गरुडपुराणम्/प्रेतकाण्डः (धर्मकाण्डः)/अध्यायः ३६
← प्रेतकाण्डः (धर्मकाण्डः), अध्यायः ३५ | गरुडपुराणम् अध्यायः ३६ वेदव्यासः |
प्रेतकाण्डः (धर्मकाण्डः), अध्यायः ३७ → |
श्रीगरुडमहापुराणम् ३६
तार्क्ष्यौवाच ।
कस्मादनशनं पुण्यमक्षय्यगतिदायकम् ।
स्वगृहन्तु परित्यज्य तीर्थे वै म्रियते यदि ॥ २,३६.१ ॥
अप्राप्य तीर्थं म्रियते गृहे वा मृत्यु मागतः ।
बूत्वा कुटीचरो यस्तु स कां गतिमवाप्नुयात् ॥ २,३६.२ ॥
संन्यासं कुरुते यस्तु तीर्थे वापि गृहेऽपि वा ।
कथं तस्य प्रकर्तव्यमप्राप्तनिधनेऽपि वा ॥ २,३६.३ ॥
नियमे चेत्कृते देव चित्तभङ्गो हि जायते ।
केन तस्य भवेत्सिद्धिः कृतेनाप्यकृतेन वा ॥ २,३६.४ ॥
श्रीकृष्ण उवाच ।
कृत्वा निरशनं यो वै मृत्युमाप्नोति कोऽपि चेत् ।
मानुपीं तनुमुत्सृज्य मम तुल्यो विराजते ॥ २,३६.५ ॥
यावन्त्यहानि जीवेत्व्रते निरशने कृते ।
क्रतुभिस्तानि तुल्यानि समग्रवदक्षिणैः ॥ २,३६.६ ॥
तीर्थे गृहे वा संन्यासं नीत्वा चेन्म्रियते यदि ।
प्रत्यहं लभते सोऽपि पूर्वोक्तं द्विगुणं फलम् ॥ २,३६.७ ॥
महारोगोपपत्तौ च गृहीतेऽनशने कृते ।
पुनर्न जायते रोगो देववद्धि विराजते ॥ २,३६.८ ॥
य आतुरः सन् सन्न्यासं गृह्णाति यदि मानवः ।
पुनर्न जायते भूमौ संसारे दुः खसागरे ॥ २,३६.९ ॥
अहन्यहनि दातव्यं ब्राह्मणानाञ्च भोजनम् ।
तिलपात्रं यथाशक्ति दीपदानं सुरार्चनम् ॥ २,३६.१० ॥
एवं वृत्तस्य दह्यन्ते पापान्युच्चावचानि च ।
मृतो मुक्तिमवाप्नोति यथा सर्वे महर्षयः ॥ २,३६.११ ॥
तस्मादनशनं नॄणां वैकुण्ठपददायकम् ।
तस्मात्स्वस्थे चोत्तरे वा साधयेन्मोक्षलक्षणम् ॥ २,३६.१२ ॥
पुत्त्रद्रव्यादि सन्त्यज्य तीर्थं व्रजति यो नरः ।
ब्रह्माद्या देवतास्तस्य भवेयुस्तुष्टिपुष्टिदाः ॥ २,३६.१३ ॥
यस्तीर्थसंमुखो भूत्वा व्रते ह्यनशने कृते ।
चेन्म्रियेतान्तरालेऽपि ऋषीणां मण्डले वसेत् ॥ २,३६.१४ ॥
व्रतं निरशन कृत्वा स्वगृहेऽपि मृतो यदि ।
स्वकुलानि परित्यज्य एकाकी विचरेद्दिवि ॥ २,३६.१५ ॥
अन्नञ्चैव तथा तोयं परित्यज्य नरो यदि ।
पीतमत्पादतोयश्च न पुनर्जायते क्षितौ ॥ २,३६.१६ ॥
कृत्त्यासीनन्तत्तीर्थगतं रक्षन्ति वनदेवताः ।
यमदूता विशेषेण न याम्यास्तस्य पार्श्वगाः ॥ २,३६.१७ ॥
तीर्थसेवी नरो यस्तु सर्वकिल्बिषवर्जितः ।
तत्र म्रियते दह्येत तत्तीर्थफलभाग्भवेत् ॥ २,३६.१८ ॥
