गरुडपुराणम्/प्रेतकाण्डः (धर्मकाण्डः)/अध्यायः ३४

विकिस्रोतः तः
Jump to navigation Jump to search
← प्रेतकाण्डः (धर्मकाण्डः), अध्यायः ३३ गरुडपुराणम्
अध्यायः ३४
वेदव्यासः
प्रेतकाण्डः (धर्मकाण्डः), अध्यायः ३५ →

श्रीगरुडमहापुराणम् ३४
श्रीकृष्ण उवाच ।
शृणु तार्क्ष्य यथान्यायं धर्माधर्म्स्य लक्षणम् ।
सुकृतं दुष्कृतं नॄणामग्रे धावति धावताम् ॥ २,३४.१ ॥

कृते तपः प्रशंसन्ति त्रेतायां ज्ञानसाधनम् ।
द्वापरे यज्ञदाने च दानमेकं कलौ युगे ॥ २,३४.२ ॥

गृहस्थानां स्मृतो धर्म उत्तमानां विचक्षणैः ।
इष्टापूर्ते स्वशक्त्या हि कुर्वतां नास्ति पातकम् ॥ २,३४.३ ॥

वृक्षस्तु रोपितो येन खनिकूपजलाशयाः ।
यममार्गे सुखं तस्य व्रजतो नितरां भवेत् ॥ २,३४.४ ॥

अग्नितापप्रदातारे यैः शीतपीडिते द्विजे ।
तप्यमानाः सुखं यान्ति सर्व कामैः प्रपूरिताः ॥ २,३४.५ ॥

सुवर्णमणिमुक्तादि वस्त्राण्याभरणानि च ।
तेन सर्वमिदं दत्तं येन दत्ता वसुन्धरा ॥ २,३४.६ ॥

यानियानि च भूतानि दत्तानि भुवि मानवैः ।
यमलोकपथे तानि तिष्ठन्त्येषां समीपतः ॥ २,३४.७ ॥

व्यञ्जनानि विचित्राणि भक्ष्यभोज्यानि यानि च ।
ददाति विधिना पुत्र प्रेते तदु पतिष्ठति ॥ २,३४.८ ॥

आत्मा वै पुत्रनामास्ति पुत्रस्त्राता यमालये ।
तारयेत्पितरं घोरात्तेन पुत्त्रः प्रवक्ष्यते ॥ २,३४.९ ॥

अतो देयञ्च पुत्रेण श्राद्धमाजी वितावधि ।
अतिवाहस्तदा प्रेतो भोगान् वै लभते हि सः ॥ २,३४.१० ॥

दह्यमानस्य प्रेतस्य स्वजनैर्यो जलाञ्जलिः ।
दीयते प्रेतरूपोऽसौ प्रीतो याति यमालये ॥ २,३४.११ ॥

अपक्वे मृन्मये पात्रे दुग्धं दत्तं दिनत्रयम् ।
काष्ठत्रयं गुणैर्बद्ध्वा प्रीत्यै रात्रौ चतुष्पथे ॥ २,३४.१२ ॥

प्रथमेऽह्नि द्वितीये च तृतीये च तथा खग ।
आकाशस्थं पिबेद्दुग्धं प्रेतो वायुवपुर्धरः ॥ २,३४.१३ ॥

चतुर्थे सञ्चयः कार्यः चतुर्थे?वापि साग्निके ।
अस्थिसञ्चयनं कार्यं दद्यादापाञ्जलिं ततः ॥ २,३४.१४ ॥

न पूर्वाह्ने न मध्याह्ने नापराह्ने न सन्धिषु ।
याते प्रथमयामे तु दद्यादापजलाञ्जंलीन् ॥ २,३४.१५ ॥

पुत्त्रेण दत्ते ते सर्वे गोत्रिणो हितबान्धवाः ।
स्वजात्यैः परजात्यैश्च देयो नद्यां जलाञ्जलिः ॥ २,३४.१६ ॥

गन्तव्यं नैव विप्रेण दातुं शीघ्रं जलाञ्जलिम् ।
निवृत्ताश्च यदा नार्यो लोकाचारः सदाभवेत् ॥ २,३४.१७ ॥

