कृष्णदेहेपि तस्यास्तु न भविष्यति संगमः ।
अन्यगात्वं द्वितीयेस्मिन्भविष्यति न संशयः ॥ ३,१७.२७ ॥

रुद्रान्तः स्थो हरिश्चैव वहं दत्त्वा स्त्रियां प्रभुः ।
अन्तर्धानं ययौ श्रीमान्स्वलोकं गतवानभूत् ॥ ३,१७.२८ ॥

विसृज्य ताश्च तं देहं बभूवुर्नलकन्यकाः ।
इन्द्रसेनेति संज्ञां च लब्ध्वा ताश्च तपोवनम् ॥ ३,१७.२९ ॥

ययुस्तत्र चरन्त्यस्ता ददृशुर्मुद्गलं त्वृषिम् ।
तस्य दर्शनमात्रेण बभूवुः काममोहिताः ॥ ३,१७.३० ॥

मुद्गलस्याभिमानं हि नाशयित्वा च मारुतः ।
रमयामास तत्रस्था भारत्यादिवराङ्गनाः ॥ ३,१७.३१ ॥

तद्देहेन विसृष्टा सा बभूव द्रौपदीति च ।
यस्मात्सा द्रुपदाज्जाता तस्मात्सा द्रौपदी स्मृता ॥ ३,१७.३२ ॥

वेदिमध्यात्समुद्भूता तस्मात्सायोनिजा स्मृता ।
कृष्णवर्णा यतस्तस्मात्सा कृष्णा भूतले स्मृता ॥ ३,१७.३३ ॥

कृष्णादेहपि भारत्या अभिमानः सदा स्मृतः ।
शच्यादेरभिमानस्तु तस्मिन्देहे कदाचन ॥ ३,१७.३४ ॥

यस्याः स्वभर्तृसंयोगकाले च खगसत्तम ।
अभिमानस्तदैव स्यात्तस्या एव न चान्यथा ॥ ३,१७.३५ ॥

एतासां रमणे काले उमायाः पक्षिसत्तम ।
अभिमानश्च नास्त्येव स्वाप एव रताः सदा ॥ ३,१७.३६ ॥

पार्थस्य रमणे काले द्रौपद्याश्च कलेवरे ।
भारत्याश्च तथा शच्या अभिमानद्वयं स्मृतम् ॥ ३,१७.३७ ॥

उमादेः श्याम लादेश्च अभिमानक्षतिस्तदा ।
सर्वासां स्वाप एव स्यान्नात्र कार्या विचारणा ॥ ३,१७.३८ ॥

अर्जुनं वीररूपेण प्रविष्टो वायुरेव च ।
भारतीं रमते नित्यं शामलां च युधिष्ठिरः ॥ ३,१७.३९ ॥

सुंदरेण च रूपेण प्रविष्टो नकुले मरुत् ।
रमते भारतीं नित्यं नकुलश्चाप्युषां खग ॥ ३,१७.४० ॥

नीतिरूपेण चाविष्टो सहदेवे च मारुतः ।
द्रौपदीं रमते नित्यं सहदेवोत्पयुषां खग ॥ ३,१७.४१ ॥

शच्याद्या द्रौपदीदेहे नापुः संगं च मारुतः ।
तासामतोन्यगामित्वं कृष्णादेहे न चिन्तयेत् ॥ ३,१७.४२ ॥

धर्मादिदेहसंगं च भारत्या नैव चिन्तयेत् ।
मनुजस्य च देहस्य तासां संगं चिन्तयेत् ॥ ३,१७.४३ ॥

अपरोक्षवतीनां तु तासां लेपो न सर्वथा ।
अथवा मुद्गलस्येव रतिकाले खगेश्वर ॥ ३,१७.४४ ॥

रमणं चक्रुरेवं ता अतो दोषो न विद्यते ।
एकस्मिन्दिवसे वीन्द्र धर्मो वायुश्च तावुभौ ॥ ३,१७.४५ ॥

रमणं चक्रतुः सम्यक्कृष्णादेहेऽपि मानद ।
तथाप्यनन्यागामित्वं चिन्तनीयं न संशयः ॥ ३,१७.४६ ॥

सुराणां सुरभोग्याश्च भोगं जानन्ति देवताः ।
न जानन्त्येव मर्त्यांस्तु तेषु देहेषु ते पुनः ॥ ३,१७.४७ ॥

नीरक्षीरविविकं च हंसो वेत्ति न चापरः ।
अतः स्वभर्तृसंयोगं कृष्णादेहेन चिन्तयेत्कृष्णादेहेन्यगामित्वं नैव चिन्त्यं खगेश्वर ॥ ३,१७.४८ ॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे भारत्या विशिष्टदेह संप्राप्त्यै कारणनिरूपणं नाम सप्तदशोऽध्यायः