गरुडपुराणम्/प्रेतकाण्डः (धर्मकाण्डः)/अध्यायः ४१

विकिस्रोतः तः
← प्रेतकाण्डः (धर्मकाण्डः), अध्यायः ४० गरुडपुराणम्
अध्यायः ४१
वेदव्यासः
प्रेतकाण्डः (धर्मकाण्डः), अध्यायः ४२ →

श्रीगरुडमहापुराणम् ४१
श्रीविष्णुरुवाच ।
वृषोत्सर्गं प्रकुर्वीत विधिपूर्वं खगेश्वर ।
कार्तिकादिषु मासेषु पौर्णमास्यां शुभे दिने ॥ २,४१.१ ॥

विवाहोत्सर्जनं श्राद्धं नान्दीमुखमुपक्रमेत् ।
कुर्याद्भुवश्च संस्कारानग्निस्थापनमेव च ॥ २,४१.२ ॥

वाप्यां कूपे गवां गोष्ठे स्थाप्याग्निं विधिवत्ततः ।
विवाहविधिना सर्वं कुर्याद्ब्राह्मणवाचनम् ॥ २,४१.३ ॥

पात्रासादनं श्रपणमुपयमनकुशादिकम् ।
पुर्युक्षणान्ते होमं च कर्या द्वै ब्राह्मणेन तु ॥ २,४१.४ ॥

आघारावाज्यभागौ च चक्षुषी च प्रदा पयेत् ।
प्रथमेऽहरिति मन्त्रेण होतव्याश्च षडाहुतीः (तयः) ॥ २,४१.५ ॥

आघारावाज्यभागौ तु पायसेनाङ्गदेवताः ।
अग्नये रुद्राय शर्वाय पशुपतये उग्राय शिवाय ।
भवाय महादेवायेशानाय यमाय च ॥ २,४१.६ ॥

पिष्टकेन सकृद्धोमं पूषागा इति मन्त्रतः ।
उभयोः स्विष्टिकूद्धोमश्चरुणा पायसेन च ॥ २,४१.७ ॥

प्रथमं व्याहृतिहोमः प्रायश्चित्तं प्रजापतिः ।
संस्त्रवप्राशनं कुर्यात्प्रणीतापरिमोक्षणम् ॥ २,४१.८ ॥

पवित्रप्रतिपत्तिश्च ब्राह्मणे दक्षैणा ततः ।
षडङ्गरुद्रजाप्येन प्रोतो मोक्षमवाप्नुयात् ॥ २,४१.९ ॥

एकवर्णं वृषञ्चैव सकृद्वत्सतरीं खग ।
स्नापयित्वा ततः कुर्यात्सर्वालङ्कारभूषितम् ॥ २,४१.१० ॥

प्रतिष्ठाप्य च तद्युग्मं प्रेतो मोक्षमवाप्नुयात् ।
पुच्छेच तर्पणं कार्यमुच्छ्रिते मन्त्रपूर्वकम् ।
ब्राह्मणान् भोजयेत्पश्चाद्दक्षिणाभिश्च तोषयेत् ॥ २,४१.११ ॥

ततः श्राद्धं समुद्दिष्टमेकोद्दिष्टं यथाविधि ।
जलमन्नं तथा देयं प्रेतोद्धरणहेतवे ॥ २,४१.१२ ॥

द्वादशाहे ततः कुर्यान्मासेमासे पृथक्पथक् ।
एवं विधिः समायुक्तः प्रेतमोक्षे करोति हि ॥ २,४१.१३ ॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे वृषोत्सर्गनिरूपणं नामै कचत्वारिंशत्तमोऽध्यायः