पञ्चत्वञ्च गते शूद्रे यः काष्ठं नयते चिताम् ।
अनुव्रजेद्यदा विप्रस्त्रिरात्रमशुचिर्भवेत् ॥ २,३४.१८ ॥

त्रिरात्रे च ततः पूर्णे नदीं गच्छेत्समुद्रगाम् ।
प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति ॥ २,३४.१९ ॥

शूद्रो गच्छति सर्वत्र वैश्यस्त्रिषु द्वयोः परः ।
गच्छति स्वीयवर्णेषु दातुं प्रेते जलाञ्जलिम् ॥ २,३४.२० ॥

दत्ते जलाञ्जलौ पश्चाद्विदध्याद्दन्तधावनम् ।
त्यजन्ति गोत्रिणः सर्वे दिनानि नव काश्यप ॥ २,३४.२१ ॥

जलाञ्जलिं तथा दातुं गच्छन्ति द्विजसत्तमाः ।
यत्र स्थाने मृतो यस्तु अध्वन्यपि गृहेऽपि वा ।
विश्लेषस्तु ततः स्थानान्न क्वचिद्विहितो बुधैः ॥ २,३४.२२ ॥

स्त्रीजनश्चाग्रतो गच्छेत्पृष्ठतो नवसञ्चयः ।
आचमनं विधातव्यं पाषाणोपरि संस्थितैः ॥ २,३४.२३ ॥

यवांश्च सर्षपान् दूर्वाः पूर्णपात्रे विलोकयेत् ।
प्राशयेन्निम्बपत्राणि स्नेहस्नानं समाचरेत् ॥ २,३४.२४ ॥

गोत्रिभिर्न च कर्तव्यं गृहान्नञ्च न भोजयेत् ।
भुञ्जीत मृन्मये पात्रे उत्तानञ्च विवर्जयेत् ॥ २,३४.२५ ॥

मृतकस्य गुणा ग्राह्या यमगाथां समुद्गिरेत् ।
शुभाशुभे च ध्यातव्ये पूर्वकर्मोपसञ्चिते ॥ २,३४.२६ ॥

लब्धेनैव च देहेन भुङ्क्ते सुकृतदुष्कृते ।
वायुरूपो भ्रमत्येव वायुरूर्ध्वं स गच्छति ॥ २,३४.२७ ॥

दशाहकर्मक्रियया कुटी निष्पाद्यते ध्रुवम् ।
नवकैः षोडशश्राद्धैः प्रयाति हि कुटीं नरः ॥ २,३४.२८ ॥

तिलैर्दर्भैश्च भूम्यां वै कुटी धातुमयी भवेत् ।
पञ्च रत्नानि वक्त्रे तु येन जीवः प्ररोहति ॥ २,३४.२९ ॥

यदा पुष्पं प्रनष्टं हि तदा गर्भं न धारयेत् ।
आदराच्च ततो भूमौ तिलदर्भान्विनिः क्षिपेत् ॥ २,३४.३० ॥

पशुत्वे स्थावरत्वे च यत्र क्वापि स जायते ।
तत्रैव जन्तुरुत्पन्नः श्राद्धं तत्रोपतिष्ठति ॥ २,३४.३१ ॥

धन्विना लक्ष्यमुद्दिश्य मुक्तो बाणस्तदाप्नुयात् ।
यथा श्राद्धं यमुद्दिश्य कृतं तस्योपतिष्ठति ॥ २,३४.३२ ॥

यावन्नोत्पादितो देहस्तावच्छ्राद्धैर्न प्रीणनम् ।
क्षुधाविभ्रममापन्नो दशाहेन च तर्पितः ॥ २,३४.३३ ॥

पिण्डदानं न यस्याभूदाकाशे भ्रमते तु सः ।
दिनत्रयं वसंस्तोये अग्नावपि दिनत्रयम् ।
आकाशे वसते त्रीणि दिनमेकन्तु वासके ॥ २,३४.३४ ॥

दग्धे देहे च वह्नौ च जलेनैव तु तर्पितः ।
स्नेहस्नानं जलेनैव पूपकैः कृशरैर्गृहे ॥ २,३४.३५ ॥

