गरुडपुराणम्/प्रेतकाण्डः (धर्मकाण्डः)/अध्यायः ४०

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← प्रेतकाण्डः (धर्मकाण्डः), अध्यायः ३९ गरुडपुराणम्
अध्यायः ४०
वेदव्यासः
प्रेतकाण्डः (धर्मकाण्डः), अध्यायः ४१ →


श्रीगरुडमहापुराणम् ४०
तार्क्ष्य उवाच ।
भगवन्ब्राह्मणाः केचिदपमृत्युवशं गताः ।
कथं तेषां भवेन्मार्गः किं स्थानं का गतिर्भवेत् ॥ २,४०.१ ॥

किञ्च युक्तं भवेत्तेषां विधानं वापि कीदृशम् ।
तदहं श्रोतुमिच्छामि ब्रूहि मे मधुसूदन ॥ २,४०.२ ॥

श्रीकृष्ण उवाच ।
प्रेतीभूताद्विजातीनां सम्भूते मृत्युवैकृते ।
तेषां मार्गगतिस्थानं विधानं कथयाम्यहम् ॥ २,४०.३ ॥

शृणु तार्क्ष्य परं गोप्यं जाते दुर्मरणे सति ।
लङ्घनैर्ये मृता विप्रा दंष्ट्रिभिश्चाभिघातिताः ॥ २,४०.४ ॥

कण्ठग्राह विमग्नानां क्षीणानां तुण्डघातिनाम् ।
विषाग्निवृषविप्रेभ्यो विषूच्या चात्मघातकाः ॥ २,४०.५ ॥

पतनोद्वन्धनजलैर्मृतानां शृणु संस्थितिम् ।
यान्ति ते नरकेघोरे ये च म्लेच्छादिभिर्हताः ॥ २,४०.६ ॥

श्वशृगालादिसंस्पृष्टा अदग्धाः कृमिसंङ्कुलाः ।
उल्लङ्घिता मृता ये च महारोगैश्च पीडिताः ॥ २,४०.७ ॥

अभिसस्तास्तथाव्यङ्गा ये च पापान्नपोषिताः ।
चण्डालादुदकात्सर्पाद्ब्राह्मणाद्वैद्युताग्नितः ॥ २,४०.८ ॥

दष्ट्रिभ्यश्च पशुभ्यश्च वृक्षादिपतनान्मृताः ।
उदक्यामूतकीशूद्रारजकीसङ्गदूषिताः ॥ २,४०.९ ॥

तेन पापेन नरकान्मुक्ताः प्रेतत्वभागिनः ।
न तेषां कारयेद्दाहं सूतकं नोदकक्रियाम् ॥ २,४०.१० ॥

न विधानं मृताद्यं च न कुर्यादौर्ध्वदैहिकम् ।
तेषां तार्क्ष्य प्रकुर्वीत नारायणबलिक्रियाम् ॥ २,४०.११ ॥

सर्वलोकहितार्थाय शृणु पापभयापहाम् ।
षण्मासं ब्राह्मणे दाहस्त्रिमासं क्षत्त्रिये मतः ॥ २,४०.१२ ॥

सार्ध मासं तु वैश्यस्य सद्यः शूद्रे विधीयते ।
गङ्गायां यमुनायाञ्च नैमिषे पुष्करेऽथ च ॥ २,४०.१३ ॥

तडागे जलूपूर्णे वा ह्रदे वा विमलोदके ।
वाप्यां कूपे गवां गोष्ठे गृहे वा प्रतिमालये ॥ २,४०.१४ ॥

कृष्णाग्रे कारयेद्विप्र बलिं नारायणाह्वयम् ।
प्रेताय तर्पणं कार्यं मन्त्रैः पौराणवैदिकैः ॥ २,४०.१५ ॥

सर्वौषध्यक्षतैर्मिश्रैर्विष्णुमुद्दिश्य तर्पयेत् ।
कार्यं पुरुषसूक्तेन मन्त्रैर्वा वैष्णवैरपि ॥ २,४०.१६ ॥

दक्षिणाभिमुखो भूत्वा प्रेतं विष्णुरिति स्मरेत् ।
अनादिनिधनो देवः शङ्खचक्रगदाधरः ॥ २,४०.१७ ॥

अव्ययः पुण्डरीकाक्षः प्रेतमोक्षप्रदो भवेत् ।
तर्पणस्यावसाने च वीतरागो विमत्सरः ॥ २,४०.१८ ॥

जितेन्द्रियमना भूत्वा शुचिप्मान्धर्मतत्परः ।
दानधर्मरतः शान्तः प्रणम्य वाग्यतः शुचिः ॥ २,४०.१९ ॥

यजमानो भबेत्तत्र शुचिर्वन्धुसमन्वितः ।
भक्त्या तत्र प्रकुर्वीत श्राद्धत्येकादशैव तु ॥ २,४०.२० ॥

सर्वकर्मविपाकेन एकैकाग्रे समाहितः ।
तोयव्रीहियवान् षष्ट्या गोधूमांश्च प्रियङ्गुकान् ॥ २,४०.२१ ॥

