गरुडपुराणम्/प्रेतकाण्डः (धर्मकाण्डः)/अध्यायः ३५

विकिस्रोतः तः
Jump to navigation Jump to search
← प्रेतकाण्डः (धर्मकाण्डः), अध्यायः ३४ गरुडपुराणम्
अध्यायः ३५
वेदव्यासः
प्रेतकाण्डः (धर्मकाण्डः), अध्यायः ३६ →

श्रीगरुडमहापुराणम् ३५
तर्क्ष्य उवाच ।
अपरं मम सन्देहं कथयस्व जनार्दन ।
पुरुषस्य च कस्यापि मता पञ्चत्वमागता ॥ २,३५.१ ॥

पितामही जीवति च तथा च प्रपितामही ।
वृद्धप्रपितामही तद्वन्मातृसक्तः पिता तथा ॥ २,३५.२ ॥

प्रमातामहश्च तथा वृद्धप्रमातामहस्तथा ।
केन सा मेल्यते माता एतत्कथय मे प्रभो ॥ २,३५.३ ॥

श्रीकृष्ण उवाच ।
पुनरुक्तं प्रवक्ष्यामि सपिण्डीकरणं खग ।
उमा लक्ष्मीश्च सावित्रीत्यताभिर्मेलयेद्ध्रुवम् ॥ २,३५.४ ॥

त्रयः पिण्डभुजो ज्ञेयास्त्यजाकाश्च त्रयः स्मृताः ।
त्रयः पिण्डानुलेपाश्च दशमः पङ्क्तिसंन्निधः ॥ २,३५.५ ॥

इत्येते पुरुषाः ख्याताः पितृमातृकुलेषु च ।
तारयेद्यजमानस्तु दश पूर्वान् दशावरान् ॥ २,३५.६ ॥

सपिण्डः स भवेदादौ सपिण्डीकरणे कृते ।
अन्त्यस्तु त्याजको ज्ञेयो यो वृद्धप्रपितामहः ॥ २,३५.७ ॥

अन्तिमस्त्याजको ज्ञेयो लेपकः प्रथमो भवेत् ।
लेपकस्त्वन्तिमो यस्तु स भवेत्पङ्क्तिसन्निधः ॥ २,३५.८ ॥

यजमानो भवेदेको दश पृर्त्वे दशावरे ।
इत्येते पितरो ज्ञेया एकविंशति संख्यकाः ॥ २,३५.९ ॥

विधिना कुरुते यस्तु संसारे श्राद्धमुत्तमम् ।
जायतेऽत्र न सन्देहः शृणु तस्यापि यत्फलम् ॥ २,३५.१० ॥

पिता ददाति पुत्त्रान् वै विच्छिन्नसन्ततिः खग ।
होमदाता भवेत्सोपि यस्तस्य प्रपितामहः ॥ २,३५.११ ॥

कृते श्राद्धे गुणा ह्येते पितॄणां तपेणे स्मृताः ।
दद्याद्विपुलमन्नाद्यं वृद्धस्तु प्रपितामहः ॥ २,३५.१२ ॥

यस्य पुंसश्च मर्त्ये वै विच्छिन्ना सन्ततिः खग ।
स वसेन्नरके घोरे पङ्के मग्नः करी यथा ॥ २,३५.१३ ॥

योन्यन्तरेषु जायते यत्र वृक्षसरीसृपाः ।
न सन्ततिं विना सोऽत्र मुच्यते नरकाद्ध्रुवम् ॥ २,३५.१४ ॥

आचार्यस्तस्य शिष्यो वा यो दूरेऽपि हि गात्रेजः ।
नारायणबलिं कुर्यात्तस्याद्देशेन भक्तितः ॥ २,३५.१५ ॥

विशुद्धः सर्वपापेभ्यो मुक्तः स नरकाद्ध्रुवम् ।
निवसेन्नाकलोके च नात्र कार्या विचारणा ॥ २,३५.१६ ॥

आदौ कृत्वा धनिष्ठाञ्च एतन्नक्षत्रपञ्चकम् ।
रेवत्यन्तं सदा दूष्यमशुभं सर्वदा भवेत् ॥ २,३५.१७ ॥

दाह (बलि) स्तत्र न कर्तव्यो विप्रदिसर्वजातिषु ।
दीयते न जलं तत्र अशुभं जायते ध्रुवम् ।
लोकयात्रा न कर्तव्या दुः खार्तः स्वजनो यदि ॥ २,३५.१८ ॥

पञ्चकानन्तरं तस्य कर्तव्यं सर्वमन्यथा ।
पुत्राणां गोत्रिणां तस्य सन्तापोऽप्युपजायते ॥ २,३५.१९ ॥

गृहे हानिर्भवेत्तस्य ऋक्षेष्वेषु मृतश्च यः ।
अथवा ऋक्षमध्येऽपि दाहस्तस्य विधीयते ॥ २,३५.२० ॥

क्रियते मानुषाणान्तु सद्य आहुतिकारणात् ।
सद्याहुतिकरं पुण्यं तीर्थे तद्दाह उत्तमः ॥ २,३५.२१ ॥

विप्रैर्नियमतः कार्यः समन्त्रो विधिपूर्वकः ।
शवस्य च समीपे तु क्षिप्यन्ते पुत्तलास्ततः ॥ २,३५.२२ ॥

दर्भमयाश्च चत्वारो विप्रा मन्त्राभिमन्त्रिताः ।
ततो दाहः प्रकर्तव्यः तैश्च पुत्तलकैः सह ॥ २,३५.२३ ॥