प्रथमेऽह्नि तृतीये च पञ्चमे सप्तमेऽपि वा ।
नवमैकादशे चैव श्राद्धं नवकमुच्यते ॥ २,३४.३६ ॥

गृहद्वारे श्मशाने वा तीर्थे देवालयेऽपि वा ।
यत्राद्यो दीयते पिण्डस्तत्र सर्वान् समापयेत् ॥ २,३४.३७ ॥

एकादशाहे यच्छ्राद्धं तत्सामान्यमुदाहृतम् ।
चतुर्णामेकवर्णानां शुद्ध्यर्थं स्नानमुच्यते ॥ २,३४.३८ ॥

कृत्वा चैकादशाहञ्च पुनः स्नात्वा शुचिर्भवेत् ।
दद्याद्विप्राय यः शय्यां यथोक्तं प्रेतमोक्षदाम् ॥ २,३४.३९ ॥

न भवेत्यदा स गोत्रो परोऽपि विधिमाचरेत् ।
भार्या वा पुरुषः कश्चित्तुष्टश्च कुरुते स्त्रियः ॥ २,३४.४० ॥

प्रथमेऽहनि यः पिण्डो दीयते विधिपूर्वकम् ।
अन्नाद्येन च तेनैव सर्वश्राद्धानि कारयेत् ॥ २,३४.४१ ॥

अमन्त्रं कारयेच्छ्राद्धं दशाहं नामगोत्रतः ।
श्राद्धं कृतन्तु यैर्वस्त्रैस्तानि त्यक्त्वा गृहं विशेत् ॥ २,३४.४२ ॥

असगोत्रः सगोत्रो वा यदि स्त्री यदि वा पुमान् ।
प्रथमेऽहनि यः कुर्यात्स दशाहं समापयेत् ॥ २,३४.४३ ॥

जीवस्य दशभिः पिण्डैर्देहो निष्पाद्यते ध्रुवम् ।
वृद्धिश्च दशभिर्मासैर्गर्भस्थस्य यथा भवेत् ॥ २,३४.४४ ॥

आशौचं यावदेतस्य तावत्पिण्डोदकक्रिया ।
चतुर्णामपि वर्णानामेष एव विधिः स्मृतः ॥ २,३४.४५ ॥

यत्र त्रिरात्रमाशौचं तत्रादौ त्रीन् प्रदापयेत् ।
चतुरस्तु द्वितीयेऽह्नि तृतीये त्रींश्तथैव च ॥ २,३४.४६ ॥

पृथक्शरावयोर्दद्यादेकाहं क्षीरमम्बु च ।
एकोद्दिष्टन्तु वै श्राद्धं चतुर्थेऽहनि कारयेत् ॥ २,३४.४७ ॥

प्रथमेऽहनि यः पिण्डस्तेन मूर्धा प्रजायते ।
चक्षुः श्रोत्रञ्च नासा च द्वितीयेऽह्नि प्रजायते ॥ २,३४.४८ ॥

गण्डौ वक्त्रं तथा ग्रीवा तृतीयेऽहनि जायते ।
हृदयं कुक्षिरुदरं चतुर्थे तद्वदेव हि ॥ २,३४.४९ ॥

कटिपृष्ठं गुदञ्चापि पञ्चमेऽहनि जायते ।
षष्ठे ऊरू च विज्ञेये सप्तमे गुल्फसम्भवः ॥ २,३४.५० ॥

अष्टमे दिवसे प्राप्ते जङ्घे च भवतोऽण्डज ।
पादौ च नवमे ज्ञेयौ दशमे बलवत्क्षुधा ॥ २,३४.५१ ॥

एकादशाहे यः पिण्डस्तं दद्यादामिषेण तु ।
सिद्धान्नं तस्य दातव्यं कृशराः पूपकाः पयः ।
प्रक्षाल्य विप्रचरणावर्घ्यं धूपञ्च दीपक्रम् ॥ २,३४.५२ ॥

द्वादश प्रतिमास्यानि श्राद्धान्यैकादशे तथा ।
त्रिपक्षञ्चापि षण्मासे द्वे श्राद्धानि च षोडश ॥ २,३४.५३ ॥

