गरुडपुराणम्/प्रेतकाण्डः (धर्मकाण्डः)/अध्यायः ४२

विकिस्रोतः तः
← अध्यायः ४१ गरुडपुराणम्
अध्यायः ४२
वेदव्यासः
अध्यायः ४३ →

श्रीगरुडमहापुराणम् ४२
श्रीविष्णुरुवाच ।
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ।
तथा पूर्वकृतं कर्म कर्तारमनुगच्छति ॥ २,४२.१ ॥

आदित्यो वरुणो विष्णुर्ब्रह्मा सोमो हुताशनः ।
शूलपाणिश्च भगवानभिनन्दति भूमिदम् ॥ २,४२.२ ॥

नास्ति भूमिसमं दानं नास्ति भूमिसमो निधिः ।
नास्ति सत्यसमो धर्मो नानृतात्पातकं परम् ॥ २,४२.३ ॥

अग्नेरपत्यं प्रथमं सुवर्णं भूर्वैष्णवी सूर्यसुताश्च गावः ।
लोकत्रयं तेन भवेत्प्रदत्तं यः काञ्चनं गां च महीं च दद्यात् ॥ २,४२.४ ॥

त्रीण्याहुरतिदानानि गावः पृथ्वी सरस्वती ।
नरकादुद्धरन्त्येते जपपूजनहोमतः ॥ २,४२.५ ॥

कृत्वा बहूनि पापानि रौद्राणि विपुलानि च ।
अपि गोचर्ममात्रेण भूमिदानेन शुध्यति ॥ २,४२.६ ॥

हरन्तमपि लोभेन निरुध्यैनं निवारयेत् ।
स याति नरके घोरे यस्तं न परिरक्षति ॥ २,४२.७ ॥

अकर्तव्यं न कर्तव्यं प्राणैः कण्ठगतैरपि ।
कर्तव्यमेव कर्तव्यमिति धर्मविदो विदुः ॥ २,४२.८ ॥

आकारप्रवर्तने पापं गोसहस्रवधैःसमम् ।
वृत्तिच्छेदे तथा वृत्तेः करणं लक्षधेनुकम् ॥ २,४२.९ ॥

वरमेकाप्यपहृता न तु दत्तं गवां शतम् ।
एकां हृत्वा शतं दत्त्वा न तेन समता भवेत् ॥ २,४२.१० ॥

स्वयमेव तु यो दत्त्वा स्वयमेव प्रबाधते ।
स पापी नरकं याति यावदाभूतसंप्लवम् ॥ २,४२.११ ॥

न चाश्वमेधेन तथा विधिवद्दक्षिणावता ।
अवृत्तिकर्शिते दीने ब्राह्मणे रक्षिते यथा ॥ २,४२.१२ ॥

न तद्भवति वेदेषु यज्ञे सुबहुदक्षिणे ।
यत्पुण्यं दुर्बले त्रस्ते ब्राह्मणे परिरक्षिते ॥ २,४२.१३ ॥

ब्रह्मस्वैश्च सुपुष्टानि वाहनानि बलानि च ।
युद्धकाले विशीर्यन्ते सैकताः सेतवो यथा ॥ २,४२.१४ ॥

स्वदत्तां परदत्तां वा यो हरेच्च वसुन्धराम् ।
षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः ॥ २,४२.१५ ॥

ब्रह्मस्वं प्रणयाद्भुक्तं दहत्यासप्तमं कुलम् ।
तदेव चौर्यरूपेण दहत्याचन्द्रतारकम् ॥ २,४२.१६ ॥

लोहचूर्णाश्मचूर्णानि कदाचिज्जरयेत्पुमान् ।
ब्रह्मस्वन्त्रिषु लोकेषु कः पुमाञ्जरयिष्यति ॥ २,४२.१७ ॥

देवद्रव्यविनाशेन ब्रह्मस्वहरणेन च ।
कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ २,४२.१८ ॥

ब्राह्मणाति क्रमो नास्ति विप्रे विद्याविवर्जिते ।
ज्वलन्तमग्निमुत्सृज्य न हि भस्मनि हूयते ॥ २,४२.१९ ॥

संक्रान्तौ यानि दानानि हव्यकव्यानि यानि च ।
सप्तकल्पक्षयं यावद्ददात्यर्कः पुनः पुनः ॥ २,४२.२० ॥

प्रतिग्रहाध्यापनयाजनेषु प्रतिग्रहं स्वेष्टतमं वदन्ति ।
प्रतिग्रहाच्छ्रुध्यति जाप्यहोमं न याजनं कर्म पुनन्ति वेदाः ॥ २,४२.२१ ॥

सदा जापी सदा होमी परपाकविवर्जितः ।
रत्नपूर्णामपि महीं प्रतिगृह्णन्न लिप्यते ॥ २,४२.२२ ॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे भूदानादिनिरूपणं नाम द्विचत्वारिंशतमोऽध्यायः