सेवितेऽपि सदा तथि ह्यन्यत्र म्रियते यदि ।
शुभे देशे कुले धीमान् स भवेद्वेदविद्द्विजः ॥ २,३६.१९ ॥
कृत्वा निरशनं तार्क्ष्य पुनर्जीवति मानवः ।
ब्राह्मणान् स समाहूय सर्वस्वं यत्परित्यजेत् ॥ २,३६.२० ॥
चान्द्रायणं चरेत्कृत्स्नमनुज्ञातश्च तैर्द्विजैः ।
अनृतं न वदेत्पश्चाद्धर्ममेव समाचरेत् ॥ २,३६.२१ ॥
तीर्थे गत्वा च यः कोऽपि पुनरायाति वै गृहम् ।
अनुज्ञातः स वै विप्रैः प्रायश्चित्तमथाचरेत् ॥ २,३६.२२ ॥
दत्त्वा वा स्वर्णदानानि गोमहीगजवाजिनः ।
तीर्थं यदि लभेद्यस्तु मृत्युकाले स भाग्यवान् ॥ २,३६.२३ ॥
गृहात्प्रचलितस्तीर्थं मरणे समुपस्थिते ।
पदेपदे तु गोदानं यदि हिंसा न जायते ॥ २,३६.२४ ॥
गृहे तु यत्कृतं पापं तीर्थस्नानेन शुध्यति ।
कुरुते तत्र पापञ्चेद्वज्रलेपसमं हि तत् ॥ २,३६.२५ ॥
क्लिश्येत्स नात्र सन्देहो यावच्चन्द्रार्कतारकम् ।
तत्र दत्तानि दानानि जायन्ते चाक्षयाणि वै ॥ २,३६.२६ ॥
आतुरे सति दातव्यं निर्धनैरपि मानवैः ।
गावस्तिला हिरण्यञ्च सप्तधान्यं विशेषतः ॥ २,३६.२७ ॥
दानवन्तं नरं दृष्ट्वा हृष्टाः सर्वे दिवौकसः ।
ऋषिभिः सह धर्मण चित्रगुप्तेन सर्वदा ॥ २,३६.२८ ॥
आत्मायत्तं धनं यावत्तावद्विप्रे समर्पयेत् ।
पराधीनं मृते सर्वं कृपया कः प्रदास्यति ॥ २,३६.२९ ॥
पित्रुद्देशेन यः पुत्त्रैर्धनं विप्रकरेऽर्पितम् ।
आत्मानं सधनं तेन चक्रे पुत्रप्रपौत्रकैः ॥ २,३६.३० ॥
पितुः शतगुणं दत्तं सहस्रं मातुरुच्यते ।
भगिन्या शतसाहस्रं सोदर्ये दत्तमक्षयम् ॥ २,३६.३१ ॥
यदि लोभान्न यच्छन्ति प्रमादान्मोहतोऽपि वा ।
मृताः शोचन्ति ते सर्वे कदर्याः पापिनस्त्विति ॥ २,३६.३२ ॥
अतिक्लेशेन लब्धस्य प्रकृत्या चञ्चलस्य च ।
गतिरेकैव वित्तस्य दानमन्या विपत्तयः ॥ २,३६.३३ ॥
मृत्युः शरीगोप्तारं वसुरक्षं वसुन्धरा ।
दुश्चारिणीव हसति स्वपतिं पुत्रवत्सलम् ॥ २,३६.३४ ॥
उदासे धार्मिकः सौम्यः प्राप्यापि विपुलं धनम् ।
तृणवन्मन्यते तार्क्ष्य आत्मानं वित्तमप्यथ ॥ २,३६.३५ ॥
न चैवोपद्रवास्तस्य मोहजालो न चैव हि ।
मृत्युकाले न च भयं यमदूतसमुद्भवम् ॥ २,३६.३६ ॥
समाः सहस्राणि च सप्त वै जले दशैकमग्नौ पवने च षोडश ।
महाहवे पष्टिरशीतिर्गोगृहे अनाशके काश्यप चाक्षया गतिः ॥ २,३६.३७ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादेऽनशनमृत गतिनिरूपणं नाम षट्त्रिंशोऽध्यायः