प्रति मासं प्रदातव्यं मृताहे या तिथिर्भवेत् ।
स मासः प्रथमो ज्ञेय इति वेदविदो विदुः ॥ २,३४.५४ ॥

शवहस्ते च यच्छ्राद्धं मृतिस्थाने द्विजासने ।
तदेव प्रथमं श्राद्धं तत्स्यादेकादशेऽहनि ॥ २,३४.५५ ॥

सा तिथिर्मासिके श्राद्धे मृतो यस्मिन् दिने नरः ।
रिक्तयोश्च त्रिपक्षे च सा तिथिर्नाद्रियेत वै ॥ २,३४.५६ ॥

पौर्णमास्यां मृतो योऽसौ चतुर्थी तस्य चोनका ।
चतुर्थ्यान्तु मृतो यस्तु नवमी तस्य चोनका ॥ २,३४.५७ ॥

नवम्याञ्च मृतो यश्च रिक्ता तस्य चतुर्दशी ।
एता रिक्ताश्च विज्ञेया अन्त्येष्टौ कुशलेन च ॥ २,३४.५८ ॥

एकादशाहे यच्छ्राद्धं नवकं तत्प्रकीर्तितम् ।
चतुष्पथे त्यजेदन्नं पुनः स्नानं समाचरेत् ॥ २,३४.५९ ॥

एकादशाहादारभ्य घटस्यान्नं जलान्वितम् ।
दिनेदिने च दातव्यमब्दं यावद्द्विजोत्तमे ॥ २,३४.६० ॥

मानुषस्य शरीरे तु विद्यते ह्यस्थिसञ्चयः ।
तत्संख्यः सर्वदेहेषु षष्ट्यधिकशतत्रयम् ॥ २,३४.६१ ॥

उदकुम्भेन पुष्टानि तान्यस्थीनि भवन्ति हि ।
एतस्माद्दीयते कुम्भः प्रीतिः प्रेतस्य जायते ॥ २,३४.६२ ॥

यस्मिन् दिने मृतो जन्तुरटव्यां विषमेऽपि वा ।
यदा तदा भवेद्दाहः सूतकं मृतवासरात् ॥ २,३४.६३ ॥

तिलपात्रं तथान्नाद्यं गन्धधपादिकञ्च यत् ।
एकादशाहे दातव्यं तेन शूद्धो द्विजो भवेत् ॥ २,३४.६४ ॥

क्षत्त्रियो द्वादशाहे तु वैश्यः पञ्चदशे तथा ।
शुद्धिः शूद्रस्य मासेन मृतके जातसूतके ॥ २,३४.६५ ॥

मासत्रये त्रिरात्रं स्यात्षण्मासेन तु पक्षिणी ।
अहः संवत्सरादर्ब्वाक्पूर्णे दत्त्वोदकं शुचिः ।
अनेनैवा नुसारेण शुद्धिः स्यात्सार्ववर्णिकी ॥ २,३४.६६ ॥

एकादशाहप्रभृति पुरतः प्रतिवत्सरम् ।
विश्वेदेवांस्तु सम्पूज्य पिण्डमेकञ्च निर्वपेत् ॥ २,३४.६७ ॥

यथा तारागणाः सर्वे च्छाद्यन्ते रविरश्मिभिः ।
एवं प्रच्छाद्यते सर्वं न प्रेतो भवति क्वचित् ॥ २,३४.६८ ॥

शय्यादानं प्रशंसन्ति सर्वदैव द्विजोत्तमाः ।
अनित्यं जीवनं य्समात्पश्चात्को नु प्रदास्यति ॥ २,३४.६९ ॥

तावद्वन्धुः पिता तावद्यावज्जीवति मानवः ।
मृते मृत इति ज्ञात्वा क्षणात्स्नेहो निवर्तते ॥ २,३४.७० ॥

आत्मैव ह्यात्मनो बन्धुरेवं ज्ञात्वा मुहुर्मुहुः ।
जीवन्नपीति सञ्चिन्त्य स्वीयं हितमनुस्तमरेत् ॥ २,३४.७१ ॥