हविष्यान्नं शुभं मुद्रां छत्रोष्णीषे च चलेकम् ।
दापयेत्सर्वसस्यानि क्षीरक्षौद्रयुतानि च ॥ २,४०.२२ ॥

वस्त्रोपानहसंयुक्तं दद्यादष्टविधं पदम् ।
दापयेत्सर्वविप्रेभ्यो न कुर्यात्पङ्क्तिबन्धनम् ॥ २,४०.२३ ॥

भूमौ स्थितेषु पिण्डेषु गन्धपुष्पाक्षतान्वितम् ।
शङ्खपात्रे तथा ताम्रे तर्पणञ्च पृथक्पृथक् ॥ २,४०.२४ ॥

ध्यानधारणसंयुक्तो जानुभ्यामवनिं गतः ।
दातव्यं सर्वविप्रेभ्यो वेदशास्त्रविधानतः ॥ २,४०.२५ ॥

ऋचा वै दापयेदर्घ्यमेकोद्दिष्टे पृथक्पृथक् ।
आपोदेवीर्मधुमतीरादिपीठे प्रकल्पितम् ॥ २,४०.२६ ॥

उपयामगृहीतोऽसि द्वितीयेर्ऽघं निवेदयेत् ।
येनापावकचक्षुषा तृतीये च कसल्पितम् ॥ २,४०.२७ ॥

ये देवासश्चतुर्थे तु समुद्रं गच्छ पञ्चमे ।
अग्निर्ज्योति स्तथा षष्ठे हिरण्यगर्भः सप्तमे ॥ २,४०.२८ ॥

यमाय त्वाष्टमे ज्ञेयं यज्जग्रन्नवमे तथा ।
तशमे याः फलिनीति पिण्डे चैकादशे ततः ॥ २,४०.२९ ॥

भद्रं कर्णेभिरिति च कुर्यात्पिण्डविसर्जनम् ।
कृत्वैकादशदेवत्यं श्राद्धं कुर्यात्परेऽहनि ॥ २,४०.३० ॥

विप्रानावाहयेत्पञ्च चतुर्वेदविशारदान् ।
विद्याशीलगुणोपेतान्स्व कीयाञ्छीलसत्तमान् ।
अब्यङ्गान्सप्रशस्तांश्च न त्वर्ज्यान्कदाचन ॥ २,४०.३१ ॥

विष्णुः स्वर्णमयः कार्यो रुदस्ताम्रमयस्तथा ।
ब्रह्मा रूप्यमयस्तद्वद्यमो लोहमयो भवेत् ॥ २,४०.३२ ॥

सीसकं तु भवेत्प्रेतं त्वथ वा दर्भकं तथा ।
शन्नोदेवीति मन्त्रेण गोविन्दं पश्चिमे न्यसेत् ॥ २,४०.३३ ॥

अग्न आयाहीति रुद्रमुत्तरत्रैव विन्यसेत् ।
अग्निमीळेति मन्त्रेण पूर्वेणैव प्रजापतिम् ॥ २,४०.३४ ॥

इषेत्वोर्जोति मन्त्रेण दक्षिणे स्थापयेद्यमम् ।
मध्ये मण्डलकं कृत्वा स्थाप्यो दर्भमयो नरः ॥ २,४०.३५ ॥

ब्रह्मा विष्णुस्तथा रुद्रो यमः प्रेतश्च पञ्चमः ।
पृथक्कुम्भे ततः स्थाप्याः पञ्चरत्नसमन्विताः ॥ २,४०.३६ ॥

वस्त्रयज्ञोपवीतानि पृथङ्मुद्रापराणि च ।
जपं कर्यात्पृथक्तत्र ब्रह्मादौ देवतासु च ॥ २,४०.३७ ॥

पञ्च श्राद्धानि कुर्वीत देवतानां यथाविधि ।
जलधारां ततो दद्यत्पीठेपीठे पृथक्पृथक् ॥ २,४०.३८ ॥

शङ्खे वा ताम्रपात्रे वा अलाभे मृन्मयेऽपि वा ।
तिलोदकं समादाय सर्वौषधिसमन्वितम् ॥ २,४०.३९ ॥

आसनोपानहौ च्छत्रं मुद्रिका च कमण्डलुः ।
भाजनं भाजनाधारं वस्त्राण्यष्टविधं पदम् ॥ २,४०.४० ॥

ताम्रपात्रं तिलैः पूर्णं सहिरण्यं सदक्षिणम् ।
दद्याद्ब्राह्मणमुख्याय विधियुक्तं खगेश्वर ॥ २,४०.४१ ॥

ऋग्वेदपारगे दद्याज्जातसस्यां वसुन्धराम् ।
यजुर्वेदमये विप्रे गाञ्च दद्यात्पयस्विनीम् ॥ २,४०.४२ ॥

सामगाय शिवोद्देशात्प्रदद्यात्कलधौतकम् ।
यमोद्देशात्तिलांल्लोहं ततो दद्याच्च दक्षिणाम् ॥ २,४०.४३ ॥

पश्चात्पुत्तलकं कार्यं सर्वौषधिसमन्वितम् ।
पलाशस्य च वृन्तानां विभागं शृणु काश्यप ॥ २,४०.४४ ॥