सूतकान्ते ततः पुत्रः कुर्याच्छान्तिकमुत्तमम् ॥ २,३५.२४ ॥

पञ्चकेषु मृतो योऽसौ न गतिं लभते नरः ।
तिलान् गाश्च सुवर्णं च तमुद्दिश्य घृतं ददेत् ॥ २,३५.२५ ॥

विप्राणां दीयते दानं सर्वोपद्रवनाशनम् ।
सूतकान्ते च सत्पुत्रैः स प्रेतो लभते गतिम् ॥ २,३५.२६ ॥

भाजनोपानहौ च्छत्रं हेममुद्राच वाससी ।
दक्षिणा दीयते विप्र सर्वपातकमोचनी ॥ २,३५.२७ ॥

बालवृद्धातुराणाञ्च मृतानां पञ्चकेषु हि ।
विधानं यो न कुर्वीत विघ्नस्तस्य प्रजायते ॥ २,३५.२८ ॥

अष्टादशैव वस्तूनि प्रेतश्राद्धे विवर्जयेत् ।
आशिषो द्विगुणान् दर्भान् प्रणवान्नैकपिण्डताम् ॥ २,३५.२९ ॥

अग्नौकरणमुच्छिष्टं श्राद्धं वै वैश्वदैविकम् ।
विकिरं च स्वधाकारं पितृशब्दं न चोच्चरेत् ॥ २,३५.३० ॥

अनुशब्दं न कुर्वीत नावाहनमथोल्मुकम् ।
आसीमान्तं न कुर्वीत प्रदक्षिणविसर्जनम् ॥ २,३५.३१ ॥

न कुर्यात्तिलहोमञ्च द्विजः पूर्णाहुतिं तथा ।
न कुर्याद्वैश्वदेवं चेत्कर्ता गच्छत्यधोगतिम् ॥ २,३५.३२ ॥

मलिनश्राद्धसंज्ञानं पूर्वषोडशकं तथा ।
स्थाने द्वारे चार्धमार्गे चितायां शवहस्तके ॥ २,३५.३३ ॥

श्मशानवासिभूतेभ्यः पञ्चमं प्रतिवेश्यकम् ।
षष्ठं सञ्चयने प्रोक्तं दश पिण्डा दशाहिकाः ।
श्राद्धषोडषकञ्चैतत्प्रथमं परिकीर्तितम् ॥ २,३५.३४ ॥

अन्यच्च षोडशं मध्ये द्वितीयं तार्क्ष्य मे शृणु ।
कर्तव्यानीह विधिना श्राद्धान्येकादशैव तु ॥ २,३५.३५ ॥

ब्रह्मविष्णुशिवाद्यञ्च तथान्यच्छ्राद्धपञ्चकम् ।
एवं षोडशकं प्राहुरेतत्तत्त्वविदो जनाः ॥ २,३५.३६ ॥

द्वादश प्रतिमास्यानि श्राद्धमेकादशे तथा ।
त्रिपक्षसम्भवञ्चैव द्वे रिक्ते खग षोडश ॥ २,३५.३७ ॥

आद्यं शवविशुद्ध्यर्थं कृत्वान्यच्च त्रिषोडशम् ।
पितृपाङ्क्तिविशुद्ध्यर्थं शताद्धैंन तु योजयेत् ॥ २,३५.३८ ॥

शतार्धेन विहीनो यो मिलितः पङ्क्तिभाङ्न हि ।
चत्वारिंशत्तथैवाष्टश्राद्धं प्रेतत्वनाशनम् ॥ २,३५.३९ ॥

सकृदूनशतार्धेन सम्भवेत्पङ्क्तिसन्निधः ।
मेलनीयः शतार्धेन सन्धिः श्राद्धेन तत्त्वतः ॥ २,३५.४० ॥

(अथ शवाविधिः) ।
शवस्य शिबिकायां करचरणबन्धनं तत्र कर्तव्यम् ।
एवं चेन्न विधानं विधीयते तत्पिशाचपरिभवनम् ॥ २,३५.४१ ॥

संजायते रजन्याञ्च शवनिर्गमने राष्ट्रं भयशून्यम् ।
शवं न मुञ्चेत मुच्यते चेत्दुः स्पर्शाद्दुर्गतिर्भवेत् ॥ २,३५.४२ ॥

ग्राममध्ये स्थिते प्रेते श्रुते भुङ्क्ते यदृच्छया ।
तदन्नं मांसवज्ज्ञेयं तत्तोयं रुधिरोपमम् ॥ २,३५.४३ ॥

ताम्बूलं दन्तकाष्ठञ्च भोजनं ऋतुसेवनम् ।
ग्राममध्ये स्थिते प्रेते वर्जयेत्पिण्डपातनम् ॥ २,३५.४२ ॥
(३५.४४)
स्नानं दानं जपो होमस्तर्पणं सुरपूजनम् ।
ग्राममध्ये स्थिते प्रेते शुद्ध्यर्थं ज्ञातिधर्मतः ॥ २,३५.४३ ॥
(३५.४५)
ज्ञातिसम्बन्धिनामेवं व्यवहारः खगेश्वर ।
विलुप्य ज्ञातिधर्मञ्च प्रेतपापेन लिप्यते ॥ २,३५.४४ ॥
(३५.४६)
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीदृ धदृप्रेतकल्पे श्रीकृष्णगरुडसंवादे सपिण्डनशवविध्योर्निरूपणं नाम पञ्चत्रिंशोऽध्यायः