मृतानां कः सुतो दद्याद्द्विजेशय्यां सतूलिकाम् ।
एवं जानन्निदं सर्वं स्वहस्तेनैव दापयेत् ॥ २,३४.७२ ॥

तस्माच्छय्यां समासाद्य सारदारुमर्यो दृढाम् ।
दन्तादिरुचिरां रम्यां हेमपट्टै रलङ्कृताम् ।
तस्यां संस्थाप्य हैमञ्च हरिं लक्ष्म्या समन्वितम् ॥ २,३४.७३ ॥

घृतपूर्णञ्च कलशं परिकल्पयेत् ।
विज्ञेयो गरुड प्रीत्यै स निद्राकलशो बुधैः ॥ २,३४.७४ ॥

ताम्बूलकुङ्कुमक्षोदकर्पूरागुरुचन्दनम् ।
दीपिकोपानहच्छत्रचामरासनभाजनम् ॥ २,३४.७५ ॥

पार्श्वेषु स्थापयेच्छक्त्या सप्तधान्यानि चैवहि ।
शयनस्थस्य भवति यच्चान्यदुपकारकम् ॥ २,३४.७६ ॥

भृङ्गारकरकादर्शं पञ्चवर्णं वितानकम् ।
शय्यामेवंविधां कृत्वा ब्राह्मणाय निवेदयेत् ॥ २,३४.७७ ॥

सपत्नीकाय सम्पूज्य स्वर्लोकसुखदायिनीम् ।
वस्त्रैः सुशोभनैः पूज्य चैलकं परिधापयेत् ॥ २,३४.७८ ॥

कर्णकण्ठाङ्गुलीबाहुभूषणैश्चित्रभूषणैः ।
गृहोपकरणैर्युक्तं गृहं धेन्वा समन्वितम् ॥ २,३४.७९ ॥

ततोर्ऽघः सम्प्रदातव्यः पञ्चरत्नफलाक्षतैः ॥ २,३४.८० ॥

यथा न कृष्णशयनं शून्यं सागरकन्यया ।
शय्या ममाप्यशून्यास्तु तथा जन्मनिजन्मनि ॥ २,३४.८१ ॥

दत्त्वैवं तल्पममलं क्षमाप्य च विसर्जयेत् ।
तथा चैकादशाहे तु विधिरेष प्रकीर्तितः ॥ २,३४.८२ ॥

ददाति यो हि धर्मार्थे बान्धवो बान्धवे मृते ।
विशेषमत्र पक्षे तु कथ्यमानं मया शृणु ॥ २,३४.८३ ॥

उपयुक्तञ्च तस्यासीत्यत्किञ्चित्स्वगृहे पुरा ।
तस्य यद्गात्रसं लग्नं वस्त्रं भाजनवाहनम् ।
यदभीष्टञ्च तस्यासीत्तत्सर्वं परिकल्पयेत् ॥ २,३४.८४ ॥

स्थापयेत्पुरुषं हैमं शय्योपरि शुभं बुधः ।
पूजयित्वा प्रदातव्या मृतशय्या यथोदिता ॥ २,३४.८५ ॥

पुरन्दरगृहे सर्वं सूर्यपुत्रालये तथा ।
उपतिष्ठेत्सुखं जन्तोः शय्यादानप्रभावतः ॥ २,३४.८६ ॥

पीडयन्ति न तं याम्याः पुरुषा भीषणाननाः ।
न घर्मेण न शीतेन बाध्यते स नरः क्वचित् ॥ २,३४.८७ ॥

शय्यादानप्रभावेण प्रेतो मुच्यते बन्धनात् ।
अपिः पापसमायुक्तः स्वर्गलोकं स गच्छति ॥ २,३४.८८ ॥

विमानवरमारूढः सेव्यमानोऽप्सरोगणैः ।
आभूतसंप्लवं यावत्तिष्ठेत्पातकवर्जितः ॥ २,३४.८९ ॥

नवकं षोडशश्राद्धं शय्या सांवत्सरं तथा ।
भर्तुर्या कुरुते नारी तस्याः श्रेयो ह्यनन्तकम् ॥ २,३४.९० ॥