कृष्णाजिनं समास्तीर्य कुशैश्च पुरुषाकृतिम् ।
शतत्रयेण षष्ट्या च वृन्तैः प्रोक्तोऽस्थिसञ्चयः ॥ २,४०.४५ ॥

विन्यस्य तानि वृन्तानि अङ्गेष्वेषु पृथक्पृथक् ।
चत्वारिंशच्छिरोदेशे ग्रीवायां दश विन्यसेत् ॥ २,४०.४६ ॥

विंशत्युरः स्थले दद्याद्विंशतिं जठरेऽपि च ।
बाहुयुग्मे शतं दद्यात्कटि देशे च विंशतिम् ॥ २,४०.४७ ॥

ऊरुद्वये शतञ्चापि त्रिंशज्जङ्घाद्वये न्यसेत् ।
दद्याच्चतुष्टयं शिश्रे षड्दद्याद्वृषणद्वये ।
दश पादाङ्गुलीभागे एवमस्थीनि विन्यसेत् ॥ २,४०.४८ ॥

नारिकेलं शिरः स्थाने तुम्बं दद्याच्च तालुके ।
पञ्चरत्नं मुखे दद्याज्जिह्वायां कदलीफलम् ॥ २,४०.४९ ॥

अन्त्रेषु नालकं दद्याद्बालकं प्राण एव च ।
वसायीं मेदकं दद्याद्गोमूत्रेण तु मूत्रकम् ॥ २,४०.५० ॥

गन्धकं धातवो देयो हरितालं मनः शिला ।
रेतः स्थाने पारदञ्च पुरीषे पित्तलं तथा ॥ २,४०.५१ ॥

मनः शिलां तथा गात्रे तिलकल्कञ्च सन्धिषु ।
यवपिष्टं तथा मांसे मधु वै क्षौद्रमेव च ॥ २,४०.५२ ॥

केशेषु वै वटजटात्वचि दद्यान्मृगत्वचम् ।
कर्णयोस्तालपत्त्रञ्च स्तनयोश्चैव गुञ्जिकाः ॥ २,४०.५३ ॥

नासायां शतपत्त्रं च कमलं नाभिमण्डले ।
वृन्ताकं वृषणद्वन्द्वे लिङ्गे स्याद्गृञ्जनं शुभम् ॥ २,४०.५४ ॥

घृतं नाभ्यां प्रदेयं स्यात्कौपीने च त्रपु स्मृतम् ।
मौक्तिकं स्तनयोर्मूर्ध्नि कुङ्कुमेन विलेपनम् ॥ २,४०.५५ ॥

कर्पूरागुरुधूपैश्च शुभैर्माल्यैः सुगन्धिभिः ।
परिधानं पट्टसूत्रं हृदये रुक्मकं न्यसेत् ॥ २,४०.५६ ॥

ऋद्धिवृद्धी भुजौ द्वौ च चक्षुषोश्च कपर्दकौ ।
सिन्दूरं नेत्रकोणे च ताम्बूलाद्युपहारकैः ॥ २,४०.५७ ॥

सर्वौषधियुतं प्रेतं कृत्वा पूजा यथोदिता ।
साग्निके (कैश्चा) चापि विधिना यज्ञपात्रं न्यसेत्क्रमात् ॥ २,४०.५८ ॥

शिरोमे श्रीरिति ऋचा पुनन्तु वरुणेति च ।
प्रेतस्य पावनं कृत्वा शालिशालशिलोदकैः ॥ २,४०.५९ ॥

विष्णुमुद्दिश्य दातव्या सुशीलागौः पयस्विनी ॥ २,४०.६० ॥

(तिला लोहं हिरण्यं च कार्पासं लवणं तथा ।
सप्तधान्यं क्षितिर्गाव एकैकं पानं समृतम् ॥ २,४०.६१ ॥

तिलपात्रं ततो दत्त्वा पददानं तथैव च ॥ २,४०.६१*१ ॥

महादानानि देयानि तिलपात्रं तथेति च ।
ततो वैतरणी देया सर्वाभरणभूषिता ॥ २,४०.६२ ॥

कर्तव्यं वैष्णवं श्राद्धं प्रेतमुक्त्यर्थ मात्मवान् ।
प्रेतंमोक्षं ततः कुर्याद्धृदि विष्णुं प्रकल्प्य च ॥ २,४०.६३ ॥

ओं विष्णुरिति संस्मृत्य प्रेतं तन्मृत्युमेव च ।
अग्निदाहं ततः कुर्यात्सूतकन्तु दिनत्रयम् ॥ २,४०.६४ ॥

दशाहकर्त्रा पिण्डाश्च कर्तव्याः प्रेतभुक्तये ।
सर्वं वर्षविधिं कुर्यादेवं प्रेतश्च मुक्तिभाक् ॥ २,४०.६५ ॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादेऽपमृत्यौ सुखदुः खलाभालाभनिरूपणं नाम चत्वारिंशत्तमोऽध्यायः

नारायण बल्युपरि टिप्पणी

गरुडपुराणतुल्य पाठः