उपकाराय सा भर्तुर्जीवन्ती न मृता तथा ।
उद्धरेज्जीवमाना सा सती सत्यवती प्रियम् ॥ २,३४.९१ ॥

स्त्रिया दध्यन्नशयने हेमकुङ्कुममञ्जनम् ।
वस्त्रभूषा तथा शय्या सर्वमेतद्धि दापयेत् ॥ २,३४.९२ ॥

उपकारकरं स्त्रीणां यद्भवोदिह किञ्चन ।
भूषणं गात्रलग्नञ्च वस्तु भोग्यादिकञ्च यत् ॥ २,३४.९३ ॥

तत्सर्वं मेलयित्वा तु स्वेस्वे स्थाने नियोजयेत् ।
पूजयेल्लोकपालांश्च ग्रहान् देवीं विनायकम् ॥ २,३४.९४ ॥

ततः शुक्लाम्बरधरो गृहीतकुसुमाञ्जलिः ।
इममुच्चारयेन्मन्त्रं विप्रस्य पुरतो बुधः ॥ २,३४.९५ ॥

प्रेतस्य प्रतिमा ह्येषा सर्वोपकरणैर्युता ।
सर्वरत्नसमायुक्ता तव विप्रनिवेदिता ॥ २,३४.९६ ॥

आत्मा शम्भुः शिवा गौरी शक्रः सुरगणैः सह ।
तस्माच्छय्याप्रदानेन सैष आत्मा प्रसीदतु ॥ २,३४.९७ ॥

आचार्याय प्रदातव्या ब्राह्मणाय कुटुम्बिने ।
गृहीते ब्राह्मणस्तत्र कोऽदादिति च कीर्तयेत् ॥ २,३४.९८ ॥

ततः प्रदक्षिणीकृत्य प्रणिपत्य विसर्जयेत् ।
विधिनानेन वै पक्षिन् दानमेकस्य दापयेत् ॥ २,३४.९९ ॥

बहुभ्यो न प्रदेयानि गौर्गृहं शयनं स्त्रियः ।
विभक्तदक्षिणा ह्येते दातारं पातयन्ति हि ॥ २,३४.१०० ॥

एवं यो वितरेत्तार्क्ष्य शृणु तस्य च यत्फलम् ।
साग्रं वर्षशतं दिव्यं स्वर्गलोके महीयते ॥ २,३४.१०१ ॥

यत्पुण्यन्तु व्यतीपाते कार्तिक्यामयनद्वये ।
द्वारकायान्तु यत्पुण्यं चन्द्रसूर्यग्रहे तथा ॥ २,३४.१०२ ॥

प्रयागे नैमिषे यच्च कुरुक्षेत्रे तर्थाबुदे ।
गङ्गायां यमुनायाञ्च सिन्धुसागरसंगमे ॥ २,३४.१०३ ॥

तेषु यद्दीयते दानं तस्मादप्यधिकन्त्विदम् ।
एतच्छय्याप्रदानस्य नाप्नोति षोडशीं कलाम् ॥ २,३४.१०४ ॥

यत्रासौ जायते प्राणी भुङ्क्ते तत्रैव तत्फलम् ।
कर्मक्षये क्षितौ याति मानुषः शुभदर्शनः ॥ २,३४.१०५ ॥

महाधनी च धर्मज्ञः सर्वशास्त्रविशारदः ।
पुनः स याति वैकुण्ठं मृतोऽसौ नरपुङ्गवः ॥ २,३४.१०६ ॥

दिव्यं विमानमारुह्य अप्सरोभिः समावृतः ।
अहोऽसौ हव्यकव्येषु पितृभिः सह मोदते ॥ २,३४.१०७ ॥

अष्टकासु कृतं श्राद्धममावास्यादिने तथा ।
मघासु पितृपर्वाणि यानियानि च तेषु च ॥ २,३४.१०८ ॥

शृणु तार्क्ष्य यथान्यायं प्रेतत्वे पितरो यदि ।
नोपतिष्ठन्ति श्राद्धानि सपिण्डीकरणं विना ॥ २,३४.१०९ ॥

सपिण्डीकरणं कार्यं पूर्णे वर्षे न संशयः ।
आद्यन्तु शवशुद्ध्यर्थं कृत्वा चैवाक्ष षोडशीम् ॥ २,३४.११० ॥

पितृपाङ्क्तिविशुर्ध्यं शतार्धेन? तु योजयेत् ।
वृद्धिं प्राप्याग्रतः कुर्याच्छूद्रस्य स्वच्छयैव हि ॥ २,३४.१११ ॥

साम्प्रतं साग्निके कार्यं द्वादशाहे सपिण्डनम् ।
न चासौ कुरुते यावत्प्रेत एव स वह्निमान् ।
द्वादशाहे ततः कार्यं साग्निकेन सपिण्डनम् ॥ २,३४.११२ ॥

अस्थिपोक्षे गयाश्राद्धं श्राद्धञ्चापरपक्षिकम् ।
अब्दमध्ये न कुर्वीत सपिण्डीकरणं विना ॥ २,३४.११३ ॥

सपत्न्यो यदि बह्व्यः स्युरेका पुत्रवती भवेत् ।
सर्वास्ताः पुत्रवत्यः स्युस्तेनैकेनात्मजेन हि ॥ २,३४.११४ ॥

नासपिण्डोग्निमान् पुत्रः पितृयज्ञं समाचरेत् ।
समाचाराद्भवेत्पापी पितृहा चापि जायते ॥ २,३४.११५ ॥

मृते भर्तरि या नारी प्राणांश्चैव परित्यजेत् ।
भर्त्रैव हि समं तस्याः प्रकुर्वीत सपिण्डनम् ॥ २,३४.११६ ॥

अस्थानिकापि या व्यूढा वैश्या वा क्षत्त्रियापि वा ।
याः पत्न्यो वै पितुः कश्चित्कुर्यात्पुत्रः सपिण्डनम् ॥ २,३४.११७ ॥

विप्रेणैव यदा शूद्रा परिणीता प्रमादतः ।
एकोद्दिष्टन्तु तच्छ्राद्ध सा तु तेनैव युज्यते ॥ २,३४.११८ ॥

अन्ये तु दश ये पुत्रा जाता वर्ण चतुष्टये ।
ते तासुतासु योक्त्वयाः सपिण्डीकरणे सदा ॥ २,३४.११९ ॥

अन्वष्टकासु यच्छ्राद्ध यच्छ्राद्धं वृद्धिहेतुकम् ।
पितुः पृथक्प्रदाव्यं स्त्रियाः पिण्डं सपिण्डने ॥ २,३४.१२० ॥

पितामह्या समं मातुः पितुः सहपितामहैः ।
सपिण्डीकरणं कार्यमिति तार्क्ष्य मतं मम ॥ २,३४.१२१ ॥

अपुत्रायां मृतायां तु पतिः कुर्यात्सपिण्डनम् ।
मात्रादितिसृभिः सार्धमेवं धर्मेण योजयेत् ॥ २,३४.१२२ ॥

पुत्रो नास्ति न भर्ता च स्त्रीणां तार्क्ष्य सपिण्डनम् ।
कारयेद्वृद्धिसमये भ्रातृदायाददेवरैः ॥ २,३४.१२३ ॥

पतिपुत्रविहीनानां गोत्री नास्ति न देवरः ।
एकोद्दिष्टेन दातव्यं परेण सह भ्रातृभिः ॥ २,३४.१२४ ॥

अज्ञानाद्विघ्नतो वापि न कृतञ्चेत्सपिण्डनम् ।
नवकं षोडशश्राद्धमाब्दिकं कारयेत्ततः ॥ २,३४.१२५ ॥

अदाहे न च कर्तव्यं सदाहे कारयेद्बुधः ।
दर्भपुत्तलकं कृत्वा वह्निना दाहयेच्छवम् ॥ २,३४.१२६ ॥

पितुः पुत्रेण कर्तव्यं न कुर्ब्वीत पिता सुते ।
अतिस्नेहान्न कर्तव्यं सपिण्डीकरणं सते ॥ २,३४.१२७ ॥

बहवोऽपि यदा पुत्रा विधिमेकः समाचरेत् ।
नवश्राद्धं सपिण्डत्वं श्राद्धान्यन्यानि षोडश ॥ २,३४.१२८ ॥

एकेनैव तु कार्यांणि अविभक्तधनेष्वपि ।
अन्त्येष्टिं कुरुते ह्येको मुनिभैः समुदाहृतम् ॥ २,३४.१२९ ॥

विभक्तैश्च पृथक्कार्या क्रिया सांवत्सरादिका ।
एकैकेन च कर्तव्या पुत्रेण च स्वयंस्वयम् ॥ २,३४.१३० ॥

यस्यैतानि न दत्तानि प्रेतश्राद्धानि षोडश ।
पिशाचत्वंस्थिरं तस्य कृतैः श्राद्धशतैरपि ॥ २,३४.१३१ ॥

भ्राता वा भ्रातृपुत्रो वा सपिण्डः शिष्य एव वा ।
सपिण्डीकरणं कुर्यात्पुत्रहीने खगेश्वर ॥ २,३४.१३२ ॥

सर्वेषां पुत्रहीनानां पत्री कुर्यात्सपिण्डनम् ।
ऋत्विजं करायेद्वाथ पुरोहितमथापि वा ॥ २,३४.१३३ ॥

मृते पितर्यब्दमध्ये ह्युपरागो यदा भवेत् ।
पार्वणं न सुतैः कार्यं श्राद्धं नान्दीमुखं न च ॥ २,३४.१३४ ॥

तीर्थश्राद्धं गयाश्राद्धं श्राद्धमन्यच्च पैतृकम् ।
अब्दमध्ये न कुर्वीत महागुरुविपत्तिषु ॥ २,३४.१३५ ॥

यमके च गजच्छायामन्वादिषु युगादिषु ।
पितृपिण्डो न दातव्यः सपिण्डीकरणं विना ॥ २,३४.१३६ ॥

यज्ञपुरुषस्य यद्दानं देवादीनाञ्च यत्तथा ।
अपूर्णेऽप्यब्दमध्येपि कर्तव्यमिति के च न ॥ २,३४.१३७ ॥

पितृभ्योपि हि यद्दत्तमर्घपिण्डविवर्जितम् ।
कर्तव्यं तच्च वै सर्वमेष एव विधिः स्मृतः ॥ २,३४.१३८ ॥

देवानां पितरो देवा पितॄणामृषयस्तथा ।
ऋषीणां पितरो देवाः पिता जयति तेन वै ॥ २,३४.१३९ ॥

पितृदेवमनुष्याणां यज्ञनथो विभुर्भवेत् ।
यज्ञनाथस्य यद्दत्तं तद्दत्तं सर्वदेहिनाम् ॥ २,३४.१४० ॥

मृते पितर्यब्दमध्ये यः श्राद्धं कारयेत्सुतः ।
सप्तजन्मकृता धर्माथीयते नात्र संशयः ॥ २,३४.१४१ ॥

प्रेतीभूतास्तु पितरो लुप्तपिण्डोदकक्रियाः ।
भ्रमन्ति वायुना सर्वे क्षुत्तृड्भ्यां परिपीडिताः ॥ २,३४.१४२ ॥

पितरि प्रेततापन्ने लुप्यते पैतृकी क्रिया ।
अथ मातुर्विपत्तिः स्यात्पितृकार्यं न लुप्यते ॥ २,३४.१४३ ॥

मृता माता पिता तिष्ठेज्जीवन्ती च पितामही ।
सपिण्डनन्तु कर्तव्यं पितामह्या सहैव तु ॥ २,३४.१४४ ॥

सत्यंसत्यं पुनः सत्यं श्रूयतां वचनं मम ।
न पिण्डो मिलितो येषां मृतानान्तु नृणां भुवि ॥ २,३४.१४५ ॥

उपतिष्ठेन्न वे तेषां पुत्रैर्दत्तमनेकधा ।
हन्तकारस्तदुद्देशे श्राद्धं नैव जलाञ्जलिः ॥ २,३४.१४६ ॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे और्ध्वदेहिकादिनिरूपणं नाम चतुस्त्रिंशोऽध्यायः